Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अर्जुन उवाच
नमस्ते सिद्धसेनानि आर्ये मंदरवासिनि । कुमारि कालि कापालि कपिले कृष्णपिंगले ॥ 1
भद्रकालि नमस्तुभ्यं महाकालि नमोऽस्तु ते । चंडि चंडे नमस्तुभ्यं तारिणि वरवर्णिनि ॥ 2 ॥
कात्यायनि महाभागे करालि विजये जये । शिखिपिंछध्वजधरे नानाभरणभूषिते ॥ 3 ॥
अट्टशूलप्रहरणे खड्गखेटकधारिणि । गोपेंद्रस्यानुजे ज्येष्ठे नंदगोपकुलोद्भवे ॥ 4 ॥
महिषासृक्प्रिये नित्यं कौशिकि पीतवासिनि । अट्टहासे कोकमुखे नमस्तेऽस्तु रणप्रिये ॥ 5 ॥
उमे शाकंभरि श्वेते कृष्णे कैटभनाशिनि । हिरण्याक्षि विरूपाक्षि सुधूम्राक्षि नमोऽस्तु ते ॥ 6 ॥
वेदश्रुतिमहापुण्ये ब्रह्मण्ये जातवेदसि । जंबूकटकचैत्येषु नित्यं सन्निहितालये ॥ 7 ॥
त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम् । स्कंदमातर्भगवति दुर्गे कांतारवासिनि ॥ 8 ॥
स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती । सावित्री वेदमाता च तथा वेदांत उच्यते ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
कांतारभयदुर्गेषु भक्तानां चालयेषु च । नित्यं वससि पाताले युद्धे जयसि दानवान् ॥ 10 ॥
त्वं जंभनी मोहिनी च माया ह्रीः श्रीस्तथैव च । संध्या प्रभावती चैव सावित्री जननी तथा ॥ 11 ॥
तुष्टिः पुष्टिर्धृतिर्दीप्तिश्चंद्रादित्यविवर्धिनी । भूतिर्भूतिमतां संख्ये वीक्ष्यसे सिद्धचारणैः ॥ 12 ॥
स्तुतासि त्वं महादेवि विशुद्धेनांतरात्मना । जयो भवतु मे नित्यं त्वत्प्रसादाद्रणाजिरे ॥ 13 ॥
इति श्रीमन्महाभारते भीष्मपर्वणि त्रयोविंशोऽध्याये अर्जुन कृत श्री दुर्गा स्तोत्रम् ।
Browse Related Categories: