Kanda 1 - Krishna Yajurveda Taittiriya Samhita · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1) अनु॑मत्यै पुरो॒डाश॑-म्पुरो॒डाश॒ मनु॑मत्या॒ अनु॑मत्यै पुरो॒डाश᳚म् । 1) अनु॑मत्या॒ इत्यनु॑ - म॒त्यै॒ । 2) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् । 3) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः । 3) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 4) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 5) व॒प॒ति॒ धे॒नु-र्धे॒नु-र्व॑पति वपति धे॒नुः । 6) धे॒नु-र्दक्षि॑णा॒ दक्षि॑णा धे॒नु-र्धे॒नु-र्दक्षि॑णा । 7) दक्षि॑णा॒ ये ये दक्षि॑णा॒ दक्षि॑णा॒ ये । 8) ये प्र॒त्यञ्चः॑ प्र॒त्यञ्चो॒ ये ये प्र॒त्यञ्चः॑ । 9) प्र॒त्यञ्च॒-श्शम्या॑या॒-श्शम्या॑याः प्र॒त्यञ्चः॑ प्र॒त्यञ्च॒-श्शम्या॑याः । 10) शम्या॑या अव॒शीय॑न्ते ऽव॒शीय॑न्ते॒ शम्या॑या॒-श्शम्या॑या अव॒शीय॑न्ते । 11) अ॒व॒शीय॑न्ते॒ त-न्त म॑व॒शीय॑न्ते ऽव॒शीय॑न्ते॒ तम् । 11) अ॒व॒शीय॑न्त॒ इत्य॑व - शीय॑न्ते । 12) त-न्नैर्॑.ऋ॒त-न्नैर्॑.ऋ॒त-न्त-न्त-न्नैर्॑.ऋ॒तम् । 13) नै॒र्॒ऋ॒त मेक॑कपाल॒ मेक॑कपाल-न्नैर्-ऋ॒त-न्नैर्॑.ऋ॒त मेक॑कपालम् । 13) नै॒र्॒ऋ॒तमिति॑ नैः - ऋ॒तम् । 14) एक॑कपाल-ङ्कृ॒ष्ण-ङ्कृ॒ष्ण मेक॑कपाल॒ मेक॑कपाल-ङ्कृ॒ष्णम् । 14) एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् । 15) कृ॒ष्णं-वाँसो॒ वासः॑ कृ॒ष्ण-ङ्कृ॒ष्णं-वाँसः॑ । 16) वासः॑ कृ॒ष्णतू॑ष-ङ्कृ॒ष्णतू॑षं॒-वाँसो॒ वासः॑ कृ॒ष्णतू॑षम् । 17) कृ॒ष्णतू॑ष॒-न्दक्षि॑णा॒ दक्षि॑णा कृ॒ष्णतू॑ष-ङ्कृ॒ष्णतू॑ष॒-न्दक्षि॑णा । 17) कृ॒ष्णतू॑ष॒मिति॑ कृ॒ष्ण - तू॒ष॒म् । 18) दक्षि॑णा॒ वि वि दक्षि॑णा॒ दक्षि॑णा॒ वि । 19) वीही॑हि॒ वि वीहि॑ । 20) इ॒हि॒ स्वाहा॒ स्वा हे॑हीहि॒ स्वाहा᳚ । 21) स्वाहा ऽऽहु॑ति॒ माहु॑ति॒ग्ग्॒ स्वाहा॒ स्वाहा ऽऽहु॑तिम् । 22) आहु॑ति-ञ्जुषा॒णो जु॑षा॒ण आहु॑ति॒ माहु॑ति-ञ्जुषा॒णः । 22) आहु॑ति॒मित्या - हु॒ति॒म् । 23) जु॒षा॒ण ए॒ष ए॒ष जु॑षा॒णो जु॑षा॒ण ए॒षः । 24) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 25) ते॒ नि॒र्॒ऋ॒ते॒ नि॒र्॒ऋ॒ते॒ ते॒ ते॒ नि॒र्॒ऋ॒ते॒ । 26) नि॒र्॒ऋ॒ते॒ भा॒गो भा॒गो नि॑र्-ऋते निर्-ऋते भा॒गः । 26) नि॒र्॒ऋ॒त॒ इति॑ निः - ऋ॒ते॒ । 27) भा॒गो भूते॒ भूते॑ भा॒गो भा॒गो भूते᳚ । 28) भूते॑ ह॒विष्म॑ती ह॒विष्म॑ती॒ भूते॒ भूते॑ ह॒विष्म॑ती । 29) ह॒विष्म॑ त्यस्यसि ह॒विष्म॑ती ह॒विष्म॑ त्यसि । 30) अ॒सि॒ मु॒ञ्च मु॒ञ्चा स्य॑सि मु॒ञ्च । 31) मु॒ञ्चे म मि॒म-म्मु॒ञ्च मु॒ञ्चे मम् । 32) इ॒म मग्ंह॒सो ऽग्ंह॑स इ॒म मि॒म मग्ंह॑सः । 33) अग्ंह॑स॒-स्स्वाहा॒ स्वाहा ऽग्ंह॒सो ऽग्ंह॑स॒-स्स्वाहा᳚ । 34) स्वाहा॒ नमो॒ नम॒-स्स्वाहा॒ स्वाहा॒ नमः॑ । 35) नमो॒ यो यो नमो॒ नमो॒ यः । 36) य इ॒द मि॒दं-योँ य इ॒दम् । 37) इ॒द-ञ्च॒कार॑ च॒कारे॒ द मि॒द-ञ्च॒कार॑ । 38) च॒का रा॑दि॒त्य मा॑दि॒त्य-ञ्च॒कार॑ च॒का रा॑दि॒त्यम् । 39) आ॒दि॒त्य-ञ्च॒रु-ञ्च॒रु मा॑दि॒त्य मा॑दि॒त्य-ञ्च॒रुम् । 40) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः । 41) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 42) व॒प॒ति॒ वरो॒ वरो॑ वपति वपति॒ वरः॑ । 43) वरो॒ दक्षि॑णा॒ दक्षि॑णा॒ वरो॒ वरो॒ दक्षि॑णा । 44) दक्षि॑णा ऽऽग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व-न्दक्षि॑णा॒ दक्षि॑णा ऽऽग्नावैष्ण॒वम् । 45) आ॒ग्ना॒वै॒ष्ण॒व मेका॑दशकपाल॒ मेका॑दशकपाल माग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व मेका॑दशकपालम् । 45) आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् । 46) एका॑दशकपालं-वाँम॒नो वा॑म॒न एका॑दशकपाल॒ मेका॑दशकपालं-वाँम॒नः । 46) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 47) वा॒म॒नो व॒ही व॒ही वा॑म॒नो वा॑म॒नो व॒ही । 48) व॒ही दक्षि॑णा॒ दक्षि॑णा व॒ही व॒ही दक्षि॑णा । 49) दक्षि॑णा ऽग्नीषो॒मीय॑ मग्नीषो॒मीय॒-न्दक्षि॑णा॒ दक्षि॑णा ऽग्नीषो॒मीय᳚म् । 50) अ॒ग्नी॒षो॒मीय॒ मेका॑दशकपाल॒ मेका॑दशकपाल मग्नीषो॒मीय॑ मग्नीषो॒मीय॒ मेका॑दशकपालम् । 50) अ॒ग्नी॒षो॒मीय॒मित्य॑ग्नी - सो॒मीय᳚म् । ॥ 1 ॥ (50/61)
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
1) एका॑दशकपाल॒ग्ं॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒ मेका॑दशकपाल॒ मेका॑दशकपाल॒ग्ं॒ हिर॑ण्यम् । 1) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 2) हिर॑ण्य॒-न्दक्षि॑णा॒ दक्षि॑णा॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्दक्षि॑णा । 3) दक्षि॑णै॒न्द्र मै॒न्द्र-न्दक्षि॑णा॒ दक्षि॑णै॒न्द्रम् । 4) ऐ॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपालम् । 5) एका॑दशकपाल मृष॒भ ऋ॑ष॒भ एका॑दशकपाल॒ मेका॑दशकपाल मृष॒भः । 5) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 6) ऋ॒ष॒भो व॒ही व॒ह्यृ॑ष॒भ ऋ॑ष॒भो व॒ही । 7) व॒ही दक्षि॑णा॒ दक्षि॑णा व॒ही व॒ही दक्षि॑णा । 8) दक्षि॑णा ऽऽग्ने॒य मा᳚ग्ने॒य-न्दक्षि॑णा॒ दक्षि॑णा ऽऽग्ने॒यम् । 9) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् । 10) अ॒ष्टाक॑पाल मै॒न्द्र मै॒न्द्र म॒ष्टाक॑पाल म॒ष्टाक॑पाल मै॒न्द्रम् । 10) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 11) ऐ॒न्द्र-न्दधि॒ दध्यै॒न्द्र मै॒न्द्र-न्दधि॑ । 12) दध्यृ॑ष॒भ ऋ॑ष॒भो दधि॒ दध्यृ॑ष॒भः । 13) ऋ॒ष॒भो व॒ही व॒ह्यृ॑ष॒भ ऋ॑ष॒भो व॒ही । 14) व॒ही दक्षि॑णा॒ दक्षि॑णा व॒ही व॒ही दक्षि॑णा । 15) दक्षि॑णैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न-न्दक्षि॑णा॒ दक्षि॑ णैन्द्रा॒ग्नम् । 16) ऐ॒न्द्रा॒ग्न-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल मैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न-न्द्वाद॑शकपालम् । 16) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् । 17) द्वाद॑शकपालं-वैँश्वदे॒वं-वैँ᳚श्वदे॒व-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वदे॒वम् । 17) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 18) वै॒श्व॒दे॒व-ञ्च॒रु-ञ्च॒रुं-वैँ᳚श्वदे॒वं-वैँ᳚श्वदे॒व-ञ्च॒रुम् । 18) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 19) च॒रु-म्प्र॑थम॒जः प्र॑थम॒ज श्च॒रु-ञ्च॒रु-म्प्र॑थम॒जः । 20) प्र॒थ॒म॒जो व॒थ्सो व॒थ्सः प्र॑थम॒जः प्र॑थम॒जो व॒थ्सः । 20) प्र॒थ॒म॒ज इति॑ प्रथम - जः । 21) व॒थ्सो दक्षि॑णा॒ दक्षि॑णा व॒थ्सो व॒थ्सो दक्षि॑णा । 22) दक्षि॑णा सौ॒म्यग्ं सौ॒म्य-न्दक्षि॑णा॒ दक्षि॑णा सौ॒म्यम् । 23) सौ॒म्यग्ग् श्या॑मा॒कग्ग् श्या॑मा॒कग्ं सौ॒म्यग्ं सौ॒म्यग्ग् श्या॑मा॒कम् । 24) श्या॒मा॒क-ञ्च॒रु-ञ्च॒रुग्ग् श्या॑मा॒कग्ग् श्या॑मा॒क-ञ्च॒रुम् । 25) च॒रुं-वाँसो॒ वास॑ श्च॒रु-ञ्च॒रुं-वाँसः॑ । 26) वासो॒ दक्षि॑णा॒ दक्षि॑णा॒ वासो॒ वासो॒ दक्षि॑णा । 27) दक्षि॑णा॒ सर॑स्वत्यै॒ सर॑स्वत्यै॒ दक्षि॑णा॒ दक्षि॑णा॒ सर॑स्वत्यै । 28) सर॑स्वत्यै च॒रु-ञ्च॒रुग्ं सर॑स्वत्यै॒ सर॑स्वत्यै च॒रुम् । 29) च॒रुग्ं सर॑स्वते॒ सर॑स्वते च॒रु-ञ्च॒रुग्ं सर॑स्वते । 30) सर॑स्वते च॒रु-ञ्च॒रुग्ं सर॑स्वते॒ सर॑स्वते च॒रुम् । 31) च॒रु-म्मि॑थु॒नौ मि॑थु॒नौ च॒रु-ञ्च॒रु-म्मि॑थु॒नौ । 32) मि॒थु॒नौ गावौ॒ गावौ॑ मिथु॒नौ मि॑थु॒नौ गावौ᳚ । 33) गावौ॒ दक्षि॑णा॒ दक्षि॑णा॒ गावौ॒ गावौ॒ दक्षि॑णा । 34) दक्षि॒णेति॒ दक्षि॑णा । ॥ 2 ॥ (34/41) ॥ अ. 1 ॥
1) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् । 2) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः । 2) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 3) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 4) व॒प॒ति॒ सौ॒म्यग्ं सौ॒म्यं-वँ॑पति वपति सौ॒म्यम् । 5) सौ॒म्य-ञ्च॒रु-ञ्च॒रुग्ं सौ॒म्यग्ं सौ॒म्य-ञ्च॒रुम् । 6) च॒रुग्ं सा॑वि॒त्रग्ं सा॑वि॒त्र-ञ्च॒रु-ञ्च॒रुग्ं सा॑वि॒त्रम् । 7) सा॒वि॒त्र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालग्ं सावि॒त्रग्ं सा॑वि॒त्र-न्द्वाद॑शकपालम् । 8) द्वाद॑शकपालग्ं सारस्व॒तग्ं सा॑रस्व॒त-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालग्ं सारस्व॒तम् । 8) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 9) सा॒र॒स्व॒त-ञ्च॒रु-ञ्च॒रुग्ं सा॑रस्व॒तग्ं सा॑रस्व॒त-ञ्च॒रुम् । 10) च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्णम् । 11) पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रुम् । 12) च॒रु-म्मा॑रु॒त-म्मा॑रु॒त-ञ्च॒रु-ञ्च॒रु-म्मा॑रु॒तम् । 13) मा॒रु॒तग्ं स॒प्तक॑पालग्ं स॒प्तक॑पाल-म्मारु॒त-म्मा॑रु॒तग्ं स॒प्तक॑पालम् । 14) स॒प्तक॑पालं-वैँश्वदे॒वीं-वैँ᳚श्वदे॒वीग्ं स॒प्तक॑पालग्ं स॒प्तक॑पालं-वैँश्वदे॒वीम् । 14) स॒प्तक॑पाल॒मिति॑ स॒प्त - क॒पा॒ल॒म् । 15) वै॒श्व॒दे॒वी मा॒मिक्षा॑ मा॒मिक्षां᳚-वैँश्वदे॒वीं-वैँ᳚श्वदे॒वी मा॒मिक्षा᳚म् । 15) वै॒श्व॒दे॒वीमिति॑ वैश्व - दे॒वीम् । 16) आ॒मिक्षा᳚-न्द्यावापृथि॒व्य॑-न्द्यावापृथि॒व्य॑ मा॒मिक्षा॑ मा॒मिक्षा᳚-न्द्यावापृथि॒व्य᳚म् । 17) द्या॒वा॒पृ॒थि॒व्य॑ मेक॑कपाल॒ मेक॑कपाल-न्द्यावापृथि॒व्य॑-न्द्यावापृथि॒व्य॑ मेक॑कपालम् । 17) द्या॒वा॒पृ॒थि॒व्य॑मिति॑ द्यावा - पृ॒थि॒व्य᳚म् । 18) एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् । ॥ 3 ॥ (18/23) ॥ अ. 2 ॥
1) ऐ॒न्द्रा॒ग्न मेका॑दशकपाल॒ मेका॑दशकपाल मैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न मेका॑दशकपालम् । 1) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् । 2) एका॑दशकपाल-म्मारु॒ती-म्मा॑रु॒ती मेका॑दशकपाल॒ मेका॑दशकपाल-म्मारु॒तीम् । 2) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 3) मा॒रु॒ती मा॒मिक्षा॑ मा॒मिक्षा᳚-म्मारु॒ती-म्मा॑रु॒ती मा॒मिक्षा᳚म् । 4) आ॒मिक्षां᳚-वाँरु॒णीं-वाँ॑रु॒णी मा॒मिक्षा॑ मा॒मिक्षां᳚-वाँरु॒णीम् । 5) वा॒रु॒णी मा॒मिक्षा॑ मा॒मिक्षां᳚-वाँरु॒णीं-वाँ॑रु॒णी मा॒मिक्षा᳚म् । 6) आ॒मिक्षा᳚-ङ्का॒य-ङ्का॒य मा॒मिक्षा॑ मा॒मिक्षा᳚-ङ्का॒यम् । 7) का॒य मेक॑कपाल॒ मेक॑कपाल-ङ्का॒य-ङ्का॒य मेक॑कपालम् । 8) एक॑कपाल-म्प्रघा॒स्या᳚-न्प्रघा॒स्या॒ नेक॑कपाल॒ मेक॑कपाल-म्प्रघा॒स्यान्॑ । 8) एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् । 9) प्र॒घा॒स्यान्॑. हवामहे हवामहे प्रघा॒स्या᳚-न्प्रघा॒स्यान्॑. हवामहे । 9) प्र॒घा॒स्या॑निति॑ प्र - घा॒स्यान्॑ । 10) ह॒वा॒म॒हे॒ म॒रुतो॑ म॒रुतो॑ हवामहे हवामहे म॒रुतः॑ । 11) म॒रुतो॑ य॒ज्ञवा॑हसो य॒ज्ञवा॑हसो म॒रुतो॑ म॒रुतो॑ य॒ज्ञवा॑हसः । 12) य॒ज्ञवा॑हसः कर॒म्भेण॑ कर॒म्भेण॑ य॒ज्ञवा॑हसो य॒ज्ञवा॑हसः कर॒म्भेण॑ । 12) य॒ज्ञवा॑हस॒ इति॑ य॒ज्ञ - वा॒ह॒सः॒ । 13) क॒र॒म्भेण॑ स॒जोष॑स-स्स॒जोष॑सः कर॒म्भेण॑ कर॒म्भेण॑ स॒जोष॑सः । 14) स॒जोष॑स॒ इति॑ स - जोष॑सः । 15) मो षू णो॑ न॒-स्सु मो मो षू णः॑ । 15) मो इति॒ मो । 16) सु नो॑ न॒-स्सु सु नः॑ । 17) न॒ इ॒न्द्रे॒ न्द्र॒ नो॒ न॒ इ॒न्द्र॒ । 18) इ॒न्द्र॒ पृ॒थ्सु पृ॒थ्स्वि॑न्द्रे न्द्र पृ॒थ्सु । 19) पृ॒थ्सु दे॑व देव पृ॒थ्सु पृ॒थ्सु दे॑व । 19) पृ॒थ्स्विति॑ पृत् - सु । 20) दे॒वा स्त्व स्तु॑ देव दे॒वा स्तु॑ । 21) अस्तु॑ स्म॒ स्मा स्त्व स्तु॑ स्म । 22) स्म॒ ते॒ ते॒ स्म॒ स्म॒ ते॒ । 23) ते॒ शु॒ष्मि॒-ञ्छु॒ष्मि॒-न्ते॒ ते॒ शु॒ष्मि॒न्न् । 24) शु॒ष्मि॒-न्न॒व॒या ऽव॒या शु॑ष्मि-ञ्छुष्मि-न्नव॒या । 25) अ॒व॒येत्य॑व॒या । 26) म॒ही हि हि म॒ही म॒ही हि । 27) ह्य॑स्यास्य॒ हि ह्य॑स्य । 28) अ॒स्य॒ मी॒ढुषो॑ मी॒ढुषो᳚ ऽस्यास्य मी॒ढुषः॑ । 29) मी॒ढुषो॑ य॒व्या य॒व्या मी॒ढुषो॑ मी॒ढुषो॑ य॒व्या । 30) य॒व्येति॑ य॒व्या । 31) ह॒विष्म॑तो म॒रुतो॑ म॒रुतो॑ ह॒विष्म॑तो ह॒विष्म॑तो म॒रुतः॑ । 32) म॒रुतो॒ वन्द॑ते॒ वन्द॑ते म॒रुतो॑ म॒रुतो॒ वन्द॑ते । 33) वन्द॑ते॒ गी-र्गी-र्वन्द॑ते॒ वन्द॑ते॒ गीः । 34) गीरिति॒ गीः । 35) य-द्ग्रामे॒ ग्रामे॒ य-द्य-द्ग्रामे᳚ । 36) ग्रामे॒ य-द्य-द्ग्रामे॒ ग्रामे॒ यत् । 37) यदर॒ण्ये ऽर॑ण्ये॒ य-द्यदर॑ण्ये । 38) अर॑ण्ये॒ य-द्यदर॒ण्ये ऽर॑ण्ये॒ यत् । 39) य-थ्स॒भायाग्ं॑ स॒भायां॒-यँ-द्य-थ्स॒भाया᳚म् । 40) स॒भायां॒-यँ-द्य-थ्स॒भायाग्ं॑ स॒भायां॒-यँत् । 41) यदि॑न्द्रि॒य इ॑न्द्रि॒ये य-द्यदि॑न्द्रि॒ये । 42) इ॒न्द्रि॒य इती᳚न्द्रि॒ये । 43) यच् छू॒द्रे शू॒द्रे य-द्यच् छू॒द्रे । 44) शू॒द्रे य-द्यच् छू॒द्रे शू॒द्रे यत् । 45) यद॒र्ये᳚(1॒)-ऽर्ये॑ य-द्यद॒र्ये᳚ । 46) अ॒र्य॑ एन॒ एनो॒ ऽर्ये᳚(1॒)-ऽर्य॑ एनः॑ । 47) एन॑ श्चकृ॒म च॑कृ॒मैन॒ एन॑ श्चकृ॒म । 48) च॒कृ॒मा व॒यं-वँ॒य-ञ्च॑कृ॒म च॑कृ॒मा व॒यम् । 49) व॒यमिति॑ व॒यम् । 50) यदेक॒ स्यैक॑स्य॒ य-द्यदेक॑स्य । 51) एक॒स्या ध्य ध्येक॒ स्यैक॒स्या धि॑ । 52) अधि॒ धर्म॑णि॒ धर्म॒ ण्यध्य धि॒ धर्म॑णि । 53) धर्म॑णि॒ तस्य॒ तस्य॒ धर्म॑णि॒ धर्म॑णि॒ तस्य॑ । 54) तस्या॑ व॒यज॑न मव॒यज॑न॒-न्तस्य॒ तस्या॑ व॒यज॑नम् । 55) अ॒व॒यज॑न मस्यस्य व॒यज॑न मव॒यज॑न मसि । 55) अ॒व॒यज॑न॒मित्य॑व - यज॑नम् । 56) अ॒सि॒ स्वाहा॒ स्वाहा᳚ ऽस्यसि॒ स्वाहा᳚ । 57) स्वाहेति॒ स्वाहा᳚ । 58) अक्र॒न् कर्म॒ कर्माक्र॒-न्नक्र॒न् कर्म॑ । 59) कर्म॑ कर्म॒कृतः॑ कर्म॒कृतः॒ कर्म॒ कर्म॑ कर्म॒कृतः॑ । 60) क॒र्म॒कृत॑-स्स॒ह स॒ह क॑र्म॒कृतः॑ कर्म॒कृत॑-स्स॒ह । 60) क॒र्म॒कृत॒ इति॑ कर्म - कृतः॑ । 61) स॒ह वा॒चा वा॒चा स॒ह स॒ह वा॒चा । 62) वा॒चा म॑योभु॒वा म॑योभु॒वा वा॒चा वा॒चा म॑योभु॒वा । 63) म॒यो॒भु॒वेति॑ मयः - भु॒वा । 64) दे॒वेभ्यः॒ कर्म॒ कर्म॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ कर्म॑ । 65) कर्म॑ कृ॒त्वा कृ॒त्वा कर्म॒ कर्म॑ कृ॒त्वा । 66) कृ॒त्वा ऽस्त॒ मस्त॑-ङ्कृ॒त्वा कृ॒त्वा ऽस्त᳚म् । 67) अस्त॒-म्प्र प्रास्त॒ मस्त॒-म्प्र । 68) प्रे ते॑ त॒ प्र प्रे त॑ । 69) इ॒त॒ सु॒दा॒न॒व॒-स्सु॒दा॒न॒व॒ इ॒ते॒ त॒ सु॒दा॒न॒वः॒ । 70) सु॒दा॒न॒व॒ इति॑ सु - दा॒न॒वः॒ । ॥ 4 ॥ (70/79) ॥ अ. 3 ॥
1) अ॒ग्नये ऽनी॑कव॒ते ऽनी॑कवते॒ ऽग्नये॒ ऽग्नये ऽनी॑कवते । 2) अनी॑कवते पुरो॒डाश॑-म्पुरो॒डाश॒ मनी॑कव॒ते ऽनी॑कवते पुरो॒डाश᳚म् । 2) अनी॑कवत॒ इत्यनी॑क - व॒ते॒ । 3) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् । 4) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः । 4) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 5) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 6) व॒प॒ति॒ सा॒कग्ं सा॒कं-वँ॑पति वपति सा॒कम् । 7) सा॒कग्ं सूर्ये॑ण॒ सूर्ये॑ण सा॒कग्ं सा॒कग्ं सूर्ये॑ण । 8) सूर्ये॑ णोद्य॒तो द्य॒ता सूर्ये॑ण॒ सूर्ये॑णोद्य॒ता । 9) उ॒द्य॒ता म॒रुद्भ्यो॑ म॒रुद्भ्य॑ उद्य॒तोद्य॒ता म॒रुद्भ्यः॑ । 9) उ॒द्य॒तेत्यु॑त् - य॒ता । 10) म॒रुद्भ्य॑-स्सान्तप॒नेभ्य॑-स्सान्तप॒नेभ्यो॑ म॒रुद्भ्यो॑ म॒रुद्भ्य॑-स्सान्तप॒नेभ्यः॑ । 10) म॒रुद्भ्य॒ इति॑ म॒रुत् - भ्यः॒ । 11) सा॒न्त॒प॒नेभ्यो॑ म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने सान्तप॒नेभ्य॑-स्सान्तप॒नेभ्यो॑ म॒द्ध्यन्दि॑ने । 11) सा॒न्त॒प॒नेभ्य॒ इति॑ सां - त॒प॒नेभ्यः॑ । 12) म॒द्ध्यन्दि॑ने च॒रु-ञ्च॒रु-म्म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने च॒रुम् । 13) च॒रु-म्म॒रुद्भ्यो॑ म॒रुद्भ्य॑ श्च॒रु-ञ्च॒रु-म्म॒रुद्भ्यः॑ । 14) म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ गृहमे॒धिभ्यो॑ म॒रुद्भ्यो॑ म॒रुद्भ्यो॑ गृहमे॒धिभ्यः॑ । 14) म॒रुद्भ्य॒ इति॑ म॒रुत् - भ्यः॒ । 15) गृ॒ह॒मे॒धिभ्य॒-स्सर्वा॑सा॒ग्ं॒ सर्वा॑सा-ङ्गृहमे॒धिभ्यो॑ गृहमे॒धिभ्य॒-स्सर्वा॑साम् । 15) गृ॒ह॒मे॒धिभ्य॒ इति॑ गृहमे॒धि - भ्यः॒ । 16) सर्वा॑सा-न्दु॒ग्धे दु॒ग्धे सर्वा॑सा॒ग्ं॒ सर्वा॑सा-न्दु॒ग्धे । 17) दु॒ग्धे सा॒यग्ं सा॒य-न्दु॒ग्धे दु॒ग्धे सा॒यम् । 18) सा॒य-ञ्च॒रु-ञ्च॒रुग्ं सा॒यग्ं सा॒य-ञ्च॒रुम् । 19) च॒रु-म्पू॒र्णा पू॒र्णा च॒रु-ञ्च॒रु-म्पू॒र्णा । 20) पू॒र्णा द॑र्वि दर्वि पू॒र्णा पू॒र्णा द॑र्वि । 21) द॒र्वि॒ परा॒ परा॑ दर्वि दर्वि॒ परा᳚ । 22) परा॑ पत पत॒ परा॒ परा॑ पत । 23) प॒त॒ सुपू᳚र्णा॒ सुपू᳚र्णा पत पत॒ सुपू᳚र्णा । 24) सुपू᳚र्णा॒ पुनः॒ पुन॒-स्सुपू᳚र्णा॒ सुपू᳚र्णा॒ पुनः॑ । 24) सुपू॒र्णेति॒ सु - पू॒र्णा॒ । 25) पुन॒ रा पुनः॒ पुन॒ रा । 26) आ प॑त प॒ता प॑त । 27) प॒तेति॑ पत । 28) व॒स्नेवे॑ व व॒स्ना व॒स्नेव॑ । 29) इ॒व॒ वि वीवे॑ व॒ वि । 30) वि क्री॑णावहै क्रीणावहै॒ वि वि क्री॑णावहै । 31) क्री॒णा॒व॒हा॒ इष॒ मिष॑-ङ्क्रीणावहै क्रीणावहा॒ इष᳚म् । 32) इष॒ मूर्ज॒ मूर्ज॒ मिष॒ मिष॒ मूर्ज᳚म् । 33) ऊर्जग्ं॑ शतक्रतो शतक्रतो॒ ऊर्ज॒ मूर्जग्ं॑ शतक्रतो । 34) श॒त॒क्र॒तो॒ इति॑ शत - क्र॒तो॒ । 35) दे॒हि मे॑ मे दे॒हि दे॒हि मे᳚ । 36) मे॒ ददा॑मि॒ ददा॑मि मे मे॒ ददा॑मि । 37) ददा॑मि ते ते॒ ददा॑मि॒ ददा॑मि ते । 38) ते॒ नि नि ते॑ ते॒ नि । 39) नि मे॑ मे॒ नि नि मे᳚ । 40) मे॒ धे॒हि॒ धे॒हि॒ मे॒ मे॒ धे॒हि॒ । 41) धे॒हि॒ नि नि धे॑हि धेहि॒ नि । 42) नि ते॑ ते॒ नि नि ते᳚ । 43) ते॒ द॒धे॒ द॒धे॒ ते॒ ते॒ द॒धे॒ । 44) द॒ध॒ इति॑ दधे । 45) नि॒हार॒ मिदि-न्नि॒हार॑-न्नि॒हार॒ मित् । 45) नि॒हार॒मिति॑ नि - हार᳚म् । 46) इ-न्नि नीदि-न्नि । 47) नि मे॑ मे॒ नि नि मे᳚ । 48) मे॒ ह॒र॒ ह॒र॒ मे॒ मे॒ ह॒र॒ । 49) ह॒रा॒ नि॒हार॑-न्नि॒हारग्ं॑ हर हरा नि॒हार᳚म् । 50) नि॒हार॒-न्नि नि नि॒हार॑-न्नि॒हार॒-न्नि । 50) नि॒हार॒मिति॑ नि - हार᳚म् । ॥ 5 ॥ (50/60)
1) नि ह॑रामि हरामि॒ नि नि ह॑रामि । 2) ह॒रा॒मि॒ ते॒ ते॒ ह॒रा॒मि॒ ह॒रा॒मि॒ ते॒ । 3) त॒ इति॑ ते । 4) म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ क्री॒डिभ्यो॑ म॒रुद्भ्यो॑ म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ । 4) म॒रुद्भ्य॒ इति॑ म॒रुत् - भ्यः॒ । 5) क्री॒डिभ्यः॑ पुरो॒डाश॑-म्पुरो॒डाश॑-ङ्क्री॒डिभ्यः॑ क्री॒डिभ्यः॑ पुरो॒डाश᳚म् । 5) क्री॒डिभ्य॒ इति॑ क्री॒डि - भ्यः॒ । 6) पु॒रो॒डाशग्ं॑ स॒प्तक॑पालग्ं स॒प्तक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाशग्ं॑ स॒प्तक॑पालम् । 7) स॒प्तक॑पाल॒-न्नि-र्णि-स्स॒प्तक॑पालग्ं स॒प्तक॑पाल॒-न्निः । 7) स॒प्तक॑पाल॒मिति॑ स॒प्त - क॒पा॒ल॒म् । 8) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 9) व॒प॒ति॒ सा॒कग्ं सा॒कं-वँ॑पति वपति सा॒कम् । 10) सा॒कग्ं सूर्ये॑ण॒ सूर्ये॑ण सा॒कग्ं सा॒कग्ं सूर्ये॑ण । 11) सूर्ये॑ णोद्य॒तो द्य॒ता सूर्ये॑ण॒ सूर्ये॑णोद्य॒ता । 12) उ॒द्य॒ता ऽऽग्ने॒य मा᳚ग्ने॒य मु॑द्य॒तो द्य॒ता ऽऽग्ने॒यम् । 12) उ॒द्य॒तेत्यु॑त् - य॒ता । 13) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् । 14) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः । 14) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 15) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 16) व॒प॒ति॒ सौ॒म्यग्ं सौ॒म्यं-वँ॑पति वपति सौ॒म्यम् । 17) सौ॒म्य-ञ्च॒रु-ञ्च॒रुग्ं सौ॒म्यग्ं सौ॒म्य-ञ्च॒रुम् । 18) च॒रुग्ं सा॑वि॒त्रग्ं सा॑वि॒त्र-ञ्च॒रु-ञ्च॒रुग्ं सा॑वि॒त्रम् । 19) सा॒वि॒त्र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालग्ं सावि॒त्रग्ं सा॑वि॒त्र-न्द्वाद॑शकपालम् । 20) द्वाद॑शकपालग्ं सारस्व॒तग्ं सा॑रस्व॒त-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालग्ं सारस्व॒तम् । 20) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 21) सा॒र॒स्व॒त-ञ्च॒रु-ञ्च॒रुग्ं सा॑रस्व॒तग्ं सा॑रस्व॒त-ञ्च॒रुम् । 22) च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्णम् । 23) पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रुम् । 24) च॒रु मै᳚न्द्रा॒ग्न मै᳚न्द्रा॒ग्न-ञ्च॒रु-ञ्च॒रु मै᳚न्द्रा॒ग्नम् । 25) ऐ॒न्द्रा॒ग्न मेका॑दशकपाल॒ मेका॑दशकपाल मैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न मेका॑दशकपालम् । 25) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् । 26) एका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्रम् । 26) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 27) ऐ॒न्द्र-ञ्च॒रु-ञ्च॒रु मै॒न्द्र मै॒न्द्र-ञ्च॒रुम् । 28) च॒रुं-वैँ᳚श्वकर्म॒णं-वैँ᳚श्वकर्म॒ण-ञ्च॒रु-ञ्च॒रुं-वैँ᳚श्वकर्म॒णम् । 29) वै॒श्व॒क॒र्म॒ण मेक॑कपाल॒ मेक॑कपालं-वैँश्वकर्म॒णं-वैँ᳚श्वकर्म॒ण मेक॑कपालम् । 29) वै॒श्व॒क॒र्म॒णमिति॑ वैश्व - क॒म॒र्णम् । 30) एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् । ॥ 6 ॥ (30/39) ॥ अ. 4 ॥
1) सोमा॑य पितृ॒मते॑ पितृ॒मते॒ सोमा॑य॒ सोमा॑य पितृ॒मते᳚ । 2) पि॒तृ॒मते॑ पुरो॒डाश॑-म्पुरो॒डाश॑-म्पितृ॒मते॑ पितृ॒मते॑ पुरो॒डाश᳚म् । 2) पि॒तृ॒मत॒ इति॑ पितृ - मते᳚ । 3) पु॒रो॒डाश॒ग्ं॒ षट्क॑पाल॒ग्ं॒ षट्क॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ग्ं॒ षट्क॑पालम् । 4) षट्क॑पाल॒-न्नि-र्णिष्षट्क॑पाल॒ग्ं॒ षट्क॑पाल॒-न्निः । 4) षट्क॑पाल॒मिति॒ षट् - क॒पा॒ल॒म् । 5) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 6) व॒प॒ति॒ पि॒तृभ्यः॑ पि॒तृभ्यो॑ वपति वपति पि॒तृभ्यः॑ । 7) पि॒तृभ्यो॑ बर्हि॒षद्भ्यो॑ बर्हि॒षद्भ्यः॑ पि॒तृभ्यः॑ पि॒तृभ्यो॑ बर्हि॒षद्भ्यः॑ । 7) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । 8) ब॒र्॒हि॒षद्भ्यो॑ धा॒ना धा॒ना ब॑र्हि॒षद्भ्यो॑ बर्हि॒षद्भ्यो॑ धा॒नाः । 8) ब॒र्॒हि॒षद्भ्य॒ इति॑ बर्हि॒ष-द्- भ्यः॒ । 9) धा॒नाः पि॒तृभ्यः॑ पि॒तृभ्यो॑ धा॒ना धा॒नाः पि॒तृभ्यः॑ । 10) पि॒तृभ्यो᳚ ऽग्निष्वा॒त्तेभ्यो᳚ ऽग्निष्वा॒त्तेभ्यः॑ पि॒तृभ्यः॑ पि॒तृभ्यो᳚ ऽग्निष्वा॒त्तेभ्यः॑ । 10) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । 11) अ॒ग्नि॒ष्वा॒त्तेभ्यो॑ ऽभिवा॒न्या॑या अभिवा॒न्या॑या अग्निष्वा॒त्तेभ्यो᳚ ऽग्निष्वा॒त्तेभ्यो॑ ऽभिवा॒न्या॑यै । 11) अ॒ग्नि॒ष्वा॒त्तेभ्य॒ इत्य॑ग्नि - स्वा॒त्तेभ्यः॑ । 12) अ॒भि॒वा॒न्या॑यै दु॒ग्धे दु॒ग्धे॑ ऽभिवा॒न्या॑या अभिवा॒न्या॑यै दु॒ग्धे । 12) अ॒भि॒वा॒न्या॑या॒ इत्य॑भि - वा॒न्या॑यै । 13) दु॒ग्धे म॒न्थ-म्म॒न्थ-न्दु॒ग्धे दु॒ग्धे म॒न्थम् । 14) म॒न्थ मे॒त दे॒त-न्म॒न्थ-म्म॒न्थ मे॒तत् । 15) ए॒त-त्ते॑ त ए॒त दे॒त-त्ते᳚ । 16) ते॒ त॒त॒ त॒त॒ ते॒ ते॒ त॒त॒ । 17) त॒त॒ ये ये त॑त तत॒ ये । 18) ये च॑ च॒ ये ये च॑ । 19) च॒ त्वा-न्त्वा-ञ्च॑ च॒ त्वाम् । 20) त्वा मन्वनु॒ त्वा-न्त्वा मनु॑ । 21) अन्वे॒त दे॒त दन्वन् वे॒तत् । 22) ए॒त-त्ते॑ त ए॒त दे॒त-त्ते᳚ । 23) ते॒ पि॒ता॒म॒ह॒ पि॒ता॒म॒ह॒ ते॒ ते॒ पि॒ता॒म॒ह॒ । 24) पि॒ता॒म॒ह॒ प्र॒पि॒ता॒म॒ह॒ प्र॒पि॒ता॒म॒ह॒ पि॒ता॒म॒ह॒ पि॒ता॒म॒ह॒ प्र॒पि॒ता॒म॒ह॒ । 25) प्र॒पि॒ता॒म॒ह॒ ये ये प्र॑पितामह प्रपितामह॒ ये । 25) प्र॒पि॒ता॒म॒हेति॑ प्र - पि॒ता॒म॒ह॒ । 26) ये च॑ च॒ ये ये च॑ । 27) च॒ त्वा-न्त्वा-ञ्च॑ च॒ त्वाम् । 28) त्वा मन्वनु॒ त्वा-न्त्वा मनु॑ । 29) अन्वत्रा त्रान्वन्वत्र॑ । 30) अत्र॑ पितरः पित॒रो ऽत्रात्र॑ पितरः । 31) पि॒त॒रो॒ य॒था॒भा॒गं-यँ॑थाभा॒ग-म्पि॑तरः पितरो यथाभा॒गम् । 32) य॒था॒भा॒ग-म्म॑न्दद्ध्व-म्मन्दद्ध्वं-यँथाभा॒गं-यँ॑थाभा॒ग-म्म॑न्दद्ध्वम् । 32) य॒था॒भा॒गमिति॑ यथा - भा॒गम् । 33) म॒न्द॒द्ध्व॒ग्ं॒ सु॒स॒न्दृशग्ं॑ सुस॒न्दृश॑-म्मन्दद्ध्व-म्मन्दद्ध्वग्ं सुस॒न्दृश᳚म् । 34) सु॒स॒न्दृश॑-न्त्वा त्वा सुस॒न्दृशग्ं॑ सुस॒न्दृश॑-न्त्वा । 34) सु॒स॒न्दृश॒मिति॑ सु - स॒न्दृश᳚म् । 35) त्वा॒ व॒यं-वँ॒य-न्त्वा᳚ त्वा व॒यम् । 36) व॒य-म्मघ॑व॒-न्मघ॑वन्. व॒यं-वँ॒य-म्मघ॑वन्न् । 37) मघ॑व-न्मन्दिषी॒महि॑ मन्दिषी॒महि॒ मघ॑व॒-न्मघ॑व-न्मन्दिषी॒महि॑ । 37) मघ॑व॒न्निति॒ मघ॑ - व॒न्न् । 38) म॒न्दि॒षी॒महीति॑ मन्दिषी॒महि॑ । 39) प्र नू॒नन्नू॒न-म्प्र प्र नू॒नम् । 40) नू॒न-म्पू॒र्णव॑न्धुरः पू॒र्णव॑न्धुरो नू॒न-न्नू॒न-म्पू॒र्णव॑न्धुरः । 41) पू॒र्णव॑न्धुर-स्स्तु॒त-स्स्तु॒तः पू॒र्णव॑न्धुरः पू॒र्णव॑न्धुर-स्स्तु॒तः । 41) पू॒र्णव॑न्धुर॒ इति॑ पू॒र्ण - व॒न्धु॒रः॒ । 42) स्तु॒तो या॑सि यासि स्तु॒त-स्स्तु॒तो या॑सि । 43) या॒सि॒ वशा॒न्॒. वशान्॑. यासि यासि॒ वशान्॑ । 44) वशा॒ग्ं॒ अन्वनु॒ वशा॒न्॒. वशा॒ग्ं॒ अनु॑ । 45) अन्वित्यनु॑ । 46) योजा॒ नु नु योजा॒ योजा॒ नु । 47) न्वि॑न्द्रे न्द्र॒ नु न्वि॑न्द्र । 48) इ॒न्द्र॒ ते॒ त॒ इ॒न्द्रे॒ न्द्र॒ ते॒ । 49) ते॒ हरी॒ हरी॑ ते ते॒ हरी᳚ । 50) हरी॒ इति॒ हरी᳚ । ॥ 7 ॥ (50/62)
1) अक्ष॒-न्नमी॑मद॒न्ता मी॑मद॒न्ताक्ष॒-न्नक्ष॒-न्नमी॑मदन्त । 2) अमी॑मदन्त॒ हि ह्यमी॑मद॒न्ता मी॑मदन्त॒ हि । 3) ह्यवाव॒ हि ह्यव॑ । 4) अव॑ प्रि॒याः प्रि॒या अवाव॑ प्रि॒याः । 5) प्रि॒या अ॑धूषता धूषत प्रि॒याः प्रि॒या अ॑धूषत । 6) अ॒धू॒ष॒तेत्य॑धूषत । 7) अस्तो॑षत॒ स्वभा॑नव॒-स्स्वभा॑न॒वो ऽस्तो॑ष॒ता स्तो॑षत॒ स्वभा॑नवः । 8) स्वभा॑नवो॒ विप्रा॒ विप्रा॒-स्स्वभा॑नव॒-स्स्वभा॑नवो॒ विप्राः᳚ । 8) स्वभा॑नव॒ इति॒ स्व - भा॒न॒वः॒ । 9) विप्रा॒ नवि॑ष्ठया॒ नवि॑ष्ठया॒ विप्रा॒ विप्रा॒ नवि॑ष्ठया । 10) नवि॑ष्ठया म॒ती म॒ती नवि॑ष्ठया॒ नवि॑ष्ठया म॒ती । 11) म॒तीति॑ म॒ती । 12) योजा॒ नु नु योजा॒ योजा॒ नु । 13) न्वि॑न्द्रे न्द्र॒ नु न्वि॑न्द्र । 14) इ॒न्द्र॒ ते॒ त॒ इ॒न्द्रे॒ न्द्र॒ ते॒ । 15) ते॒ हरी॒ हरी॑ ते ते॒ हरी᳚ । 16) हरी॒ इति॒ हरी᳚ । 17) अक्ष॑-न्पि॒तरः॑ पि॒तरो ऽक्ष॒-न्नक्ष॑-न्पि॒तरः॑ । 18) पि॒तरो ऽमी॑मद॒न्ता मी॑मदन्त पि॒तरः॑ पि॒तरो ऽमी॑मदन्त । 19) अमी॑मदन्त पि॒तरः॑ पि॒तरो ऽमी॑मद॒न्ता मी॑मदन्त पि॒तरः॑ । 20) पि॒तरो ऽती॑तृप॒न्ता ती॑तृपन्त पि॒तरः॑ पि॒तरो ऽती॑तृपन्त । 21) अती॑तृपन्त पि॒तरः॑ पि॒तरो ऽती॑तृप॒न्ता ती॑तृपन्त पि॒तरः॑ । 22) पि॒तरो ऽमी॑मृज॒न्ता मी॑मृजन्त पि॒तरः॑ पि॒तरो ऽमी॑मृजन्त । 23) अमी॑मृजन्त पि॒तरः॑ पि॒तरो ऽमी॑मृज॒न्ता मी॑मृजन्त पि॒तरः॑ । 24) पि॒तर॒ इति॑ पि॒तरः॑ । 25) परे॑ते त॒ परा॒ परे॑त । 26) इ॒त॒ पि॒त॒रः॒ पि॒त॒र॒ इ॒ते॒ त॒ पि॒त॒रः॒ । 27) पि॒त॒र॒-स्सो॒म्या॒-स्सो॒म्याः॒ पि॒त॒रः॒ पि॒त॒र॒-स्सो॒म्याः॒ । 28) सो॒म्या॒ ग॒म्भी॒रै-र्ग॑म्भी॒रै-स्सो᳚म्या-स्सोम्या गम्भी॒रैः । 29) ग॒म्भी॒रैः प॒थिभिः॑ प॒थिभि॑-र्गम्भी॒रै-र्ग॑म्भी॒रैः प॒थिभिः॑ । 30) प॒थिभिः॑ पू॒र्व्यैः पू॒र्व्यैः प॒थिभिः॑ प॒थिभिः॑ पू॒र्व्यैः । 30) प॒थिभि॒रिति॑ प॒थि - भिः॒ । 31) पू॒र्व्यैरिति॑ पू॒र्व्यैः । 32) अथा॑ पि॒तॄ-न्पि॒तॄ नथाथा॑ पि॒तॄन् । 33) पि॒तॄ-न्थ्सु॑वि॒दत्रा᳚-न्थ्सुवि॒दत्रा᳚-न्पि॒तॄ-न्पि॒तॄ-न्थ्सु॑वि॒दत्रान्॑ । 34) सु॒वि॒दत्रा॒ग्ं॒ अप्यपि॑ सुवि॒दत्रा᳚-न्थ्सुवि॒दत्रा॒ग्ं॒ अपि॑ । 34) सु॒वि॒दत्रा॒निति॑ सु - वि॒दत्रान्॑ । 35) अपी॑ते॒ ताप्यपी॑त । 36) इ॒त॒ य॒मेन॑ य॒मेने॑ ते त य॒मेन॑ । 37) य॒मेन॒ ये ये य॒मेन॑ य॒मेन॒ ये । 38) ये स॑ध॒मादग्ं॑ सध॒मादं॒-येँ ये स॑ध॒माद᳚म् । 39) स॒ध॒माद॒-म्मद॑न्ति॒ मद॑न्ति सध॒मादग्ं॑ सध॒माद॒-म्मद॑न्ति । 39) स॒ध॒माद॒मिति॑ सध - माद᳚म् । 40) मद॒न्तीति॒ मद॑न्ति । 41) मनो॒ नु नु मनो॒ मनो॒ नु । 42) न्वा नु न्वा । 43) आ हु॑वामहे हुवामह॒ आ हु॑वामहे । 44) हु॒वा॒म॒हे॒ ना॒रा॒श॒ग्ं॒सेन॑ नाराश॒ग्ं॒सेन॑ हुवामहे हुवामहे नाराश॒ग्ं॒सेन॑ । 45) ना॒रा॒श॒ग्ं॒सेन॒ स्तोमे॑न॒ स्तोमे॑न नाराश॒ग्ं॒सेन॑ नाराश॒ग्ं॒सेन॒ स्तोमे॑न । 46) स्तोमे॑न पितृ॒णा-म्पि॑तृ॒णाग् स्तोमे॑न॒ स्तोमे॑न पितृ॒णाम् । 47) पि॒तृ॒णा-ञ्च॑ च पितृ॒णा-म्पि॑तृ॒णा-ञ्च॑ । 48) च॒ मन्म॑भि॒-र्मन्म॑भिश्च च॒ मन्म॑भिः । 49) मन्म॑भि॒रिति॒ मन्म॑ - भिः॒ । 50) आ नो॑ न॒ आ नः॑ । ॥ 8 ॥ (50/54)
1) न॒ ए॒त्वे॒तु॒ नो॒ न॒ ए॒तु॒ । 2) ए॒तु॒ मनो॒ मन॑ एत्वेतु॒ मनः॑ । 3) मनः॒ पुनः॒ पुन॒-र्मनो॒ मनः॒ पुनः॑ । 4) पुनः॒ क्रत्वे॒ क्रत्वे॒ पुनः॒ पुनः॒ क्रत्वे᳚ । 5) क्रत्वे॒ दक्षा॑य॒ दक्षा॑य॒ क्रत्वे॒ क्रत्वे॒ दक्षा॑य । 6) दक्षा॑य जी॒वसे॑ जी॒वसे॒ दक्षा॑य॒ दक्षा॑य जी॒वसे᳚ । 7) जी॒वस॒ इति॑ जी॒वसे᳚ । 8) ज्योक्च॑ च॒ ज्योग् ज्योक्च॑ । 9) च॒ सूर्य॒ग्ं॒ सूर्य॑-ञ्च च॒ सूर्य᳚म् । 10) सूर्य॑-न्दृ॒शे दृ॒शे सूर्य॒ग्ं॒ सूर्य॑-न्दृ॒शे । 11) दृ॒श इति॑ दृ॒शे । 12) पुन॑-र्नो नः॒ पुनः॒ पुन॑-र्नः । 13) नः॒ पि॒तरः॑ पि॒तरो॑ नो नः पि॒तरः॑ । 14) पि॒तरो॒ मनो॒ मनः॑ पि॒तरः॑ पि॒तरो॒ मनः॑ । 15) मनो॒ ददा॑तु॒ ददा॑तु॒ मनो॒ मनो॒ ददा॑तु । 16) ददा॑तु॒ दैव्यो॒ दैव्यो॒ ददा॑तु॒ ददा॑तु॒ दैव्यः॑ । 17) दैव्यो॒ जनो॒ जनो॒ दैव्यो॒ दैव्यो॒ जनः॑ । 18) जन॒ इति॒ जनः॑ । 19) जी॒वं-व्राँतं॒-व्राँत॑-ञ्जी॒व-ञ्जी॒वं-व्राँत᳚म् । 20) व्रातग्ं॑ सचेमहि सचेमहि॒ व्रातं॒-व्राँतग्ं॑ सचेमहि । 21) स॒चे॒म॒हीति॑ सचेमहि । 22) यद॒न्तरि॑क्ष म॒न्तरि॑क्षं॒-यँ-द्यद॒न्तरि॑क्षम् । 23) अ॒न्तरि॑क्ष-म्पृथि॒वी-म्पृ॑थि॒वी म॒न्तरि॑क्ष म॒न्तरि॑क्ष-म्पृथि॒वीम् । 24) पृ॒थि॒वी मु॒तोत पृ॑थि॒वी-म्पृ॑थि॒वी मु॒त । 25) उ॒त द्या-न्द्या मु॒तोत द्याम् । 26) द्यां-यँ-द्य-द्द्या-न्द्यां-यँत् । 27) य-न्मा॒तर॑-म्मा॒तरं॒-यँ-द्य-न्मा॒तर᳚म् । 28) मा॒तर॑-म्पि॒तर॑-म्पि॒तर॑-म्मा॒तर॑-म्मा॒तर॑-म्पि॒तर᳚म् । 29) पि॒तरं॑-वाँ वा पि॒तर॑-म्पि॒तरं॑-वाँ । 30) वा॒ जि॒हि॒ग्ं॒सि॒म जि॑हिग्ंसि॒म वा॑ वा जिहिग्ंसि॒म । 31) जि॒हि॒ग्ं॒सि॒मेति॑ जिहिग्ंसि॒म । 32) अ॒ग्नि-र्मा॑ मा॒ ऽग्नि र॒ग्नि-र्मा᳚ । 33) मा॒ तस्मा॒-त्तस्मा᳚-न्मा मा॒ तस्मा᳚त् । 34) तस्मा॒ देन॑स॒ एन॑स॒ स्तस्मा॒-त्तस्मा॒ देन॑सः । 35) एन॑सो॒ गार्ह॑पत्यो॒ गार्ह॑पत्य॒ एन॑स॒ एन॑सो॒ गार्ह॑पत्यः । 36) गार्ह॑पत्यः॒ प्र प्र गार्ह॑पत्यो॒ गार्ह॑पत्यः॒ प्र । 36) गार्ह॑पत्य॒ इति॒ गार्ह॑ - प॒त्यः॒ । 37) प्र मु॑ञ्चतु मुञ्चतु॒ प्र प्र मु॑ञ्चतु । 38) मु॒ञ्च॒तु॒ दु॒रि॒ता दु॑रि॒ता मु॑ञ्चतु मुञ्चतु दुरि॒ता । 39) दु॒रि॒ता यानि॒ यानि॑ दुरि॒ता दु॑रि॒ता यानि॑ । 39) दु॒रि॒तेति॑ दुः - इ॒ता । 40) यानि॑ चकृ॒म च॑कृ॒म यानि॒ यानि॑ चकृ॒म । 41) च॒कृ॒म क॒रोतु॑ क॒रोतु॑ चकृ॒म च॑कृ॒म क॒रोतु॑ । 42) क॒रोतु॒ मा-म्मा-ङ्क॒रोतु॑ क॒रोतु॒ माम् । 43) मा म॑ने॒नस॑ मने॒नस॒-म्मा-म्मा म॑ने॒नस᳚म् । 44) अ॒ने॒नस॒मित्य॑ने॒नस᳚म् । ॥ 9 ॥ (44/46) ॥ अ. 5 ॥
1) प्र॒ति॒पू॒रु॒ष मेक॑कपाला॒ नेक॑कपाला-न्प्रतिपूरु॒ष-म्प्र॑तिपूरु॒ष मेक॑कपालान् । 1) प्र॒ति॒पू॒रु॒षमिति॑ प्रति - पू॒रु॒षम् । 2) एक॑कपाला॒-न्नि-र्णिरेक॑कपाला॒ नेक॑कपाला॒-न्निः । 2) एक॑कपाला॒नित्येक॑ - क॒पा॒ला॒न् । 3) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 4) व॒प॒त्येक॒ मेकं॑-वँपति वप॒त्येक᳚म् । 5) एक॒ मति॑रिक्त॒ मति॑रिक्त॒ मेक॒ मेक॒ मति॑रिक्तम् । 6) अति॑रिक्तं॒-याँव॑न्तो॒ याव॒न्तो ऽति॑रिक्त॒ मति॑रिक्तं॒-याँव॑न्तः । 6) अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् । 7) याव॑न्तो गृ॒ह्या॑ गृ॒ह्या॑ याव॑न्तो॒ याव॑न्तो गृ॒ह्याः᳚ । 8) गृ॒ह्या᳚-स्स्म-स्स्मो गृ॒ह्या॑ गृ॒ह्या᳚-स्स्मः । 9) स्म स्तेभ्य॒ स्तेभ्य॒-स्स्म-स्स्म स्तेभ्यः॑ । 10) तेभ्यः॒ क-ङ्क-न्तेभ्य॒ स्तेभ्यः॒ कम् । 11) क म॑कर मकर॒-ङ्क-ङ्क म॑करम् । 12) अ॒क॒र॒-म्प॒शू॒ना-म्प॑शू॒ना म॑कर मकर-म्पशू॒नाम् । 13) प॒शू॒नाग्ं शर्म॒ शर्म॑ पशू॒ना-म्प॑शू॒नाग्ं शर्म॑ । 14) शर्मा᳚स्यसि॒ शर्म॒ शर्मा॑सि । 15) अ॒सि॒ शर्म॒ शर्मा᳚स्यसि॒ शर्म॑ । 16) शर्म॒ यज॑मानस्य॒ यज॑मानस्य॒ शर्म॒ शर्म॒ यज॑मानस्य । 17) यज॑मानस्य॒ शर्म॒ शर्म॒ यज॑मानस्य॒ यज॑मानस्य॒ शर्म॑ । 18) शर्म॑ मे मे॒ शर्म॒ शर्म॑ मे । 19) मे॒ य॒च्छ॒ य॒च्छ॒ मे॒ मे॒ य॒च्छ॒ । 20) य॒च्छैक॒ एको॑ यच्छ य॒च्छैकः॑ । 21) एक॑ ए॒वैवैक॒ एक॑ ए॒व । 22) ए॒व रु॒द्रो रु॒द्र ए॒वैव रु॒द्रः । 23) रु॒द्रो न न रु॒द्रो रु॒द्रो न । 24) न द्वि॒तीया॑य द्वि॒तीया॑य॒ न न द्वि॒तीया॑य । 25) द्वि॒तीया॑य तस्थे तस्थे द्वि॒तीया॑य द्वि॒तीया॑य तस्थे । 26) त॒स्थ॒ आ॒खु रा॒खु स्त॑स्थे तस्थ आ॒खुः । 27) आ॒खुस्ते॑ त आ॒खु रा॒खुस्ते᳚ । 28) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ । 29) रु॒द्र॒ प॒शुः प॒शू रु॑द्र रुद्र प॒शुः । 30) प॒शु स्त-न्त-म्प॒शुः प॒शु स्तम् । 31) त-ञ्जु॑षस्व जुषस्व॒ त-न्त-ञ्जु॑षस्व । 32) जु॒ष॒स्वै॒ष ए॒ष जु॑षस्व जुषस्वै॒षः । 33) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 34) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ । 35) रु॒द्र॒ भा॒गो भा॒गो रु॑द्र रुद्र भा॒गः । 36) भा॒ग-स्स॒ह स॒ह भा॒गो भा॒ग-स्स॒ह । 37) स॒ह स्वस्रा॒ स्वस्रा॑ स॒ह स॒ह स्वस्रा᳚ । 38) स्वस्रा म्बि॑क॒या म्बि॑कया॒ स्वस्रा॒ स्वस्रा म्बि॑कया । 39) अम्बि॑कया॒ त-न्त मम्बि॑क॒या म्बि॑कया॒ तम् । 40) त-ञ्जु॑षस्व जुषस्व॒ त-न्त-ञ्जु॑षस्व । 41) जु॒ष॒स्व॒ भे॒ष॒ज-म्भे॑ष॒ज-ञ्जु॑षस्व जुषस्व भेष॒जम् । 42) भे॒ष॒ज-ङ्गवे॒ गवे॑ भेष॒ज-म्भे॑ष॒ज-ङ्गवे᳚ । 43) गवे ऽश्वा॒या श्वा॑य॒ गवे॒ गवे ऽश्वा॑य । 44) अश्वा॑य॒ पुरु॑षाय॒ पुरु॑षा॒या श्वा॒या श्वा॑य॒ पुरु॑षाय । 45) पुरु॑षाय भेष॒ज-म्भे॑ष॒ज-म्पुरु॑षाय॒ पुरु॑षाय भेष॒जम् । 46) भे॒ष॒ज मथो॒ अथो॑ भेष॒ज-म्भे॑ष॒ज मथो᳚ । 47) अथो॑ अ॒स्मभ्य॑ म॒स्मभ्य॒ मथो॒ अथो॑ अ॒स्मभ्य᳚म् । 47) अथो॒ इत्यथो᳚ । 48) अ॒स्मभ्य॑-म्भेष॒ज-म्भे॑ष॒ज म॒स्मभ्य॑ म॒स्मभ्य॑-म्भेष॒जम् । 48) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । 49) भे॒ष॒जग्ं सुभे॑षज॒ग्ं॒ सुभे॑षज-म्भेष॒ज-म्भे॑ष॒जग्ं सुभे॑षजम् । 50) सुभे॑षजं॒-यँथा॒ यथा॒ सुभे॑षज॒ग्ं॒ सुभे॑षजं॒-यँथा᳚ । 50) सुभे॑षज॒मिति॒ सु - भे॒ष॒ज॒म् । ॥ 10 ॥ (50/56)
1) यथा ऽस॒त्यस॑ति॒ यथा॒ यथा ऽस॑ति । 2) अस॒तीत्यस॑ति । 3) सु॒ग-म्मे॒षाय॑ मे॒षाय॑ सु॒गग्ं सु॒ग-म्मे॒षाय॑ । 3) सु॒गमिति॑ सु - गम् । 4) मे॒षाय॑ मे॒ष्यै॑ मे॒ष्यै॑ मे॒षाय॑ मे॒षाय॑ मे॒ष्यै᳚ । 5) मे॒ष्या॑ अवाव॑ मे॒ष्यै॑ मे॒ष्या॑ अव॑ । 6) अवा᳚म्बा॒ म्बावा वा᳚म्ब । 7) अ॒म्ब॒ रु॒द्रग्ं रु॒द्र म॑म्बा म्ब रु॒द्रम् । 8) रु॒द्र म॑दिम ह्यदिमहि रु॒द्रग्ं रु॒द्र म॑दिमहि । 9) अ॒दि॒म॒ह्य वावा॑ दिमह्य दिम॒ह्यव॑ । 10) अव॑ दे॒व-न्दे॒व मवाव॑ दे॒वम् । 11) दे॒व-न्त्र्य॑म्बक॒-न्त्र्य॑म्बक-न्दे॒व-न्दे॒व-न्त्र्य॑म्बकम् । 12) त्र्य॑म्बक॒मिति॒ त्रि - अ॒म्ब॒क॒म् । 13) यथा॑ नो नो॒ यथा॒ यथा॑ नः । 14) न॒-श्श्रेय॑स॒-श्श्रेय॑सो नो न॒-श्श्रेय॑सः । 15) श्रेय॑सः॒ कर॒-त्कर॒च् छ्रेय॑स॒-श्श्रेय॑सः॒ कर॑त् । 16) कर॒-द्यथा॒ यथा॒ कर॒-त्कर॒-द्यथा᳚ । 17) यथा॑ नो नो॒ यथा॒ यथा॑ नः । 18) नो॒ वस्य॑सो॒ वस्य॑सो नो नो॒ वस्य॑सः । 19) वस्य॑सः॒ कर॒-त्कर॒-द्वस्य॑सो॒ वस्य॑सः॒ कर॑त् । 20) कर॒-द्यथा॒ यथा॒ कर॒-त्कर॒-द्यथा᳚ । 21) यथा॑ नो नो॒ यथा॒ यथा॑ नः । 22) नः॒ प॒शु॒मतः॑ पशु॒मतो॑ नो नः पशु॒मतः॑ । 23) प॒शु॒मतः॒ कर॒-त्कर॑-त्पशु॒मतः॑ पशु॒मतः॒ कर॑त् । 23) प॒शु॒मत॒ इति॑ पशु - मतः॑ । 24) कर॒-द्यथा॒ यथा॒ कर॒-त्कर॒-द्यथा᳚ । 25) यथा॑ नो नो॒ यथा॒ यथा॑ नः । 26) नो॒ व्य॒व॒सा॒यया᳚-द्व्यवसा॒यया᳚-न्नो नो व्यवसा॒यया᳚त् । 27) व्य॒व॒सा॒यया॒दिति॑ वि - अ॒व॒सा॒यया᳚त् । 28) त्र्य॑म्बकं-यँजामहे यजामहे॒ त्र्य॑म्ब॒क-न्त्र्य॑म्बकं-यँजामहे । 28) त्र्य॑म्बक॒मिति॒ त्रि - अ॒म्ब॒क॒म् । 29) य॒जा॒म॒हे॒ सु॒ग॒न्धिग्ं सु॑ग॒न्धिं-यँ॑जामहे यजामहे सुग॒न्धिम् । 30) सु॒ग॒न्धि-म्पु॑ष्टि॒वर्ध॑न-म्पुष्टि॒वर्ध॑नग्ं सुग॒न्धिग्ं सु॑ग॒न्धि-म्पु॑ष्टि॒वर्ध॑नम् । 30) सु॒ग॒न्धिमिति॑ सु - ग॒न्धिम् । 31) पु॒ष्टि॒वर्ध॑न॒मिति॑ पुष्टि - वर्ध॑नम् । 32) उ॒र्वा॒रु॒क मि॑वे वोर्वारु॒क मु॑र्वारु॒क मि॑व । 33) इ॒व॒ बन्ध॑ना॒-द्बन्ध॑नादिवे व॒ बन्ध॑नात् । 34) बन्ध॑ना-न्मृ॒त्यो-र्मृ॒त्यो-र्बन्ध॑ना॒-द्बन्ध॑ना-न्मृ॒त्योः । 35) मृ॒त्यो-र्मु॑क्षीय मुक्षीय मृ॒त्यो-र्मृ॒त्यो-र्मु॑क्षीय । 36) मु॒क्षी॒य॒ मा मा मु॑क्षीय मुक्षीय॒ मा । 37) मा ऽमृता॑ द॒मृता॒-न्मा मा ऽमृता᳚त् । 38) अ॒मृता॒दित्य॒मृता᳚त् । 39) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 40) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ । 41) रु॒द्र॒ भा॒गो भा॒गो रु॑द्र रुद्र भा॒गः । 42) भा॒ग स्त-न्त-म्भा॒गो भा॒ग स्तम् । 43) त-ञ्जु॑षस्व जुषस्व॒ त-न्त-ञ्जु॑षस्व । 44) जु॒ष॒स्व॒ तेन॒ तेन॑ जुषस्व जुषस्व॒ तेन॑ । 45) तेना॑ व॒सेना॑ व॒सेन॒ तेन॒ तेना॑ व॒सेन॑ । 46) अ॒व॒सेन॑ प॒रः प॒रो॑ ऽव॒सेना॑ व॒सेन॑ प॒रः । 47) प॒रो मूज॑वतो॒ मूज॑वतः प॒रः प॒रो मूज॑वतः । 48) मूज॑व॒तो ऽत्यति॒ मूज॑वतो॒ मूज॑व॒तो ऽति॑ । 48) मूज॑वत॒ इति॒ मूज॑ - व॒तः॒ । 49) अती॑ही॒ ह्यत्यती॑हि । 50) इ॒ह्य व॑ततध॒न्वा ऽव॑ततधन् वेही॒ ह्यव॑ततधन्वा । 51) अव॑ततधन्वा॒ पिना॑कहस्तः॒ पिना॑कह॒स्तो ऽव॑ततध॒न्वा ऽव॑ततधन्वा॒ पिना॑कहस्तः । 51) अव॑ततध॒न्वेत्यव॑तत - ध॒न्वा॒ । 52) पिना॑कहस्तः॒ कृत्ति॑वासाः॒ कृत्ति॑वासाः॒ पिना॑कहस्तः॒ पिना॑कहस्तः॒ कृत्ति॑वासाः । 52) पिना॑कहस्त॒ इति॒ पिना॑क - ह॒स्तः॒ । 53) कृत्ति॑वासा॒ इति॒ कृत्ति॑ - वा॒साः॒ । ॥ 11 ॥ (53/60) ॥ अ. 6 ॥
1) ऐ॒न्द्रा॒ग्न-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल मैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न-न्द्वाद॑शकपालम् । 1) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् । 2) द्वाद॑शकपालं-वैँश्वदे॒वं-वैँ᳚श्वदे॒व-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वदे॒वम् । 2) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 3) वै॒श्व॒दे॒व-ञ्च॒रु-ञ्च॒रुं-वैँ᳚श्वदे॒वं-वैँ᳚श्वदे॒व-ञ्च॒रुम् । 3) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 4) च॒रु मिन्द्रा॒ये न्द्रा॑य च॒रु-ञ्च॒रु मिन्द्रा॑य । 5) इन्द्रा॑य॒ शुना॒सीरा॑य॒ शुना॒सीरा॒ये न्द्रा॒ये न्द्रा॑य॒ शुना॒सीरा॑य । 6) शुना॒सीरा॑य पुरो॒डाश॑-म्पुरो॒डाश॒ग्ं॒ शुना॒सीरा॑य॒ शुना॒सीरा॑य पुरो॒डाश᳚म् । 7) पु॒रो॒डाश॒-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒-न्द्वाद॑शकपालम् । 8) द्वाद॑शकपालं-वाँय॒व्यं॑-वाँय॒व्य॑-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वाँय॒व्य᳚म् । 8) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 9) वा॒य॒व्य॑-म्पयः॒ पयो॑ वाय॒व्यं॑-वाँय॒व्य॑-म्पयः॑ । 10) पय॑-स्सौ॒र्यग्ं सौ॒र्य-म्पयः॒ पय॑-स्सौ॒र्यम् । 11) सौ॒र्य मेक॑कपाल॒ मेक॑कपालग्ं सौ॒र्यग्ं सौ॒र्य मेक॑कपालम् । 12) एक॑कपाल-न्द्वादशग॒व-न्द्वा॑दशग॒व मेक॑कपाल॒ मेक॑कपाल-न्द्वादशग॒वम् । 12) एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् । 13) द्वा॒द॒श॒ग॒वग्ं सीर॒ग्ं॒ सीर॑-न्द्वादशग॒व-न्द्वा॑दशग॒वग्ं सीर᳚म् । 13) द्वा॒द॒श॒ग॒वमिति॑ द्वादश - ग॒वम् । 14) सीर॒-न्दक्षि॑णा॒ दक्षि॑णा॒ सीर॒ग्ं॒ सीर॒-न्दक्षि॑णा । 15) दक्षि॑णा ऽऽग्ने॒य मा᳚ग्ने॒य-न्दक्षि॑णा॒ दक्षि॑णा ऽऽग्ने॒यम् । 16) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् । 17) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः । 17) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 18) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 19) व॒प॒ति॒ रौ॒द्रग्ं रौ॒द्रं-वँ॑पति वपति रौ॒द्रम् । 20) रौ॒द्र-ङ्गा॑वीधु॒क-ङ्गा॑वीधु॒कग्ं रौ॒द्रग्ं रौ॒द्र-ङ्गा॑वीधु॒कम् । 21) गा॒वी॒धु॒क-ञ्च॒रु-ञ्च॒रु-ङ्गा॑वीधु॒क-ङ्गा॑वीधु॒क-ञ्च॒रुम् । 22) च॒रु मै॒न्द्र मै॒न्द्र-ञ्च॒रु-ञ्च॒रु मै॒न्द्रम् । 23) ऐ॒न्द्र-न्दधि॒ दध्यै॒न्द्र मै॒न्द्र-न्दधि॑ । 24) दधि॑ वारु॒णं-वाँ॑रु॒ण-न्दधि॒ दधि॑ वारु॒णम् । 25) वा॒रु॒णं-यँ॑व॒मयं॑-यँव॒मयं॑-वाँरु॒णं-वाँ॑रु॒णं-यँ॑व॒मय᳚म् । 26) य॒व॒मय॑-ञ्च॒रु-ञ्च॒रुं-यँ॑व॒मयं॑-यँव॒मय॑-ञ्च॒रुम् । 26) य॒व॒मय॒मिति॑ यव - मय᳚म् । 27) च॒रुं-वँ॒हिनी॑ व॒हिनी॑ च॒रु-ञ्च॒रुं-वँ॒हिनी᳚ । 28) व॒हिनी॑ धे॒नु-र्धे॒नु-र्व॒हिनी॑ व॒हिनी॑ धे॒नुः । 29) धे॒नु-र्दक्षि॑णा॒ दक्षि॑णा धे॒नु-र्धे॒नु-र्दक्षि॑णा । 30) दक्षि॑णा॒ ये ये दक्षि॑णा॒ दक्षि॑णा॒ ये । 31) ये दे॒वा दे॒वा ये ये दे॒वाः । 32) दे॒वाः पु॑र॒स्सदः॑ पुर॒स्सदो॑ दे॒वा दे॒वाः पु॑र॒स्सदः॑ । 33) पु॒र॒स्सदो॒ ऽग्निने᳚त्रा अ॒ग्निने᳚त्राः पुर॒स्सदः॑ पुर॒स्सदो॒ ऽग्निने᳚त्राः । 33) पु॒र॒स्सद॒ इति॑ पुरः - सदः॑ । 34) अ॒ग्निने᳚त्रा दक्षिण॒सदो॑ दक्षिण॒सदो॒ ऽग्निने᳚त्रा अ॒ग्निने᳚त्रा दक्षिण॒सदः॑ । 34) अ॒ग्निने᳚त्रा॒ इत्य॒ग्नि - ने॒त्राः॒ । 35) द॒क्षि॒ण॒सदो॑ य॒मने᳚त्रा य॒मने᳚त्रा दक्षिण॒सदो॑ दक्षिण॒सदो॑ य॒मने᳚त्राः । 35) द॒क्षि॒ण॒सद॒ इति॑ दक्षिण - सदः॑ । 36) य॒मने᳚त्राः पश्चा॒थ्सदः॑ पश्चा॒थ्सदो॑ य॒मने᳚त्रा य॒मने᳚त्राः पश्चा॒थ्सदः॑ । 36) य॒मने᳚त्रा॒ इति॑ य॒म - ने॒त्राः॒ । 37) प॒श्चा॒थ्सद॑-स्सवि॒तृने᳚त्रा-स्सवि॒तृने᳚त्राः पश्चा॒थ्सदः॑ पश्चा॒थ्सद॑-स्सवि॒तृने᳚त्राः । 37) प॒श्चा॒थ्सद॒ इति॑ पश्चात् - सदः॑ । 38) स॒वि॒तृने᳚त्रा उत्तर॒सद॑ उत्तर॒सद॑-स्सवि॒तृने᳚त्रा-स्सवि॒तृने᳚त्रा उत्तर॒सदः॑ । 38) स॒वि॒तृने᳚त्रा॒ इति॑ सवि॒तृ - ने॒त्राः॒ । 39) उ॒त्त॒र॒सदो॒ वरु॑णनेत्रा॒ वरु॑णनेत्रा उत्तर॒सद॑ उत्तर॒सदो॒ वरु॑णनेत्राः । 39) उ॒त्त॒र॒सद॒ इत्यु॑त्तर - सदः॑ । 40) वरु॑णनेत्रा उपरि॒षद॑ उपरि॒षदो॒ वरु॑णनेत्रा॒ वरु॑णनेत्रा उपरि॒षदः॑ । 40) वरु॑णनेत्रा॒ इति॒ वरु॑ण - ने॒त्राः॒ । 41) उ॒प॒रि॒षदो॒ बृह॒स्पति॑नेत्रा॒ बृह॒स्पति॑नेत्रा उपरि॒षद॑ उपरि॒षदो॒ बृह॒स्पति॑नेत्राः । 41) उ॒प॒रि॒षद॒ इत्यु॑परि - सदः॑ । 42) बृह॒स्पति॑नेत्रा रक्षो॒हणो॑ रक्षो॒हणो॒ बृह॒स्पति॑नेत्रा॒ बृह॒स्पति॑नेत्रा रक्षो॒हणः॑ । 42) बृह॒स्पति॑नेत्रा॒ इति॒ बृह॒स्पति॑ - ने॒त्राः॒ । 43) र॒क्षो॒हण॒स्ते ते र॑क्षो॒हणो॑ रक्षो॒हण॒स्ते । 43) र॒क्षो॒हण॒ इति॑ रक्षः - हनः॑ । 44) ते नो॑ न॒ स्ते ते नः॑ । 45) नः॒ पा॒न्तु॒ पा॒न्तु॒ नो॒ नः॒ पा॒न्तु॒ । 46) पा॒न्तु॒ ते ते पा᳚न्तु पान्तु॒ ते । 47) ते नो॑ न॒ स्ते ते नः॑ । 48) नो॒ ऽव॒ न्त्व॒ व॒न्तु॒ नो॒ नो॒ ऽव॒न्तु॒ । 49) अ॒व॒न्तु॒ तेभ्य॒ स्तेभ्यो॑ ऽव-न्त्ववन्तु॒ तेभ्यः॑ । 50) तेभ्यो॒ नमो॒ नम॒ स्तेभ्य॒ स्तेभ्यो॒ नमः॑ । ॥ 12 ॥ (50/69)
1) नम॒ स्तेभ्य॒ स्तेभ्यो॒ नमो॒ नम॒ स्तेभ्यः॑ । 2) तेभ्य॒-स्स्वाहा॒ स्वाहा॒ तेभ्य॒ स्तेभ्य॒-स्स्वाहा᳚ । 3) स्वाहा॒ समू॑ढ॒ग्ं॒ समू॑ढ॒ग्ग्॒ स्वाहा॒ स्वाहा॒ समू॑ढम् । 4) समू॑ढ॒ग्ं॒ रक्षो॒ रक्ष॒-स्समू॑ढ॒ग्ं॒ समू॑ढ॒ग्ं॒ रक्षः॑ । 4) समू॑ढ॒मिति॒ सं - ऊ॒ढ॒म् । 5) रक्ष॒-स्सन्द॑ग्ध॒ग्ं॒ सन्द॑ग्ध॒ग्ं॒ रक्षो॒ रक्ष॒-स्सन्द॑ग्धम् । 6) सन्द॑ग्ध॒ग्ं॒ रक्षो॒ रक्ष॒-स्सन्द॑ग्ध॒ग्ं॒ सन्द॑ग्ध॒ग्ं॒ रक्षः॑ । 6) सन्द॑ग्ध॒मिति॒ सं - द॒ग्ध॒म् । 7) रक्ष॑ इ॒द मि॒दग्ं रक्षो॒ रक्ष॑ इ॒दम् । 8) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् । 9) अ॒हग्ं रक्षो॒ रक्षो॒ ऽह म॒हग्ं रक्षः॑ । 10) रक्षो॒ ऽभ्य॑भि रक्षो॒ रक्षो॒ ऽभि । 11) अ॒भि सग्ं स म॒भ्य॑भि सम् । 12) स-न्द॑हामि दहामि॒ सग्ं स-न्द॑हामि । 13) द॒हा॒ म्य॒ग्नये॒ ऽग्नये॑ दहामि दहा म्य॒ग्नये᳚ । 14) अ॒ग्नये॑ रक्षो॒घ्ने र॑क्षो॒घ्ने᳚ ऽग्नये॒ ऽग्नये॑ रक्षो॒घ्ने । 15) र॒क्षो॒घ्ने स्वाहा॒ स्वाहा॑ रक्षो॒घ्ने र॑क्षो॒घ्ने स्वाहा᳚ । 15) र॒क्षो॒घ्न इति॑ रक्षः - घ्ने । 16) स्वाहा॑ य॒माय॑ य॒माय॒ स्वाहा॒ स्वाहा॑ य॒माय॑ । 17) य॒माय॑ सवि॒त्रे स॑वि॒त्रे य॒माय॑ य॒माय॑ सवि॒त्रे । 18) स॒वि॒त्रे वरु॑णाय॒ वरु॑णाय सवि॒त्रे स॑वि॒त्रे वरु॑णाय । 19) वरु॑णाय॒ बृह॒स्पत॑ये॒ बृह॒स्पत॑ये॒ वरु॑णाय॒ वरु॑णाय॒ बृह॒स्पत॑ये । 20) बृह॒स्पत॑ये॒ दुव॑स्वते॒ दुव॑स्वते॒ बृह॒स्पत॑ये॒ बृह॒स्पत॑ये॒ दुव॑स्वते । 21) दुव॑स्वते रक्षो॒घ्ने र॑क्षो॒घ्ने दुव॑स्वते॒ दुव॑स्वते रक्षो॒घ्ने । 22) र॒क्षो॒घ्ने स्वाहा॒ स्वाहा॑ रक्षो॒घ्ने र॑क्षो॒घ्ने स्वाहा᳚ । 22) र॒क्षो॒घ्न इति॑ रक्षः - घ्ने । 23) स्वाहा᳚ प्रष्टिवा॒ही प्र॑ष्टिवा॒ही स्वाहा॒ स्वाहा᳚ प्रष्टिवा॒ही । 24) प्र॒ष्टि॒वा॒ही रथो॒ रथः॑ प्रष्टिवा॒ही प्र॑ष्टिवा॒ही रथः॑ । 24) प्र॒ष्टि॒वा॒हीति॑ प्रष्टि - वा॒ही । 25) रथो॒ दक्षि॑णा॒ दक्षि॑णा॒ रथो॒ रथो॒ दक्षि॑णा । 26) दक्षि॑णा दे॒वस्य॑ दे॒वस्य॒ दक्षि॑णा॒ दक्षि॑णा दे॒वस्य॑ । 27) दे॒वस्य॑ त्वा त्वा दे॒वस्य॑ दे॒वस्य॑ त्वा । 28) त्वा॒ स॒वि॒तु-स्स॑वि॒तु स्त्वा᳚ त्वा सवि॒तुः । 29) स॒वि॒तुः प्र॑स॒वे प्र॑स॒वे स॑वि॒तु-स्स॑वि॒तुः प्र॑स॒वे । 30) प्र॒स॒वे᳚ ऽश्विनो॑ र॒श्विनोः᳚ प्रस॒वे प्र॑स॒वे᳚ ऽश्विनोः᳚ । 30) प्र॒स॒व इति॑ प्र - स॒वे । 31) अ॒श्विनो᳚-र्बा॒हुभ्या᳚-म्बा॒हुभ्या॑ म॒श्विनो॑ र॒श्विनो᳚-र्बा॒हुभ्या᳚म् । 32) बा॒हुभ्या᳚-म्पू॒ष्णः पू॒ष्णो बा॒हुभ्या᳚-म्बा॒हुभ्या᳚-म्पू॒ष्णः । 32) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् । 33) पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या-म्पू॒ष्णः पू॒ष्णो हस्ता᳚भ्याम् । 34) हस्ता᳚भ्या॒ग्ं॒ रक्ष॑सो॒ रक्ष॑सो॒ हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या॒ग्ं॒ रक्ष॑सः । 35) रक्ष॑सोव॒धं-वँ॒धग्ं रक्ष॑सो॒ रक्ष॑सोव॒धम् । 36) व॒ध-ञ्जु॑होमि जुहोमि व॒धं-वँ॒ध-ञ्जु॑होमि । 37) जु॒हो॒मि॒ ह॒तग्ं ह॒त-ञ्जु॑होमि जुहोमि ह॒तम् । 38) ह॒तग्ं रक्षो॒ रक्षो॑ ह॒तग्ं ह॒तग्ं रक्षः॑ । 39) रक्षो ऽव॑धि॒ष्मा व॑धिष्म॒ रक्षो॒ रक्षो ऽव॑धिष्म । 40) अव॑धिष्म॒ रक्षो॒ रक्षो ऽव॑धि॒ष्मा व॑धिष्म॒ रक्षः॑ । 41) रक्षो॒ य-द्य-द्रक्षो॒ रक्षो॒ यत् । 42) य-द्वस्ते॒ वस्ते॒ य-द्य-द्वस्ते᳚ । 43) वस्ते॒ त-त्त-द्वस्ते॒ वस्ते॒ तत् । 44) त-द्दक्षि॑णा॒ दक्षि॑णा॒ त-त्त-द्दक्षि॑णा । 45) दक्षि॒णेति॒ दक्षि॑णा । ॥ 13 ॥ (45/52) ॥ अ. 7 ॥
1) धा॒त्रे पु॑रो॒डाश॑-म्पुरो॒डाश॑-न्धा॒त्रे धा॒त्रे पु॑रो॒डाश᳚म् । 2) पु॒रो॒डाश॒-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒-न्द्वाद॑शकपालम् । 3) द्वाद॑शकपाल॒-न्नि-र्णि-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्निः । 3) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 4) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 5) व॒प॒ त्यनु॑मत्या॒ अनु॑मत्यै वपति वप॒ त्यनु॑मत्यै । 6) अनु॑मत्यै च॒रु-ञ्च॒रु मनु॑मत्या॒ अनु॑मत्यै च॒रुम् । 6) अनु॑मत्या॒ इत्यनु॑ - म॒त्यै॒ । 7) च॒रुग्ं रा॒कायै॑ रा॒कायै॑ च॒रु-ञ्च॒रुग्ं रा॒कायै᳚ । 8) रा॒कायै॑ च॒रु-ञ्च॒रुग्ं रा॒कायै॑ रा॒कायै॑ च॒रुम् । 9) च॒रुग्ं सि॑नीवा॒ल्यै सि॑नीवा॒ल्यै च॒रु-ञ्च॒रुग्ं सि॑नीवा॒ल्यै । 10) सि॒नी॒वा॒ल्यै च॒रु-ञ्च॒रुग्ं सि॑नीवा॒ल्यै सि॑नीवा॒ल्यै च॒रुम् । 11) च॒रु-ङ्कु॒ह्वै॑ कु॒ह्वै॑ च॒रु-ञ्च॒रु-ङ्कु॒ह्वै᳚ । 12) कु॒ह्वै॑ च॒रु-ञ्च॒रु-ङ्कु॒ह्वै॑ कु॒ह्वै॑ च॒रुम् । 13) च॒रु-म्मि॑थु॒नौ मि॑थु॒नौ च॒रु-ञ्च॒रु-म्मि॑थु॒नौ । 14) मि॒थु॒नौ गावौ॒ गावौ॑ मिथु॒नौ मि॑थु॒नौ गावौ᳚ । 15) गावौ॒ दक्षि॑णा॒ दक्षि॑णा॒ गावौ॒ गावौ॒ दक्षि॑णा । 16) दक्षि॑णा ऽऽग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व-न्दक्षि॑णा॒ दक्षि॑णा ऽऽग्नावैष्ण॒वम् । 17) आ॒ग्ना॒वै॒ष्ण॒व मेका॑दशकपाल॒ मेका॑दशकपाल माग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व मेका॑दशकपालम् । 17) आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् । 18) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः । 18) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 19) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 20) व॒प॒ त्यै॒न्द्रा॒वै॒ष्ण॒व मै᳚न्द्रावैष्ण॒वं-वँ॑पति वप त्यैन्द्रावैष्ण॒वम् । 21) ऐ॒न्द्रा॒वै॒ष्ण॒व मेका॑दशकपाल॒ मेका॑दशकपाल मैन्द्रावैष्ण॒व मै᳚न्द्रावैष्ण॒व मेका॑दशकपालम् । 21) ऐ॒न्द्रा॒वै॒ष्ण॒वमित्यै᳚न्द्रा - वै॒ष्ण॒वम् । 22) एका॑दशकपालं-वैँष्ण॒वं-वैँ᳚ष्ण॒व मेका॑दशकपाल॒ मेका॑दशकपालं-वैँष्ण॒वम् । 22) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 23) वै॒ष्ण॒व-न्त्रि॑कपा॒ल-न्त्रि॑कपा॒लं-वैँ᳚ष्ण॒वं-वैँ᳚ष्ण॒व-न्त्रि॑कपा॒लम् । 24) त्रि॒क॒पा॒लं-वाँ॑म॒नो वा॑म॒न स्त्रि॑कपा॒ल-न्त्रि॑कपा॒लं-वाँ॑म॒नः । 24) त्रि॒क॒पा॒लमिति॑ त्रि - क॒पा॒लम् । 25) वा॒म॒नो व॒ही व॒ही वा॑म॒नो वा॑म॒नो व॒ही । 26) व॒ही दक्षि॑णा॒ दक्षि॑णा व॒ही व॒ही दक्षि॑णा । 27) दक्षि॑णा ऽग्नीषो॒मीय॑ मग्नीषो॒मीय॒-न्दक्षि॑णा॒ दक्षि॑णा ऽग्नीषो॒मीय᳚म् । 28) अ॒ग्नी॒षो॒मीय॒ मेका॑दशकपाल॒ मेका॑दशकपाल मग्नीषो॒मीय॑ मग्नीषो॒मीय॒ मेका॑दशकपालम् । 28) अ॒ग्नी॒षो॒मीय॒मित्य॑ग्नी - सो॒मीय᳚म् । 29) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः । 29) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 30) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 31) व॒प॒ ती॒न्द्रा॒सो॒मीय॑ मिन्द्रासो॒मीयं॑-वँपति वप तीन्द्रासो॒मीय᳚म् । 32) इ॒न्द्रा॒सो॒मीय॒ मेका॑दशकपाल॒ मेका॑दशकपाल मिन्द्रासो॒मीय॑ मिन्द्रासो॒मीय॒ मेका॑दशकपालम् । 32) इ॒न्द्रा॒सो॒मीय॒मिती᳚न्द्रा - सो॒मीय᳚म् । 33) एका॑दशकपालग्ं सौ॒म्यग्ं सौ॒म्य मेका॑दशकपाल॒ मेका॑दशकपालग्ं सौ॒म्यम् । 33) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 34) सौ॒म्य-ञ्च॒रु-ञ्च॒रुग्ं सौ॒म्यग्ं सौ॒म्य-ञ्च॒रुम् । 35) च॒रु-म्ब॒भ्रु-र्ब॒भ्रु श्च॒रु-ञ्च॒रु-म्ब॒भ्रुः । 36) ब॒भ्रु-र्दक्षि॑णा॒ दक्षि॑णा ब॒भ्रु-र्ब॒भ्रु-र्दक्षि॑णा । 37) दक्षि॑णा सोमापौ॒ष्णग्ं सो॑मापौ॒ष्ण-न्दक्षि॑णा॒ दक्षि॑णा सोमापौ॒ष्णम् । 38) सो॒मा॒पौ॒ष्ण-ञ्च॒रु-ञ्च॒रुग्ं सो॑मापौ॒ष्णग्ं सो॑मापौ॒ष्ण-ञ्च॒रुम् । 38) सो॒मा॒पौ॒ष्णमिति॑ सोमा - पौ॒ष्णम् । 39) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः । 40) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 41) व॒प॒ त्यै॒न्द्रा॒पौ॒ष्ण मै᳚न्द्रापौ॒ष्णं-वँ॑पति वप त्यैन्द्रापौ॒ष्णम् । 42) ऐ॒न्द्रा॒पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु मै᳚न्द्रापौ॒ष्ण मै᳚न्द्रापौ॒ष्ण-ञ्च॒रुम् । 42) ऐ॒न्द्रा॒पौ॒ष्णमित्यै᳚न्द्रा - पौ॒ष्णम् । 43) च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्णम् । 44) पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रुम् । 45) च॒रुग्ग् श्या॒म-श्श्या॒म श्च॒रु-ञ्च॒रुग्ग् श्या॒मः । 46) श्या॒मो दक्षि॑णा॒ दक्षि॑णा श्या॒म-श्श्या॒मो दक्षि॑णा । 47) दक्षि॑णा वैश्वान॒रं-वैँ᳚श्वान॒र-न्दक्षि॑णा॒ दक्षि॑णा वैश्वान॒रम् । 48) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् । 49) द्वाद॑शकपाल॒-न्नि-र्णि-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्निः । 49) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 50) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 51) व॒प॒ति॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्यं-वँपति वपति॒ हिर॑ण्यम् । 52) हिर॑ण्य॒-न्दक्षि॑णा॒ दक्षि॑णा॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्दक्षि॑णा । 53) दक्षि॑णा वारु॒णं-वाँ॑रु॒ण-न्दक्षि॑णा॒ दक्षि॑णा वारु॒णम् । 54) वा॒रु॒णं-यँ॑व॒मयं॑-यँव॒मयं॑-वाँरु॒णं-वाँ॑रु॒णं-यँ॑व॒मय᳚म् । 55) य॒व॒मय॑-ञ्च॒रु-ञ्च॒रुं-यँ॑व॒मयं॑-यँव॒मय॑-ञ्च॒रुम् । 55) य॒व॒मय॒मिति॑ यव - मय᳚म् । 56) च॒रु मश्वो ऽश्व॑ श्च॒रु-ञ्च॒रु मश्वः॑ । 57) अश्वो॒ दक्षि॑णा॒ दक्षि॒णा ऽश्वो ऽश्वो॒ दक्षि॑णा । 58) दक्षि॒णेति॒ दक्षि॑णा । ॥ 14 ॥ (58/73) ॥ अ. 8 ॥
1) बा॒र्॒ह॒स्प॒त्य-ञ्च॒रु-ञ्च॒रु-म्बा॑र्हस्प॒त्य-म्बा॑र्हस्प॒त्य-ञ्च॒रुम् । 2) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः । 3) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 4) व॒प॒ति॒ ब्र॒ह्मणो᳚ ब्र॒ह्मणो॑ वपति वपति ब्र॒ह्मणः॑ । 5) ब्र॒ह्मणो॑ गृ॒हे गृ॒हे ब्र॒ह्मणो᳚ ब्र॒ह्मणो॑ गृ॒हे । 6) गृ॒हे शि॑तिपृ॒ष्ठ-श्शि॑तिपृ॒ष्ठो गृ॒हे गृ॒हे शि॑तिपृ॒ष्ठः । 7) शि॒ति॒पृ॒ष्ठो दक्षि॑णा॒ दक्षि॑णा शितिपृ॒ष्ठ-श्शि॑तिपृ॒ष्ठो दक्षि॑णा । 7) शि॒ति॒पृ॒ष्ठ इति॑ शिति - पृ॒ष्ठः । 8) दक्षि॑णै॒न्द्र मै॒न्द्र-न्दक्षि॑णा॒ दक्षि॑णै॒न्द्रम् । 9) ऐ॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपालम् । 10) एका॑दशकपालग्ं राज॒न्य॑स्य राज॒न्य॑स्यैका॑दशकपाल॒ मेका॑दशकपालग्ं राज॒न्य॑स्य । 10) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 11) रा॒ज॒न्य॑स्य गृ॒हे गृ॒हे रा॑ज॒न्य॑स्य राज॒न्य॑स्य गृ॒हे । 12) गृ॒ह ऋ॑ष॒भ ऋ॑ष॒भो गृ॒हे गृ॒ह ऋ॑ष॒भः । 13) ऋ॒ष॒भो दक्षि॑णा॒ दक्षि॑णर्ष॒भ ऋ॑ष॒भो दक्षि॑णा । 14) दक्षि॑णा ऽऽदि॒त्य मा॑दि॒त्य-न्दक्षि॑णा॒ दक्षि॑णा ऽऽदि॒त्यम् । 15) आ॒दि॒त्य-ञ्च॒रु-ञ्च॒रु मा॑दि॒त्य मा॑दि॒त्य-ञ्च॒रुम् । 16) च॒रु-म्महि॑ष्यै॒ महि॑ष्यै च॒रु-ञ्च॒रु-म्महि॑ष्यै । 17) महि॑ष्यै गृ॒हे गृ॒हे महि॑ष्यै॒ महि॑ष्यै गृ॒हे । 18) गृ॒हे धे॒नु-र्धे॒नु-र्गृ॒हे गृ॒हे धे॒नुः । 19) धे॒नु-र्दक्षि॑णा॒ दक्षि॑णा धे॒नु-र्धे॒नु-र्दक्षि॑णा । 20) दक्षि॑णा नैर्-ऋ॒त-न्नैर्॑.ऋ॒त-न्दक्षि॑णा॒ दक्षि॑णा नैर्-ऋ॒तम् । 21) नै॒र्॒ऋ॒त-ञ्च॒रु-ञ्च॒रु-न्नैर्॑.ऋ॒त-न्नैर्॑.ऋ॒त-ञ्च॒रुम् । 21) नै॒र्॒ऋ॒तमिति॑ नैः - ऋ॒तम् । 22) च॒रु-म्प॑रिवृ॒क्त्यै॑ परिवृ॒क्त्यै॑ च॒रु-ञ्च॒रु-म्प॑रिवृ॒क्त्यै᳚ । 23) प॒रि॒वृ॒क्त्यै॑ गृ॒हे गृ॒हे प॑रिवृ॒क्त्यै॑ परिवृ॒क्त्यै॑ गृ॒हे । 23) प॒रि॒वृ॒क्त्या॑ इति॑ परि - वृ॒क्त्यै᳚ । 24) गृ॒हे कृ॒ष्णाना᳚-ङ्कृ॒ष्णाना᳚-ङ्गृ॒हे गृ॒हे कृ॒ष्णाना᳚म् । 25) कृ॒ष्णानां᳚-व्रीँही॒णां-व्रीँ॑ही॒णा-ङ्कृ॒ष्णाना᳚-ङ्कृ॒ष्णानां᳚-व्रीँही॒णाम् । 26) व्री॒ही॒णा-न्न॒खनि॑र्भिन्न-न्न॒खनि॑र्भिन्नं-व्रीँही॒णां-व्रीँ॑ही॒णा-न्न॒खनि॑र्भिन्नम् । 27) न॒खनि॑र्भिन्न-ङ्कृ॒ष्णा कृ॒ष्णा न॒खनि॑र्भिन्न-न्न॒खनि॑र्भिन्न-ङ्कृ॒ष्णा । 27) न॒खनि॑र्भिन्न॒मिति॑ न॒ख - नि॒र्भि॒न्न॒म् । 28) कृ॒ष्णा कू॒टा कू॒टा कृ॒ष्णा कृ॒ष्णा कू॒टा । 29) कू॒टा दक्षि॑णा॒ दक्षि॑णा कू॒टा कू॒टा दक्षि॑णा । 30) दक्षि॑णा ऽऽग्ने॒य मा᳚ग्ने॒य-न्दक्षि॑णा॒ दक्षि॑णा ऽऽग्ने॒यम् । 31) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् । 32) अ॒ष्टाक॑पालग्ं सेना॒न्य॑-स्सेना॒न्यो᳚ ऽष्टाक॑पाल म॒ष्टाक॑पालग्ं सेना॒न्यः॑ । 32) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 33) से॒ना॒न्यो॑ गृ॒हे गृ॒हे से॑ना॒न्य॑-स्सेना॒न्यो॑ गृ॒हे । 33) से॒ना॒न्य॑ इति॑ सेना - न्यः॑ । 34) गृ॒हे हिर॑ण्य॒ग्ं॒ हिर॑ण्य-ङ्गृ॒हे गृ॒हे हिर॑ण्यम् । 35) हिर॑ण्य॒-न्दक्षि॑णा॒ दक्षि॑णा॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्दक्षि॑णा । 36) दक्षि॑णा वारु॒णं-वाँ॑रु॒ण-न्दक्षि॑णा॒ दक्षि॑णा वारु॒णम् । 37) वा॒रु॒ण-न्दश॑कपाल॒-न्दश॑कपालं-वाँरु॒णं-वाँ॑रु॒ण-न्दश॑कपालम् । 38) दश॑कपालग्ं सू॒तस्य॑ सू॒तस्य॒ दश॑कपाल॒-न्दश॑कपालग्ं सू॒तस्य॑ । 38) दश॑कपाल॒मिति॒ दश॑ - क॒पा॒ल॒म् । 39) सू॒तस्य॑ गृ॒हे गृ॒हे सू॒तस्य॑ सू॒तस्य॑ गृ॒हे । 40) गृ॒हे म॒हानि॑रष्टो म॒हानि॑रष्टो गृ॒हे गृ॒हे म॒हानि॑रष्टः । 41) म॒हानि॑रष्टो॒ दक्षि॑णा॒ दक्षि॑णा म॒हानि॑रष्टो म॒हानि॑रष्टो॒ दक्षि॑णा । 41) म॒हानि॑रष्ट॒ इति॑ म॒हा - नि॒र॒ष्टः॒ । 42) दक्षि॑णा मारु॒त-म्मा॑रु॒त-न्दक्षि॑णा॒ दक्षि॑णा मारु॒तम् । 43) मा॒रु॒तग्ं स॒प्तक॑पालग्ं स॒प्तक॑पाल-म्मारु॒त-म्मा॑रु॒तग्ं स॒प्तक॑पालम् । 44) स॒प्तक॑पाल-ङ्ग्राम॒ण्यो᳚ ग्राम॒ण्य॑-स्स॒प्तक॑पालग्ं स॒प्तक॑पाल-ङ्ग्राम॒ण्यः॑ । 44) स॒प्तक॑पाल॒मिति॑ स॒प्त - क॒पा॒ल॒म् । 45) ग्रा॒म॒ण्यो॑ गृ॒हे गृ॒हे ग्रा॑म॒ण्यो᳚ ग्राम॒ण्यो॑ गृ॒हे । 45) ग्रा॒म॒ण्य॑ इति॑ ग्राम - न्यः॑ । 46) गृ॒हे पृश्ञिः॒ पृश्ञि॑-र्गृ॒हे गृ॒हे पृश्ञिः॑ । 47) पृश्ञि॒-र्दक्षि॑णा॒ दक्षि॑णा॒ पृश्ञिः॒ पृश्ञि॒-र्दक्षि॑णा । 48) दक्षि॑णा सावि॒त्रग्ं सा॑वि॒त्र-न्दक्षि॑णा॒ दक्षि॑णा सावि॒त्रम् । 49) सा॒वि॒त्र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालग्ं सावि॒त्रग्ं सा॑वि॒त्र-न्द्वाद॑शकपालम् । 50) द्वाद॑शकपाल-ङ्क्ष॒त्तुः, क्ष॒त्तु-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-ङ्क्ष॒त्तुः । 50) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । ॥ 15 ॥ (50/62)
1) क्ष॒त्तु-र्गृ॒हे गृ॒हे क्ष॒त्तुः, क्ष॒त्तु-र्गृ॒हे । 2) गृ॒ह उ॑पद्ध्व॒स्त उ॑पद्ध्व॒स्तो गृ॒हे गृ॒ह उ॑पद्ध्व॒स्तः । 3) उ॒प॒द्ध्व॒स्तो दक्षि॑णा॒ दक्षि॑णोपद्ध्व॒स्त उ॑पद्ध्व॒स्तो दक्षि॑णा । 3) उ॒प॒द्ध्व॒स्त इत्यु॑प - ध्व॒स्तः । 4) दक्षि॑णा ऽऽश्वि॒न मा᳚श्वि॒न-न्दक्षि॑णा॒ दक्षि॑णा ऽऽश्वि॒नम् । 5) आ॒श्वि॒न-न्द्वि॑कपा॒ल-न्द्वि॑कपा॒ल मा᳚श्वि॒न मा᳚श्वि॒न-न्द्वि॑कपा॒लम् । 6) द्वि॒क॒पा॒लग्ं स॑ङ्ग्रही॒तु-स्स॑ङ्ग्रही॒तु-र्द्वि॑कपा॒ल-न्द्वि॑कपा॒लग्ं स॑ङ्ग्रही॒तुः । 6) द्वि॒क॒पा॒लमिति॑ द्वि - क॒पा॒लम् । 7) स॒ङ्ग्र॒ही॒तु-र्गृ॒हे गृ॒हे स॑ङ्ग्रही॒तु-स्स॑ङ्ग्रही॒तु-र्गृ॒हे । 7) स॒ङ्ग्र॒ही॒तुरिति॑ सं - ग्र॒ही॒तुः । 8) गृ॒हे स॑वा॒त्यौ॑ सवा॒त्यौ॑ गृ॒हे गृ॒हे स॑वा॒त्यौ᳚ । 9) स॒वा॒त्यौ॑ दक्षि॑णा॒ दक्षि॑णा सवा॒त्यौ॑ सवा॒त्यौ॑ दक्षि॑णा । 9) स॒वा॒त्या॑विति॑ स - वा॒त्यौ᳚ । 10) दक्षि॑णा पौ॒ष्ण-म्पौ॒ष्ण-न्दक्षि॑णा॒ दक्षि॑णा पौ॒ष्णम् । 11) पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रुम् । 12) च॒रु-म्भा॑गदु॒घस्य॑ भागदु॒घस्य॑ च॒रु-ञ्च॒रु-म्भा॑गदु॒घस्य॑ । 13) भा॒ग॒दु॒घस्य॑ गृ॒हे गृ॒हे भा॑गदु॒घस्य॑ भागदु॒घस्य॑ गृ॒हे । 13) भा॒ग॒दु॒घस्येति॑ भाग - दु॒घस्य॑ । 14) गृ॒हे श्या॒म-श्श्या॒मो गृ॒हे गृ॒हे श्या॒मः । 15) श्या॒मो दक्षि॑णा॒ दक्षि॑णा श्या॒म-श्श्या॒मो दक्षि॑णा । 16) दक्षि॑णा रौ॒द्रग्ं रौ॒द्र-न्दक्षि॑णा॒ दक्षि॑णा रौ॒द्रम् । 17) रौ॒द्र-ङ्गा॑वीधु॒क-ङ्गा॑वीधु॒कग्ं रौ॒द्रग्ं रौ॒द्र-ङ्गा॑वीधु॒कम् । 18) गा॒वी॒धु॒क-ञ्च॒रु-ञ्च॒रु-ङ्गा॑वीधु॒क-ङ्गा॑वीधु॒क-ञ्च॒रुम् । 19) च॒रु म॑क्षावा॒पस्या᳚ क्षावा॒पस्य॑ च॒रु-ञ्च॒रु म॑क्षावा॒पस्य॑ । 20) अ॒क्षा॒वा॒पस्य॑ गृ॒हे गृ॒हे᳚ ऽक्षावा॒पस्या᳚ क्षावा॒पस्य॑ गृ॒हे । 20) अ॒क्षा॒वा॒पस्येत्य॑क्ष - आ॒वा॒पस्य॑ । 21) गृ॒हे श॒बल॑-श्श॒बलो॑ गृ॒हे गृ॒हे श॒बलः॑ । 22) श॒बल॒ उद्वा॑र॒ उद्वा॑र-श्श॒बल॑-श्श॒बल॒ उद्वा॑रः । 23) उद्वा॑रो॒ दक्षि॑णा॒ दक्षि॒णोद्वा॑र॒ उद्वा॑रो॒ दक्षि॑णा । 23) उद्वा॑र॒ इत्युत् - वा॒रः॒ । 24) दक्षि॒णेन्द्रा॒ये न्द्रा॑य॒ दक्षि॑णा॒ दक्षि॒णेन्द्रा॑य । 25) इन्द्रा॑य सु॒त्रांणे॑ सु॒त्रांण॒ इन्द्रा॒ये न्द्रा॑य सु॒त्रांणे᳚ । 26) सु॒त्रांणे॑ पुरो॒डाश॑-म्पुरो॒डाशग्ं॑ सु॒त्रांणे॑ सु॒त्रांणे॑ पुरो॒डाश᳚म् । 26) सु॒त्रांण॒ इति॑ सु - त्रांणे᳚ । 27) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् । 28) एका॑दशकपाल॒-म्प्रति॒ प्रत्येका॑दशकपाल॒ मेका॑दशकपाल॒-म्प्रति॑ । 28) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 29) प्रति॒ नि-र्णिष् प्रति॒ प्रति॒ निः । 30) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 31) व॒प॒तीन्द्रा॒ये न्द्रा॑य वपति वप॒तीन्द्रा॑य । 32) इन्द्रा॑या ग्ंहो॒मुचे ऽग्ं॑हो॒मुच॒ इन्द्रा॒ये न्द्रा॑या ग्ंहो॒मुचे᳚ । 33) अ॒ग्ं॒हो॒मुचे॒ ऽय म॒य मग्ं॑हो॒मुचे ऽग्ं॑हो॒मुचे॒ ऽयम् । 33) अ॒ग्ं॒हो॒मुच॒ इत्यग्ं॑हः - मुचे᳚ । 34) अ॒य-न्नो॑ नो॒ ऽय म॒य-न्नः॑ । 35) नो॒ राजा॒ राजा॑ नो नो॒ राजा᳚ । 36) राजा॑ वृत्र॒हा वृ॑त्र॒हा राजा॒ राजा॑ वृत्र॒हा । 37) वृ॒त्र॒हा राजा॒ राजा॑ वृत्र॒हा वृ॑त्र॒हा राजा᳚ । 37) वृ॒त्र॒हेति॑ वृत्र - हा । 38) राजा॑ भू॒त्वा भू॒त्वा राजा॒ राजा॑ भू॒त्वा । 39) भू॒त्वा वृ॒त्रं-वृँ॒त्र-म्भू॒त्वा भू॒त्वा वृ॒त्रम् । 40) वृ॒त्रं-वँ॑द्ध्या-द्वद्ध्या-द्वृ॒त्रं-वृँ॒त्रं-वँ॑द्ध्यात् । 41) व॒द्ध्या॒-न्मै॒त्रा॒बा॒र्॒ह॒स्प॒त्य-म्मै᳚त्राबार्हस्प॒त्यं-वँ॑द्ध्या-द्वद्ध्या-न्मैत्राबार्हस्प॒त्यम् । 42) मै॒त्रा॒बा॒र्॒ह॒स्प॒त्य-म्भ॑वति भवति मैत्राबार्हस्प॒त्य-म्मै᳚त्राबार्हस्प॒त्य-म्भ॑वति । 42) मै॒त्रा॒बा॒र्॒ह॒स्प॒त्यमिति॑ मैत्रा - बा॒र्॒ह॒स्प॒त्यम् । 43) भ॒व॒ति॒ श्वे॒तायै᳚ श्वे॒तायै॑ भवति भवति श्वे॒तायै᳚ । 44) श्वे॒तायै᳚ श्वे॒तव॑थ्सायै श्वे॒तव॑थ्सायै श्वे॒तायै᳚ श्वे॒तायै᳚ श्वे॒तव॑थ्सायै । 45) श्वे॒तव॑थ्सायै दु॒ग्धे दु॒ग्धे श्वे॒तव॑थ्सायै श्वे॒तव॑थ्सायै दु॒ग्धे । 45) श्वे॒तव॑थ्साया॒ इति॑ श्वे॒त - व॒थ्सा॒यै॒ । 46) दु॒ग्धे स्व॑यम्मू॒र्ते स्व॑यम्मू॒र्ते दु॒ग्धे दु॒ग्धे स्व॑यम्मू॒र्ते । 47) स्व॒य॒म्मू॒र्ते स्व॑यम्मथि॒ते स्व॑यम्मथि॒ते स्व॑यम्मू॒र्ते स्व॑यम्मू॒र्ते स्व॑यम्मथि॒ते । 47) स्व॒य॒म्मू॒र्त इति॑ स्वयम् - मू॒र्ते । 48) स्व॒य॒म्म॒थि॒त आज्य॒ आज्ये᳚ स्वयम्मथि॒ते स्व॑यम्मथि॒त आज्ये᳚ । 48) स्व॒य॒म्म॒थि॒त इति॑ स्वयं - म॒थि॒ते । 49) आज्य॒ आश्व॑त्थ॒ आश्व॑त्थ॒ आज्य॒ आज्य॒ आश्व॑त्थे । 50) आश्व॑त्थे॒ पात्रे॒ पात्र॒ आश्व॑त्थ॒ आश्व॑त्थे॒ पात्रे᳚ । ॥ 16 ॥ (50/65)
1) पात्रे॒ चतु॑स्स्रक्तौ॒ चतु॑स्स्रक्तौ॒ पात्रे॒ पात्रे॒ चतु॑स्स्रक्तौ । 2) चतु॑स्स्रक्तौ स्वयमवप॒न्नायै᳚ स्वयमवप॒न्नायै॒ चतु॑स्स्रक्तौ॒ चतु॑स्स्रक्तौ स्वयमवप॒न्नायै᳚ । 2) चतु॑स्स्रक्ता॒विति॒ चतुः॑ - स्र॒क्तौ॒ । 3) स्व॒य॒म॒व॒प॒न्नायै॒ शाखा॑यै॒ शाखा॑यै स्वयमवप॒न्नायै᳚ स्वयमवप॒न्नायै॒ शाखा॑यै । 3) स्व॒य॒म॒व॒प॒न्नाया॒ इति॑ स्वयं - अ॒व॒प॒न्नायै᳚ । 4) शाखा॑यै क॒र्णान् क॒र्णा-ञ्छाखा॑यै॒ शाखा॑यै क॒र्णान् । 5) क॒र्णाग्श् च॑ च क॒र्णान् क॒र्णाग्श् च॑ । 6) चाक॑र्णा॒ नक॑र्णाग्श् च॒ चाक॑र्णान् । 7) अक॑र्णाग्श् च॒ चाक॑र्णा॒ नक॑र्णाग्श् च । 8) च॒ त॒ण्डु॒ला-न्त॑ण्डु॒लाग्श् च॑ च तण्डु॒लान् । 9) त॒ण्डु॒लान्. वि वि त॑ण्डु॒ला-न्त॑ण्डु॒लान्. वि । 10) वि चि॑नुयाच् चिनुया॒-द्वि वि चि॑नुयात् । 11) चि॒नु॒या॒-द्ये ये चि॑नुयाच् चिनुया॒-द्ये । 12) ये क॒र्णाः क॒र्णा ये ये क॒र्णाः । 13) क॒र्णा-स्स स क॒र्णाः क॒र्णा-स्सः । 14) स पय॑सि॒ पय॑सि॒ स स पय॑सि । 15) पय॑सि बार्हस्प॒त्यो बा॑र्हस्प॒त्यः पय॑सि॒ पय॑सि बार्हस्प॒त्यः । 16) बा॒र्॒ह॒स्प॒त्यो ये ये बा॑र्हस्प॒त्यो बा॑र्हस्प॒त्यो ये । 17) ये ऽक॑र्णा॒ अक॑र्णा॒ ये ये ऽक॑र्णाः । 18) अक॑र्णा॒-स्स सो ऽक॑र्णा॒ अक॑र्णा॒-स्सः । 19) स आज्य॒ आज्ये॒ स स आज्ये᳚ । 20) आज्ये॑ मै॒त्रो मै॒त्र आज्य॒ आज्ये॑ मै॒त्रः । 21) मै॒त्र-स्स्व॑यङ्कृ॒ता स्व॑यङ्कृ॒ता मै॒त्रो मै॒त्र-स्स्व॑यङ्कृ॒ता । 22) स्व॒य॒ङ्कृ॒ता वेदि॒-र्वेदि॑-स्स्वयङ्कृ॒ता स्व॑यङ्कृ॒ता वेदिः॑ । 22) स्व॒य॒ङ्कृ॒तेति॑ स्वयम् - कृ॒ता । 23) वेदि॑-र्भवति भवति॒ वेदि॒-र्वेदि॑-र्भवति । 24) भ॒व॒ति॒ स्व॒य॒न्दि॒नग्ग् स्व॑यन्दि॒न-म्भ॑वति भवति स्वयन्दि॒नम् । 25) स्व॒य॒न्दि॒न-म्ब॒र्॒हि-र्ब॒र्॒हि-स्स्व॑यन्दि॒नग्ग् स्व॑यन्दि॒न-म्ब॒र्॒हिः । 25) स्व॒य॒न्दि॒नमिति॑ स्वयं - दि॒नम् । 26) ब॒र्॒हि-स्स्व॑यङ्कृ॒त-स्स्व॑यङ्कृ॒तो ब॒र्॒हि-र्ब॒र्॒हि-स्स्व॑यङ्कृ॒तः । 27) स्व॒य॒ङ्कृ॒त इ॒द्ध्म इ॒द्ध्म-स्स्व॑यङ्कृ॒त-स्स्व॑यङ्कृ॒त इ॒द्ध्मः । 27) स्व॒य॒ङ्कृ॒त इति॑ स्वयं - कृ॒तः । 28) इ॒द्ध्म-स्सा सेद्ध्म इ॒द्ध्म-स्सा । 29) सैवैव सा सैव । 30) ए॒व श्वे॒ता श्वे॒तैवैव श्वे॒ता । 31) श्वे॒ता श्वे॒तव॑थ्सा श्वे॒तव॑थ्सा श्वे॒ता श्वे॒ता श्वे॒तव॑थ्सा । 32) श्वे॒तव॑थ्सा॒ दक्षि॑णा॒ दक्षि॑णा श्वे॒तव॑थ्सा श्वे॒तव॑थ्सा॒ दक्षि॑णा । 32) श्वे॒तव॒थ्सेति॑ श्वे॒त - व॒थ्सा॒ । 33) दक्षि॒णेति॒ दक्षि॑णा । ॥ 17 ॥ (33/39) ॥ अ. 9 ॥
1) अ॒ग्नये॑ गृ॒हप॑तये गृ॒हप॑तये॒ ऽग्नये॒ ऽग्नये॑ गृ॒हप॑तये । 2) गृ॒हप॑तये पुरो॒डाश॑-म्पुरो॒डाश॑-ङ्गृ॒हप॑तये गृ॒हप॑तये पुरो॒डाश᳚म् । 2) गृ॒हप॑तय॒ इति॑ गृ॒ह - प॒त॒ये॒ । 3) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् । 4) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः । 4) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 5) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 6) व॒प॒ति॒ कृ॒ष्णाना᳚-ङ्कृ॒ष्णानां᳚-वँपति वपति कृ॒ष्णाना᳚म् । 7) कृ॒ष्णानां᳚-व्रीँही॒णां-व्रीँ॑ही॒णा-ङ्कृ॒ष्णाना᳚-ङ्कृ॒ष्णानां᳚-व्रीँही॒णाम् । 8) व्री॒ही॒णाग्ं सोमा॑य॒ सोमा॑य व्रीही॒णां-व्रीँ॑ही॒णाग्ं सोमा॑य । 9) सोमा॑य॒ वन॒स्पत॑ये॒ वन॒स्पत॑ये॒ सोमा॑य॒ सोमा॑य॒ वन॒स्पत॑ये । 10) वन॒स्पत॑ये श्यामा॒कग्ग् श्या॑मा॒कं-वँन॒स्पत॑ये॒ वन॒स्पत॑ये श्यामा॒कम् । 11) श्या॒मा॒क-ञ्च॒रु-ञ्च॒रुग्ग् श्या॑मा॒कग्ग् श्या॑मा॒क-ञ्च॒रुम् । 12) च॒रुग्ं स॑वि॒त्रे स॑वि॒त्रे च॒रु-ञ्च॒रुग्ं स॑वि॒त्रे । 13) स॒वि॒त्रे स॒त्यप्र॑सवाय स॒त्यप्र॑सवाय सवि॒त्रे स॑वि॒त्रे स॒त्यप्र॑सवाय । 14) स॒त्यप्र॑सवाय पुरो॒डाश॑-म्पुरो॒डाशग्ं॑ स॒त्यप्र॑सवाय स॒त्यप्र॑सवाय पुरो॒डाश᳚म् । 14) स॒त्यप्र॑सवा॒येति॑ स॒त्य - प्र॒स॒वा॒य॒ । 15) पु॒रो॒डाश॒-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒-न्द्वाद॑शकपालम् । 16) द्वाद॑शकपाल माशू॒ना मा॑शू॒ना-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल माशू॒नाम् । 16) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 17) आ॒शू॒नां-व्रीँ॑ही॒णां-व्रीँ॑ही॒णा मा॑शू॒ना मा॑शू॒नां-व्रीँ॑ही॒णाम् । 18) व्री॒ही॒णाग्ं रु॒द्राय॑ रु॒द्राय॑ व्रीही॒णां-व्रीँ॑ही॒णाग्ं रु॒द्राय॑ । 19) रु॒द्राय॑ पशु॒पत॑ये पशु॒पत॑ये रु॒द्राय॑ रु॒द्राय॑ पशु॒पत॑ये । 20) प॒शु॒पत॑ये गावीधु॒क-ङ्गा॑वीधु॒क-म्प॑शु॒पत॑ये पशु॒पत॑ये गावीधु॒कम् । 20) प॒शु॒पत॑य॒ इति॑ पशु - पत॑ये । 21) गा॒वी॒धु॒क-ञ्च॒रु-ञ्च॒रु-ङ्गा॑वीधु॒क-ङ्गा॑वीधु॒क-ञ्च॒रुम् । 22) च॒रु-म्बृह॒स्पत॑ये॒ बृह॒स्पत॑ये च॒रु-ञ्च॒रु-म्बृह॒स्पत॑ये । 23) बृह॒स्पत॑ये वा॒चो वा॒चो बृह॒स्पत॑ये॒ बृह॒स्पत॑ये वा॒चः । 24) वा॒चस् पत॑ये॒ पत॑ये वा॒चो वा॒चस् पत॑ये । 25) पत॑ये नैवा॒रन्नै॑वा॒र-म्पत॑ये॒ पत॑ये नैवा॒रम् । 26) नै॒वा॒र-ञ्च॒रु-ञ्च॒रु-न्नै॑वा॒र-न्नै॑वा॒र-ञ्च॒रुम् । 27) च॒रु मिन्द्रा॒ये न्द्रा॑य च॒रु-ञ्च॒रु मिन्द्रा॑य । 28) इन्द्रा॑य ज्ये॒ष्ठाय॑ ज्ये॒ष्ठाये न्द्रा॒ये न्द्रा॑य ज्ये॒ष्ठाय॑ । 29) ज्ये॒ष्ठाय॑ पुरो॒डाश॑-म्पुरो॒डाश॑-ञ्ज्ये॒ष्ठाय॑ ज्ये॒ष्ठाय॑ पुरो॒डाश᳚म् । 30) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् । 31) एका॑दशकपाल-म्म॒हाव्री॑हीणा-म्म॒हाव्री॑हीणा॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्म॒हाव्री॑हीणाम् । 31) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 32) म॒हाव्री॑हीणा-म्मि॒त्राय॑ मि॒त्राय॑ म॒हाव्री॑हीणा-म्म॒हाव्री॑हीणा-म्मि॒त्राय॑ । 32) म॒हाव्री॑हीणा॒मिति॑ म॒हा - व्री॒ही॒णा॒म् । 33) मि॒त्राय॑ स॒त्याय॑ स॒त्याय॑ मि॒त्राय॑ मि॒त्राय॑ स॒त्याय॑ । 34) स॒त्याया॒म्बाना॑ मा॒म्बानाग्ं॑ स॒त्याय॑ स॒त्याया॒म्बाना᳚म् । 35) आ॒म्बाना᳚-ञ्च॒रु-ञ्च॒रु मा॒म्बाना॑ मा॒म्बाना᳚-ञ्च॒रुम् । 36) च॒रुं-वँरु॑णाय॒ वरु॑णाय च॒रु-ञ्च॒रुं-वँरु॑णाय । 37) वरु॑णाय॒ धर्म॑पतये॒ धर्म॑पतये॒ वरु॑णाय॒ वरु॑णाय॒ धर्म॑पतये । 38) धर्म॑पतये यव॒मयं॑-यँव॒मय॒-न्धर्म॑पतये॒ धर्म॑पतये यव॒मय᳚म् । 38) धर्म॑पतय॒ इति॒ धर्म॑ - प॒त॒ये॒ । 39) य॒व॒मय॑-ञ्च॒रु-ञ्च॒रुं-यँ॑व॒मयं॑-यँव॒मय॑-ञ्च॒रुम् । 39) य॒व॒मय॒मिति॑ यव - मय᳚म् । 40) च॒रुग्ं स॑वि॒ता स॑वि॒ता च॒रु-ञ्च॒रुग्ं स॑वि॒ता । 41) स॒वि॒ता त्वा᳚ त्वा सवि॒ता स॑वि॒ता त्वा᳚ । 42) त्वा॒ प्र॒स॒वाना᳚-म्प्रस॒वाना᳚-न्त्वा त्वा प्रस॒वाना᳚म् । 43) प्र॒स॒वानाग्ं॑ सुवताग्ं सुवता-म्प्रस॒वाना᳚-म्प्रस॒वानाग्ं॑ सुवताम् । 43) प्र॒स॒वाना॒मिति॑ प्र - स॒वाना᳚म् । 44) सु॒व॒ता॒ म॒ग्नि र॒ग्नि-स्सु॑वताग्ं सुवता म॒ग्निः । 45) अ॒ग्नि-र्गृ॒हप॑तीना-ङ्गृ॒हप॑तीना म॒ग्निर॒ग्नि-र्गृ॒हप॑तीनाम् । 46) गृ॒हप॑तीना॒ग्ं॒ सोम॒-स्सोमो॑ गृ॒हप॑तीना-ङ्गृ॒हप॑तीना॒ग्ं॒ सोमः॑ । 46) गृ॒हप॑तीना॒मिति॑ गृ॒ह - प॒ती॒ना॒म् । 47) सोमो॒ वन॒स्पती॑नां॒-वँन॒स्पती॑ना॒ग्ं॒ सोम॒-स्सोमो॒ वन॒स्पती॑नाम् । 48) वन॒स्पती॑नाग्ं रु॒द्रो रु॒द्रो वन॒स्पती॑नां॒-वँन॒स्पती॑नाग्ं रु॒द्रः । 49) रु॒द्रः प॑शू॒ना-म्प॑शू॒नाग्ं रु॒द्रो रु॒द्रः प॑शू॒नाम् । 50) प॒शू॒ना-म्बृह॒स्पति॒-र्बृह॒स्पतिः॑ पशू॒ना-म्प॑शू॒ना-म्बृह॒स्पतिः॑ । ॥ 18 ॥ (50/61)
1) बृह॒स्पति॑-र्वा॒चां-वाँ॒चा-म्बृह॒स्पति॒-र्बृह॒स्पति॑-र्वा॒चाम् । 2) वा॒चा मिन्द्र॒ इन्द्रो॑ वा॒चां-वाँ॒चा मिन्द्रः॑ । 3) इन्द्रो᳚ ज्ये॒ष्ठाना᳚-ञ्ज्ये॒ष्ठाना॒ मिन्द्र॒ इन्द्रो᳚ ज्ये॒ष्ठाना᳚म् । 4) ज्ये॒ष्ठाना᳚-म्मि॒त्रो मि॒त्रो ज्ये॒ष्ठाना᳚-ञ्ज्ये॒ष्ठाना᳚-म्मि॒त्रः । 5) मि॒त्र-स्स॒त्यानाग्ं॑ स॒त्याना᳚-म्मि॒त्रो मि॒त्र-स्स॒त्याना᳚म् । 6) स॒त्यानां॒-वँरु॑णो॒ वरु॑ण-स्स॒त्यानाग्ं॑ स॒त्यानां॒-वँरु॑णः । 7) वरु॑णो॒ धर्म॑पतीना॒-न्धर्म॑पतीनां॒-वँरु॑णो॒ वरु॑णो॒ धर्म॑पतीनाम् । 8) धर्म॑पतीनां॒-येँ ये धर्म॑पतीना॒-न्धर्म॑पतीनां॒-येँ । 8) धर्म॑पतीना॒मिति॒ धर्म॑ - प॒ती॒ना॒म् । 9) ये दे॑वा देवा॒ ये ये दे॑वाः । 10) दे॒वा॒ दे॒व॒सुवो॑ देव॒सुवो॑ देवा देवा देव॒सुवः॑ । 11) दे॒व॒सुव॒-स्स्थ स्थ दे॑व॒सुवो॑ देव॒सुव॒-स्स्थ । 11) दे॒व॒सुव॒ इति॑ देव - सुवः॑ । 12) स्थ ते ते स्थ स्थ ते । 13) त इ॒म मि॒म-न्ते त इ॒मम् । 14) इ॒म मा॑मुष्याय॒ण मा॑मुष्याय॒ण मि॒म मि॒म मा॑मुष्याय॒णम् । 15) आ॒मु॒ष्या॒य॒ण म॑नमि॒त्राया॑ नमि॒त्राया॑ मुष्याय॒ण मा॑मुष्याय॒ण म॑नमि॒त्राय॑ । 16) अ॒न॒मि॒त्राय॑ सुवद्ध्वग्ं सुवद्ध्व मनमि॒त्राया॑ नमि॒त्राय॑ सुवद्ध्वम् । 17) सु॒व॒द्ध्व॒-म्म॒ह॒ते म॑ह॒ते सु॑वद्ध्वग्ं सुवद्ध्व-म्मह॒ते । 18) म॒ह॒ते क्ष॒त्राय॑ क्ष॒त्राय॑ मह॒ते म॑ह॒ते क्ष॒त्राय॑ । 19) क्ष॒त्राय॑ मह॒ते म॑ह॒ते क्ष॒त्राय॑ क्ष॒त्राय॑ मह॒ते । 20) म॒ह॒त आधि॑पत्या॒या धि॑पत्याय मह॒ते म॑ह॒त आधि॑पत्याय । 21) आधि॑पत्याय मह॒ते म॑ह॒त आधि॑पत्या॒या धि॑पत्याय मह॒ते । 21) आधि॑पत्या॒येत्याधि॑ - प॒त्या॒य॒ । 22) म॒ह॒ते जान॑राज्याय॒ जान॑राज्याय मह॒ते म॑ह॒ते जान॑राज्याय । 23) जान॑राज्या यै॒ष ए॒ष जान॑राज्याय॒ जान॑राज्या यै॒षः । 23) जान॑राज्या॒येति॒ जान॑ - रा॒ज्या॒य॒ । 24) ए॒ष वो॑ व ए॒ष ए॒ष वः॑ । 25) वो॒ भ॒र॒ता॒ भ॒र॒ता॒ वो॒ वो॒ भ॒र॒ताः॒ । 26) भ॒र॒ता॒ राजा॒ राजा॑ भरता भरता॒ राजा᳚ । 27) राजा॒ सोम॒-स्सोमो॒ राजा॒ राजा॒ सोमः॑ । 28) सोमो॒ ऽस्माक॑ म॒स्माक॒ग्ं॒ सोम॒-स्सोमो॒ ऽस्माक᳚म् । 29) अ॒स्माक॑-म्ब्राह्म॒णाना᳚-म्ब्राह्म॒णाना॑ म॒स्माक॑ म॒स्माक॑-म्ब्राह्म॒णाना᳚म् । 30) ब्रा॒ह्म॒णाना॒ग्ं॒ राजा॒ राजा᳚ ब्राह्म॒णाना᳚-म्ब्राह्म॒णाना॒ग्ं॒ राजा᳚ । 31) राजा॒ प्रति॒ प्रति॒ राजा॒ राजा॒ प्रति॑ । 32) प्रति॒ त्य-त्त्य-त्प्रति॒ प्रति॒ त्यत् । 33) त्य-न्नाम॒ नाम॒ त्य-त्त्य-न्नाम॑ । 34) नाम॑ रा॒ज्यग्ं रा॒ज्यन्नाम॒ नाम॑ रा॒ज्यम् । 35) रा॒ज्य म॑धाय्यधायि रा॒ज्यग्ं रा॒ज्य म॑धायि । 36) अ॒धा॒यि॒ स्वाग् स्वा म॑धाय्यधायि॒ स्वाम् । 37) स्वा-न्त॒नुव॑-न्त॒नुव॒ग्ग्॒ स्वाग् स्वा-न्त॒नुव᳚म् । 38) त॒नुवं॒-वँरु॑णो॒ वरु॑ण स्त॒नुव॑-न्त॒नुवं॒-वँरु॑णः । 39) वरु॑णो अशिश्रे दशिश्रे॒-द्वरु॑णो॒ वरु॑णो अशिश्रेत् । 40) अ॒शि॒श्रे॒च् छुचे॒-श्शुचे॑ रशिश्रे दशिश्रे॒च् छुचेः᳚ । 41) शुचे᳚-र्मि॒त्रस्य॑ मि॒त्रस्य॒ शुचे॒-श्शुचे᳚-र्मि॒त्रस्य॑ । 42) मि॒त्रस्य॒ व्रत्या॒ व्रत्या॑ मि॒त्रस्य॑ मि॒त्रस्य॒ व्रत्याः᳚ । 43) व्रत्या॑ अभूमा भूम॒ व्रत्या॒ व्रत्या॑ अभूम । 44) अ॒भू॒मा म॑न्म॒ह्यम॑न्म ह्यभूमा भू॒मा म॑न्महि । 45) अम॑न्महि मह॒तो म॑ह॒तो ऽम॑न्म॒ ह्यम॑न्महि मह॒तः । 46) म॒ह॒त ऋ॒तस्य॒ र्तस्य॑ मह॒तो म॑ह॒त ऋ॒तस्य॑ । 47) ऋ॒तस्य॒ नाम॒ नाम॒ र्तस्य॒ र्तस्य॒ नाम॑ । 48) नाम॒ सर्वे॒ सर्वे॒ नाम॒ नाम॒ सर्वे᳚ । 49) सर्वे॒ व्राता॒ व्राता॒-स्सर्वे॒ सर्वे॒ व्राताः᳚ । 50) व्राता॒ वरु॑णस्य॒ वरु॑णस्य॒ व्राता॒ व्राता॒ वरु॑णस्य । 51) वरु॑णस्याभूव-न्नभूव॒न्॒. वरु॑णस्य॒ वरु॑णस्याभूवन्न् । 52) अ॒भू॒व॒न्॒. वि व्य॑भूव-न्नभूव॒न्॒. वि । 53) वि मि॒त्रो मि॒त्रो वि वि मि॒त्रः । 54) मि॒त्र एवै॒रेवै᳚-र्मि॒त्रो मि॒त्र एवैः᳚ । 55) एवै॒ ररा॑ति॒ मरा॑ति॒ मेवै॒ रेवै॒ ररा॑तिम् । 56) अरा॑ति मतारी दतारी॒ दरा॑ति॒ मरा॑ति मतारीत् । 57) अ॒ता॒री॒ दसू॑षुद॒न्ता सू॑षुदन्तातारी दतारी॒ दसू॑षुदन्त । 58) असू॑षुदन्त य॒ज्ञिया॑ य॒ज्ञिया॒ असू॑षुद॒न्ता सू॑षुदन्त य॒ज्ञियाः᳚ । 59) य॒ज्ञिया॑ ऋ॒तेन॒ र्तेन॑ य॒ज्ञिया॑ य॒ज्ञिया॑ ऋ॒तेन॑ । 60) ऋ॒तेन॒ वि व्यृ॑तेन॒ र्तेन॒ वि । 61) व्यु॑ वु॒ वि व्यु॑ । 62) उ॒ त्रि॒त स्त्रि॒त उ॑ वु त्रि॒तः । 63) त्रि॒तो ज॑रि॒माण॑-ञ्जरि॒माण॑-न्त्रि॒तस्त्रि॒तो ज॑रि॒माण᳚म् । 64) ज॒रि॒माण॑-न्नो नो जरि॒माण॑-ञ्जरि॒माण॑-न्नः । 65) न॒ आ॒न॒ डा॒न॒ण् णो॒ न॒ आ॒न॒ट् । 66) आ॒न॒-ड्विष्णो॒-र्विष्णो॑ रान डान॒-ड्विष्णोः᳚ । 67) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ । 68) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि । 69) अ॒सि॒ विष्णो॒-र्विष्णो॑ रस्यसि॒ विष्णोः᳚ । 70) विष्णोः᳚ क्रा॒न्त-ङ्क्रा॒न्तं-विँष्णो॒-र्विष्णोः᳚ क्रा॒न्तम् । 71) क्रा॒न्त म॑स्यसि क्रा॒न्त-ङ्क्रा॒न्त म॑सि । 72) अ॒सि॒ विष्णो॒-र्विष्णो॑ रस्यसि॒ विष्णोः᳚ । 73) विष्णो॒-र्विक्रा᳚न्तं॒-विँक्रा᳚न्तं॒-विँष्णो॒-र्विष्णो॒-र्विक्रा᳚न्तम् । 74) विक्रा᳚न्त मस्यसि॒ विक्रा᳚न्तं॒-विँक्रा᳚न्त मसि । 74) विक्रा᳚न्त॒मिति॒ वि - क्रा॒न्त॒म् । 75) अ॒सीत्य॑सि । ॥ 19 ॥ (75/80) ॥ अ. 10 ॥
1) अ॒र्थेत॑-स्स्थ स्था॒र्थेतो॒ ऽर्थेत॑-स्स्थ । 1) अ॒र्थेत॒ इत्य॑र्थ - इतः॑ । 2) स्था॒पा म॒पाग् स्थ॑ स्था॒पाम् । 3) अ॒पा-म्पति॒ष् पति॑ र॒पा म॒पा-म्पतिः॑ । 4) पति॑ रस्यसि॒ पति॒ष् पति॑ रसि । 5) अ॒सि॒ वृषा॒ वृषा᳚ ऽस्यसि॒ वृषा᳚ । 6) वृषा᳚ ऽस्यसि॒ वृषा॒ वृषा॑ ऽसि । 7) अ॒स्यू॒र्मि रू॒र्मि र॑स्य स्यू॒र्मिः । 8) ऊ॒र्मि-र्वृ॑षसे॒नो वृ॑षसे॒न ऊ॒र्मि रू॒र्मि-र्वृ॑षसे॒नः । 9) वृ॒ष॒से॒नो᳚ ऽस्यसि वृषसे॒नो वृ॑षसे॒नो॑ ऽसि । 9) वृ॒ष॒से॒न इति॑ वृष - से॒नः । 10) अ॒सि॒ व्र॒ज॒क्षितो᳚ व्रज॒क्षितो᳚ ऽस्यसि व्रज॒क्षितः॑ । 11) व्र॒ज॒क्षित॑-स्स्थ स्थ व्रज॒क्षितो᳚ व्रज॒क्षित॑-स्स्थ । 11) व्र॒ज॒क्षित॒ इति॑ व्रज - क्षितः॑ । 12) स्थ॒ म॒रुता᳚-म्म॒रुताग्॑ स्थ स्थ म॒रुता᳚म् । 13) म॒रुता॒ मोज॒ ओजो॑ म॒रुता᳚-म्म॒रुता॒ मोजः॑ । 14) ओज॑-स्स्थ॒ स्थौज॒ ओज॑-स्स्थ । 15) स्थ॒ सूर्य॑वर्चस॒-स्सूर्य॑वर्चस-स्स्थ स्थ॒ सूर्य॑वर्चसः । 16) सूर्य॑वर्चस-स्स्थ स्थ॒ सूर्य॑वर्चस॒-स्सूर्य॑वर्चस-स्स्थ । 16) सूर्य॑वर्चस॒ इति॒ सूर्य॑ - व॒र्च॒सः॒ । 17) स्थ॒ सूर्य॑त्वचस॒-स्सूर्य॑त्वचस-स्स्थ स्थ॒ सूर्य॑त्वचसः । 18) सूर्य॑त्वचस-स्स्थ स्थ॒ सूर्य॑त्वचस॒-स्सूर्य॑त्वचस-स्स्थ । 18) सूर्य॑त्वचस॒ इति॒ सूर्य॑ - त्व॒च॒सः॒ । 19) स्थ॒ मान्दा॒ मान्दा᳚-स्स्थ स्थ॒ मान्दाः᳚ । 20) मान्दा᳚-स्स्थ स्थ॒ मान्दा॒ मान्दा᳚-स्स्थ । 21) स्थ॒ वाशा॒ वाशा᳚-स्स्थ स्थ॒ वाशाः᳚ । 22) वाशा᳚-स्स्थ स्थ॒ वाशा॒ वाशा᳚-स्स्थ । 23) स्थ॒ शक्व॑री॒-श्शक्व॑री-स्स्थ स्थ॒ शक्व॑रीः । 24) शक्व॑री-स्स्थ स्थ॒ शक्व॑री॒-श्शक्व॑री-स्स्थ । 25) स्थ॒ वि॒श्व॒भृतो॑ विश्व॒भृत॑-स्स्थ स्थ विश्व॒भृतः॑ । 26) वि॒श्व॒भृत॑-स्स्थ स्थ विश्व॒भृतो॑ विश्व॒भृत॑-स्स्थ । 26) वि॒श्व॒भृत॒ इति॑ विश्व - भृतः॑ । 27) स्थ॒ ज॒न॒भृतो॑ जन॒भृत॑-स्स्थ स्थ जन॒भृतः॑ । 28) ज॒न॒भृत॑-स्स्थ स्थ जन॒भृतो॑ जन॒भृत॑-स्स्थ । 28) ज॒न॒भृत॒ इति॑ जन - भृतः॑ । 29) स्था॒ग्ने र॒ग्ने-स्स्थ॑ स्था॒ग्नेः । 30) अ॒ग्ने स्ते॑ज॒स्या᳚ स्तेज॒स्या॑ अ॒ग्ने र॒ग्ने स्ते॑ज॒स्याः᳚ । 31) ते॒ज॒स्या᳚-स्स्थ स्थ तेज॒स्या᳚ स्तेज॒स्या᳚-स्स्थ । 32) स्था॒पा म॒पाग् स्थ॑ स्था॒पाम् । 33) अ॒पा मोष॑धीना॒ मोष॑धीना म॒पा म॒पा मोष॑धीनाम् । 34) ओष॑धीना॒ग्ं॒ रसो॒ रस॒ ओष॑धीना॒ मोष॑धीना॒ग्ं॒ रसः॑ । 35) रस॑-स्स्थ स्थ॒ रसो॒ रस॑-स्स्थ । 36) स्था॒पो॑ ऽप-स्स्थ॑ स्था॒पः । 37) अ॒पो दे॒वी-र्दे॒वी र॒पो॑ ऽपो दे॒वीः । 38) दे॒वी-र्मधु॑मती॒-र्मधु॑मती-र्दे॒वी-र्दे॒वी-र्मधु॑मतीः । 39) मधु॑मती रगृह्ण-न्नगृह्ण॒-न्मधु॑मती॒-र्मधु॑मती रगृह्णन्न् । 39) मधु॑मती॒रिति॒ मधु॑ - म॒तीः॒ । 40) अ॒गृ॒ह्ण॒-न्नूर्ज॑स्वती॒ रूर्ज॑स्वती रगृह्ण-न्नगृह्ण॒-न्नूर्ज॑स्वतीः । 41) ऊर्ज॑स्वती राज॒सूया॑य राज॒सूया॒ योर्ज॑स्वती॒ रूर्ज॑स्वती राज॒सूया॑य । 42) रा॒ज॒सूया॑य॒ चिता॑ना॒ श्चिता॑ना राज॒सूया॑य राज॒सूया॑य॒ चिता॑नाः । 42) रा॒ज॒सूया॒येति॑ राज - सूया॑य । 43) चिता॑ना॒ इति॒ चिता॑नाः । 44) याभि॑-र्मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ॒ याभि॒-र्याभि॑-र्मि॒त्रावरु॑णौ । 45) मि॒त्रावरु॑णा व॒भ्यषि॑ञ्च-न्न॒भ्यषि॑ञ्च-न्मि॒त्रावरु॑णौ मि॒त्रावरु॑णा व॒भ्यषि॑ञ्चन्न् । 45) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । 46) अ॒भ्यषि॑ञ्च॒न्॒. याभि॒-र्याभि॑र॒भ्यषि॑ञ्च-न्न॒भ्यषि॑ञ्च॒न्॒. याभिः॑ । 46) अ॒भ्यषि॑ञ्च॒न्नित्य॑भि - असि॑ञ्चन्न् । 47) याभि॒ रिन्द्र॒ मिन्द्रं॒-याँभि॒-र्याभि॒ रिन्द्र᳚म् । 48) इन्द्र॒ मन॑य॒-न्नन॑य॒-न्निन्द्र॒ मिन्द्र॒ मन॑यन्न् । 49) अन॑य॒-न्नत्य त्यन॑य॒-न्नन॑य॒-न्नति॑ । 50) अत्यरा॑ती॒र रा॑ती॒ रत्य त्यरा॑तीः । 51) अरा॑ती॒रित्यरा॑तीः । 52) रा॒ष्ट्र॒दा-स्स्थ॑ स्थ राष्ट्र॒दा रा᳚ष्ट्र॒दा-स्स्थ॑ । 52) रा॒ष्ट्र॒दा इति॑ राष्ट्र - दाः । 53) स्थ॒ रा॒ष्ट्रग्ं रा॒ष्ट्रग्ग् स्थ॑ स्थ रा॒ष्ट्रम् । 54) रा॒ष्ट्र-न्द॑त्त दत्त रा॒ष्ट्रग्ं रा॒ष्ट्र-न्द॑त्त । 55) द॒त्त॒ स्वाहा॒ स्वाहा॑ दत्त दत्त॒ स्वाहा᳚ । 56) स्वाहा॑ राष्ट्र॒दा रा᳚ष्ट्र॒दा-स्स्वाहा॒ स्वाहा॑ राष्ट्र॒दाः । 57) रा॒ष्ट्र॒दा-स्स्थ॑ स्थ राष्ट्र॒दा रा᳚ष्ट्र॒दा-स्स्थ॑ । 57) रा॒ष्ट्र॒दा इति॑ राष्ट्र - दाः । 58) स्थ॒ रा॒ष्ट्रग्ं रा॒ष्ट्रग्ग् स्थ॑ स्थ रा॒ष्ट्रम् । 59) रा॒ष्ट्र म॒मुष्मा॑ अ॒मुष्मै॑ रा॒ष्ट्रग्ं रा॒ष्ट्र म॒मुष्मै᳚ । 60) अ॒मुष्मै॑ दत्त दत्ता॒मुष्मा॑ अ॒मुष्मै॑ दत्त । 61) द॒त्तेति॑ दत्त । ॥ 20 ॥ (61/74) ॥ अ. 11 ॥
1) देवी॑ राप आपो॒ देवी॒-र्देवी॑ रापः । 2) आ॒प॒-स्सग्ं स मा॑प आप॒-स्सम् । 3) स-म्मधु॑मती॒-र्मधु॑मती॒-स्सग्ं स-म्मधु॑मतीः । 4) मधु॑मती॒-र्मधु॑मतीभि॒-र्मधु॑मतीभि॒-र्मधु॑मती॒-र्मधु॑मती॒-र्मधु॑मतीभिः । 4) मधु॑मती॒रिति॒ मधु॑ - म॒तीः॒ । 5) मधु॑मतीभि-स्सृज्यद्ध्वग्ं सृज्यद्ध्व॒-म्मधु॑मतीभि॒-र्मधु॑मतीभि-स्सृज्यद्ध्वम् । 5) मधु॑मतीभि॒रिति॒ मधु॑ - म॒ती॒भिः॒ । 6) सृ॒ज्य॒द्ध्व॒-म्महि॒ महि॑ सृज्यद्ध्वग्ं सृज्यद्ध्व॒-म्महि॑ । 7) महि॒ वर्चो॒ वर्चो॒ महि॒ महि॒ वर्चः॑ । 8) वर्चः॑, क्ष॒त्रिया॑य क्ष॒त्रिया॑य॒ वर्चो॒ वर्चः॑, क्ष॒त्रिया॑य । 9) क्ष॒त्रिया॑य वन्वा॒ना व॑न्वा॒नाः, क्ष॒त्रिया॑य क्ष॒त्रिया॑य वन्वा॒नाः । 10) व॒न्वा॒ना अना॑धृष्टा॒ अना॑धृष्टा वन्वा॒ना व॑न्वा॒ना अना॑धृष्टाः । 11) अना॑धृष्टा-स्सीदत सीद॒ता ना॑धृष्टा॒ अना॑धृष्टा-स्सीदत । 11) अना॑धृष्टा॒ इत्यना᳚ - धृ॒ष्टाः॒ । 12) सी॒द॒तोर्ज॑स्वती॒ रूर्ज॑स्वती-स्सीदत सीद॒तोर्ज॑स्वतीः । 13) ऊर्ज॑स्वती॒-र्महि॒ मह्यूर्ज॑स्वती॒ रूर्ज॑स्वती॒-र्महि॑ । 14) महि॒ वर्चो॒ वर्चो॒ महि॒ महि॒ वर्चः॑ । 15) वर्चः॑, क्ष॒त्रिया॑य क्ष॒त्रिया॑य॒ वर्चो॒ वर्चः॑, क्ष॒त्रिया॑य । 16) क्ष॒त्रिया॑य॒ दध॑ती॒-र्दध॑तीः, क्ष॒त्रिया॑य क्ष॒त्रिया॑य॒ दध॑तीः । 17) दध॑ती॒ रनि॑भृष्ट॒ मनि॑भृष्ट॒-न्दध॑ती॒-र्दध॑ती॒ रनि॑भृष्टम् । 18) अनि॑भृष्ट मस्य॒ स्यनि॑भृष्ट॒ मनि॑भृष्ट मसि । 18) अनि॑भृष्ट॒मित्यनि॑ - भृ॒ष्ट॒म् । 19) अ॒सि॒ वा॒चो वा॒चो᳚ ऽस्यसि वा॒चः । 20) वा॒चो बन्धु॒-र्बन्धु॑-र्वा॒चो वा॒चो बन्धुः॑ । 21) बन्धु॑ स्तपो॒जा स्त॑पो॒जा बन्धु॒-र्बन्धु॑ स्तपो॒जाः । 22) त॒पो॒जा-स्सोम॑स्य॒ सोम॑स्य तपो॒जा स्त॑पो॒जा-स्सोम॑स्य । 22) त॒पो॒जा इति॑ तपः - जाः । 23) सोम॑स्य दा॒त्र-न्दा॒त्रग्ं सोम॑स्य॒ सोम॑स्य दा॒त्रम् । 24) दा॒त्र म॑स्यसि दा॒त्र-न्दा॒त्र म॑सि । 25) अ॒सि॒ शु॒क्रा-श्शु॒क्रा अ॑स्यसि शु॒क्राः । 26) शु॒क्रा वो॑ व-श्शु॒क्रा-श्शु॒क्रा वः॑ । 27) व॒-श्शु॒क्रेण॑ शु॒क्रेण॑ वो व-श्शु॒क्रेण॑ । 28) शु॒क्रेणोदुच् छु॒क्रेण॑ शु॒क्रेणोत् । 29) उ-त्पु॑नामि पुना॒ म्युदु-त्पु॑नामि । 30) पु॒ना॒मि॒ च॒न्द्रा श्च॒न्द्राः पु॑नामि पुनामि च॒न्द्राः । 31) च॒न्द्रा श्च॒न्द्रेण॑ च॒न्द्रेण॑ च॒न्द्रा श्च॒न्द्रा श्च॒न्द्रेण॑ । 32) च॒न्द्रेणा॒मृता॑ अ॒मृता᳚ श्च॒न्द्रेण॑ च॒न्द्रेणा॒मृताः᳚ । 33) अ॒मृता॑ अ॒मृते॑ना॒ मृते॑ना॒ मृता॑ अ॒मृता॑ अ॒मृते॑न । 34) अ॒मृते॑न॒ स्वाहा॒ स्वाहा॒ ऽमृते॑ना॒ मृते॑न॒ स्वाहा᳚ । 35) स्वाहा॑ राज॒सूया॑य राज॒सूया॑य॒ स्वाहा॒ स्वाहा॑ राज॒सूया॑य । 36) रा॒ज॒सूया॑य॒ चिता॑ना॒ श्चिता॑ना राज॒सूया॑य राज॒सूया॑य॒ चिता॑नाः । 36) रा॒ज॒सूया॒येति॑ राज - सूया॑य । 37) चिता॑ना॒ इति॒ चिता॑नाः । 38) स॒ध॒मादो᳚ द्यु॒म्निनी᳚-र्द्यु॒म्निनी᳚-स्सध॒माद॑-स्सध॒मादो᳚ द्यु॒म्निनीः᳚ । 38) स॒ध॒माद॒ इति॑ सध - मादः॑ । 39) द्यु॒म्निनी॒ रूर्ज॒ ऊर्जो᳚ द्यु॒म्निनी᳚-र्द्यु॒म्निनी॒ रूर्जः॑ । 40) ऊर्ज॑ ए॒ता ए॒ता ऊर्ज॒ ऊर्ज॑ ए॒ताः । 41) ए॒ता अनि॑भृष्टा॒ अनि॑भृष्टा ए॒ता ए॒ता अनि॑भृष्टाः । 42) अनि॑भृष्टा अप॒स्युवो॑ ऽप॒स्युवो ऽनि॑भृष्टा॒ अनि॑भृष्टा अप॒स्युवः॑ । 42) अनि॑भृष्टा॒ इत्यनि॑ - भृ॒ष्टाः॒ । 43) अ॒प॒स्युवो॒ वसा॑नो॒ वसा॑नो ऽप॒स्युवो॑ ऽप॒स्युवो॒ वसा॑नः । 44) वसा॑न॒ इति॒ वसा॑नः । 45) प॒स्त्या॑सु चक्रे चक्रे प॒स्त्या॑सु प॒स्त्या॑सु चक्रे । 46) च॒क्रे॒ वरु॑णो॒ वरु॑ण श्चक्रे चक्रे॒ वरु॑णः । 47) वरु॑ण-स्स॒धस्थग्ं॑ स॒धस्थं॒-वँरु॑णो॒ वरु॑ण-स्स॒धस्थ᳚म् । 48) स॒धस्थ॑ म॒पा म॒पाग्ं स॒धस्थग्ं॑ स॒धस्थ॑ म॒पाम् । 48) स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् । 49) अ॒पाग्ं शिशु॒-श्शिशु॑र॒पा म॒पाग्ं शिशुः॑ । 50) शिशु॑-र्मा॒तृत॑मासु मा॒तृत॑मासु॒ शिशु॒-श्शिशु॑-र्मा॒तृत॑मासु । ॥ 21 ॥ (50/59)
1) मा॒तृत॑मास्व॒न्त र॒न्त-र्मा॒तृत॑मासु मा॒तृत॑मास्व॒न्तः । 1) मा॒तृत॑मा॒स्विति॑ मा॒तृ - त॒मा॒सु॒ । 2) अ॒न्तरित्य॒न्तः । 3) क्ष॒त्रस्योल्ब॒ मुल्ब॑-ङ्क्ष॒त्रस्य॑ क्ष॒त्रस्योल्ब᳚म् । 4) उल्ब॑ मस्य॒ स्युल्ब॒ मुल्ब॑ मसि । 5) अ॒सि॒ क्ष॒त्रस्य॑ क्ष॒त्रस्या᳚स्यसि क्ष॒त्रस्य॑ । 6) क्ष॒त्रस्य॒ योनि॒-र्योनिः॑, क्ष॒त्रस्य॑ क्ष॒त्रस्य॒ योनिः॑ । 7) योनि॑ रस्यसि॒ योनि॒-र्योनि॑ रसि । 8) अ॒स्यावि॑न्न॒ आवि॑न्नो ऽस्य॒ स्यावि॑न्नः । 9) आवि॑न्नो अ॒ग्नि र॒ग्नि रावि॑न्न॒ आवि॑न्नो अ॒ग्निः । 10) अ॒ग्नि-र्गृ॒हप॑ति-र्गृ॒हप॑ति र॒ग्नि र॒ग्नि-र्गृ॒हप॑तिः । 11) गृ॒हप॑ति॒ रावि॑न्न॒ आवि॑न्नो गृ॒हप॑ति-र्गृ॒हप॑ति॒ रावि॑न्नः । 11) गृ॒हप॑ति॒रिति॑ गृ॒ह - प॒तिः॒ । 12) आवि॑न्न॒ इन्द्र॒ इन्द्र॒ आवि॑न्न॒ आवि॑न्न॒ इन्द्रः॑ । 13) इन्द्रो॑ वृ॒द्धश्र॑वा वृ॒द्धश्र॑वा॒ इन्द्र॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । 14) वृ॒द्धश्र॑वा॒ आवि॑न्न॒ आवि॑न्नो वृ॒द्धश्र॑वा वृ॒द्धश्र॑वा॒ आवि॑न्नः । 14) वृ॒द्धश्र॑वा॒ इति॑ वृ॒द्ध - श्र॒वाः॒ । 15) आवि॑न्नः पू॒षा पू॒षा ऽऽवि॑न्न॒ आवि॑न्नः पू॒षा । 16) पू॒षा वि॒श्ववे॑दा वि॒श्ववे॑दाः पू॒षा पू॒षा वि॒श्ववे॑दाः । 17) वि॒श्ववे॑दा॒ आवि॑न्ना॒ वावि॑न्नौ वि॒श्ववे॑दा वि॒श्ववे॑दा॒ आवि॑न्नौ । 17) वि॒श्ववे॑दा॒ इति॑ वि॒श्व - वे॒दाः॒ । 18) आवि॑न्नौ मि॒त्रावरु॑णौ मि॒त्रावरु॑णा॒ वावि॑न्ना॒ वावि॑न्नौ मि॒त्रावरु॑णौ । 19) मि॒त्रावरु॑णा वृता॒वृधा॑ वृता॒वृधौ॑ मि॒त्रावरु॑णौ मि॒त्रावरु॑णा वृता॒वृधौ᳚ । 19) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । 20) ऋ॒ता॒वृधा॒ वावि॑न्ने॒ आवि॑न्ने ऋता॒वृधा॑ वृता॒वृधा॒ वावि॑न्ने । 20) ऋ॒ता॒वृधा॒वित्यृ॑त - वृधौ᳚ । 21) आवि॑न्ने॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी आवि॑न्ने॒ आवि॑न्ने॒ द्यावा॑पृथि॒वी । 21) आवि॑न्ने॒ इत्यावि॑न्ने । 22) द्यावा॑पृथि॒वी धृ॒तव्र॑ते धृ॒तव्र॑ते॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी धृ॒तव्र॑ते । 22) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । 23) धृ॒तव्र॑ते॒ आवि॒न्ना ऽऽवि॑न्ना धृ॒तव्र॑ते धृ॒तव्र॑ते॒ आवि॑न्ना । 23) धृ॒तव्र॑ते॒ इति॑ धृ॒त - व्र॒ते॒ । 24) आवि॑न्ना दे॒वी दे॒व्यावि॒न्ना ऽऽवि॑न्ना दे॒वी । 25) दे॒व्यदि॑ति॒रदि॑ति-र्दे॒वी दे॒व्यदि॑तिः । 26) अदि॑ति-र्विश्वरू॒पी वि॑श्वरू॒ प्यदि॑ति॒ रदि॑ति-र्विश्वरू॒पी । 27) वि॒श्व॒रू॒प्यावि॑न्न॒ आवि॑न्नो विश्वरू॒पी वि॑श्वरू॒प्यावि॑न्नः । 27) वि॒श्व॒रू॒पीति॑ विश्व - रू॒पी । 28) आवि॑न्नो॒ ऽय म॒य मावि॑न्न॒ आवि॑न्नो॒ ऽयम् । 29) अ॒य म॒सा व॒सा व॒य म॒य म॒सौ । 30) अ॒सा वा॑मुष्याय॒ण आ॑मुष्याय॒णो॑ ऽसा व॒सा वा॑मुष्याय॒णः । 31) आ॒मु॒ष्या॒य॒णो᳚ ऽस्या म॒स्या मा॑मुष्याय॒ण आ॑मुष्याय॒णो᳚ ऽस्याम् । 32) अ॒स्यां-विँ॒शि वि॒श्य॑स्या म॒स्यां-विँ॒शि । 33) वि॒श्य॑स्मि-न्न॒स्मिन्. वि॒शि वि॒श्य॑स्मिन्न् । 34) अ॒स्मि-न्रा॒ष्ट्रे रा॒ष्ट्रे᳚ ऽस्मि-न्न॒स्मि-न्रा॒ष्ट्रे । 35) रा॒ष्ट्रे म॑ह॒ते म॑ह॒ते रा॒ष्ट्रे रा॒ष्ट्रे म॑ह॒ते । 36) म॒ह॒ते क्ष॒त्राय॑ क्ष॒त्राय॑ मह॒ते म॑ह॒ते क्ष॒त्राय॑ । 37) क्ष॒त्राय॑ मह॒ते म॑ह॒ते क्ष॒त्राय॑ क्ष॒त्राय॑ मह॒ते । 38) म॒ह॒त आधि॑पत्या॒ याधि॑पत्याय मह॒ते म॑ह॒त आधि॑पत्याय । 39) आधि॑पत्याय मह॒ते म॑ह॒त आधि॑पत्या॒या धि॑पत्याय मह॒ते । 39) आधि॑पत्या॒येत्याधि॑ - प॒त्या॒य॒ । 40) म॒ह॒ते जान॑राज्याय॒ जान॑राज्याय मह॒ते म॑ह॒ते जान॑राज्याय । 41) जान॑राज्या यै॒ष ए॒ष जान॑राज्याय॒ जान॑राज्या यै॒षः । 41) जान॑राज्या॒येति॒ जान॑ - रा॒ज्या॒य॒ । 42) ए॒ष वो॑ व ए॒ष ए॒ष वः॑ । 43) वो॒ भ॒र॒ता॒ भ॒र॒ता॒ वो॒ वो॒ भ॒र॒ताः॒ । 44) भ॒र॒ता॒ राजा॒ राजा॑ भरता भरता॒ राजा᳚ । 45) राजा॒ सोम॒-स्सोमो॒ राजा॒ राजा॒ सोमः॑ । 46) सोमो॒ ऽस्माक॑ म॒स्माक॒ग्ं॒ सोम॒-स्सोमो॒ ऽस्माक᳚म् । 47) अ॒स्माक॑-म्ब्राह्म॒णाना᳚-म्ब्राह्म॒णाना॑ म॒स्माक॑ म॒स्माक॑-म्ब्राह्म॒णाना᳚म् । 48) ब्रा॒ह्म॒णाना॒ग्ं॒ राजा॒ राजा᳚ ब्राह्म॒णाना᳚-म्ब्राह्म॒णाना॒ग्ं॒ राजा᳚ । 49) राजेन्द्र॒स्ये न्द्र॑स्य॒ राजा॒ राजेन्द्र॑स्य । 50) इन्द्र॑स्य॒ वज्रो॒ वज्र॒ इन्द्र॒स्ये न्द्र॑स्य॒ वज्रः॑ । ॥ 22 ॥ (50/62)
1) वज्रो᳚ ऽस्यसि॒ वज्रो॒ वज्रो॑ ऽसि । 2) अ॒सि॒ वार्त्र॑घ्नो॒ वार्त्र॑घ्नो ऽस्यसि॒ वार्त्र॑घ्नः । 3) वार्त्र॑घ्न॒ स्त्वया॒ त्वया॒ वार्त्र॑घ्नो॒ वार्त्र॑घ्न॒ स्त्वया᳚ । 3) वार्त्र॑घ्न॒ इति॒ वार्त्र॑ - घ्नः॒ । 4) त्वया॒ ऽय म॒य-न्त्वया॒ त्वया॒ ऽयम् । 5) अ॒यं-वृँ॒त्रं-वृँ॒त्र म॒य म॒यं-वृँ॒त्रम् । 6) वृ॒त्रं-वँ॑द्ध्या-द्वद्ध्या-द्वृ॒त्रं-वृँ॒त्रं-वँ॑द्ध्यात् । 7) व॒द्ध्या॒च् छ॒त्रु॒बाध॑ना-श्शत्रु॒बाध॑ना वद्ध्या-द्वद्ध्याच् छत्रु॒बाध॑नाः । 8) श॒त्रु॒बाध॑ना-स्स्थ स्थ शत्रु॒बाध॑ना-श्शत्रु॒बाध॑ना-स्स्थ । 8) श॒त्रु॒बाध॑ना॒ इति॑ शत्रु - बाध॑नाः । 9) स्थ॒ पा॒त पा॒त स्थ॑ स्थ पा॒त । 10) पा॒त मा॑ मा पा॒त पा॒त मा᳚ । 11) मा॒ प्र॒त्यञ्च॑-म्प्र॒त्यञ्च॑-म्मा मा प्र॒त्यञ्च᳚म् । 12) प्र॒त्यञ्च॑-म्पा॒त पा॒त प्र॒त्यञ्च॑-म्प्र॒त्यञ्च॑-म्पा॒त । 13) पा॒त मा॑ मा पा॒त पा॒त मा᳚ । 14) मा॒ ति॒र्यञ्च॑-न्ति॒र्यञ्च॑-म्मा मा ति॒र्यञ्च᳚म् । 15) ति॒र्यञ्च॑ म॒न्वञ्च॑ म॒न्वञ्च॑-न्ति॒र्यञ्च॑-न्ति॒र्यञ्च॑ म॒न्वञ्च᳚म् । 16) अ॒न्वञ्च॑-म्मा मा॒ ऽन्वञ्च॑ म॒न्वञ्च॑-म्मा । 17) मा॒ पा॒त॒ पा॒त॒ मा॒ मा॒ पा॒त॒ । 18) पा॒त॒ दि॒ग्भ्यो दि॒ग्भ्यः पा॑त पात दि॒ग्भ्यः । 19) दि॒ग्भ्यो मा॑ मा दि॒ग्भ्यो दि॒ग्भ्यो मा᳚ । 19) दि॒ग्भ्य इति॑ दिक् - भ्यः । 20) मा॒ पा॒त॒ पा॒त॒ मा॒ मा॒ पा॒त॒ । 21) पा॒त॒ विश्वा᳚भ्यो॒ विश्वा᳚भ्यः पात पात॒ विश्वा᳚भ्यः । 22) विश्वा᳚भ्यो मा मा॒ विश्वा᳚भ्यो॒ विश्वा᳚भ्यो मा । 23) मा॒ ना॒ष्ट्राभ्यो॑ ना॒ष्ट्राभ्यो॑ मा मा ना॒ष्ट्राभ्यः॑ । 24) ना॒ष्ट्राभ्यः॑ पात पात ना॒ष्ट्राभ्यो॑ ना॒ष्ट्राभ्यः॑ पात । 25) पा॒त॒ हिर॑ण्यवर्णौ॒ हिर॑ण्यवर्णौ पात पात॒ हिर॑ण्यवर्णौ । 26) हिर॑ण्यवर्णा वु॒षसा॑ मु॒षसा॒ग्ं॒ हिर॑ण्यवर्णौ॒ हिर॑ण्यवर्णा वु॒षसा᳚म् । 26) हिर॑ण्यवर्णा॒विति॒ हिर॑ण्य - व॒र्णौ॒ । 27) उ॒षसां᳚-विँरो॒के वि॑रो॒क उ॒षसा॑ मु॒षसां᳚-विँरो॒के । 28) वि॒रो॒के ऽय॑स्स्थूणा॒ वय॑स्स्थूणौ विरो॒के वि॑रो॒के ऽय॑स्स्थूणौ । 28) वि॒रो॒क इति॑ वि - रो॒के । 29) अय॑स्स्थूणा॒ वुदि॑ता॒ वुदि॑ता॒ वय॑स्स्थूणा॒ वय॑स्स्थूणा॒ वुदि॑तौ । 29) अय॑स्स्थूणा॒वित्ययः॑ - स्थू॒णौ॒ । 30) उदि॑तौ॒ सूर्य॑स्य॒ सूर्य॒स्योदि॑ता॒ वुदि॑तौ॒ सूर्य॑स्य । 30) उदि॑ता॒वित्युत् - इ॒तौ॒ । 31) सूर्य॒स्या सूर्य॑स्य॒ सूर्य॒स्या । 32) आ रो॑हतग्ं रोहत॒ मा रो॑हतम् । 33) रो॒ह॒तं॒-वँ॒रु॒ण॒ व॒रु॒ण॒ रो॒ह॒त॒ग्ं॒ रो॒ह॒तं॒-वँ॒रु॒ण॒ । 34) व॒रु॒ण॒ मि॒त्र॒ मि॒त्र॒ व॒रु॒ण॒ व॒रु॒ण॒ मि॒त्र॒ । 35) मि॒त्र॒ गर्त॒-ङ्गर्त॑-म्मित्र मित्र॒ गर्त᳚म् । 36) गर्त॒-न्तत॒ स्ततो॒ गर्त॒-ङ्गर्त॒-न्ततः॑ । 37) तत॑ श्चक्षाथा-ञ्चक्षाथा॒-न्तत॒ स्तत॑ श्चक्षाथाम् । 38) च॒क्षा॒था॒ मदि॑ति॒ मदि॑ति-ञ्चक्षाथा-ञ्चक्षाथा॒ मदि॑तिम् । 39) अदि॑ति॒-न्दिति॒-न्दिति॒ मदि॑ति॒ मदि॑ति॒-न्दिति᳚म् । 40) दिति॑-ञ्च च॒ दिति॒-न्दिति॑-ञ्च । 41) चेति॑ च । ॥ 23 ॥ (41/48) ॥ अ. 12 ॥
1) स॒मिध॒ मा स॒मिधग्ं॑ स॒मिध॒ मा । 1) स॒मिध॒मिति॑ सं - इध᳚म् । 2) आ ति॑ष्ठ ति॒ष्ठा ति॑ष्ठ । 3) ति॒ष्ठ॒ गा॒य॒त्री गा॑य॒त्री ति॑ष्ठ तिष्ठ गाय॒त्री । 4) गा॒य॒त्री त्वा᳚ त्वा गाय॒त्री गा॑य॒त्री त्वा᳚ । 5) त्वा॒ छन्द॑सा॒-ञ्छन्द॑सा-न्त्वा त्वा॒ छन्द॑साम् । 6) छन्द॑सा मवत्ववतु॒ छन्द॑सा॒-ञ्छन्द॑सा मवतु । 7) अ॒व॒तु॒ त्रि॒वृ-त्त्रि॒वृ द॑वत्ववतु त्रि॒वृत् । 8) त्रि॒वृ-थ्स्तोम॒-स्स्तोम॑ स्त्रि॒वृ-त्त्रि॒वृ-थ्स्तोमः॑ । 8) त्रि॒वृदिति॑ त्रि - वृत् । 9) स्तोमो॑ रथन्त॒रग्ं र॑थन्त॒रग्ग् स्तोम॒-स्स्तोमो॑ रथन्त॒रम् । 10) र॒थ॒न्त॒रग्ं साम॒ साम॑ रथन्त॒रग्ं र॑थन्त॒रग्ं साम॑ । 10) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । 11) सामा॒ ग्नि र॒ग्नि-स्साम॒ सामा॒ग्निः । 12) अ॒ग्नि-र्दे॒वता॑ दे॒वता॒ ऽग्नि र॒ग्नि-र्दे॒वता᳚ । 13) दे॒वता॒ ब्रह्म॒ ब्रह्म॑ दे॒वता॑ दे॒वता॒ ब्रह्म॑ । 14) ब्रह्म॒ द्रवि॑ण॒-न्द्रवि॑ण॒-म्ब्रह्म॒ ब्रह्म॒ द्रवि॑णम् । 15) द्रवि॑ण मु॒ग्रा मु॒ग्रा-न्द्रवि॑ण॒-न्द्रवि॑ण मु॒ग्राम् । 16) उ॒ग्रा मोग्रा मु॒ग्रा मा । 17) आ ति॑ष्ठ ति॒ष्ठा ति॑ष्ठ । 18) ति॒ष्ठ॒ त्रि॒ष्टु-प्त्रि॒ष्टु-प्ति॑ष्ठ तिष्ठ त्रि॒ष्टुप् । 19) त्रि॒ष्टु-प्त्वा᳚ त्वा त्रि॒ष्टु-प्त्रि॒ष्टु-प्त्वा᳚ । 20) त्वा॒ छन्द॑सा॒-ञ्छन्द॑सा-न्त्वा त्वा॒ छन्द॑साम् । 21) छन्द॑सा मवत्ववतु॒ छन्द॑सा॒-ञ्छन्द॑सा मवतु । 22) अ॒व॒तु॒ प॒ञ्च॒द॒शः प॑ञ्चद॒शो॑ ऽवत्ववतु पञ्चद॒शः । 23) प॒ञ्च॒द॒श-स्स्तोम॒-स्स्तोमः॑ पञ्चद॒शः प॑ञ्चद॒श-स्स्तोमः॑ । 23) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । 24) स्तोमो॑ बृ॒ह-द्बृ॒ह-थ्स्तोम॒-स्स्तोमो॑ बृ॒हत् । 25) बृ॒ह-थ्साम॒ साम॑ बृ॒ह-द्बृ॒ह-थ्साम॑ । 26) सामे न्द्र॒ इन्द्र॒-स्साम॒ सामे न्द्रः॑ । 27) इन्द्रो॑ दे॒वता॑ दे॒वतेन्द्र॒ इन्द्रो॑ दे॒वता᳚ । 28) दे॒वता᳚ क्ष॒त्र-ङ्क्ष॒त्र-न्दे॒वता॑ दे॒वता᳚ क्ष॒त्रम् । 29) क्ष॒त्र-न्द्रवि॑ण॒-न्द्रवि॑ण-ङ्क्ष॒त्र-ङ्क्ष॒त्र-न्द्रवि॑णम् । 30) द्रवि॑णं-विँ॒राजं॑-विँ॒राज॒-न्द्रवि॑ण॒-न्द्रवि॑णं-विँ॒राज᳚म् । 31) वि॒राज॒ मा वि॒राजं॑-विँ॒राज॒ मा । 31) वि॒राज॒मिति॑ वि - राज᳚म् । 32) आ ति॑ष्ठ ति॒ष्ठा ति॑ष्ठ । 33) ति॒ष्ठ॒ जग॑ती॒ जग॑ती तिष्ठ तिष्ठ॒ जग॑ती । 34) जग॑ती त्वा त्वा॒ जग॑ती॒ जग॑ती त्वा । 35) त्वा॒ छन्द॑सा॒-ञ्छन्द॑सा-न्त्वा त्वा॒ छन्द॑साम् । 36) छन्द॑सा मवत्ववतु॒ छन्द॑सा॒-ञ्छन्द॑सा मवतु । 37) अ॒व॒तु॒ स॒प्त॒द॒श-स्स॑प्तद॒शो॑ ऽवत्ववतु सप्तद॒शः । 38) स॒प्त॒द॒श-स्स्तोम॒-स्स्तोम॑-स्सप्तद॒श-स्स॑प्तद॒श-स्स्तोमः॑ । 38) स॒प्त॒द॒श इति॑ सप्त - द॒शः । 39) स्तोमो॑ वैरू॒पं-वैँ॑रू॒पग्ग् स्तोम॒-स्स्तोमो॑ वैरू॒पम् । 40) वै॒रू॒पग्ं साम॒ साम॑ वैरू॒पं-वैँ॑रू॒पग्ं साम॑ । 41) साम॑ म॒रुतो॑ म॒रुत॒-स्साम॒ साम॑ म॒रुतः॑ । 42) म॒रुतो॑ दे॒वता॑ दे॒वता॑ म॒रुतो॑ म॒रुतो॑ दे॒वता᳚ । 43) दे॒वता॒ वि-ड्वि-ड्दे॒वता॑ दे॒वता॒ विट् । 44) वि-ड्द्रवि॑ण॒-न्द्रवि॑णं॒-विँ-ड्वि-ड्द्रवि॑णम् । 45) द्रवि॑ण॒ मुदी॑ची॒ मुदी॑ची॒-न्द्रवि॑ण॒-न्द्रवि॑ण॒ मुदी॑चीम् । 46) उदी॑ची॒ मोदी॑ची॒ मुदी॑ची॒ मा । 47) आ ति॑ष्ठ ति॒ष्ठा ति॑ष्ठ । 48) ति॒ष्ठा॒ नु॒ष्टु ब॑नु॒ष्टु-प्ति॑ष्ठ तिष्ठानु॒ष्टुप् । 49) अ॒नु॒ष्टु-प्त्वा᳚ त्वा ऽनु॒ष्टु ब॑नु॒ष्टु-प्त्वा᳚ । 49) अ॒नु॒ष्टुबित्य॑नु - स्तुप् । 50) त्वा॒ छन्द॑सा॒-ञ्छन्द॑सा-न्त्वा त्वा॒ छन्द॑साम् । ॥ 24 ॥ (50/57)
1) छन्द॑सा मवत्ववतु॒ छन्द॑सा॒-ञ्छन्द॑सा मवतु । 2) अ॒व॒त्वे॒क॒वि॒ग्ं॒श ए॑कवि॒ग्ं॒शो॑ ऽवत्ववत्वेकवि॒ग्ं॒शः । 3) ए॒क॒वि॒ग्ं॒श-स्स्तोम॒-स्स्तोम॑ एकवि॒ग्ं॒श ए॑कवि॒ग्ं॒श-स्स्तोमः॑ । 3) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः । 4) स्तोमो॑ वैरा॒जं-वैँ॑रा॒जग्ग् स्तोम॒-स्स्तोमो॑ वैरा॒जम् । 5) वै॒रा॒जग्ं साम॒ साम॑ वैरा॒जं-वैँ॑रा॒जग्ं साम॑ । 6) साम॑ मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ॒ साम॒ साम॑ मि॒त्रावरु॑णौ । 7) मि॒त्रावरु॑णौ दे॒वता॑ दे॒वता॑ मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ दे॒वता᳚ । 7) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । 8) दे॒वता॒ बल॒-म्बल॑-न्दे॒वता॑ दे॒वता॒ बल᳚म् । 9) बल॒-न्द्रवि॑ण॒-न्द्रवि॑ण॒-म्बल॒-म्बल॒-न्द्रवि॑णम् । 10) द्रवि॑ण मू॒र्ध्वा मू॒र्ध्वा-न्द्रवि॑ण॒-न्द्रवि॑ण मू॒र्ध्वाम् । 11) ऊ॒र्ध्वा मोर्ध्वा मू॒र्ध्वा मा । 12) आ ति॑ष्ठ ति॒ष्ठा ति॑ष्ठ । 13) ति॒ष्ठ॒ प॒ङ्क्तिः प॒ङ्क्ति स्ति॑ष्ठ तिष्ठ प॒ङ्क्तिः । 14) प॒ङ्क्ति स्त्वा᳚ त्वा प॒ङ्क्तिः प॒ङ्क्ति स्त्वा᳚ । 15) त्वा॒ छन्द॑सा॒-ञ्छन्द॑सा-न्त्वा त्वा॒ छन्द॑साम् । 16) छन्द॑सा मवत्ववतु॒ छन्द॑सा॒-ञ्छन्द॑सा मवतु । 17) अ॒व॒तु॒ त्रि॒ण॒व॒त्र॒य॒स्त्रि॒ग्ं॒शौ त्रि॑णवत्रयस्त्रि॒ग्ं॒शा व॑वत्ववतु त्रिणवत्रयस्त्रि॒ग्ं॒शौ । 18) त्रि॒ण॒व॒त्र॒य॒स्त्रि॒ग्ं॒शौ स्तोमौ॒ स्तोमौ᳚ त्रिणवत्रयस्त्रि॒ग्ं॒शौ त्रि॑णवत्रयस्त्रि॒ग्ं॒शौ स्तोमौ᳚ । 18) त्रि॒ण॒व॒त्र॒य॒स्त्रि॒ग्ं॒शाविति॑ त्रिणव - त्र॒य॒स्त्रि॒ग्ं॒शौ । 19) स्तोमौ॑ शाक्वररैव॒ते शा᳚क्वररैव॒ते स्तोमौ॒ स्तोमौ॑ शाक्वररैव॒ते । 20) शा॒क्व॒र॒रै॒व॒ते साम॑नी॒ साम॑नी शाक्वररैव॒ते शा᳚क्वररैव॒ते साम॑नी । 20) शा॒क्व॒र॒रै॒व॒ते इति॑ शाक्वर - रै॒व॒ते । 21) साम॑नी॒ बृह॒स्पति॒-र्बृह॒स्पति॒-स्साम॑नी॒ साम॑नी॒ बृह॒स्पतिः॑ । 21) साम॑नी॒ इति॒ साम॑नी । 22) बृह॒स्पति॑-र्दे॒वता॑ दे॒वता॒ बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वता᳚ । 23) दे॒वता॒ वर्चो॒ वर्चो॑ दे॒वता॑ दे॒वता॒ वर्चः॑ । 24) वर्चो॒ द्रवि॑ण॒-न्द्रवि॑णं॒-वँर्चो॒ वर्चो॒ द्रवि॑णम् । 25) द्रवि॑ण मी॒दृं ंई॒दृ-न्द्रवि॑ण॒-न्द्रवि॑ण मी॒दृम् । 26) ई॒दृ-ञ्च॑ चे॒दृं ंई॒दृ-ञ्च॑ । 27) चा॒न्या॒दृं ंअ॑न्या॒दृ-ञ्च॑ चान्या॒दृम् । 28) अ॒न्या॒दृ-ञ्च॑ चान्या॒दृं ंअ॑न्या॒दृ-ञ्च॑ । 29) चै॒ता॒दृं ंए॑ता॒दृ-ञ्च॑ चैता॒दृम् । 30) ए॒ता॒दृ-ञ्च॑ चैता॒दृं ंए॑ता॒दृ-ञ्च॑ । 31) च॒ प्र॒ति॒दृ-म्प्र॑ति॒दृ-ञ्च॑ च प्रति॒दृम् । 32) प्र॒ति॒दृ-ञ्च॑ च प्रति॒दृ-म्प्र॑ति॒दृ-ञ्च॑ । 32) प्र॒ति॒दृङ्ङिति॑ प्रति - दृम् । 33) च॒ मि॒तो मि॒तश्च॑ च मि॒तः । 34) मि॒तश्च॑ च मि॒तो मि॒तश्च॑ । 35) च॒ सम्मि॑त॒-स्सम्मि॑तश्च च॒ सम्मि॑तः । 36) सम्मि॑तश्च च॒ सम्मि॑त॒-स्सम्मि॑तश्च । 36) सम्मि॑त॒ इति॒ सं - मि॒तः॒ । 37) च॒ सभ॑रा॒-स्सभ॑राश्च च॒ सभ॑राः । 38) सभ॑रा॒ इति॒ स - भ॒राः॒ । 39) शु॒क्रज्यो॑तिश्च च शु॒क्रज्यो॑ति-श्शु॒क्रज्यो॑तिश्च । 39) शु॒क्रज्यो॑ति॒रिति॑ शु॒क्र - ज्यो॒तिः॒ । 40) च॒ चि॒त्रज्यो॑ति श्चि॒त्रज्यो॑तिश्च च चि॒त्रज्यो॑तिः । 41) चि॒त्रज्यो॑तिश्च च चि॒त्रज्यो॑ति श्चि॒त्रज्यो॑तिश्च । 41) चि॒त्रज्यो॑ति॒रिति॑ चि॒त्र - ज्यो॒तिः॒ । 42) च॒ स॒त्यज्यो॑ति-स्स॒त्यज्यो॑तिश्च च स॒त्यज्यो॑तिः । 43) स॒त्यज्यो॑तिश्च च स॒त्यज्यो॑ति-स्स॒त्यज्यो॑तिश्च । 43) स॒त्यज्यो॑ति॒रिति॑ स॒त्य - ज्यो॒तिः॒ । 44) च॒ ज्योति॑ष्मा॒न् ज्योति॑ष्माग्श्च च॒ ज्योति॑ष्मान् । 45) ज्योति॑ष्माग्श्च च॒ ज्योति॑ष्मा॒न् ज्योति॑ष्माग्श्च । 46) च॒ स॒त्य-स्स॒त्यश्च॑ च स॒त्यः । 47) स॒त्यश्च॑ च स॒त्य-स्स॒त्यश्च॑ । 48) च॒ र्त॒पा ऋ॑त॒पाश्च॑ च र्त॒पाः । 49) ऋ॒त॒पाश्च॑ च र्त॒पा ऋ॑त॒पाश्च॑ । 49) ऋ॒त॒पा इत्यृ॑त - पाः । 50) चात्यग्ं॑हा॒ अत्यग्ं॑हाश्च॒ चात्यग्ं॑हाः । ॥ 25 ॥ (50/61)
1) अत्यग्ं॑हा॒ इत्यति॑ - अ॒ग्ं॒हाः॒ । 2) अ॒ग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये॒ ऽग्नये॒ स्वाहा᳚ । 3) स्वाहा॒ सोमा॑य॒ सोमा॑य॒ स्वाहा॒ स्वाहा॒ सोमा॑य । 4) सोमा॑य॒ स्वाहा॒ स्वाहा॒ सोमा॑य॒ सोमा॑य॒ स्वाहा᳚ । 5) स्वाहा॑ सवि॒त्रे स॑वि॒त्रे स्वाहा॒ स्वाहा॑ सवि॒त्रे । 6) स॒वि॒त्रे स्वाहा॒ स्वाहा॑ सवि॒त्रे स॑वि॒त्रे स्वाहा᳚ । 7) स्वाहा॒ सर॑स्वत्यै॒ सर॑स्वत्यै॒ स्वाहा॒ स्वाहा॒ सर॑स्वत्यै । 8) सर॑स्वत्यै॒ स्वाहा॒ स्वाहा॒ सर॑स्वत्यै॒ सर॑स्वत्यै॒ स्वाहा᳚ । 9) स्वाहा॑ पू॒ष्णे पू॒ष्णे स्वाहा॒ स्वाहा॑ पू॒ष्णे । 10) पू॒ष्णे स्वाहा॒ स्वाहा॑ पू॒ष्णे पू॒ष्णे स्वाहा᳚ । 11) स्वाहा॒ बृह॒स्पत॑ये॒ बृह॒स्पत॑ये॒ स्वाहा॒ स्वाहा॒ बृह॒स्पत॑ये । 12) बृह॒स्पत॑ये॒ स्वाहा॒ स्वाहा॒ बृह॒स्पत॑ये॒ बृह॒स्पत॑ये॒ स्वाहा᳚ । 13) स्वाहेन्द्रा॒ये न्द्रा॑य॒ स्वाहा॒ स्वाहेन्द्रा॑य । 14) इन्द्रा॑य॒ स्वाहा॒ स्वाहेन्द्रा॒ये न्द्रा॑य॒ स्वाहा᳚ । 15) स्वाहा॒ घोषा॑य॒ घोषा॑य॒ स्वाहा॒ स्वाहा॒ घोषा॑य । 16) घोषा॑य॒ स्वाहा॒ स्वाहा॒ घोषा॑य॒ घोषा॑य॒ स्वाहा᳚ । 17) स्वाहा॒ श्लोका॑य॒ श्लोका॑य॒ स्वाहा॒ स्वाहा॒ श्लोका॑य । 18) श्लोका॑य॒ स्वाहा॒ स्वाहा॒ श्लोका॑य॒ श्लोका॑य॒ स्वाहा᳚ । 19) स्वाहा-ऽग्ं शा॒याग्ंशा॑य॒ स्वाहा॒ स्वाहा-ऽग्ं शा॑य । 20) अग्ंशा॑य॒ स्वाहा॒ स्वाहा-ऽग्ं शा॒याग्ंशा॑य॒ स्वाहा᳚ । 21) स्वाहा॒ भगा॑य॒ भगा॑य॒ स्वाहा॒ स्वाहा॒ भगा॑य । 22) भगा॑य॒ स्वाहा॒ स्वाहा॒ भगा॑य॒ भगा॑य॒ स्वाहा᳚ । 23) स्वाहा॒ क्षेत्र॑स्य॒ क्षेत्र॑स्य॒ स्वाहा॒ स्वाहा॒ क्षेत्र॑स्य । 24) क्षेत्र॑स्य॒ पत॑ये॒ पत॑ये॒ क्षेत्र॑स्य॒ क्षेत्र॑स्य॒ पत॑ये । 25) पत॑ये॒ स्वाहा॒ स्वाहा॒ पत॑ये॒ पत॑ये॒ स्वाहा᳚ । 26) स्वाहा॑ पृथि॒व्यै पृ॑थि॒व्यै स्वाहा॒ स्वाहा॑ पृथि॒व्यै । 27) पृ॒थि॒व्यै स्वाहा॒ स्वाहा॑ पृथि॒व्यै पृ॑थि॒व्यै स्वाहा᳚ । 28) स्वाहा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय॒ स्वाहा॒ स्वाहा॒ ऽन्तरि॑क्षाय । 29) अ॒न्तरि॑क्षाय॒ स्वाहा॒ स्वाहा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय॒ स्वाहा᳚ । 30) स्वाहा॑ दि॒वे दि॒वे स्वाहा॒ स्वाहा॑ दि॒वे । 31) दि॒वे स्वाहा॒ स्वाहा॑ दि॒वे दि॒वे स्वाहा᳚ । 32) स्वाहा॒ सूर्या॑य॒ सूर्या॑य॒ स्वाहा॒ स्वाहा॒ सूर्या॑य । 33) सूर्या॑य॒ स्वाहा॒ स्वाहा॒ सूर्या॑य॒ सूर्या॑य॒ स्वाहा᳚ । 34) स्वाहा॑ च॒न्द्रम॑से च॒न्द्रम॑से॒ स्वाहा॒ स्वाहा॑ च॒न्द्रम॑से । 35) च॒न्द्रम॑से॒ स्वाहा॒ स्वाहा॑ च॒न्द्रम॑से च॒न्द्रम॑से॒ स्वाहा᳚ । 36) स्वाहा॒ नक्ष॑त्रेभ्यो॒ नक्ष॑त्रेभ्य॒-स्स्वाहा॒ स्वाहा॒ नक्ष॑त्रेभ्यः । 37) नक्ष॑त्रेभ्य॒-स्स्वाहा॒ स्वाहा॒ नक्ष॑त्रेभ्यो॒ नक्ष॑त्रेभ्य॒-स्स्वाहा᳚ । 38) स्वाहा॒ ऽद्भ्यो᳚ ऽद्भ्य-स्स्वाहा॒ स्वाहा॒ ऽद्भ्यः । 39) अ॒द्भ्य-स्स्वाहा॒ स्वाहा॒ ऽद्भ्यो᳚ ऽद्भ्य-स्स्वाहा᳚ । 39) अ॒द्भ्य इत्य॑त् - भ्यः । 40) स्वाहौष॑धीभ्य॒ ओष॑धीभ्य॒-स्स्वाहा॒ स्वाहौष॑धीभ्यः । 41) ओष॑धीभ्य॒-स्स्वाहा॒ स्वाहौष॑धीभ्य॒ ओष॑धीभ्य॒-स्स्वाहा᳚ । 41) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । 42) स्वाहा॒ वन॒स्पति॑भ्यो॒ वन॒स्पति॑भ्य॒-स्स्वाहा॒ स्वाहा॒ वन॒स्पति॑भ्यः । 43) वन॒स्पति॑भ्य॒-स्स्वाहा॒ स्वाहा॒ वन॒स्पति॑भ्यो॒ वन॒स्पति॑भ्य॒-स्स्वाहा᳚ । 43) वन॒स्पति॑भ्य॒ इति॒ वन॒स्पति॑ - भ्यः॒ । 44) स्वाहा॑ चराच॒रेभ्य॑ श्चराच॒रेभ्य॒-स्स्वाहा॒ स्वाहा॑ चराच॒रेभ्यः॑ । 45) च॒रा॒च॒रेभ्य॒-स्स्वाहा॒ स्वाहा॑ चराच॒रेभ्य॑ श्चराच॒रेभ्य॒-स्स्वाहा᳚ । 46) स्वाहा॑ परिप्ल॒वेभ्यः॑ परिप्ल॒वेभ्य॒-स्स्वाहा॒ स्वाहा॑ परिप्ल॒वेभ्यः॑ । 47) प॒रि॒प्ल॒वेभ्य॒-स्स्वाहा॒ स्वाहा॑ परिप्ल॒वेभ्यः॑ परिप्ल॒वेभ्य॒-स्स्वाहा᳚ । 47) प॒रि॒प्ल॒वेभ्य॒ इति॑ परि - प्ल॒वेभ्यः॑ । 48) स्वाहा॑ सरीसृ॒पेभ्य॑-स्सरीसृ॒पेभ्य॒-स्स्वाहा॒ स्वाहा॑ सरीसृ॒पेभ्यः॑ । 49) स॒री॒सृ॒पेभ्य॒-स्स्वाहा॒ स्वाहा॑ सरीसृ॒पेभ्य॑-स्सरीसृ॒पेभ्य॒-स्स्वाहा᳚ । 50) स्वाहेति॒ स्वाहा᳚ । ॥ 26 ॥ (50/54) ॥ अ. 13 ॥
1) सोम॑स्य॒ त्विषि॒ स्त्विषि॒-स्सोम॑स्य॒ सोम॑स्य॒ त्विषिः॑ । 2) त्विषि॑ रस्यसि॒ त्विषि॒ स्त्विषि॑ रसि । 3) अ॒सि॒ तव॒ तवा᳚स्यसि॒ तव॑ । 4) तवे॑ वे व॒ तव॒ तवे॑ व । 5) इ॒व॒ मे॒ म॒ इ॒वे॒ व॒ मे॒ । 6) मे॒ त्विषि॒ स्त्विषि॑-र्मे मे॒ त्विषिः॑ । 7) त्विषि॑-र्भूया-द्भूया॒-त्त्विषि॒ स्त्विषि॑-र्भूयात् । 8) भू॒या॒ द॒मृत॑ म॒मृत॑-म्भूया-द्भूया द॒मृत᳚म् । 9) अ॒मृत॑ मस्य स्य॒मृत॑ म॒मृत॑ मसि । 10) अ॒सि॒ मृ॒त्यो-र्मृ॒त्यो र॑स्यसि मृ॒त्योः । 11) मृ॒त्यो-र्मा॑ मा मृ॒त्यो-र्मृ॒त्यो-र्मा᳚ । 12) मा॒ पा॒हि॒ पा॒हि॒ मा॒ मा॒ पा॒हि॒ । 13) पा॒हि॒ दि॒द्यो-द्दि॒द्यो-त्पा॑हि पाहि दि॒द्योत् । 14) दि॒द्यो-न्मा॑ मा दि॒द्यो-द्दि॒द्यो-न्मा᳚ । 15) मा॒ पा॒हि॒ पा॒हि॒ मा॒ मा॒ पा॒हि॒ । 16) पा॒ह्यवे᳚ष्टा॒ अवे᳚ष्टाः पाहि पा॒ह्यवे᳚ष्टाः । 17) अवे᳚ष्टा दन्द॒शूका॑ दन्द॒शूका॒ अवे᳚ष्टा॒ अवे᳚ष्टा दन्द॒शूकाः᳚ । 17) अवे᳚ष्टा॒ इत्यव॑ - इ॒ष्टाः॒ । 18) द॒न्द॒शूका॒ निर॑स्त॒-न्निर॑स्त-न्दन्द॒शूका॑ दन्द॒शूका॒ निर॑स्तम् । 19) निर॑स्त॒-न्नमु॑चे॒-र्नमु॑चे॒-र्निर॑स्त॒-न्निर॑स्त॒-न्नमु॑चेः । 19) निर॑स्त॒मिति॒ निः - अ॒स्त॒म् । 20) नमु॑चे॒-श्शिर॒-श्शिरो॒ नमु॑चे॒-र्नमु॑चे॒-श्शिरः॑ । 21) शिर॒ इति॒ शिरः॑ । 22) सोमो॒ राजा॒ राजा॒ सोम॒-स्सोमो॒ राजा᳚ । 23) राजा॒ वरु॑णो॒ वरु॑णो॒ राजा॒ राजा॒ वरु॑णः । 24) वरु॑णो दे॒वा दे॒वा वरु॑णो॒ वरु॑णो दे॒वाः । 25) दे॒वा ध॑र्म॒सुवो॑ धर्म॒सुवो॑ दे॒वा दे॒वा ध॑र्म॒सुवः॑ । 26) ध॒र्म॒सुव॑श्च च धर्म॒सुवो॑ धर्म॒सुव॑श्च । 26) ध॒र्म॒सुव॒ इति॑ धर्म - सुवः॑ । 27) च॒ ये ये च॑ च॒ ये । 28) य इति॒ ये । 29) ते ते॑ ते॒ ते ते ते᳚ । 30) ते॒ वाचं॒-वाँच॑-न्ते ते॒ वाच᳚म् । 31) वाचग्ं॑ सुवन्ताग्ं सुवन्तां॒-वाँचं॒-वाँचग्ं॑ सुवन्ताम् । 32) सु॒व॒न्ता॒-न्ते ते सु॑वन्ताग्ं सुवन्ता॒-न्ते । 33) ते ते॑ ते॒ ते ते ते᳚ । 34) ते॒ प्रा॒ण-म्प्रा॒ण-न्ते॑ ते प्रा॒णम् । 35) प्रा॒णग्ं सु॑वन्ताग्ं सुवन्ता-म्प्रा॒ण-म्प्रा॒णग्ं सु॑वन्ताम् । 35) प्रा॒णमिति॑ प्र - अ॒नम् । 36) सु॒व॒न्ता॒-न्ते ते सु॑वन्ताग्ं सुवन्ता॒-न्ते । 37) ते ते॑ ते॒ ते ते ते᳚ । 38) ते॒ चक्षु॒ श्चक्षु॑ स्ते ते॒ चक्षुः॑ । 39) चक्षु॑-स्सुवन्ताग्ं सुवन्ता॒-ञ्चक्षु॒ श्चक्षु॑-स्सुवन्ताम् । 40) सु॒व॒न्ता॒-न्ते ते सु॑वन्ताग्ं सुवन्ता॒-न्ते । 41) ते ते॑ ते॒ ते ते ते᳚ । 42) ते॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑-न्ते ते॒ श्रोत्र᳚म् । 43) श्रोत्रग्ं॑ सुवन्ताग्ं सुवन्ता॒ग्॒ श्रोत्र॒ग्ग्॒ श्रोत्रग्ं॑ सुवन्ताम् । 44) सु॒व॒न्ता॒ग्ं॒ सोम॑स्य॒ सोम॑स्य सुवन्ताग्ं सुवन्ता॒ग्ं॒ सोम॑स्य । 45) सोम॑स्य त्वा त्वा॒ सोम॑स्य॒ सोम॑स्य त्वा । 46) त्वा॒ द्यु॒म्नेन॑ द्यु॒म्नेन॑ त्वा त्वा द्यु॒म्नेन॑ । 47) द्यु॒म्नेना॒ भ्य॑भि द्यु॒म्नेन॑ द्यु॒म्नेना॒भि । 48) अ॒भि षि॑ञ्चामि सिञ्चा म्य॒भ्य॑भि षि॑ञ्चामि । 49) सि॒ञ्चा॒ म्य॒ग्ने र॒ग्ने-स्सि॑ञ्चामि सिञ्चा म्य॒ग्नेः । 50) अ॒ग्ने स्तेज॑सा॒ तेज॑सा॒ ऽग्ने र॒ग्ने स्तेज॑सा । ॥ 27 ॥ (50/54)
1) तेज॑सा॒ सूर्य॑स्य॒ सूर्य॑स्य॒ तेज॑सा॒ तेज॑सा॒ सूर्य॑स्य । 2) सूर्य॑स्य॒ वर्च॑सा॒ वर्च॑सा॒ सूर्य॑स्य॒ सूर्य॑स्य॒ वर्च॑सा । 3) वर्च॒सेन्द्र॒स्ये न्द्र॑स्य॒ वर्च॑सा॒ वर्च॒सेन्द्र॑स्य । 4) इन्द्र॑स्ये न्द्रि॒येणे᳚ न्द्रि॒येणे न्द्र॒स्ये न्द्र॑स्ये न्द्रि॒येण॑ । 5) इ॒न्द्रि॒येण॑ मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयो रिन्द्रि॒येणे᳚ न्द्रि॒येण॑ मि॒त्रावरु॑णयोः । 6) मि॒त्रावरु॑णयो-र्वी॒र्ये॑ण वी॒र्ये॑ण मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयो-र्वी॒र्ये॑ण । 6) मि॒त्रावरु॑णयो॒रिति॑ मि॒त्रा - वरु॑णयोः । 7) वी॒र्ये॑ण म॒रुता᳚-म्म॒रुतां᳚-वीँ॒र्ये॑ण वी॒र्ये॑ण म॒रुता᳚म् । 8) म॒रुता॒ मोज॒ सौज॑सा म॒रुता᳚-म्म॒रुता॒ मोज॑सा । 9) ओज॑सा क्ष॒त्राणा᳚-ङ्क्ष॒त्राणा॒ मोज॒ सौज॑सा क्ष॒त्राणा᳚म् । 10) क्ष॒त्राणा᳚-ङ्क्ष॒त्रप॑तिः, क्ष॒त्रप॑तिः, क्ष॒त्राणा᳚-ङ्क्ष॒त्राणा᳚-ङ्क्ष॒त्रप॑तिः । 11) क्ष॒त्रप॑ति रस्यसि क्ष॒त्रप॑तिः, क्ष॒त्रप॑ति रसि । 11) क्ष॒त्रप॑ति॒रिति॑ क्ष॒त्र - प॒तिः॒ । 12) अ॒स्य त्यत्य॑स्य॒ स्यति॑ । 13) अति॑ दि॒वो दि॒वो ऽत्यति॑ दि॒वः । 14) दि॒व स्पा॑हि पाहि दि॒वो दि॒व स्पा॑हि । 15) पा॒हि॒ स॒माव॑वृत्र-न्थ्स॒माव॑वृत्र-न्पाहि पाहि स॒माव॑वृत्रन्न् । 16) स॒माव॑वृत्र-न्नध॒राग॑ध॒रा-ख्स॒माव॑वृत्र-न्थ्स॒माव॑वृत्र-न्नध॒राक् । 16) स॒माव॑वृत्र॒न्निति॑ सं - आव॑वृत्रन्न् । 17) अ॒ध॒रा गुदी॑ची॒ रुदी॑ची रध॒रा ग॑ध॒रा गुदी॑चीः । 18) उदी॑ची॒ रहि॒ महि॒ मुदी॑ची॒ रुदी॑ची॒ रहि᳚म् । 19) अहि॑-म्बु॒द्ध्निय॑-म्बु॒द्ध्निय॒ महि॒ महि॑-म्बु॒द्ध्निय᳚म् । 20) बु॒द्ध्निय॒ मन्वनु॑ बु॒द्ध्निय॑-म्बु॒द्ध्निय॒ मनु॑ । 21) अनु॑ स॒ञ्चर॑न्ती-स्स॒ञ्चर॑न्ती॒ रन्वनु॑ स॒ञ्चर॑न्तीः । 22) स॒ञ्चर॑न्ती॒ स्तास्ता-स्स॒ञ्चर॑न्ती-स्स॒ञ्चर॑न्ती॒ स्ताः । 22) स॒ञ्चर॑न्ती॒रिति॑ सं - चर॑न्तीः । 23) ताः पर्व॑तस्य॒ पर्व॑तस्य॒ तास्ताः पर्व॑तस्य । 24) पर्व॑तस्य वृष॒भस्य॑ वृष॒भस्य॒ पर्व॑तस्य॒ पर्व॑तस्य वृष॒भस्य॑ । 25) वृ॒ष॒भस्य॑ पृ॒ष्ठे पृ॒ष्ठे वृ॑ष॒भस्य॑ वृष॒भस्य॑ पृ॒ष्ठे । 26) पृ॒ष्ठे नावो॒ नावः॑ पृ॒ष्ठे पृ॒ष्ठे नावः॑ । 27) नाव॑ श्चरन्ति चरन्ति॒ नावो॒ नाव॑ श्चरन्ति । 28) च॒र॒न्ति॒ स्व॒सिच॑-स्स्व॒सिच॑ श्चरन्ति चरन्ति स्व॒सिचः॑ । 29) स्व॒सिच॑ इया॒ना इ॑या॒ना-स्स्व॒सिच॑-स्स्व॒सिच॑ इया॒नाः । 29) स्व॒सिच॒ इति॑ स्व - सिचः॑ । 30) इ॒या॒ना इती॑या॒नाः । 31) रुद्र॒ य-द्य-द्रुद्र॒ रुद्र॒ यत् । 32) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 33) ते॒ क्रयि॒ क्रयि॑ ते ते॒ क्रयि॑ । 34) क्रयी॒ पर॒-म्पर॒-ङ्क्रयि॒ क्रयी॒ पर᳚म् । 35) पर॒-न्नाम॒ नाम॒ पर॒-म्पर॒-न्नाम॑ । 36) नाम॒ तस्मै॒ तस्मै॒ नाम॒ नाम॒ तस्मै᳚ । 37) तस्मै॑ हु॒तग्ं हु॒त-न्तस्मै॒ तस्मै॑ हु॒तम् । 38) हु॒त म॑स्यसि हु॒तग्ं हु॒त म॑सि । 39) अ॒सि॒ य॒मेष्टं॑-यँ॒मेष्ट॑ मस्यसि य॒मेष्ट᳚म् । 40) य॒मेष्ट॑ मस्यसि य॒मेष्टं॑-यँ॒मेष्ट॑ मसि । 40) य॒मेष्ट॒मिति॑ य॒म - इ॒ष्ट॒म् । 41) अ॒सीत्य॑सि । 42) प्रजा॑पते॒ न न प्रजा॑पते॒ प्रजा॑पते॒ न । 42) प्रजा॑पत॒ इति॒ प्रजा᳚ - प॒ते॒ । 43) न त्व-त्त्व-न्न न त्वत् । 44) त्वदे॒ता न्ये॒तानि॒ त्व-त्त्वदे॒तानि॑ । 45) ए॒तान्य॒न्यो᳚ ऽन्य ए॒ता न्ये॒ता न्य॒न्यः । 46) अ॒न्यो विश्वा॒ विश्वा॒ ऽन्यो᳚ ऽन्यो विश्वा᳚ । 47) विश्वा॑ जा॒तानि॑ जा॒तानि॒ विश्वा॒ विश्वा॑ जा॒तानि॑ । 48) जा॒तानि॒ परि॒ परि॑ जा॒तानि॑ जा॒तानि॒ परि॑ । 49) परि॒ ता ता परि॒ परि॒ ता । 50) ता ब॑भूव बभूव॒ ता ता ब॑भूव । 51) ब॒भू॒वेति॑ बभूव । 52) यत्का॑मा स्ते ते॒ यत्का॑मा॒ यत्का॑मा स्ते । 52) यत्का॑मा॒ इति॒ यत् - का॒माः॒ । 53) ते॒ जु॒हु॒मो जु॑हु॒म स्ते॑ ते जुहु॒मः । 54) जु॒हु॒म स्त-त्तज् जु॑हु॒मो जु॑हु॒म स्तत् । 55) त-न्नो॑ न॒ स्त-त्त-न्नः॑ । 56) नो॒ अ॒ स्त्व॒स्तु॒ नो॒ नो॒ अ॒स्तु॒ । 57) अ॒स्तु॒ व॒यं-वँ॒य म॑ स्त्वस्तु व॒यम् । 58) व॒यग्ग् स्या॑म स्याम व॒यं-वँ॒यग्ग् स्या॑म । 59) स्या॒म॒ पत॑यः॒ पत॑य-स्स्याम स्याम॒ पत॑यः । 60) पत॑यो रयी॒णाग्ं र॑यी॒णा-म्पत॑यः॒ पत॑यो रयी॒णाम् । 61) र॒यी॒णामिति॑ रयी॒णाम् । ॥ 28 ॥ (61/69) ॥ अ. 14 ॥
1) इन्द्र॑स्य॒ वज्रो॒ वज्र॒ इन्द्र॒स्ये न्द्र॑स्य॒ वज्रः॑ । 2) वज्रो᳚ ऽस्यसि॒ वज्रो॒ वज्रो॑ ऽसि । 3) अ॒सि॒ वार्त्र॑घ्नो॒ वार्त्र॑घ्नो ऽस्यसि॒ वार्त्र॑घ्नः । 4) वार्त्र॑घ्न॒ स्त्वया॒ त्वया॒ वार्त्र॑घ्नो॒ वार्त्र॑घ्न॒ स्त्वया᳚ । 4) वार्त्र॑घ्न॒ इति॒ वार्त्र॑ - घ्नः॒ । 5) त्वया॒ ऽय म॒य-न्त्वया॒ त्वया॒ ऽयम् । 6) अ॒यं-वृँ॒त्रं-वृँ॒त्र म॒य म॒यं-वृँ॒त्रम् । 7) वृ॒त्रं-वँ॑द्ध्या-द्वद्ध्या-द्वृ॒त्रं-वृँ॒त्रं-वँ॑द्ध्यात् । 8) व॒द्ध्या॒-न्मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयो-र्वद्ध्या-द्वद्ध्या-न्मि॒त्रावरु॑णयोः । 9) मि॒त्रावरु॑णयो स्त्वा त्वा मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयो स्त्वा । 9) मि॒त्रावरु॑णयो॒रिति॑ मि॒त्रा - वरु॑णयोः । 10) त्वा॒ प्र॒शा॒स्त्रोः प्र॑शा॒स्त्रो स्त्वा᳚ त्वा प्रशा॒स्त्रोः । 11) प्र॒शा॒स्त्रोः प्र॒शिषा᳚ प्र॒शिषा᳚ प्रशा॒स्त्रोः प्र॑शा॒स्त्रोः प्र॒शिषा᳚ । 11) प्र॒शा॒स्त्रोरिति॑ प्र - शा॒स्त्रोः । 12) प्र॒शिषा॑ युनज्मि युनज्मि प्र॒शिषा᳚ प्र॒शिषा॑ युनज्मि । 12) प्र॒शिषेति॑ प्र - शिषा᳚ । 13) यु॒न॒ज्मि॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ युनज्मि युनज्मि य॒ज्ञस्य॑ । 14) य॒ज्ञस्य॒ योगे॑न॒ योगे॑न य॒ज्ञस्य॑ य॒ज्ञस्य॒ योगे॑न । 15) योगे॑न॒ विष्णो॒-र्विष्णो॒-र्योगे॑न॒ योगे॑न॒ विष्णोः᳚ । 16) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ । 17) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि । 18) अ॒सि॒ विष्णो॒-र्विष्णो॑ रस्यसि॒ विष्णोः᳚ । 19) विष्णोः᳚ क्रा॒न्त-ङ्क्रा॒न्तं-विँष्णो॒-र्विष्णोः᳚ क्रा॒न्तम् । 20) क्रा॒न्त म॑स्यसि क्रा॒न्त-ङ्क्रा॒न्त म॑सि । 21) अ॒सि॒ विष्णो॒-र्विष्णो॑ रस्यसि॒ विष्णोः᳚ । 22) विष्णो॒-र्विक्रा᳚न्तं॒-विँक्रा᳚न्तं॒-विँष्णो॒-र्विष्णो॒-र्विक्रा᳚न्तम् । 23) विक्रा᳚न्त मस्यसि॒ विक्रा᳚न्तं॒-विँक्रा᳚न्त मसि । 23) विक्रा᳚न्त॒मिति॒ वि - क्रा॒न्त॒म् । 24) अ॒सि॒ म॒रुता᳚-म्म॒रुता॑ मस्यसि म॒रुता᳚म् । 25) म॒रुता᳚-म्प्रस॒वे प्र॑स॒वे म॒रुता᳚-म्म॒रुता᳚-म्प्रस॒वे । 26) प्र॒स॒वे जे॑ष-ञ्जेष-म्प्रस॒वे प्र॑स॒वे जे॑षम् । 26) प्र॒स॒व इति॑ प्र - स॒वे । 27) जे॒ष॒ मा॒प्त मा॒प्त-ञ्जे॑ष-ञ्जेष मा॒प्तम् । 28) आ॒प्त-म्मनो॒ मन॑ आ॒प्त मा॒प्त-म्मनः॑ । 29) मन॒-स्सग्ं स-म्मनो॒ मन॒-स्सम् । 30) स म॒ह म॒हग्ं सग्ं स म॒हम् । 31) अ॒ह मि॑न्द्रि॒येणे᳚ न्द्रि॒येणा॒ह म॒ह मि॑न्द्रि॒येण॑ । 32) इ॒न्द्रि॒येण॑ वी॒र्ये॑ण वी॒र्ये॑णे न्द्रि॒येणे᳚ न्द्रि॒येण॑ वी॒र्ये॑ण । 33) वी॒र्ये॑ण पशू॒ना-म्प॑शू॒नां-वीँ॒र्ये॑ण वी॒र्ये॑ण पशू॒नाम् । 34) प॒शू॒ना-म्म॒न्यु-र्म॒न्युः प॑शू॒ना-म्प॑शू॒ना-म्म॒न्युः । 35) म॒न्यु र॑स्यसि म॒न्यु-र्म॒न्यु र॑सि । 36) अ॒सि॒ तव॒ तवा᳚ स्यसि॒ तव॑ । 37) तवे॑ वे व॒ तव॒ तवे॑ व । 38) इ॒व॒ मे॒ म॒ इ॒वे॒ व॒ मे॒ । 39) मे॒ म॒न्यु-र्म॒न्यु-र्मे॑ मे म॒न्युः । 40) म॒न्यु-र्भू॑या-द्भूया-न्म॒न्यु-र्म॒न्यु-र्भू॑यात् । 41) भू॒या॒-न्नमो॒ नमो॑ भूया-द्भूया॒-न्नमः॑ । 42) नमो॑ मा॒त्रे मा॒त्रे नमो॒ नमो॑ मा॒त्रे । 43) मा॒त्रे पृ॑थि॒व्यै पृ॑थि॒व्यै मा॒त्रे मा॒त्रे पृ॑थि॒व्यै । 44) पृ॒थि॒व्यै मा मा पृ॑थि॒व्यै पृ॑थि॒व्यै मा । 45) मा ऽह म॒ह-म्मा मा ऽहम् । 46) अ॒ह-म्मा॒तर॑-म्मा॒तर॑ म॒ह म॒ह-म्मा॒तर᳚म् । 47) मा॒तर॑-म्पृथि॒वी-म्पृ॑थि॒वी-म्मा॒तर॑-म्मा॒तर॑-म्पृथि॒वीम् । 48) पृ॒थि॒वीग्ं हिग्ं॑सिषग्ं हिग्ंसिष-म्पृथि॒वी-म्पृ॑थि॒वीग्ं हिग्ं॑सिषम् । 49) हि॒ग्ं॒सि॒ष॒-म्मा मा हिग्ं॑सिषग्ं हिग्ंसिष॒-म्मा । 50) मा मा-म्मा-म्मा मा माम् । ॥ 29 ॥ (50/56)
1) मा-म्मा॒ता मा॒ता मा-म्मा-म्मा॒ता । 2) मा॒ता पृ॑थि॒वी पृ॑थि॒वी मा॒ता मा॒ता पृ॑थि॒वी । 3) पृ॒थि॒वी हिग्ं॑सी द्धिग्ंसी-त्पृथि॒वी पृ॑थि॒वी हिग्ं॑सीत् । 4) हि॒ग्ं॒सी॒ दिय॒ दिय॑ द्धिग्ंसी-द्धिग्ंसी॒ दिय॑त् । 5) इय॑ दस्य॒सीय॒ दिय॑ दसि । 6) अ॒स्यायु॒ रायु॑ रस्य॒ स्यायुः॑ । 7) आयु॑ रस्य॒स्यायु॒ रायु॑ रसि । 8) अ॒स्यायु॒ रायु॑ रस्य॒ स्यायुः॑ । 9) आयु॑-र्मे म॒ आयु॒ रायु॑-र्मे । 10) मे॒ धे॒हि॒ धे॒हि॒ मे॒ मे॒ धे॒हि॒ । 11) धे॒ह्यू-र्गूर्ग् धे॑हि धे॒ह्यूर्क् । 12) ऊर्ग॑स्य॒ स्यूर्गू-र्ग॑सि । 13) अ॒स्यूर्ज॒ मूर्ज॑ मस्य॒ स्यूर्ज᳚म् । 14) ऊर्ज॑-म्मे म॒ ऊर्ज॒ मूर्ज॑-म्मे । 15) मे॒ धे॒हि॒ धे॒हि॒ मे॒ मे॒ धे॒हि॒ । 16) धे॒हि॒ युं-युँ-न्धे॑हि धेहि॒ युम् । 17) युं ंअ॑स्यसि॒ युं-युंँ ंअ॑सि । 18) अ॒सि॒ वर्चो॒ वर्चो᳚ ऽस्यसि॒ वर्चः॑ । 19) वर्चो᳚ ऽस्यसि॒ वर्चो॒ वर्चो॑ ऽसि । 20) अ॒सि॒ वर्चो॒ वर्चो᳚ ऽस्यसि॒ वर्चः॑ । 21) वर्चो॒ मयि॒ मयि॒ वर्चो॒ वर्चो॒ मयि॑ । 22) मयि॑ धेहि धेहि॒ मयि॒ मयि॑ धेहि । 23) धे॒ह्य॒ग्नये॒ ऽग्नये॑ धेहि धेह्य॒ग्नये᳚ । 24) अ॒ग्नये॑ गृ॒हप॑तये गृ॒हप॑तये॒ ऽग्नये॒ ऽग्नये॑ गृ॒हप॑तये । 25) गृ॒हप॑तये॒ स्वाहा॒ स्वाहा॑ गृ॒हप॑तये गृ॒हप॑तये॒ स्वाहा᳚ । 25) गृ॒हप॑तय॒ इति॑ गृ॒ह - प॒त॒ये॒ । 26) स्वाहा॒ सोमा॑य॒ सोमा॑य॒ स्वाहा॒ स्वाहा॒ सोमा॑य । 27) सोमा॑य॒ वन॒स्पत॑ये॒ वन॒स्पत॑ये॒ सोमा॑य॒ सोमा॑य॒ वन॒स्पत॑ये । 28) वन॒स्पत॑ये॒ स्वाहा॒ स्वाहा॒ वन॒स्पत॑ये॒ वन॒स्पत॑ये॒ स्वाहा᳚ । 29) स्वाहेन्द्र॒स्ये न्द्र॑स्य॒ स्वाहा॒ स्वाहेन्द्र॑स्य । 30) इन्द्र॑स्य॒ बला॑य॒ बला॒ये न्द्र॒स्ये न्द्र॑स्य॒ बला॑य । 31) बला॑य॒ स्वाहा॒ स्वाहा॒ बला॑य॒ बला॑य॒ स्वाहा᳚ । 32) स्वाहा॑ म॒रुता᳚-म्म॒रुता॒ग्॒ स्वाहा॒ स्वाहा॑ म॒रुता᳚म् । 33) म॒रुता॒ मोज॑स॒ ओज॑से म॒रुता᳚-म्म॒रुता॒ मोज॑से । 34) ओज॑से॒ स्वाहा॒ स्वाहौज॑स॒ ओज॑से॒ स्वाहा᳚ । 35) स्वाहा॑ ह॒ग्ं॒सो ह॒ग्ं॒स-स्स्वाहा॒ स्वाहा॑ ह॒ग्ं॒सः । 36) ह॒ग्ं॒स-श्शु॑चि॒षच् छु॑चि॒ष द्ध॒ग्ं॒सो ह॒ग्ं॒स-श्शु॑चि॒षत् । 37) शु॒चि॒ष-द्वसु॒-र्वसु॑-श्शुचि॒षच् छु॑चि॒ष-द्वसुः॑ । 37) शु॒चि॒षदिति॑ शुचि - सत् । 38) वसु॑ रन्तरिक्ष॒स द॑न्तरिक्ष॒स-द्वसु॒-र्वसु॑ रन्तरिक्ष॒सत् । 39) अ॒न्त॒रि॒क्ष॒स द्धोता॒ होता᳚ ऽन्तरिक्ष॒स द॑न्तरिक्ष॒स द्धोता᳚ । 39) अ॒न्त॒रि॒क्ष॒सदित्य॑न्तरिक्ष - सत् । 40) होता॑ वेदि॒ष-द्वे॑दि॒ष द्धोता॒ होता॑ वेदि॒षत् । 41) वे॒दि॒ष दति॑थि॒ रति॑थि-र्वेदि॒ष-द्वे॑दि॒ष दति॑थिः । 41) वे॒दि॒षदिति॑ वेदि - सत् । 42) अति॑थि-र्दुरोण॒स-द्दु॑रोण॒स दति॑थि॒ रति॑थि-र्दुरोण॒सत् । 43) दु॒रो॒ण॒सदिति॑ दुरोण - सत् । 44) नृ॒ष-द्व॑र॒स-द्व॑र॒स-न्नृ॒ष-न्नृ॒ष-द्व॑र॒सत् । 44) नृ॒षदिति॑ नृ - सत् । 45) व॒र॒स दृ॑त॒स दृ॑त॒स-द्व॑र॒स-द्व॑र॒स दृ॑त॒सत् । 45) व॒र॒सदिति॑ वर - सत् । 46) ऋ॒त॒स-द्व्यो॑म॒स-द्व्यो॑म॒स दृ॑त॒स दृ॑त॒स-द्व्यो॑म॒सत् । 46) ऋ॒त॒सदित्यृ॑त - सत् । 47) व्यो॒म॒स द॒ब्जा अ॒ब्जा व्यो॑म॒स-द्व्यो॑म॒स द॒ब्जाः । 47) व्यो॒म॒सदिति॑ व्योम - सत् । 48) अ॒ब्जा गो॒जा गो॒जा अ॒ब्जा अ॒ब्जा गो॒जाः । 48) अ॒ब्जा इत्य॑प् - जाः । 49) गो॒जा ऋ॑त॒जा ऋ॑त॒जा गो॒जा गो॒जा ऋ॑त॒जाः । 49) गो॒जा इति॑ गो - जाः । 50) ऋ॒त॒जा अ॑द्रि॒जा अ॑द्रि॒जा ऋ॑त॒जा ऋ॑त॒जा अ॑द्रि॒जाः । 50) ऋ॒त॒जा इत्यृ॑त - जाः । 51) अ॒द्रि॒जा ऋ॒त मृ॒त म॑द्रि॒जा अ॑द्रि॒जा ऋ॒तम् । 51) अ॒द्रि॒जा इत्य॑द्रि - जाः । 52) ऋ॒त-म्बृ॒ह-द्बृ॒हदृ॒तं ऋ॒त-म्बृ॒हत् । 53) बृ॒हदिति॑ बृ॒हत् । ॥ 30 ॥ (53/65) ॥ अ. 15 ॥
1) मि॒त्रो᳚ ऽस्यसि मि॒त्रो मि॒त्रो॑ ऽसि । 2) अ॒सि॒ वरु॑णो॒ वरु॑णो ऽस्यसि॒ वरु॑णः । 3) वरु॑णो ऽस्यसि॒ वरु॑णो॒ वरु॑णो ऽसि । 4) अ॒सि॒ सग्ं स म॑स्यसि॒ सम् । 5) स म॒ह म॒हग्ं सग्ं स म॒हम् । 6) अ॒हं-विँश्वै॒-र्विश्वै॑ र॒ह म॒हं-विँश्वैः᳚ । 7) विश्वै᳚-र्दे॒वै-र्दे॒वै-र्विश्वै॒-र्विश्वै᳚-र्दे॒वैः । 8) दे॒वैः, क्ष॒त्रस्य॑ क्ष॒त्रस्य॑ दे॒वै-र्दे॒वैः, क्ष॒त्रस्य॑ । 9) क्ष॒त्रस्य॒ नाभि॒-र्नाभिः॑, क्ष॒त्रस्य॑ क्ष॒त्रस्य॒ नाभिः॑ । 10) नाभि॑ रस्यसि॒ नाभि॒-र्नाभि॑ रसि । 11) अ॒सि॒ क्ष॒त्रस्य॑ क्ष॒त्रस्या᳚स्यसि क्ष॒त्रस्य॑ । 12) क्ष॒त्रस्य॒ योनि॒-र्योनिः॑, क्ष॒त्रस्य॑ क्ष॒त्रस्य॒ योनिः॑ । 13) योनि॑ रस्यसि॒ योनि॒-र्योनि॑ रसि । 14) अ॒सि॒ स्यो॒नाग् स्यो॒ना म॑स्यसि स्यो॒नाम् । 15) स्यो॒ना मा स्यो॒नाग् स्यो॒ना मा । 16) आ सी॑द सी॒दा सी॑द । 17) सी॒द॒ सु॒षदाग्ं॑ सु॒षदाग्ं॑ सीद सीद सु॒षदा᳚म् । 18) सु॒षदा॒ मा सु॒षदाग्ं॑ सु॒षदा॒ मा । 18) सु॒षदा॒मिति॑ सु - सदा᳚म् । 19) आ सी॑द सी॒दा सी॑द । 20) सी॒द॒ मा मा सी॑द सीद॒ मा । 21) मा त्वा᳚ त्वा॒ मा मा त्वा᳚ । 22) त्वा॒ हि॒ग्ं॒सी॒ द्धि॒ग्ं॒सी॒-त्त्वा॒ त्वा॒ हि॒ग्ं॒सी॒त् । 23) हि॒ग्ं॒सी॒-न्मा मा हिग्ं॑सी द्धिग्ंसी॒-न्मा । 24) मा मा॑ मा॒ मा मा मा᳚ । 25) मा॒ हि॒ग्ं॒सी॒ द्धि॒ग्ं॒सी॒-न्मा॒ मा॒ हि॒ग्ं॒सी॒त् । 26) हि॒ग्ं॒सी॒-न्नि नि हिग्ं॑सी द्धिग्ंसी॒-न्नि । 27) नि ष॑साद ससाद॒ नि नि ष॑साद । 28) स॒सा॒द॒ धृ॒तव्र॑तो धृ॒तव्र॑त-स्ससाद ससाद धृ॒तव्र॑तः । 29) धृ॒तव्र॑तो॒ वरु॑णो॒ वरु॑णो धृ॒तव्र॑तो धृ॒तव्र॑तो॒ वरु॑णः । 29) धृ॒तव्र॑त॒ इति॑ धृ॒त - व्र॒तः॒ । 30) वरु॑णः प॒स्त्या॑सु प॒स्त्या॑सु॒ वरु॑णो॒ वरु॑णः प॒स्त्या॑सु । 31) प॒स्त्या᳚ स्वा प॒स्त्या॑सु प॒स्त्या᳚ स्वा । 32) आ साम्रा᳚ज्याय॒ साम्रा᳚ज्या॒या साम्रा᳚ज्याय । 33) साम्रा᳚ज्याय सु॒क्रतु॑-स्सु॒क्रतु॒-स्साम्रा᳚ज्याय॒ साम्रा᳚ज्याय सु॒क्रतुः॑ । 33) साम्रा᳚ज्या॒येति॒ सां - रा॒ज्या॒य॒ । 34) सु॒क्रतु॒-र्ब्रह्मा(3)-न्ब्रह्मा(3)-न्थ्सु॒क्रतु॑-स्सु॒क्रतु॒-र्ब्रह्मा(3)न् । 34) सु॒क्रतु॒रिति॑ सु - क्रतुः॑ । 35) ब्रह्मा(3)-न्त्व-न्त्व-म्ब्रह्मा(3)-न्ब्रह्मा(3)-न्त्वम् । 36) त्वग्ं रा॑ज-न्राज॒-न्त्व-न्त्वग्ं रा॑जन्न् । 37) रा॒ज॒-न्ब्र॒ह्मा ब्र॒ह्मा रा॑ज-न्राज-न्ब्र॒ह्मा । 38) ब्र॒ह्मा ऽस्य॑सि ब्र॒ह्मा ब्र॒ह्मा ऽसि॑ । 39) अ॒सि॒ स॒वि॒ता स॑वि॒ता ऽस्य॑सि सवि॒ता । 40) स॒वि॒ता ऽस्य॑सि सवि॒ता स॑वि॒ता ऽसि॑ । 41) अ॒सि॒ स॒त्यस॑व-स्स॒त्यस॑वो ऽस्यसि स॒त्यस॑वः । 42) स॒त्यस॑वो॒ ब्रह्मा(3)-न्ब्रह्मा(3)-न्थ्स॒त्यस॑व-स्स॒त्यस॑वो॒ ब्रह्मा(3)न् । 42) स॒त्यस॑व॒ इति॑ स॒त्य - स॒वः॒ । 43) ब्रह्मा(3)-न्त्व-न्त्व-म्ब्रह्मा(3)-न्ब्रह्मा(3)-न्त्वम् । 44) त्वग्ं रा॑ज-न्राज॒-न्त्व-न्त्वग्ं रा॑जन्न् । 45) रा॒ज॒-न्ब्र॒ह्मा ब्र॒ह्मा रा॑ज-न्राज-न्ब्र॒ह्मा । 46) ब्र॒ह्मा ऽस्य॑सि ब्र॒ह्मा ब्र॒ह्मा ऽसि॑ । 47) अ॒सीन्द्र॒ इन्द्रो᳚ ऽस्य॒सीन्द्रः॑ । 48) इन्द्रो᳚ ऽस्य॒सीन्द्र॒ इन्द्रो॑ ऽसि । 49) अ॒सि॒ स॒त्यौजा᳚-स्स॒त्यौजा॑ अस्यसि स॒त्यौजाः᳚ । 50) स॒त्यौजा॒ ब्रह्मा(3)-न्ब्रह्मा(3)-न्थ्स॒त्यौजा᳚-स्स॒त्यौजा॒ ब्रह्मा(3)न् । 50) स॒त्यौजा॒ इति॑ स॒त्य - ओ॒जाः॒ । ॥ 31 ॥ (50/56)
1) ब्रह्मा(3)-न्त्व-न्त्व-म्ब्रह्मा(3)-न्ब्रह्मा(3)-न्त्वम् । 2) त्वग्ं रा॑ज-न्राज॒-न्त्व-न्त्वग्ं रा॑जन्न् । 3) रा॒ज॒-न्ब्र॒ह्मा ब्र॒ह्मा रा॑ज-न्राज-न्ब्र॒ह्मा । 4) ब्र॒ह्मा ऽस्य॑सि ब्र॒ह्मा ब्र॒ह्मा ऽसि॑ । 5) अ॒सि॒ मि॒त्रो मि॒त्रो᳚ ऽस्यसि मि॒त्रः । 6) मि॒त्रो᳚ ऽस्यसि मि॒त्रो मि॒त्रो॑ ऽसि । 7) अ॒सि॒ सु॒शेव॑-स्सु॒शेवो᳚ ऽस्यसि सु॒शेवः॑ । 8) सु॒शेवो॒ ब्रह्मा(3)-न्ब्रह्मा(3)-न्थ्सु॒शेव॑-स्सु॒शेवो॒ ब्रह्मा(3)न् । 8) सु॒शेव॒ इति॑ सु - शेवः॑ । 9) ब्रह्मा(3)-न्त्व-न्त्व-म्ब्रह्मा(3)-न्ब्रह्मा(3)-न्त्वम् । 10) त्वग्ं रा॑ज-न्राज॒-न्त्व-न्त्वग्ं रा॑जन्न् । 11) रा॒ज॒-न्ब्र॒ह्मा ब्र॒ह्मा रा॑ज-न्राज-न्ब्र॒ह्मा । 12) ब्र॒ह्मा ऽस्य॑सि ब्र॒ह्मा ब्र॒ह्मा ऽसि॑ । 13) अ॒सि॒ वरु॑णो॒ वरु॑णो ऽस्यसि॒ वरु॑णः । 14) वरु॑णो ऽस्यसि॒ वरु॑णो॒ वरु॑णो ऽसि । 15) अ॒सि॒ स॒त्यध॑र्मा स॒त्यध॑र्मा ऽस्यसि स॒त्यध॑र्मा । 16) स॒त्यध॒र्मे न्द्र॒स्ये न्द्र॑स्य स॒त्यध॑र्मा स॒त्यध॒र्मे न्द्र॑स्य । 16) स॒त्यध॒र्मेति॑ स॒त्य - ध॒र्मा॒ । 17) इन्द्र॑स्य॒ वज्रो॒ वज्र॒ इन्द्र॒स्ये न्द्र॑स्य॒ वज्रः॑ । 18) वज्रो᳚ ऽस्यसि॒ वज्रो॒ वज्रो॑ ऽसि । 19) अ॒सि॒ वार्त्र॑घ्नो॒ वार्त्र॑घ्नो ऽस्यसि॒ वार्त्र॑घ्नः । 20) वार्त्र॑घ्न॒ स्तेन॒ तेन॒ वार्त्र॑घ्नो॒ वार्त्र॑घ्न॒ स्तेन॑ । 20) वार्त्र॑घ्न॒ इति॒ वार्त्र॑ - घ्नः॒ । 21) तेन॑ मे मे॒ तेन॒ तेन॑ मे । 22) मे॒ र॒द्ध्य॒ र॒द्ध्य॒ मे॒ मे॒ र॒द्ध्य॒ । 23) र॒द्ध्य॒ दिशो॒ दिशो॑ रद्ध्य रद्ध्य॒ दिशः॑ । 24) दिशो॒ ऽभ्य॑भि दिशो॒ दिशो॒ ऽभि । 25) अ॒भ्य॑य म॒य म॒भ्या᳚(1॒)भ्य॑यम् । 26) अ॒यग्ं राजा॒ राजा॒ ऽय म॒यग्ं राजा᳚ । 27) राजा॑ ऽभू दभू॒-द्राजा॒ राजा॑ ऽभूत् । 28) अ॒भू॒-थ्सुश्लो॒काँ(4) सुश्लो॒काँ(4) अ॑भूदभू॒-थ्सुश्लो॒काँ(4) । 29) सुश्लो॒काँ(4) सुम॑ङ्ग॒लाँ(4) सुम॑ङ्ग॒लाँ(4) सुश्लो॒काँ(4) सुश्लो॒काँ(4) सुम॑ङ्ग॒लाँ(4) । 29) सुश्लो॒काँ(4) इति॒ सु - श्लो॒काँ(4) । 30) सुम॑ङ्ग॒लाँ(4) सत्य॑रा॒जा(3)-न्थ्सत्य॑रा॒जा(3)-न्थ्सुम॑ङ्ग॒लाँ(4) सुम॑ङ्ग॒लाँ(4) सत्य॑रा॒जा(3)न् । 30) सुम॑ङ्ग॒लाँ(4) इति॒ सु - म॒ङ्ग॒लाँ(4) । 31) सत्य॑रा॒जा(3)निति॒ सत्य॑ - रा॒जा(3)न् । 32) अ॒पा-न्नप्त्रे॒ नप्त्रे॒ ऽपा म॒पा-न्नप्त्रे᳚ । 33) नप्त्रे॒ स्वाहा॒ स्वाहा॒ नप्त्रे॒ नप्त्रे॒ स्वाहा᳚ । 34) स्वाहो॒र्ज ऊ॒र्ज-स्स्वाहा॒ स्वाहो॒र्जः । 35) ऊ॒र्जो नप्त्रे॒ नप्त्र॑ ऊ॒र्ज ऊ॒र्जो नप्त्रे᳚ । 36) नप्त्रे॒ स्वाहा॒ स्वाहा॒ नप्त्रे॒ नप्त्रे॒ स्वाहा᳚ । 37) स्वाहा॒ ऽग्नये॒ ऽग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये᳚ । 38) अ॒ग्नये॑ गृ॒हप॑तये गृ॒हप॑तये॒ ऽग्नये॒ ऽग्नये॑ गृ॒हप॑तये । 39) गृ॒हप॑तये॒ स्वाहा॒ स्वाहा॑ गृ॒हप॑तये गृ॒हप॑तये॒ स्वाहा᳚ । 39) गृ॒हप॑तय॒ इति॑ गृ॒ह - प॒त॒ये॒ । 40) स्वाहेति॒ स्वाहा᳚ । ॥ 32 ॥ (40/46) ॥ अ. 16 ॥
1) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् । 2) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः । 2) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 3) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 4) व॒प॒ति॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्यं-वँपति वपति॒ हिर॑ण्यम् । 5) हिर॑ण्य॒-न्दक्षि॑णा॒ दक्षि॑णा॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्दक्षि॑णा । 6) दक्षि॑णा सारस्व॒तग्ं सा॑रस्व॒त-न्दक्षि॑णा॒ दक्षि॑णा सारस्व॒तम् । 7) सा॒र॒स्व॒त-ञ्च॒रु-ञ्च॒रुग्ं सा॑रस्व॒तग्ं सा॑रस्व॒त-ञ्च॒रुम् । 8) च॒रुं-वँ॑थ्सत॒री व॑थ्सत॒री च॒रु-ञ्च॒रुं-वँ॑थ्सत॒री । 9) व॒थ्स॒त॒री दक्षि॑णा॒ दक्षि॑णा वथ्सत॒री व॑थ्सत॒री दक्षि॑णा । 10) दक्षि॑णा सावि॒त्रग्ं सा॑वि॒त्र-न्दक्षि॑णा॒ दक्षि॑णा सावि॒त्रम् । 11) सा॒वि॒त्र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालग्ं सावि॒त्रग्ं सा॑वि॒त्र-न्द्वाद॑शकपालम् । 12) द्वाद॑शकपाल मुपद्ध्व॒स्त उ॑पद्ध्व॒स्तो द्वाद॑शकपाल॒-न्द्वाद॑शकपाल मुपद्ध्व॒स्तः । 12) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 13) उ॒प॒द्ध्व॒स्तो दक्षि॑णा॒ दक्षि॑णोपद्ध्व॒स्त उ॑पद्ध्व॒स्तो दक्षि॑णा । 13) उ॒प॒द्ध्व॒स्त इत्यु॑प - ध्व॒स्तः । 14) दक्षि॑णा पौ॒ष्ण-म्पौ॒ष्ण-न्दक्षि॑णा॒ दक्षि॑णा पौ॒ष्णम् । 15) पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रुम् । 16) च॒रुग्ग् श्या॒म-श्श्या॒म श्च॒रु-ञ्च॒रुग्ग् श्या॒मः । 17) श्या॒मो दक्षि॑णा॒ दक्षि॑णा श्या॒म-श्श्या॒मो दक्षि॑णा । 18) दक्षि॑णा बार्हस्प॒त्य-म्बा॑र्हस्प॒त्य-न्दक्षि॑णा॒ दक्षि॑णा बार्हस्प॒त्यम् । 19) बा॒र्॒ह॒स्प॒त्य-ञ्च॒रु-ञ्च॒रु-म्बा॑र्हस्प॒त्य-म्बा॑र्हस्प॒त्य-ञ्च॒रुम् । 20) च॒रुग्ं शि॑तिपृ॒ष्ठ-श्शि॑तिपृ॒ष्ठ श्च॒रु-ञ्च॒रुग्ं शि॑तिपृ॒ष्ठः । 21) शि॒ति॒पृ॒ष्ठो दक्षि॑णा॒ दक्षि॑णा शितिपृ॒ष्ठ-श्शि॑तिपृ॒ष्ठो दक्षि॑णा । 21) शि॒ति॒पृ॒ष्ठ इति॑ शिति - पृ॒ष्ठः । 22) दक्षि॑ णै॒न्द्र मै॒न्द्र-न्दक्षि॑णा॒ दक्षि॑ णै॒न्द्रम् । 23) ऐ॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपालम् । 24) एका॑दशकपाल मृष॒भ ऋ॑ष॒भ एका॑दशकपाल॒ मेका॑दशकपाल मृष॒भः । 24) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 25) ऋ॒ष॒भो दक्षि॑णा॒ दक्षि॑णर्ष॒भ ऋ॑ष॒भो दक्षि॑णा । 26) दक्षि॑णा वारु॒णं-वाँ॑रु॒ण-न्दक्षि॑णा॒ दक्षि॑णा वारु॒णम् । 27) वा॒रु॒ण-न्दश॑कपाल॒-न्दश॑कपालं-वाँरु॒णं-वाँ॑रु॒ण-न्दश॑कपालम् । 28) दश॑कपाल-म्म॒हानि॑रष्टो म॒हानि॑रष्टो॒ दश॑कपाल॒-न्दश॑कपाल-म्म॒हानि॑रष्टः । 28) दश॑कपाल॒मिति॒ दश॑ - क॒पा॒ल॒म् । 29) म॒हानि॑रष्टो॒ दक्षि॑णा॒ दक्षि॑णा म॒हानि॑रष्टो म॒हानि॑रष्टो॒ दक्षि॑णा । 29) म॒हानि॑रष्ट॒ इति॑ म॒हा - नि॒र॒ष्टः॒ । 30) दक्षि॑णा सौ॒म्यग्ं सौ॒म्य-न्दक्षि॑णा॒ दक्षि॑णा सौ॒म्यम् । 31) सौ॒म्य-ञ्च॒रु-ञ्च॒रुग्ं सौ॒म्यग्ं सौ॒म्य-ञ्च॒रुम् । 32) च॒रु-म्ब॒भ्रु-र्ब॒भ्रु श्च॒रु-ञ्च॒रु-म्ब॒भ्रुः । 33) ब॒भ्रु-र्दक्षि॑णा॒ दक्षि॑णा ब॒भ्रु-र्ब॒भ्रु-र्दक्षि॑णा । 34) दक्षि॑णा त्वा॒ष्ट्र-न्त्वा॒ष्ट्र-न्दक्षि॑णा॒ दक्षि॑णा त्वा॒ष्ट्रम् । 35) त्वा॒ष्ट्र म॒ष्टाक॑पाल म॒ष्टाक॑पाल-न्त्वा॒ष्ट्र-न्त्वा॒ष्ट्र म॒ष्टाक॑पालम् । 36) अ॒ष्टाक॑पालग्ं शु॒ण्ठ-श्शु॒ण्ठो᳚ ऽष्टाक॑पाल म॒ष्टाक॑पालग्ं शु॒ण्ठः । 36) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 37) शु॒ण्ठो दक्षि॑णा॒ दक्षि॑णा शु॒ण्ठ-श्शु॒ण्ठो दक्षि॑णा । 38) दक्षि॑णा वैष्ण॒वं-वैँ᳚ष्ण॒व-न्दक्षि॑णा॒ दक्षि॑णा वैष्ण॒वम् । 39) वै॒ष्ण॒व-न्त्रि॑कपा॒ल-न्त्रि॑कपा॒लं-वैँ᳚ष्ण॒वं-वैँ᳚ष्ण॒व-न्त्रि॑कपा॒लम् । 40) त्रि॒क॒पा॒लं-वाँ॑म॒नो वा॑म॒न स्त्रि॑कपा॒ल-न्त्रि॑कपा॒लं-वाँ॑म॒नः । 40) त्रि॒क॒पा॒लमिति॑ त्रि - क॒पा॒लम् । 41) वा॒म॒नो दक्षि॑णा॒ दक्षि॑णा वाम॒नो वा॑म॒नो दक्षि॑णा । 42) दक्षि॒णेति॒ दक्षि॑णा । ॥ 33 ॥ (42/51) ॥ अ. 17 ॥
1) स॒द्यो दी᳚क्षयन्ति दीक्षयन्ति स॒द्य-स्स॒द्यो दी᳚क्षयन्ति । 2) दी॒क्ष॒य॒न्ति॒ स॒द्य-स्स॒द्यो दी᳚क्षयन्ति दीक्षयन्ति स॒द्यः । 3) स॒द्य-स्सोम॒ग्ं॒ सोमग्ं॑ स॒द्य-स्स॒द्य-स्सोम᳚म् । 4) सोम॑-ङ्क्रीणन्ति क्रीणन्ति॒ सोम॒ग्ं॒ सोम॑-ङ्क्रीणन्ति । 5) क्री॒ण॒न्ति॒ पु॒ण्ड॒रि॒स्र॒जा-म्पु॑ण्डरिस्र॒जा-ङ्क्री॑णन्ति क्रीणन्ति पुण्डरिस्र॒जाम् । 6) पु॒ण्ड॒रि॒स्र॒जा-म्प्र प्र पु॑ण्डरिस्र॒जा-म्पु॑ण्डरिस्र॒जा-म्प्र । 7) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति । 8) य॒च्छ॒ति॒ द॒शभि॑-र्द॒शभि॑-र्यच्छति यच्छति द॒शभिः॑ । 9) द॒शभि॑-र्वथ्सत॒रै-र्व॑थ्सत॒रै-र्द॒शभि॑-र्द॒शभि॑-र्वथ्सत॒रैः । 9) द॒शभि॒रिति॑ द॒श - भिः॒ । 10) व॒थ्स॒त॒रै-स्सोम॒ग्ं॒ सोमं॑-वँथ्सत॒रै-र्व॑थ्सत॒रै-स्सोम᳚म् । 11) सोम॑-ङ्क्रीणाति क्रीणाति॒ सोम॒ग्ं॒ सोम॑-ङ्क्रीणाति । 12) क्री॒णा॒ति॒ द॒श॒पेयो॑ दश॒पेयः॑ क्रीणाति क्रीणाति दश॒पेयः॑ । 13) द॒श॒पेयो॑ भवति भवति दश॒पेयो॑ दश॒पेयो॑ भवति । 13) द॒श॒पेय॒ इति॑ दश - पेयः॑ । 14) भ॒व॒ति॒ श॒तग्ं श॒त-म्भ॑वति भवति श॒तम् । 15) श॒त-म्ब्रा᳚ह्म॒णा ब्रा᳚ह्म॒णा-श्श॒तग्ं श॒त-म्ब्रा᳚ह्म॒णाः । 16) ब्रा॒ह्म॒णाः पि॑बन्ति पिबन्ति ब्राह्म॒णा ब्रा᳚ह्म॒णाः पि॑बन्ति । 17) पि॒ब॒न्ति॒ स॒प्त॒द॒शग्ं स॑प्तद॒श-म्पि॑बन्ति पिबन्ति सप्तद॒शम् । 18) स॒प्त॒द॒शग्ग् स्तो॒त्रग्ग् स्तो॒त्रग्ं स॑प्तद॒शग्ं स॑प्तद॒शग्ग् स्तो॒त्रम् । 18) स॒प्त॒द॒शमिति॑ सप्त - द॒शम् । 19) स्तो॒त्र-म्भ॑वति भवति स्तो॒त्रग्ग् स्तो॒त्र-म्भ॑वति । 20) भ॒व॒ति॒ प्रा॒का॒शौ प्रा॑का॒शौ भ॑वति भवति प्राका॒शौ । 21) प्रा॒का॒शा व॑द्ध्व॒र्यवे᳚ ऽद्ध्व॒र्यवे᳚ प्राका॒शौ प्रा॑का॒शा व॑द्ध्व॒र्यवे᳚ । 22) अ॒द्ध्व॒र्यवे॑ ददाति ददात्यद्ध्व॒र्यवे᳚ ऽद्ध्व॒र्यवे॑ ददाति । 23) द॒दा॒ति॒ स्रज॒ग्ग्॒ स्रज॑-न्ददाति ददाति॒ स्रज᳚म् । 24) स्रज॑ मुद्गा॒त्र उ॑द्गा॒त्रे स्रज॒ग्ग्॒ स्रज॑ मुद्गा॒त्रे । 25) उ॒द्गा॒त्रे रु॒क्मग्ं रु॒क्म मु॑द्गा॒त्र उ॑द्गा॒त्रे रु॒क्मम् । 25) उ॒द्गा॒त्र इत्यु॑त् - गा॒त्रे । 26) रु॒क्मग्ं होत्रे॒ होत्रे॑ रु॒क्मग्ं रु॒क्मग्ं होत्रे᳚ । 27) होत्रे ऽश्व॒ मश्व॒ग्ं॒ होत्रे॒ होत्रे ऽश्व᳚म् । 28) अश्व॑-म्प्रस्तोतृप्रतिह॒र्तृभ्या᳚-म्प्रस्तोतृप्रतिह॒र्तृभ्या॒ मश्व॒ मश्व॑-म्प्रस्तोतृप्रतिह॒र्तृभ्या᳚म् । 29) प्र॒स्तो॒तृ॒प्र॒ति॒ह॒र्तृभ्या॒-न्द्वाद॑श॒ द्वाद॑श प्रस्तोतृप्रतिह॒र्तृभ्या᳚-म्प्रस्तोतृप्रतिह॒र्तृभ्या॒-न्द्वाद॑श । 29) प्र॒स्तो॒तृ॒प्र॒ति॒ह॒र्तृभ्या॒मिति॑ प्रस्तोतृप्रतिह॒र्तृ - भ्या॒म् । 30) द्वाद॑श पष्ठौ॒हीः प॑ष्ठौ॒ही-र्द्वाद॑श॒ द्वाद॑श पष्ठौ॒हीः । 31) प॒ष्ठौ॒ही-र्ब्र॒ह्मणे᳚ ब्र॒ह्मणे॑ पष्ठौ॒हीः प॑ष्ठौ॒ही-र्ब्र॒ह्मणे᳚ । 32) ब्र॒ह्मणे॑ व॒शां-वँ॒शा-म्ब्र॒ह्मणे᳚ ब्र॒ह्मणे॑ व॒शाम् । 33) व॒शा-म्मै᳚त्रावरु॒णाय॑ मैत्रावरु॒णाय॑ व॒शां-वँ॒शा-म्मै᳚त्रावरु॒णाय॑ । 34) मै॒त्रा॒व॒रु॒णाय॑ र्ष॒भ मृ॑ष॒भ-म्मै᳚त्रावरु॒णाय॑ मैत्रावरु॒णाय॑ र्ष॒भम् । 34) मै॒त्रा॒व॒रु॒णायेति॑ मैत्रा - व॒रु॒णाय॑ । 35) ऋ॒ष॒भ-म्ब्रा᳚ह्मणाच्छ॒ग्ं॒सिने᳚ ब्राह्मणाच्छ॒ग्ं॒सिन॑ ऋष॒भ मृ॑ष॒भ-म्ब्रा᳚ह्मणाच्छ॒ग्ं॒सिने᳚ । 36) ब्रा॒ह्म॒णा॒च्छ॒ग्ं॒सिने॒ वास॑सी॒ वास॑सी ब्राह्मणाच्छ॒ग्ं॒सिने᳚ ब्राह्मणाच्छ॒ग्ं॒सिने॒ वास॑सी । 37) वास॑सी नेष्टापो॒तृभ्या᳚-न्नेष्टापो॒तृभ्यां॒-वाँस॑सी॒ वास॑सी नेष्टापो॒तृभ्या᳚म् । 37) वास॑सी॒ इति॒ वास॑सी । 38) ने॒ष्टा॒पो॒तृभ्या॒ग्॒ स्थूरि॒ स्थूरि॑ नेष्टापो॒तृभ्या᳚-न्नेष्टापो॒तृभ्या॒ग्॒ स्थूरि॑ । 38) ने॒ष्टा॒पो॒तृभ्या॒मिति॑ नेष्टापो॒तृ - भ्या॒म् । 39) स्थूरि॑ यवाचि॒तं-यँ॑वाचि॒तग्ग् स्थूरि॒ स्थूरि॑ यवाचि॒तम् । 40) य॒वा॒चि॒त म॑च्छावा॒काया᳚ च्छावा॒काय॑ यवाचि॒तं-यँ॑वाचि॒त म॑च्छावा॒काय॑ । 40) य॒वा॒चि॒तमिति॑ यव - आ॒चि॒तम् । 41) अ॒च्छा॒वा॒काया॑ न॒ड्वाह॑ मन॒ड्वाह॑ मच्छावा॒काया᳚ च्छावा॒काया॑ न॒ड्वाह᳚म् । 42) अ॒न॒ड्वाह॑ म॒ग्नीधे॒ ऽग्नीधे॑ ऽन॒ड्वाह॑ मन॒ड्वाह॑ म॒ग्नीधे᳚ । 43) अ॒ग्नीधे॑ भार्ग॒वो भा᳚र्ग॒वो᳚ ऽग्नीधे॒ ऽग्नीधे॑ भार्ग॒वः । 43) अ॒ग्नीध॒ इत्य॑ग्नि - इधे᳚ । 44) भा॒र्ग॒वो होता॒ होता॑ भार्ग॒वो भा᳚र्ग॒वो होता᳚ । 45) होता॑ भवति भवति॒ होता॒ होता॑ भवति । 46) भ॒व॒ति॒ श्रा॒य॒न्तीयग्ग्॑ श्राय॒न्तीय॑-म्भवति भवति श्राय॒न्तीय᳚म् । 47) श्रा॒य॒न्तीय॑-म्ब्रह्मसा॒म-म्ब्र॑ह्मसा॒मग्ग् श्रा॑य॒न्तीयग्ग्॑ श्राय॒न्तीय॑-म्ब्रह्मसा॒मम् । 48) ब्र॒ह्म॒सा॒म-म्भ॑वति भवति ब्रह्मसा॒म-म्ब्र॑ह्मसा॒म-म्भ॑वति । 48) ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् । 49) भ॒व॒ति॒ वा॒र॒व॒न्तीयं॑-वाँरव॒न्तीय॑-म्भवति भवति वारव॒न्तीय᳚म् । 50) वा॒र॒व॒न्तीय॑ मग्निष्टोमसा॒म म॑ग्निष्टोमसा॒मं-वाँ॑रव॒न्तीयं॑-वाँरव॒न्तीय॑ मग्निष्टोमसा॒मम् । 50) वा॒र॒व॒न्तीय॒मिति॑ वार - व॒न्तीय᳚म् । 51) अ॒ग्नि॒ष्टो॒म॒सा॒मग्ं सा॑रस्व॒ती-स्सा॑रस्व॒ती र॑ग्निष्टोमसा॒म म॑ग्निष्टोमसा॒मग्ं सा॑रस्व॒तीः । 51) अ॒ग्नि॒ष्टो॒म॒सा॒ममित्य॑ग्निष्टोम - सा॒मम् । 52) सा॒र॒स्व॒ती र॒पो॑ ऽप-स्सा॑रस्व॒ती-स्सा॑रस्व॒ती र॒पः । 53) अ॒पो गृ॑ह्णाति गृह्णात्य॒पो॑ ऽपो गृ॑ह्णाति । 54) गृ॒ह्णा॒तीति॑ गृह्णाति । ॥ 34 ॥ (54/67) ॥ अ. 18 ॥
1) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् । 2) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः । 2) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 3) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 4) व॒प॒ति॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्यं-वँपति वपति॒ हिर॑ण्यम् । 5) हिर॑ण्य॒-न्दक्षि॑णा॒ दक्षि॑णा॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्दक्षि॑णा । 6) दक्षि॑णै॒न्द्र मै॒न्द्र-न्दक्षि॑णा॒ दक्षि॑णै॒न्द्रम् । 7) ऐ॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपालम् । 8) एका॑दशकपाल मृष॒भ ऋ॑ष॒भ एका॑दशकपाल॒ मेका॑दशकपाल मृष॒भः । 8) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 9) ऋ॒ष॒भो दक्षि॑णा॒ दक्षि॑णर्ष॒भ ऋ॑ष॒भो दक्षि॑णा । 10) दक्षि॑णा वैश्वदे॒वं-वैँ᳚श्वदे॒व-न्दक्षि॑णा॒ दक्षि॑णा वैश्वदे॒वम् । 11) वै॒श्व॒दे॒व-ञ्च॒रु-ञ्च॒रुं-वैँ᳚श्वदे॒वं-वैँ᳚श्वदे॒व-ञ्च॒रुम् । 11) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 12) च॒रु-म्पि॒शङ्गी॑ पि॒शङ्गी॑ च॒रु-ञ्च॒रु-म्पि॒शङ्गी᳚ । 13) पि॒शङ्गी॑ पष्ठौ॒ही प॑ष्ठौ॒ही पि॒शङ्गी॑ पि॒शङ्गी॑ पष्ठौ॒ही । 14) प॒ष्ठौ॒ही दक्षि॑णा॒ दक्षि॑णा पष्ठौ॒ही प॑ष्ठौ॒ही दक्षि॑णा । 15) दक्षि॑णा मैत्रावरु॒णी-म्मै᳚त्रावरु॒णी-न्दक्षि॑णा॒ दक्षि॑णा मैत्रावरु॒णीम् । 16) मै॒त्रा॒व॒रु॒णी मा॒मिक्षा॑ मा॒मिक्षा᳚-म्मैत्रावरु॒णी-म्मै᳚त्रावरु॒णी मा॒मिक्षा᳚म् । 16) मै॒त्रा॒व॒रु॒णीमिति॑ मैत्रा - व॒रु॒णीम् । 17) आ॒मिक्षां᳚-वँ॒शा व॒शा ऽऽमिक्षा॑ मा॒मिक्षां᳚-वँ॒शा । 18) व॒शा दक्षि॑णा॒ दक्षि॑णा व॒शा व॒शा दक्षि॑णा । 19) दक्षि॑णा बार्हस्प॒त्य-म्बा॑र्हस्प॒त्य-न्दक्षि॑णा॒ दक्षि॑णा बार्हस्प॒त्यम् । 20) बा॒र्॒ह॒स्प॒त्य-ञ्च॒रु-ञ्च॒रु-म्बा॑र्हस्प॒त्य-म्बा॑र्हस्प॒त्य-ञ्च॒रुम् । 21) च॒रुग्ं शि॑तिपृ॒ष्ठ-श्शि॑तिपृ॒ष्ठश्च॒रु-ञ्च॒रुग्ं शि॑तिपृ॒ष्ठः । 22) शि॒ति॒पृ॒ष्ठो दक्षि॑णा॒ दक्षि॑णा शितिपृ॒ष्ठ-श्शि॑तिपृ॒ष्ठो दक्षि॑णा । 22) शि॒ति॒पृ॒ष्ठ इति॑ शिति - पृ॒ष्ठः । 23) दक्षि॑णा ऽऽदि॒त्या मा॑दि॒त्या-न्दक्षि॑णा॒ दक्षि॑णा ऽऽदि॒त्याम् । 24) आ॒दि॒त्या-म्म॒ल्॒ःआ-म्म॒ल्॒ःआ मा॑दि॒त्या मा॑दि॒त्या-म्म॒ल्॒ःआम् । 25) म॒ल्॒ःआ-ङ्ग॒र्भिणी᳚-ङ्ग॒र्भिणी᳚-म्म॒ल्॒ःआ-म्म॒ल्॒ःआ-ङ्ग॒र्भिणी᳚म् । 26) ग॒र्भिणी॒ मा ग॒र्भिणी᳚-ङ्ग॒र्भिणी॒ मा । 27) आ ल॑भते लभत॒ आ ल॑भते । 28) ल॒भ॒ते॒ मा॒रु॒ती-म्मा॑रु॒तीम् ँल॑भते लभते मारु॒तीम् । 29) मा॒रु॒ती-म्पृश्ञि॒-म्पृश्ञि॑-म्मारु॒ती-म्मा॑रु॒ती-म्पृश्ञि᳚म् । 30) पृश्ञि॑-म्पष्ठौ॒ही-म्प॑ष्ठौ॒ही-म्पृश्ञि॒-म्पृश्ञि॑-म्पष्ठौ॒हीम् । 31) प॒ष्ठौ॒ही म॒श्विभ्या॑ म॒श्विभ्या᳚-म्पष्ठौ॒ही-म्प॑ष्ठौ॒ही म॒श्विभ्या᳚म् । 32) अ॒श्विभ्या᳚-म्पू॒ष्णे पू॒ष्णे᳚ ऽश्विभ्या॑ म॒श्विभ्या᳚-म्पू॒ष्णे । 32) अ॒श्विभ्या॒मित्य॒श्वि - भ्या॒म् । 33) पू॒ष्णे पु॑रो॒डाश॑-म्पुरो॒डाश॑-म्पू॒ष्णे पू॒ष्णे पु॑रो॒डाश᳚म् । 34) पु॒रो॒डाश॒-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒-न्द्वाद॑शकपालम् । 35) द्वाद॑शकपाल॒-न्नि-र्णि-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्निः । 35) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 36) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 37) व॒प॒ति॒ सर॑स्वते॒ सर॑स्वते वपति वपति॒ सर॑स्वते । 38) सर॑स्वते सत्य॒वाचे॑ सत्य॒वाचे॒ सर॑स्वते॒ सर॑स्वते सत्य॒वाचे᳚ । 39) स॒त्य॒वाचे॑ च॒रु-ञ्च॒रुग्ं स॑त्य॒वाचे॑ सत्य॒वाचे॑ च॒रुम् । 39) स॒त्य॒वाच॒ इति॑ सत्य - वाचे᳚ । 40) च॒रुग्ं स॑वि॒त्रे स॑वि॒त्रे च॒रु-ञ्च॒रुग्ं स॑वि॒त्रे । 41) स॒वि॒त्रे स॒त्यप्र॑सवाय स॒त्यप्र॑सवाय सवि॒त्रे स॑वि॒त्रे स॒त्यप्र॑सवाय । 42) स॒त्यप्र॑सवाय पुरो॒डाश॑-म्पुरो॒डाशग्ं॑ स॒त्यप्र॑सवाय स॒त्यप्र॑सवाय पुरो॒डाश᳚म् । 42) स॒त्यप्र॑सवा॒येति॑ स॒त्य - प्र॒स॒वा॒य॒ । 43) पु॒रो॒डाश॒-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒-न्द्वाद॑शकपालम् । 44) द्वाद॑शकपाल-न्तिसृध॒न्व-न्ति॑सृध॒न्व-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-न्तिसृध॒न्वम् । 44) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 45) ति॒सृ॒ध॒न्वग्ं शु॑ष्कदृ॒ति-श्शु॑ष्कदृ॒ति स्ति॑सृध॒न्व-न्ति॑सृध॒न्वग्ं शु॑ष्कदृ॒तिः । 45) ति॒सृ॒ध॒न्वमिति॑ तिसृ - ध॒न्वम् । 46) शु॒ष्क॒दृ॒ति-र्दक्षि॑णा॒ दक्षि॑णा शुष्कदृ॒ति-श्शु॑ष्कदृ॒ति-र्दक्षि॑णा । 46) शु॒ष्क॒दृ॒तिरिति॑ शुष्क - दृ॒तिः । 47) दक्षि॒णेति॒ दक्षि॑णा । ॥ 35 ॥ (47/59) ॥ अ. 19 ॥
1) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् । 2) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः । 2) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 3) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 4) व॒प॒ति॒ सौ॒म्यग्ं सौ॒म्यं-वँ॑पति वपति सौ॒म्यम् । 5) सौ॒म्य-ञ्च॒रु-ञ्च॒रुग्ं सौ॒म्यग्ं सौ॒म्य-ञ्च॒रुम् । 6) च॒रुग्ं सा॑वि॒त्रग्ं सा॑वि॒त्र-ञ्च॒रु-ञ्च॒रुग्ं सा॑वि॒त्रम् । 7) सा॒वि॒त्र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालग्ं सावि॒त्रग्ं सा॑वि॒त्र-न्द्वाद॑शकपालम् । 8) द्वाद॑शकपाल-म्बार्हस्प॒त्य-म्बा॑र्हस्प॒त्य-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-म्बार्हस्प॒त्यम् । 8) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 9) बा॒र्॒ह॒स्प॒त्य-ञ्च॒रु-ञ्च॒रु-म्बा॑र्हस्प॒त्य-म्बा॑र्हस्प॒त्य-ञ्च॒रुम् । 10) च॒रु-न्त्वा॒ष्ट्र-न्त्वा॒ष्ट्र-ञ्च॒रु-ञ्च॒रु-न्त्वा॒ष्ट्रम् । 11) त्वा॒ष्ट्र म॒ष्टाक॑पाल म॒ष्टाक॑पाल-न्त्वा॒ष्ट्र-न्त्वा॒ष्ट्र म॒ष्टाक॑पालम् । 12) अ॒ष्टाक॑पालं-वैँश्वान॒रं-वैँ᳚श्वान॒र म॒ष्टाक॑पाल म॒ष्टाक॑पालं-वैँश्वान॒रम् । 12) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 13) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् । 14) द्वाद॑शकपाल॒-न्दक्षि॑णो॒ दक्षि॑णो॒ द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्दक्षि॑णः । 14) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 15) दक्षि॑णो रथवाहनवा॒हो र॑थवाहनवा॒हो दक्षि॑णो॒ दक्षि॑णो रथवाहनवा॒हः । 16) र॒थ॒वा॒ह॒न॒वा॒हो दक्षि॑णा॒ दक्षि॑णा रथवाहनवा॒हो र॑थवाहनवा॒हो दक्षि॑णा । 16) र॒थ॒वा॒ह॒न॒वा॒ह इति॑ रथवाहन - वा॒हः । 17) दक्षि॑णा सारस्व॒तग्ं सा॑रस्व॒त-न्दक्षि॑णा॒ दक्षि॑णा सारस्व॒तम् । 18) सा॒र॒स्व॒त-ञ्च॒रु-ञ्च॒रुग्ं सा॑रस्व॒तग्ं सा॑रस्व॒त-ञ्च॒रुम् । 19) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः । 20) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 21) व॒प॒ति॒ पौ॒ष्ण-म्पौ॒ष्णं-वँ॑पति वपति पौ॒ष्णम् । 22) पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रुम् । 23) च॒रु-म्मै॒त्र-म्मै॒त्र-ञ्च॒रु-ञ्च॒रु-म्मै॒त्रम् । 24) मै॒त्र-ञ्च॒रु-ञ्च॒रु-म्मै॒त्र-म्मै॒त्र-ञ्च॒रुम् । 25) च॒रुं-वाँ॑रु॒णं-वाँ॑रु॒ण-ञ्च॒रु-ञ्च॒रुं-वाँ॑रु॒णम् । 26) वा॒रु॒ण-ञ्च॒रु-ञ्च॒रुं-वाँ॑रु॒णं-वाँ॑रु॒ण-ञ्च॒रुम् । 27) च॒रु-ङ्क्षै᳚त्रप॒त्य-ङ्क्षै᳚त्रप॒त्य-ञ्च॒रु-ञ्च॒रु-ङ्क्षै᳚त्रप॒त्यम् । 28) क्षै॒त्र॒प॒त्य-ञ्च॒रु-ञ्च॒रु-ङ्क्षै᳚त्रप॒त्य-ङ्क्षै᳚त्रप॒त्य-ञ्च॒रुम् । 28) क्षै॒त्र॒प॒त्यमिति॑ क्षैत्र - प॒त्यम् । 29) च॒रु मा॑दि॒त्य मा॑दि॒त्य-ञ्च॒रु-ञ्च॒रु मा॑दि॒त्यम् । 30) आ॒दि॒त्य-ञ्च॒रु-ञ्च॒रु मा॑दि॒त्य मा॑दि॒त्य-ञ्च॒रुम् । 31) च॒रु मुत्त॑र॒ उत्त॑र श्च॒रु-ञ्च॒रु मुत्त॑रः । 32) उत्त॑रो रथवाहनवा॒हो र॑थवाहनवा॒ह उत्त॑र॒ उत्त॑रो रथवाहनवा॒हः । 32) उत्त॑र॒ इत्युत् - त॒रः॒ । 33) र॒थ॒वा॒ह॒न॒वा॒हो दक्षि॑णा॒ दक्षि॑णा रथवाहनवा॒हो र॑थवाहनवा॒हो दक्षि॑णा । 33) र॒थ॒वा॒ह॒न॒वा॒ह इति॑ रथवाहन - वा॒हः । 34) दक्षि॒णेति॒ दक्षि॑णा । ॥ 36 ॥ (34/42) ॥ अ. 20 ॥
1) स्वा॒द्वी-न्त्वा᳚ त्वा स्वा॒द्वीग् स्वा॒द्वी-न्त्वा᳚ । 2) त्वा॒ स्वा॒दुना᳚ स्वा॒दुना᳚ त्वा त्वा स्वा॒दुना᳚ । 3) स्वा॒दुना॑ ती॒व्रा-न्ती॒व्राग् स्वा॒दुना᳚ स्वा॒दुना॑ ती॒व्राम् । 4) ती॒व्रा-न्ती॒व्रेण॑ ती॒व्रेण॑ ती॒व्रा-न्ती॒व्रा-न्ती॒व्रेण॑ । 5) ती॒व्रेणा॒मृता॑ म॒मृता᳚-न्ती॒व्रेण॑ ती॒व्रेणा॒मृता᳚म् । 6) अ॒मृता॑ म॒मृते॑ना॒ मृते॑ना॒मृता॑ म॒मृता॑ म॒मृते॑न । 7) अ॒मृते॑न सृ॒जामि॑ सृ॒जा म्य॒मृते॑ना॒ मृते॑न सृ॒जामि॑ । 8) सृ॒जामि॒ सग्ं सग्ं सृ॒जामि॑ सृ॒जामि॒ सम् । 9) सग्ं सोमे॑न॒ सोमे॑न॒ सग्ं सग्ं सोमे॑न । 10) सोमे॑न॒ सोम॒-स्सोम॒-स्सोमे॑न॒ सोमे॑न॒ सोमः॑ । 11) सोमो᳚ ऽस्यसि॒ सोम॒-स्सोमो॑ ऽसि । 12) अ॒स्य॒श्विभ्या॑ म॒श्विभ्या॑ मस्य स्य॒श्विभ्या᳚म् । 13) अ॒श्विभ्या᳚-म्पच्यस्व पच्यस्वा॒ श्विभ्या॑ म॒श्विभ्या᳚-म्पच्यस्व । 13) अ॒श्विभ्या॒मित्य॒श्वि - भ्या॒म् । 14) प॒च्य॒स्व॒ सर॑स्वत्यै॒ सर॑स्वत्यै पच्यस्व पच्यस्व॒ सर॑स्वत्यै । 15) सर॑स्वत्यै पच्यस्व पच्यस्व॒ सर॑स्वत्यै॒ सर॑स्वत्यै पच्यस्व । 16) प॒च्य॒स्वे न्द्रा॒ये न्द्रा॑य पच्यस्व पच्य॒स्वे न्द्रा॑य । 17) इन्द्रा॑य सु॒त्रांणे॑ सु॒त्रांण॒ इन्द्रा॒ये न्द्रा॑य सु॒त्रांणे᳚ । 18) सु॒त्रांणे॑ पच्यस्व पच्यस्व सु॒त्रांणे॑ सु॒त्रांणे॑ पच्यस्व । 18) सु॒त्रांण॒ इति॑ सु - त्रांणे᳚ । 19) प॒च्य॒स्व॒ पु॒नातु॑ पु॒नातु॑ पच्यस्व पच्यस्व पु॒नातु॑ । 20) पु॒नातु॑ ते ते पु॒नातु॑ पु॒नातु॑ ते । 21) ते॒ प॒रि॒स्रुत॑-म्परि॒स्रुत॑-न्ते ते परि॒स्रुत᳚म् । 22) प॒रि॒स्रुत॒ग्ं॒ सोम॒ग्ं॒ सोम॑-म्परि॒स्रुत॑-म्परि॒स्रुत॒ग्ं॒ सोम᳚म् । 22) प॒रि॒स्रुत॒मिति॑ परि - स्रुत᳚म् । 23) सोम॒ग्ं॒ सूर्य॑स्य॒ सूर्य॑स्य॒ सोम॒ग्ं॒ सोम॒ग्ं॒ सूर्य॑स्य । 24) सूर्य॑स्य दुहि॒ता दु॑हि॒ता सूर्य॑स्य॒ सूर्य॑स्य दुहि॒ता । 25) दु॒हि॒तेति॑ दुहि॒ता । 26) वारे॑ण॒ शश्व॑ता॒ शश्व॑ता॒ वारे॑ण॒ वारे॑ण॒ शश्व॑ता । 27) शश्व॑ता॒ तना॒ तना॒ शश्व॑ता॒ शश्व॑ता॒ तना᳚ । 28) तनेति॒ तना᳚ । 29) वा॒युः पू॒तः पू॒तो वा॒यु-र्वा॒युः पू॒तः । 30) पू॒तः प॒वित्रे॑ण प॒वित्रे॑ण पू॒तः पू॒तः प॒वित्रे॑ण । 31) प॒वित्रे॑ण प्र॒त्य-म्प्र॒त्य-म्प॒वित्रे॑ण प॒वित्रे॑ण प्र॒त्यम् । 32) प्र॒त्य-ङ्ख्सोम॒-स्सोमः॑ प्र॒त्य-म्प्र॒त्य-ङ्ख्सोमः॑ । 33) सोमो॒ अति॑द्रुतो॒ अति॑द्रुत॒-स्सोम॒-स्सोमो॒ अति॑द्रुतः । 34) अति॑द्रुत॒ इत्यति॑ - द्रु॒तः॒ । 35) इन्द्र॑स्य॒ युज्यो॒ युज्य॒ इन्द्र॒स्ये न्द्र॑स्य॒ युज्यः॑ । 36) युज्य॒-स्सखा॒ सखा॒ युज्यो॒ युज्य॒-स्सखा᳚ । 37) सखेति॒ सखा᳚ । 38) कु॒वि द॒ङ्गाङ्ग कु॒वि-त्कु॒वि द॒ङ्ग । 39) अ॒ङ्ग यव॑मन्तो॒ यव॑मन्तो॒ ऽङ्गाङ्ग यव॑मन्तः । 40) यव॑मन्तो॒ यवं॒-यँवं॒-यँव॑मन्तो॒ यव॑मन्तो॒ यव᳚म् । 40) यव॑मन्त॒ इति॒ यव॑ - म॒न्तः॒ । 41) यव॑-ञ्चिच् चि॒-द्यवं॒-यँव॑-ञ्चित् । 42) चि॒-द्यथा॒ यथा॑ चिच् चि॒-द्यथा᳚ । 43) यथा॒ दान्ति॒ दान्ति॒ यथा॒ यथा॒ दान्ति॑ । 44) दान्त्य॑नुपू॒र्व म॑नुपू॒र्व-न्दान्ति॒ दान्त्य॑नुपू॒र्वम् । 45) अ॒नु॒पू॒र्वं-विँ॒यूय॑ वि॒यूया॑नुपू॒र्व म॑नुपू॒र्वं-विँ॒यूय॑ । 45) अ॒नु॒पू॒र्वमित्य॑नु - पू॒र्वम् । 46) वि॒यूयेति॑ वि - यूय॑ । 47) इ॒हेहै॑षा मेषा मि॒हे हे॒हे है॑षाम् । 47) इ॒हेहेती॒ह - इ॒ह॒ । 48) ए॒षा॒-ङ्कृ॒णु॒त॒ कृ॒णु॒तै॒षा॒ मे॒षा॒-ङ्कृ॒णु॒त॒ । 49) कृ॒णु॒त॒ भोज॑नानि॒ भोज॑नानि कृणुत कृणुत॒ भोज॑नानि । 50) भोज॑नानि॒ ये ये भोज॑नानि॒ भोज॑नानि॒ ये । 51) ये ब॒र्॒हिषो॑ ब॒र्॒हिषो॒ ये ये ब॒र्॒हिषः॑ । 52) ब॒र्॒हिषो॒ नमो॑वृक्ति॒-न्नमो॑वृक्ति-म्ब॒र्॒हिषो॑ ब॒र्॒हिषो॒ नमो॑वृक्तिम् । 53) नमो॑वृक्ति॒-न्न न नमो॑वृक्ति॒-न्नमो॑वृक्ति॒-न्न । 53) नमो॑वृक्ति॒मिति॒ नमः॑ - वृ॒क्ति॒म् । 54) न ज॒ग्मु-र्ज॒ग्मु-र्न न ज॒ग्मुः । 55) ज॒ग्मुरिति॑ ज॒ग्मुः । 56) आ॒श्वि॒न-न्धू॒म्र-न्धू॒म्र मा᳚श्वि॒न मा᳚श्वि॒न-न्धू॒म्रम् । 57) धू॒म्र मा धू॒म्र-न्धू॒म्र मा । 58) आ ल॑भते लभत॒ आ ल॑भते । 59) ल॒भ॒ते॒ सा॒र॒स्व॒तग्ं सा॑रस्व॒तम् ँल॑भते लभते सारस्व॒तम् । 60) सा॒र॒स्व॒त-म्मे॒ष-म्मे॒षग्ं सा॑रस्व॒तग्ं सा॑रस्व॒त-म्मे॒षम् । 61) मे॒ष मै॒न्द्र मै॒न्द्र-म्मे॒ष-म्मे॒ष मै॒न्द्रम् । 62) ऐ॒न्द्र मृ॑ष॒भ मृ॑ष॒भ मै॒न्द्र मै॒न्द्र मृ॑ष॒भम् । 63) ऋ॒ष॒भ मै॒न्द्र मै॒न्द्र मृ॑ष॒भ मृ॑ष॒भ मै॒न्द्रम् । 64) ऐ॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपालम् । 65) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः । 65) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 66) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 67) व॒प॒ति॒ सा॒वि॒त्रग्ं सा॑वि॒त्रं-वँ॑पति वपति सावि॒त्रम् । 68) सा॒वि॒त्र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालग्ं सावि॒त्रग्ं सा॑वि॒त्र-न्द्वाद॑शकपालम् । 69) द्वाद॑शकपालं-वाँरु॒णं-वाँ॑रु॒ण-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वाँरु॒णम् । 69) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । 70) वा॒रु॒ण-न्दश॑कपाल॒-न्दश॑कपालं-वाँरु॒णं-वाँ॑रु॒ण-न्दश॑कपालम् । 71) दश॑कपाल॒ग्ं॒ सोम॑प्रतीका॒-स्सोम॑प्रतीका॒ दश॑कपाल॒-न्दश॑कपाल॒ग्ं॒ सोम॑प्रतीकाः । 71) दश॑कपाल॒मिति॒ दश॑ - क॒पा॒ल॒म् । 72) सोम॑प्रतीकाः पितरः पितर॒-स्सोम॑प्रतीका॒-स्सोम॑प्रतीकाः पितरः । 72) सोम॑प्रतीका॒ इति॒ सोम॑ - प्र॒ती॒काः॒ । 73) पि॒त॒र॒ स्तृ॒प्णु॒त॒ तृ॒प्णु॒त॒ पि॒त॒रः॒ पि॒त॒र॒ स्तृ॒प्णु॒त॒ । 74) तृ॒प्णु॒त॒ वड॑बा॒ वड॑बा तृप्णुत तृप्णुत॒ वड॑बा । 75) वड॑बा॒ दक्षि॑णा॒ दक्षि॑णा॒ वड॑बा॒ वड॑बा॒ दक्षि॑णा । 76) दक्षि॒णेति॒ दक्षि॑णा । ॥ 37 ॥ (76/87) ॥ अ. 21 ॥
1) अग्ना॑विष्णू॒ महि॒ मह्यग्ना॑विष्णू॒ अग्ना॑विष्णू॒ महि॑ । 1) अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ । 2) महि॒ त-त्त-न्महि॒ महि॒ तत् । 3) त-द्वां᳚-वाँ॒-न्त-त्त-द्वा᳚म् । 4) वा॒-म्म॒हि॒त्व-म्म॑हि॒त्वं-वाँं᳚-वाँ-म्महि॒त्वम् । 5) म॒हि॒त्वं-वीँ॒तं-वीँ॒त-म्म॑हि॒त्व-म्म॑हि॒त्वं-वीँ॒तम् । 5) म॒हि॒त्वमिति॑ महि - त्वम् । 6) वी॒त-ङ्घृ॒तस्य॑ घृ॒तस्य॑ वी॒तं-वीँ॒त-ङ्घृ॒तस्य॑ । 7) घृ॒तस्य॒ गुह्या॑नि॒ गुह्या॑नि घृ॒तस्य॑ घृ॒तस्य॒ गुह्या॑नि । 8) गुह्या॑नि॒ नाम॒ नाम॒ गुह्या॑नि॒ गुह्या॑नि॒ नाम॑ । 9) नामेति॒ नाम॑ । 10) दमे॑दमे स॒प्त स॒प्त दमे॑दमे॒ दमे॑दमे स॒प्त । 10) दमे॑दम॒ इति॒ दमे᳚ - द॒मे॒ । 11) स॒प्त रत्ना॒ रत्ना॑ स॒प्त स॒प्त रत्ना᳚ । 12) रत्ना॒ दधा॑ना॒ दधा॑ना॒ रत्ना॒ रत्ना॒ दधा॑ना । 13) दधा॑ना॒ प्रति॒ प्रति॒ दधा॑ना॒ दधा॑ना॒ प्रति॑ । 14) प्रति॑ वां-वाँ॒-म्प्रति॒ प्रति॑ वाम् । 15) वा॒-ञ्जि॒ह्वा जि॒ह्वा वां᳚-वाँ-ञ्जि॒ह्वा । 16) जि॒ह्वा घृ॒त-ङ्घृ॒त-ञ्जि॒ह्वा जि॒ह्वा घृ॒तम् । 17) घृ॒त मा घृ॒त-ङ्घृ॒त मा । 18) आ च॑रण्येच् चरण्ये॒दा च॑रण्येत् । 19) च॒र॒ण्ये॒दिति॑ चरण्येत् । 20) अग्ना॑विष्णू॒ महि॒ मह्यग्ना॑विष्णू॒ अग्ना॑विष्णू॒ महि॑ । 20) अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ । 21) महि॒ धाम॒ धाम॒ महि॒ महि॒ धाम॑ । 22) धाम॑ प्रि॒य-म्प्रि॒य-न्धाम॒ धाम॑ प्रि॒यम् । 23) प्रि॒यं-वाँं᳚-वाँ-म्प्रि॒य-म्प्रि॒यं-वाँ᳚म् । 24) वां॒-वीँ॒थो वी॒थो वां᳚-वांँ वी॒थः । 25) वी॒थो घृ॒तस्य॑ घृ॒तस्य॑ वी॒थो वी॒थो घृ॒तस्य॑ । 26) घृ॒तस्य॒ गुह्या॒ गुह्या॑ घृ॒तस्य॑ घृ॒तस्य॒ गुह्या᳚ । 27) गुह्या॑ जुषा॒णा जु॑षा॒णा गुह्या॒ गुह्या॑ जुषा॒णा । 28) जु॒षा॒णेति॑ जुषा॒णा । 29) दमे॑दमे सुष्टु॒ती-स्सु॑ष्टु॒ती-र्दमे॑दमे॒ दमे॑दमे सुष्टु॒तीः । 29) दमे॑दम॒ इति॒ दमे᳚ - द॒मे॒ । 30) सु॒ष्टु॒ती-र्वा॑वृधा॒ना वा॑वृधा॒ना सु॑ष्टु॒ती-स्सु॑ष्टु॒ती-र्वा॑वृधा॒ना । 30) सु॒ष्टु॒तीरिति॑ सु - स्तु॒तीः । 31) वा॒वृ॒धा॒ना प्रति॒ प्रति॑ वावृधा॒ना वा॑वृधा॒ना प्रति॑ । 32) प्रति॑ वां-वाँ॒-म्प्रति॒ प्रति॑ वाम् । 33) वा॒-ञ्जि॒ह्वा जि॒ह्वा वां᳚-वाँ-ञ्जि॒ह्वा । 34) जि॒ह्वा घृ॒त-ङ्घृ॒त-ञ्जि॒ह्वा जि॒ह्वा घृ॒तम् । 35) घृ॒त मुदु-द्घृ॒त-ङ्घृ॒त मुत् । 36) उच् च॑रण्येच् चरण्ये॒ दुदुच् च॑रण्येत् । 37) च॒र॒ण्ये॒दिति॑ चरण्येत् । 38) प्र णो॑ नः॒ प्र प्र णः॑ । 39) नो॒ दे॒वी दे॒वी नो॑ नो दे॒वी । 40) दे॒वी सर॑स्वती॒ सर॑स्वती दे॒वी दे॒वी सर॑स्वती । 41) सर॑स्वती॒ वाजे॑भि॒-र्वाजे॑भि॒-स्सर॑स्वती॒ सर॑स्वती॒ वाजे॑भिः । 42) वाजे॑भि-र्वा॒जिनी॑वती वा॒जिनी॑वती॒ वाजे॑भि॒-र्वाजे॑भि-र्वा॒जिनी॑वती । 43) वा॒जिनी॑व॒तीति॑ वा॒जिनी᳚ - व॒ती॒ । 44) धी॒ना म॑वि॒त्र्य॑वि॒त्री धी॒ना-न्धी॒ना म॑वि॒त्री । 45) अ॒वि॒त्र्य॑ वत्वव त्व वि॒त्र्य॑ वि॒त्र्य॑वतु । 46) अ॒व॒त्वित्य॑वतु । 47) आ नो॑ न॒ आ नः॑ । 48) नो॒ दि॒वो दि॒वो नो॑ नो दि॒वः । 49) दि॒वो बृ॑ह॒तो बृ॑ह॒तो दि॒वो दि॒वो बृ॑ह॒तः । 50) बृ॒ह॒तः पर्व॑ता॒-त्पर्व॑ता-द्बृह॒तो बृ॑ह॒तः पर्व॑तात् । ॥ 38 ॥ (50/56)
1) पर्व॑ता॒दा पर्व॑ता॒-त्पर्व॑ता॒दा । 2) आ सर॑स्वती॒ सर॑स्व॒त्या सर॑स्वती । 3) सर॑स्वती यज॒ता य॑ज॒ता सर॑स्वती॒ सर॑स्वती यज॒ता । 4) य॒ज॒ता ग॑न्तु गन्तु यज॒ता य॑ज॒ता ग॑न्तु । 5) ग॒न्तु॒ य॒ज्ञं-यँ॒ज्ञ-ङ्ग॑न्तु गन्तु य॒ज्ञम् । 6) य॒ज्ञमिति॑ य॒ज्ञम् । 7) हव॑-न्दे॒वी दे॒वी हव॒ग्ं॒ हव॑-न्दे॒वी । 8) दे॒वी जु॑जुषा॒णा जु॑जुषा॒णा दे॒वी दे॒वी जु॑जुषा॒णा । 9) जु॒जु॒षा॒णा घृ॒ताची॑ घृ॒ताची॑ जुजुषा॒णा जु॑जुषा॒णा घृ॒ताची᳚ । 10) घृ॒ताची॑ श॒ग्माग्ं श॒ग्मा-ङ्घृ॒ताची॑ घृ॒ताची॑ श॒ग्माम् । 11) श॒ग्मा-न्नो॑ न-श्श॒ग्माग्ं श॒ग्मा-न्नः॑ । 12) नो॒ वाचं॒-वाँच॑न्नो नो॒ वाच᳚म् । 13) वाच॑ मुश॒ त्यु॑श॒ती वाचं॒-वाँच॑ मुश॒ती । 14) उ॒श॒ती शृ॑णोतु शृणोतू श॒त्यु॑श॒ती शृ॑णोतु । 15) शृ॒णो॒त्विति॑ शृणोतु । 16) बृह॑स्पते जु॒षस्व॑ जु॒षस्व॒ बृह॑स्पते॒ बृह॑स्पते जु॒षस्व॑ । 17) जु॒षस्व॑ नो नो जु॒षस्व॑ जु॒षस्व॑ नः । 18) नो॒ ह॒व्यानि॑ ह॒व्यानि॑ नो नो ह॒व्यानि॑ । 19) ह॒व्यानि॑ विश्वदेव्य विश्वदेव्य ह॒व्यानि॑ ह॒व्यानि॑ विश्वदेव्य । 20) वि॒श्व॒दे॒व्येति॑ विश्व - दे॒व्य॒ । 21) रास्व॒ रत्ना॑नि॒ रत्ना॑नि॒ रास्व॒ रास्व॒ रत्ना॑नि । 22) रत्ना॑नि दा॒शुषे॑ दा॒शुषे॒ रत्ना॑नि॒ रत्ना॑नि दा॒शुषे᳚ । 23) दा॒शुष॒ इति॑ दा॒शुषे᳚ । 24) ए॒वा पि॒त्रे पि॒त्र ए॒वैवा पि॒त्रे । 25) पि॒त्रे वि॒श्वदे॑वाय वि॒श्वदे॑वाय पि॒त्रे पि॒त्रे वि॒श्वदे॑वाय । 26) वि॒श्वदे॑वाय॒ वृष्णे॒ वृष्णे॑ वि॒श्वदे॑वाय वि॒श्वदे॑वाय॒ वृष्णे᳚ । 26) वि॒श्वदे॑वा॒येति॑ वि॒श्व - दे॒वा॒य॒ । 27) वृष्णे॑ य॒ज्ञै-र्य॒ज्ञै-र्वृष्णे॒ वृष्णे॑ य॒ज्ञैः । 28) य॒ज्ञै-र्वि॑धेम विधेम य॒ज्ञै-र्य॒ज्ञै-र्वि॑धेम । 29) वि॒धे॒म॒ नम॑सा॒ नम॑सा विधेम विधेम॒ नम॑सा । 30) नम॑सा ह॒विर्भि॑र्-ह॒विर्भि॒-र्नम॑सा॒ नम॑सा ह॒विर्भिः॑ । 31) ह॒विर्भि॒रिति॑ ह॒विः - भिः॒ । 32) बृह॑स्पते सुप्र॒जा-स्सु॑प्र॒जा बृह॑स्पते॒ बृह॑स्पते सुप्र॒जाः । 33) सु॒प्र॒जा वी॒रव॑न्तो वी॒रव॑न्त-स्सुप्र॒जा-स्सु॑प्र॒जा वी॒रव॑न्तः । 33) सु॒प्र॒जा इति॑ सु - प्र॒जाः । 34) वी॒रव॑न्तो व॒यं-वँ॒यं-वीँ॒रव॑न्तो वी॒रव॑न्तो व॒यम् । 34) वी॒रव॑न्त॒ इति॑ वी॒र - व॒न्तः॒ । 35) व॒यग्ग् स्या॑म स्याम व॒यं-वँ॒यग्ग् स्या॑म । 36) स्या॒म॒ पत॑यः॒ पत॑य-स्स्याम स्याम॒ पत॑यः । 37) पत॑यो रयी॒णाग्ं र॑यी॒णा-म्पत॑यः॒ पत॑यो रयी॒णाम् । 38) र॒यी॒णामिति॑ रयी॒णाम् । 39) बृह॑स्पते॒ अत्यति॒ बृह॑स्पते॒ बृह॑स्पते॒ अति॑ । 40) अति॒ य-द्यदत्यति॒ यत् । 41) यद॒र्यो अ॒र्यो य-द्यद॒र्यः । 42) अ॒र्यो अर्हा॒ दर्हा॑द॒र्यो अ॒र्यो अर्हा᳚त् । 43) अर्हा᳚-द्द्यु॒म-द्द्यु॒म दर्हा॒ दर्हा᳚-द्द्यु॒मत् । 44) द्यु॒म-द्वि॒भाति॑ वि॒भाति॑ द्यु॒म-द्द्यु॒म-द्वि॒भाति॑ । 44) द्यु॒मदिति॑ द्यु - मत् । 45) वि॒भाति॒ क्रतु॑म॒-त्क्रतु॑म-द्वि॒भाति॑ वि॒भाति॒ क्रतु॑मत् । 45) वि॒भातीति॑ वि - भाति॑ । 46) क्रतु॑म॒ज् जने॑षु॒ जने॑षु॒ क्रतु॑म॒-त्क्रतु॑म॒ज् जने॑षु । 46) क्रतु॑म॒दिति॒ क्रतु॑ - म॒त् । 47) जने॒ष्विति॒ जने॑षु । 48) य-द्दी॒दय॑-द्दी॒दय॒-द्य-द्य-द्दी॒दय॑त् । 49) दी॒दय॒च् छव॑सा॒ शव॑सा दी॒दय॑-द्दी॒दय॒च् छव॑सा । 50) शव॑सर्तप्रजात र्तप्रजात॒ शव॑सा॒ शव॑सर्तप्रजात । ॥ 39 ॥ (50/56)
1) ऋ॒त॒प्र॒जा॒त॒ त-त्तदृ॑तप्रजात र्तप्रजात॒ तत् । 1) ऋ॒त॒प्र॒जा॒तेत्यृ॑त - प्र॒जा॒त॒ । 2) तद॒स्मा स्व॒स्मासु॒ त-त्तद॒स्मासु॑ । 3) अ॒स्मासु॒ द्रवि॑ण॒-न्द्रवि॑ण म॒स्मा स्व॒स्मासु॒ द्रवि॑णम् । 4) द्रवि॑ण-न्धेहि धेहि॒ द्रवि॑ण॒-न्द्रवि॑ण-न्धेहि । 5) धे॒हि॒ चि॒त्र-ञ्चि॒त्र-न्धे॑हि धेहि चि॒त्रम् । 6) चि॒त्रमिति॑ चि॒त्रम् । 7) आ नो॑ न॒ आ नः॑ । 8) नो॒ मि॒त्रा॒व॒रु॒णा॒ मि॒त्रा॒व॒रु॒णा॒ नो॒ नो॒ मि॒त्रा॒व॒रु॒णा॒ । 9) मि॒त्रा॒व॒रु॒णा॒ घृ॒तै-र्घृ॒तै-र्मि॑त्रावरुणा मित्रावरुणा घृ॒तैः । 9) मि॒त्रा॒व॒रु॒णेति॑ मित्रा - व॒रु॒णा॒ । 10) घृ॒तै-र्गव्यू॑ति॒-ङ्गव्यू॑ति-ङ्घृ॒तै-र्घृ॒तै-र्गव्यू॑तिम् । 11) गव्यू॑ति मुक्षत मुक्षत॒-ङ्गव्यू॑ति॒-ङ्गव्यू॑ति मुक्षतम् । 12) उ॒क्ष॒त॒मित्यु॑क्षतम् । 13) मद्ध्वा॒ रजाग्ं॑सि॒ रजाग्ं॑सि॒ मद्ध्वा॒ मद्ध्वा॒ रजाग्ं॑सि । 14) रजाग्ं॑सि सुक्रतू सुक्रतू॒ रजाग्ं॑सि॒ रजाग्ं॑सि सुक्रतू । 15) सु॒क्र॒तू॒ इति॑ सु - क्र॒तू॒ । 16) प्र बा॒हवा॑ बा॒हवा॒ प्र प्र बा॒हवा᳚ । 17) बा॒हवा॑ सिसृतग्ं सिसृत-म्बा॒हवा॑ बा॒हवा॑ सिसृतम् । 18) सि॒सृ॒त॒-ञ्जी॒वसे॑ जी॒वसे॑ सिसृतग्ं सिसृत-ञ्जी॒वसे᳚ । 19) जी॒वसे॑ नो नो जी॒वसे॑ जी॒वसे॑ नः । 20) न॒ आ नो॑ न॒ आ । 21) आ नो॑ न॒ आ नः॑ । 22) नो॒ गव्यू॑ति॒-ङ्गव्यू॑ति-न्नो नो॒ गव्यू॑तिम् । 23) गव्यू॑ति मुक्षत मुक्षत॒-ङ्गव्यू॑ति॒-ङ्गव्यू॑ति मुक्षतम् । 24) उ॒क्ष॒त॒-ङ्घृ॒तेन॑ घृ॒तेनो᳚क्षत मुक्षत-ङ्घृ॒तेन॑ । 25) घृ॒तेनेति॑ घृ॒तेन॑ । 26) आ नो॑ न॒ आ नः॑ । 27) नो॒ जने॒ जने॑ नो नो॒ जने᳚ । 28) जने᳚ श्रवयतग्ग् श्रवयत॒-ञ्जने॒ जने᳚ श्रवयतम् । 29) श्र॒व॒य॒तं॒-युँ॒वा॒ना॒ यु॒वा॒ना॒ श्र॒व॒य॒त॒ग्ग्॒ श्र॒व॒य॒तं॒-युँ॒वा॒ना॒ । 30) यु॒वा॒ना॒ श्रु॒तग्ग् श्रु॒तं-युँ॑वाना युवाना श्रु॒तम् । 31) श्रु॒त-म्मे॑ मे श्रु॒तग्ग् श्रु॒त-म्मे᳚ । 32) मे॒ मि॒त्रा॒व॒रु॒णा॒ मि॒त्रा॒व॒रु॒णा॒ मे॒ मे॒ मि॒त्रा॒व॒रु॒णा॒ । 33) मि॒त्रा॒व॒रु॒णा॒ हवा॒ हवा॑ मित्रावरुणा मित्रावरुणा॒ हवा᳚ । 33) मि॒त्रा॒व॒रु॒णेति॑ मित्रा - व॒रु॒णा॒ । 34) हवे॒मेमा हवा॒ हवे॒मा । 35) इ॒मेती॒मा । 36) अ॒ग्निं-वोँ॑ वो अ॒ग्नि म॒ग्निं-वँः॑ । 37) वः॒ पू॒र्व्य-म्पू॒र्व्यं-वोँ॑ वः पू॒र्व्यम् । 38) पू॒र्व्य-ङ्गि॒रा गि॒रा पू॒र्व्य-म्पू॒र्व्य-ङ्गि॒रा । 39) गि॒रा दे॒व-न्दे॒व-ङ्गि॒रा गि॒रा दे॒वम् । 40) दे॒व मी॑ड ईडे दे॒व-न्दे॒व मी॑डे । 41) ई॒डे॒ वसू॑नां॒-वँसू॑ना मीड ईडे॒ वसू॑नाम् । 42) वसू॑ना॒मिति॒ वसू॑नाम् । 43) स॒प॒र्यन्तः॑ पुरुप्रि॒य-म्पु॑रुप्रि॒यग्ं स॑प॒र्यन्त॑-स्सप॒र्यन्तः॑ पुरुप्रि॒यम् । 44) पु॒रु॒प्रि॒य-म्मि॒त्र-म्मि॒त्र-म्पु॑रुप्रि॒य-म्पु॑रुप्रि॒य-म्मि॒त्रम् । 44) पु॒रु॒प्रि॒यमिति॑ पुरु - प्रि॒यम् । 45) मि॒त्र-न्न न मि॒त्र-म्मि॒त्र-न्न । 46) न क्षे᳚त्र॒साध॑स-ङ्क्षेत्र॒साध॑स॒-न्न न क्षे᳚त्र॒साध॑सम् । 47) क्षे॒त्र॒साध॑स॒मिति॑ क्षेत्र - साध॑सम् । 48) म॒क्षू दे॒वव॑तो दे॒वव॑तो म॒क्षु म॒क्षू दे॒वव॑तः । 49) दे॒वव॑तो॒ रथो॒ रथो॑ दे॒वव॑तो दे॒वव॑तो॒ रथः॑ । 49) दे॒वव॑त॒ इति॑ दे॒व - व॒तः॒ । 50) रथ॒-श्शूर॒-श्शूरो॒ रथो॒ रथ॒-श्शूरः॑ । ॥ 40 ॥ (50/55)
1) शूरो॑ वा वा॒ शूर॒-श्शूरो॑ वा । 2) वा॒ पृ॒थ्सु पृ॒थ्सु वा॑ वा पृ॒थ्सु । 3) पृ॒थ्सु कासु॒ कासु॑ पृ॒थ्सु पृ॒थ्सु कासु॑ । 3) पृ॒थ्स्विति॑ पृत् - सु । 4) कासु॑ चिच् चि॒-त्कासु॒ कासु॑ चित् । 5) चि॒दिति॑ चित् । 6) दे॒वानां॒-योँ यो दे॒वाना᳚-न्दे॒वानां॒-यः ँ। 7) य इदि-द्यो य इत् । 8) इ-न्मनो॒ मन॒ इदि-न्मनः॑ । 9) मनो॒ यज॑मानो॒ यज॑मानो॒ मनो॒ मनो॒ यज॑मानः । 10) यज॑मान॒ इय॑क्ष॒तीय॑क्षति॒ यज॑मानो॒ यज॑मान॒ इय॑क्षति । 11) इय॑क्ष त्य॒भ्य॑भी य॑क्ष॒ती य॑क्षत्य॒भि । 12) अ॒भी दि द॒भ्य॑भीत् । 13) इदय॑ज्व॒नो ऽय॑ज्वन॒ इदि दय॑ज्वनः । 14) अय॑ज्वनो भुव-द्भुव॒दय॑ज्व॒नो ऽय॑ज्वनो भुवत् । 15) भु॒व॒दिति॑ भुवत् । 16) न य॑जमान यजमान॒ न न य॑जमान । 17) य॒ज॒मा॒न॒ रि॒ष्य॒सि॒ रि॒ष्य॒सि॒ य॒ज॒मा॒न॒ य॒ज॒मा॒न॒ रि॒ष्य॒सि॒ । 18) रि॒ष्य॒सि॒ न न रि॑ष्यसि रिष्यसि॒ न । 19) न सु॑न्वान सुन्वान॒ न न सु॑न्वान । 20) सु॒न्वा॒न॒ न न सु॑न्वान सुन्वान॒ न । 21) न दे॑वयो देवयो॒ न न दे॑वयो । 22) दे॒व॒यो॒ इति॑ देव - यो॒ । 23) अस॒ दत्रात्रा स॒द स॒दत्र॑ । 24) अत्र॑ सु॒वीर्यग्ं॑ सु॒वीर्य॒ मत्रात्र॑ सु॒वीर्य᳚म् । 25) सु॒वीर्य॑ मु॒तोत सु॒वीर्यग्ं॑ सु॒वीर्य॑ मु॒त । 25) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् । 26) उ॒त त्य-त्त्यदु॒तोत त्यत् । 27) त्यदा॒श्वश्वि॑य मा॒श्वश्वि॑य॒-न्त्य-त्त्यदा॒श्वश्वि॑यम् । 28) आ॒श्वश्वि॑य॒मित्या॑शु - अश्वि॑यम् । 29) नकि॒ष् ट-न्त-न्नकि॒-र्नकि॒ष् टम् । 30) त-ङ्कर्म॑णा॒ कर्म॑णा॒ त-न्त-ङ्कर्म॑णा । 31) कर्म॑णा नश-न्नश॒-त्कर्म॑णा॒ कर्म॑णा नशत् । 32) न॒श॒-न्न न न॑श-न्नश॒-न्न । 33) न प्र प्र ण न प्र । 34) प्र यो॑ष-द्योष॒-त्प्र प्र यो॑षत् । 35) यो॒ष॒-न्न न यो॑ष-द्योष॒-न्न । 36) न यो॑षति योषति॒ न न यो॑षति । 37) यो॒ष॒तीति॑ योषति । 38) उप॑ क्षरन्ति क्षर॒न्त्युपोप॑ क्षरन्ति । 39) क्ष॒र॒न्ति॒ सिन्ध॑व॒-स्सिन्ध॑वः, क्षरन्ति क्षरन्ति॒ सिन्ध॑वः । 40) सिन्ध॑वो मयो॒भुवो॑ मयो॒भुव॒-स्सिन्ध॑व॒-स्सिन्ध॑वो मयो॒भुवः॑ । 41) म॒यो॒भुव॑ ईजा॒न मी॑जा॒न-म्म॑यो॒भुवो॑ मयो॒भुव॑ ईजा॒नम् । 41) म॒यो॒भुव॒ इति॑ मयः - भुवः॑ । 42) ई॒जा॒न-ञ्च॑ चेजा॒न मी॑जा॒न-ञ्च॑ । 43) च॒ य॒क्ष्यमा॑णं-यँ॒क्ष्यमा॑ण-ञ्च च य॒क्ष्यमा॑णम् । 44) य॒क्ष्यमा॑ण-ञ्च च य॒क्ष्यमा॑णं-यँ॒क्ष्यमा॑ण-ञ्च । 45) च॒ धे॒नवो॑ धे॒नव॑श्च च धे॒नवः॑ । 46) धे॒नव॒ इति॑ धे॒नवः॑ । 47) पृ॒णन्त॑-ञ्च च पृ॒णन्त॑-म्पृ॒णन्त॑-ञ्च । 48) च॒ पपु॑रि॒-म्पपु॑रि-ञ्च च॒ पपु॑रिम् । 49) पपु॑रि-ञ्च च॒ पपु॑रि॒-म्पपु॑रि-ञ्च । 50) च॒ श्र॒व॒स्यव॑-श्श्रव॒स्यव॑श्च च श्रव॒स्यवः॑ । ॥ 41 ॥ (50/53)
1) श्र॒व॒स्यवो॑ घृ॒तस्य॑ घृ॒तस्य॑ श्रव॒स्यव॑-श्श्रव॒स्यवो॑ घृ॒तस्य॑ । 2) घृ॒तस्य॒ धारा॒ धारा॑ घृ॒तस्य॑ घृ॒तस्य॒ धाराः᳚ । 3) धारा॒ उपोप॒ धारा॒ धारा॒ उप॑ । 4) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति । 5) य॒न्ति॒ वि॒श्वतो॑ वि॒श्वतो॑ यन्ति यन्ति वि॒श्वतः॑ । 6) वि॒श्वत॒ इति॑ वि॒श्वतः॑ । 7) सोमा॑रुद्रा॒ वि वि सोमा॑रुद्रा॒ सोमा॑रुद्रा॒ वि । 7) सोमा॑रु॒द्रेति॒ सोमा᳚ - रु॒द्रा॒ । 8) वि वृ॑हतं-वृँहतं॒-विँ वि वृ॑हतम् । 9) वृ॒ह॒तं॒-विँषू॑चीं॒-विँषू॑चीं-वृँहतं-वृँहतं॒-विँषू॑चीम् । 10) विषू॑ची॒ ममी॒वा ऽमी॑वा॒ विषू॑चीं॒-विँषू॑ची॒ ममी॑वा । 11) अमी॑वा॒ या या ऽमी॒वा ऽमी॑वा॒ या । 12) या नो॑ नो॒ या या नः॑ । 13) नो॒ गय॒-ङ्गय॑-न्नो नो॒ गय᳚म् । 14) गय॑ मावि॒वेशा॑ वि॒वेश॒ गय॒-ङ्गय॑ मावि॒वेश॑ । 15) आ॒वि॒वेशेत्या᳚ - वि॒वेश॑ । 16) आ॒रे बा॑धेथा-म्बाधेथा मा॒र आ॒रे बा॑धेथाम् । 17) बा॒धे॒था॒-न्निर्-ऋ॑ति॒-न्निर्-ऋ॑ति-म्बाधेथा-म्बाधेथा॒-न्निर्-ऋ॑तिम् । 18) निर्-ऋ॑ति-म्परा॒चैः प॑रा॒चै-र्निर्-ऋ॑ति॒-न्निर्-ऋ॑ति-म्परा॒चैः । 18) निर्-ऋ॑ति॒मिति॒ निः - ऋ॒ति॒म् । 19) प॒रा॒चैः कृ॒त-ङ्कृ॒त-म्प॑रा॒चैः प॑रा॒चैः कृ॒तम् । 20) कृ॒त-ञ्चि॑च् चि-त्कृ॒त-ङ्कृ॒त-ञ्चि॑त् । 21) चि॒देन॒ एन॑ श्चिच् चि॒देनः॑ । 22) एनः॒ प्र प्रैन॒ एनः॒ प्र । 23) प्र मु॑मुक्त-म्मुमुक्त॒-म्प्र प्र मु॑मुक्तम् । 24) मु॒मु॒क्त॒ म॒स्मद॒स्म-न्मु॑मुक्त-म्मुमुक्त म॒स्मत् । 25) अ॒स्मदित्य॒स्मत् । 26) सोमा॑रुद्रा यु॒वं-युँ॒वग्ं सोमा॑रुद्रा॒ सोमा॑रुद्रा यु॒वम् । 26) सोमा॑रु॒द्रेति॒ सोमा᳚ - रु॒द्रा॒ । 27) यु॒व मे॒ता न्ये॒तानि॑ यु॒वं-युँ॒व मे॒तानि॑ । 28) ए॒ता न्य॒स्मे अ॒स्मे ए॒ता न्ये॒ता न्य॒स्मे । 29) अ॒स्मे विश्वा॒ विश्वा॑ अ॒स्मे अ॒स्मे विश्वा᳚ । 29) अ॒स्मे इत्य॒स्मे । 30) विश्वा॑ त॒नूषु॑ त॒नूषु॒ विश्वा॒ विश्वा॑ त॒नूषु॑ । 31) त॒नूषु॑ भेष॒जानि॑ भेष॒जानि॑ त॒नूषु॑ त॒नूषु॑ भेष॒जानि॑ । 32) भे॒ष॒जानि॑ धत्त-न्धत्त-म्भेष॒जानि॑ भेष॒जानि॑ धत्तम् । 33) ध॒त्त॒मिति॑ धत्तम् । 34) अव॑ स्यतग्ग् स्यत॒ मवाव॑ स्यतम् । 35) स्य॒त॒-म्मु॒ञ्चत॑-म्मु॒ञ्चतग्ग्॑ स्यतग्ग् स्यत-म्मु॒ञ्चत᳚म् । 36) मु॒ञ्चतं॒-यँ-द्य-न्मु॒ञ्चत॑-म्मु॒ञ्चतं॒-यँत् । 37) य-न्नो॑ नो॒ य-द्य-न्नः॑ । 38) नो॒ अस्त्यस्ति॑ नो नो॒ अस्ति॑ । 39) अस्ति॑ त॒नूषु॑ त॒नू ष्वस्त्यस्ति॑ त॒नूषु॑ । 40) त॒नूषु॑ ब॒द्ध-म्ब॒द्ध-न्त॒नूषु॑ त॒नूषु॑ ब॒द्धम् । 41) ब॒द्ध-ङ्कृ॒त-ङ्कृ॒त-म्ब॒द्ध-म्ब॒द्ध-ङ्कृ॒तम् । 42) कृ॒त मेन॒ एनः॑ कृ॒त-ङ्कृ॒त मेनः॑ । 43) एनो॑ अ॒स्म द॒स्म देन॒ एनो॑ अ॒स्मत् । 44) अ॒स्मदित्य॒स्मत् । 45) सोमा॑पूषणा॒ जन॑ना॒ जन॑ना॒ सोमा॑पूषणा॒ सोमा॑पूषणा॒ जन॑ना । 45) सोमा॑पूष॒णेति॒ सोमा᳚ - पू॒ष॒णा॒ । 46) जन॑ना रयी॒णाग्ं र॑यी॒णा-ञ्जन॑ना॒ जन॑ना रयी॒णाम् । 47) र॒यी॒णा-ञ्जन॑ना॒ जन॑ना रयी॒णाग्ं र॑यी॒णा-ञ्जन॑ना । 48) जन॑ना दि॒वो दि॒वो जन॑ना॒ जन॑ना दि॒वः । 49) दि॒वो जन॑ना॒ जन॑ना दि॒वो दि॒वो जन॑ना । 50) जन॑ना पृथि॒व्याः पृ॑थि॒व्या जन॑ना॒ जन॑ना पृथि॒व्याः । 51) पृ॒थि॒व्या इति॑ पृथि॒व्याः । 52) जा॒तौ विश्व॑स्य॒ विश्व॑स्य जा॒तौ जा॒तौ विश्व॑स्य । 53) विश्व॑स्य॒ भुव॑नस्य॒ भुव॑नस्य॒ विश्व॑स्य॒ विश्व॑स्य॒ भुव॑नस्य । 54) भुव॑नस्य गो॒पौ गो॒पौ भुव॑नस्य॒ भुव॑नस्य गो॒पौ । 55) गो॒पौ दे॒वा दे॒वा गो॒पौ गो॒पौ दे॒वाः । 56) दे॒वा अ॑कृण्व-न्नकृण्व-न्दे॒वा दे॒वा अ॑कृण्वन्न् । 57) अ॒कृ॒ण्व॒-न्न॒मृत॑स्या॒ मृत॑स्या कृण्व-न्नकृण्व-न्न॒मृत॑स्य । 58) अ॒मृत॑स्य॒ नाभि॒-न्नाभि॑ म॒मृत॑स्या॒ मृत॑स्य॒ नाभि᳚म् । 59) नाभि॒मिति॒ नाभि᳚म् । 60) इ॒मौ दे॒वौ दे॒वा वि॒मा वि॒मौ दे॒वौ । 61) दे॒वौ जाय॑मानौ॒ जाय॑मानौ दे॒वौ दे॒वौ जाय॑मानौ । 62) जाय॑मानौ जुषन्त जुषन्त॒ जाय॑मानौ॒ जाय॑मानौ जुषन्त । 63) जु॒ष॒न्ते॒ मा वि॒मौ जु॑षन्त जुषन्ते॒ मौ । 64) इ॒मौ तमाग्ं॑सि॒ तमाग्ं॑सी॒मा वि॒मौ तमाग्ं॑सि । 65) तमाग्ं॑सि गूहता-ङ्गूहता॒-न्तमाग्ं॑सि॒ तमाग्ं॑सि गूहताम् । 66) गू॒ह॒ता॒ मजु॒ष्टा ऽजु॑ष्टा गूहता-ङ्गूहता॒ मजु॑ष्टा । 67) अजु॒ष्टेत्यजु॑ष्टा । 68) आ॒भ्या मिन्द्र॒ इन्द्र॑ आ॒भ्या मा॒भ्या मिन्द्रः॑ । 69) इन्द्रः॑ प॒क्व-म्प॒क्व मिन्द्र॒ इन्द्रः॑ प॒क्वम् । 70) प॒क्व मा॒मा स्वा॒मासु॑ प॒क्व-म्प॒क्व मा॒मासु॑ । 71) आ॒मास्व॒न्त र॒न्त रा॒मा स्वा॒मा स्व॒न्तः । 72) अ॒न्त-स्सो॑मापू॒षभ्याग्ं॑ सोमापू॒षभ्या॑ म॒न्त र॒न्त-स्सो॑मापू॒षभ्या᳚म् । 73) सो॒मा॒पू॒षभ्या᳚-ञ्जनज् जन-थ्सोमापू॒षभ्याग्ं॑ सोमापू॒षभ्या᳚-ञ्जनत् । 73) सो॒मा॒पू॒षभ्या॒मिति॑ सोमापू॒ष - भ्या॒म् । 74) ज॒न॒ दु॒स्रिया॑सू॒ स्रिया॑सु जनज् जन दु॒स्रिया॑सु । 75) उ॒स्रि॒या॒स्वित्यु॒स्रिया॑सु । ॥ 42 ॥ (75, 81)
॥ अ. 22 ॥
Browse Related Categories: