Kanda 3 - Krishna Yajurveda Taittiriya Samhita · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1) वि वै वै वि वि वै । 2) वा ए॒त स्यै॒तस्य॒ वै वा ए॒तस्य॑ । 3) ए॒तस्य॑ य॒ज्ञो य॒ज्ञ ए॒त स्यै॒तस्य॑ य॒ज्ञः । 4) य॒ज्ञ ऋ॑द्ध्यत ऋद्ध्यते य॒ज्ञो य॒ज्ञ ऋ॑द्ध्यते । 5) ऋ॒द्ध्य॒ते॒ यस्य॒ यस्य॑ र्ध्यत ऋद्ध्यते॒ यस्य॑ । 6) यस्य॑ ह॒विर्-ह॒वि-र्यस्य॒ यस्य॑ ह॒विः । 7) ह॒वि र॑ति॒रिच्य॑ते ऽति॒रिच्य॑ते ह॒विर्-ह॒वि र॑ति॒रिच्य॑ते । 8) अ॒ति॒रिच्य॑ते॒ सूर्य॒-स्सूर्यो॑ ऽति॒रिच्य॑ते ऽति॒रिच्य॑ते॒ सूर्यः॑ । 8) अ॒ति॒रिच्य॑त॒ इत्य॑ति - रिच्य॑ते । 9) सूर्यो॑ दे॒वो दे॒व-स्सूर्य॒-स्सूर्यो॑ दे॒वः । 10) दे॒वो दि॑वि॒षद्भ्यो॑ दिवि॒षद्भ्यो॑ दे॒वो दे॒वो दि॑वि॒षद्भ्यः॑ । 11) दि॒वि॒षद्भ्य॒ इतीति॑ दिवि॒षद्भ्यो॑ दिवि॒षद्भ्य॒ इति॑ । 11) दि॒वि॒षद्भ्य॒ इति॑ दिवि॒षत् - भ्यः॒ । 12) इत्या॑ हा॒हे तीत्या॑ह । 13) आ॒ह॒ बृह॒स्पति॑ना॒ बृह॒स्पति॑ना ऽऽहाह॒ बृह॒स्पति॑ना । 14) बृह॒स्पति॑ना च च॒ बृह॒स्पति॑ना॒ बृह॒स्पति॑ना च । 15) चै॒वैव च॑ चै॒व । 16) ए॒वास्या᳚ स्यै॒वैवास्य॑ । 17) अ॒स्य॒ प्र॒जाप॑तिना प्र॒जाप॑तिना ऽस्यास्य प्र॒जाप॑तिना । 18) प्र॒जाप॑तिना च च प्र॒जाप॑तिना प्र॒जाप॑तिना च । 18) प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । 19) च॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ च च य॒ज्ञस्य॑ । 20) य॒ज्ञस्य॒ व्यृ॑द्धं॒-व्यृँ॑द्धं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ व्यृ॑द्धम् । 21) व्यृ॑द्ध॒ मप्यपि॒ व्यृ॑द्धं॒-व्यृँ॑द्ध॒ मपि॑ । 21) व्यृ॑द्ध॒मिति॒ वि - ऋ॒द्ध॒म् । 22) अपि॑ वपति वप॒ त्यप्यपि॑ वपति । 23) व॒प॒ति॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि वपति वपति॒ रक्षाग्ं॑सि । 24) रक्षाग्ं॑सि॒ वै वै रक्षाग्ं॑सि॒ रक्षाग्ं॑सि॒ वै । 25) वा ए॒त दे॒त-द्वै वा ए॒तत् । 26) ए॒त-त्प॒शु-म्प॒शु मे॒त दे॒त-त्प॒शुम् । 27) प॒शुग्ं स॑चन्ते सचन्ते प॒शु-म्प॒शुग्ं स॑चन्ते । 28) स॒च॒न्ते॒ य-द्य-थ्स॑चन्ते सचन्ते॒ यत् । 29) यदे॑कदेव॒त्य॑ एकदेव॒त्यो॑ य-द्यदे॑कदेव॒त्यः॑ । 30) ए॒क॒दे॒व॒त्य॑ आल॑ब्ध॒ आल॑ब्ध एकदेव॒त्य॑ एकदेव॒त्य॑ आल॑ब्धः । 30) ए॒क॒दे॒व॒त्य॑ इत्ये॑क - दे॒व॒त्यः॑ । 31) आल॑ब्धो॒ भूया॒-न्भूया॒-नाल॑ब्ध॒ आल॑ब्धो॒ भूयान्॑ । 31) आल॑ब्ध॒ इत्या - ल॒ब्धः॒ । 32) भूया॒-न्भव॑ति॒ भव॑ति॒ भूया॒-न्भूया॒-न्भव॑ति । 33) भव॑ति॒ यस्या॒ यस्या॒ भव॑ति॒ भव॑ति॒ यस्याः᳚ । 34) यस्या᳚ स्ते ते॒ यस्या॒ यस्या᳚ स्ते । 35) ते॒ हरि॑तो॒ हरि॑त स्ते ते॒ हरि॑तः । 36) हरि॑तो॒ गर्भो॒ गर्भो॒ हरि॑तो॒ हरि॑तो॒ गर्भः॑ । 37) गर्भ॒ इतीति॒ गर्भो॒ गर्भ॒ इति॑ । 38) इत्या॑ हा॒हे तीत्या॑ह । 39) आ॒ह॒ दे॒व॒त्रा दे॑व॒त्रा ऽऽहा॑ह देव॒त्रा । 40) दे॒व॒त्रैवैव दे॑व॒त्रा दे॑व॒त्रैव । 40) दे॒व॒त्रेति॑ देव - त्रा । 41) ए॒वैना॑ मेना मे॒वै वैना᳚म् । 42) ए॒ना॒-ङ्ग॒म॒य॒ति॒ ग॒म॒य॒ त्ये॒ना॒ मे॒ना॒-ङ्ग॒म॒य॒ति॒ । 43) ग॒म॒य॒ति॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा-ङ्गमयति गमयति॒ रक्ष॑साम् । 44) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै । 45) अप॑हत्या॒ आ ऽप॑हत्या॒ अप॑हत्या॒ आ । 45) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । 46) आ व॑र्तन वर्त॒ना व॑र्तन । 47) व॒र्त॒न॒ व॒र्त॒य॒ व॒र्त॒य॒ व॒र्त॒न॒ व॒र्त॒न॒ व॒र्त॒य॒ । 48) व॒र्त॒येतीति॑ वर्तय वर्त॒येति॑ । 49) इत्या॑ हा॒हे तीत्या॑ह । 50) आ॒ह॒ ब्रह्म॑णा॒ ब्रह्म॑णा ऽऽहाह॒ ब्रह्म॑णा । ॥ 1 ॥ (50/58)
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
1) ब्रह्म॑णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व । 2) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 3) ए॒न॒ मैन॑ मेन॒ मा । 4) आ व॑र्तयति वर्तय॒ त्याव॑र्तयति । 5) व॒र्त॒य॒ति॒ वि वि व॑र्तयति वर्तयति॒ वि । 6) वि ते॑ ते॒ वि वि ते᳚ । 7) ते॒ भि॒न॒द्मि॒ भि॒न॒द्मि॒ ते॒ ते॒ भि॒न॒द्मि॒ । 8) भि॒न॒द्मि॒ त॒क॒री-न्त॑क॒री-म्भि॑नद्मि भिनद्मि तक॒रीम् । 9) त॒क॒री मितीति॑ तक॒री-न्त॑क॒री मिति॑ । 10) इत्या॑ हा॒हे तीत्या॑ह । 11) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः । 12) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व । 12) य॒था॒य॒जुरिति॑ यथा - य॒जुः । 13) ए॒वैत दे॒त दे॒वैवैतत् । 14) ए॒त दु॑रुद्र॒फ्स उ॑रुद्र॒फ्स ए॒त दे॒त दु॑रुद्र॒फ्सः । 15) उ॒रु॒द्र॒फ्सो वि॒श्वरू॑पो वि॒श्वरू॑प उरुद्र॒फ्स उ॑रुद्र॒फ्सो वि॒श्वरू॑पः । 15) उ॒रु॒द्र॒फ्स इत्यु॑रु - द्र॒फ्सः । 16) वि॒श्वरू॑प॒ इन्दु॒ रिन्दु॑-र्वि॒श्वरू॑पो वि॒श्वरू॑प॒ इन्दुः॑ । 16) वि॒श्वरू॑प॒ इति॑ वि॒श्व - रू॒पः॒ । 17) इन्दु॒ रितीतीन्दु॒ रिन्दु॒ रिति॑ । 18) इत्या॑ हा॒हे तीत्या॑ह । 19) आ॒ह॒ प्र॒जा प्र॒जा ऽऽहा॑ह प्र॒जा । 20) प्र॒जा वै वै प्र॒जा प्र॒जा वै । 20) प्र॒जेति॑ प्र - जा । 21) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ । 22) प॒शव॒ इन्दु॒ रिन्दुः॑ प॒शवः॑ प॒शव॒ इन्दुः॑ । 23) इन्दुः॑ प्र॒जया᳚ प्र॒जये-न्दु॒रिन्दुः॑ प्र॒जया᳚ । 24) प्र॒जयै॒ वैव प्र॒जया᳚ प्र॒जयै॒व । 24) प्र॒जयेति॑ प्र - जया᳚ । 25) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 26) ए॒न॒-म्प॒शुभिः॑ प॒शुभि॑ रेन मेन-म्प॒शुभिः॑ । 27) प॒शुभि॒-स्सग्ं स-म्प॒शुभिः॑ प॒शुभि॒-स्सम् । 27) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 28) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति । 29) अ॒र्ध॒य॒ति॒ दिव॒-न्दिव॑ मर्धय त्यर्धयति॒ दिव᳚म् । 30) दिवं॒-वैँ वै दिव॒-न्दिवं॒-वैँ । 31) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 32) य॒ज्ञस्य॒ व्यृ॑द्धं॒-व्यृँ॑द्धं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ व्यृ॑द्धम् । 33) व्यृ॑द्ध-ङ्गच्छति गच्छति॒ व्यृ॑द्धं॒-व्यृँ॑द्ध-ङ्गच्छति । 33) व्यृ॑द्ध॒मिति॒ वि - ऋ॒द्ध॒म् । 34) ग॒च्छ॒ति॒ पृ॒थि॒वी-म्पृ॑थि॒वी-ङ्ग॑च्छति गच्छति पृथि॒वीम् । 35) पृ॒थि॒वी मति॑रिक्त॒ मति॑रिक्त-म्पृथि॒वी-म्पृ॑थि॒वी मति॑रिक्तम् । 36) अति॑रिक्त॒-न्त-त्तदति॑रिक्त॒ मति॑रिक्त॒-न्तत् । 36) अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् । 37) त-द्य-द्य-त्त-त्त-द्यत् । 38) य-न्न न य-द्य-न्न । 39) न श॒मये᳚ च्छ॒मये॒-न्न न श॒मये᳚त् । 40) श॒मये॒दार्ति॒ मार्तिग्ं॑ श॒मये᳚ च्छ॒मये॒ दार्ति᳚म् । 41) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 42) आर्च्छे॑ दृच्छे॒ दार्च्छे᳚त् । 43) ऋ॒च्छे॒-द्यज॑मानो॒ यज॑मान ऋच्छे दृच्छे॒-द्यज॑मानः । 44) यज॑मानो म॒ही म॒ही यज॑मानो॒ यज॑मानो म॒ही । 45) म॒ही द्यौ-र्द्यौ-र्म॒ही म॒ही द्यौः । 46) द्यौः पृ॑थि॒वी पृ॑थि॒वी द्यौ-र्द्यौः पृ॑थि॒वी । 47) पृ॒थि॒वी च॑ च पृथि॒वी पृ॑थि॒वी च॑ । 48) च॒ नो॒ न॒ श्च॒ च॒ नः॒ । 49) न॒ इतीति॑ नो न॒ इति॑ । 50) इत्या॑ हा॒हे तीत्या॑ह । ॥ 2 ॥ (50/58)
1) आ॒ह॒ द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॑ माहाह॒ द्यावा॑पृथि॒वीभ्या᳚म् । 2) द्यावा॑पृथि॒वीभ्या॑ मे॒वैव द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॑ मे॒व । 2) द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा᳚ - पृ॒थि॒वीभ्या᳚म् । 3) ए॒व य॒ज्ञस्य॑ य॒ज्ञस्यै॒वैव य॒ज्ञस्य॑ । 4) य॒ज्ञस्य॒ व्यृ॑द्धं॒-व्यृँ॑द्धं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ व्यृ॑द्धम् । 5) व्यृ॑द्ध-ञ्च च॒ व्यृ॑द्धं॒-व्यृँ॑द्ध-ञ्च । 5) व्यृ॑द्ध॒मिति॒ वि - ऋ॒द्ध॒म् । 6) चाति॑रिक्त॒ मति॑रिक्त-ञ्च॒ चाति॑रिक्तम् । 7) अति॑रिक्त-ञ्च॒ चाति॑रिक्त॒ मति॑रिक्त-ञ्च । 7) अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् । 8) च॒ श॒म॒य॒ति॒ श॒म॒य॒ति॒ च॒ च॒ श॒म॒य॒ति॒ । 9) श॒म॒य॒ति॒ न न श॑मयति शमयति॒ न । 10) नार्ति॒ मार्ति॒-न्न नार्ति᳚म् । 11) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 12) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति । 13) ऋ॒च्छ॒ति॒ यज॑मानो॒ यज॑मान ऋच्छ त्यृच्छति॒ यज॑मानः । 14) यज॑मानो॒ भस्म॑ना॒ भस्म॑ना॒ यज॑मानो॒ यज॑मानो॒ भस्म॑ना । 15) भस्म॑ना॒ ऽभ्य॑भि भस्म॑ना॒ भस्म॑ना॒ ऽभि । 16) अ॒भि सग्ं स म॒भ्य॑भि सम् । 17) स मू॑ह त्यूहति॒ सग्ं समू॑हति । 18) ऊ॒ह॒ति॒ स्व॒गाकृ॑त्यै स्व॒गाकृ॑त्या ऊह त्यूहति स्व॒गाकृ॑त्यै । 19) स्व॒गाकृ॑त्या॒ अथो॒ अथो᳚ स्व॒गाकृ॑त्यै स्व॒गाकृ॑त्या॒ अथो᳚ । 19) स्व॒गाकृ॑त्या॒ इति॑ स्व॒गा - कृ॒त्यै॒ । 20) अथो॑ अ॒नयो॑ र॒नयो॒ रथो॒ अथो॑ अ॒नयोः᳚ । 20) अथो॒ इत्यथो᳚ । 21) अ॒नयो॒-र्वै वा अ॒नयो॑ र॒नयो॒-र्वै । 22) वा ए॒ष ए॒ष वै वा ए॒षः । 23) ए॒ष गर्भो॒ गर्भ॑ ए॒ष ए॒ष गर्भः॑ । 24) गर्भो॒ ऽनयो॑ र॒नयो॒-र्गर्भो॒ गर्भो॒ ऽनयोः᳚ । 25) अ॒नयो॑ रे॒वैवानयो॑ र॒नयो॑ रे॒व । 26) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 27) ए॒न॒-न्द॒धा॒ति॒ द॒धा॒त् ये॒न॒ मे॒न॒-न्द॒धा॒ति॒ । 28) द॒धा॒ति॒ य-द्य-द्द॑धाति दधाति॒ यत् । 29) यद॑व॒द्ये द॑व॒द्ये-द्य-द्यद॑व॒द्येत् । 30) अ॒व॒द्ये दत्य त्य॑व॒द्ये द॑व॒द्ये दति॑ । 30) अ॒व॒द्येदित्य॑व - द्येत् । 31) अति॒ त-त्तदत्यति॒ तत् । 32) त-द्रे॑चये-द्रेचये॒-त्त-त्त-द्रे॑चयेत् । 33) रे॒च॒ये॒-द्य-द्य-द्रे॑चये-द्रेचये॒-द्यत् । 34) य-न्न न य-द्य-न्न । 35) ना व॒द्ये द॑व॒द्ये-न्न नाव॒द्येत् । 36) अ॒व॒द्ये-त्प॒शोः प॒शो र॑व॒द्ये द॑व॒द्ये-त्प॒शोः । 36) अ॒व॒द्येदित्य॑व - द्येत् । 37) प॒शो राल॑ब्ध॒स्या ल॑ब्धस्य प॒शोः प॒शो राल॑ब्धस्य । 38) आल॑ब्धस्य॒ न नाल॑ब्ध॒स्या ल॑ब्धस्य॒ न । 38) आल॑ब्ध॒स्येत्या - ल॒ब्ध॒स्य॒ । 39) नावाव॒ न नाव॑ । 40) अव॑ द्ये-द्द्ये॒द वाव॑ द्येत् । 41) द्ये॒-त्पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्द्ये-द्द्ये-त्पु॒रस्ता᳚त् । 42) पु॒रस्ता॒-न्नाभ्या॒ नाभ्याः᳚ पु॒रस्ता᳚-त्पु॒रस्ता॒-न्नाभ्याः᳚ । 43) नाभ्या॑ अ॒न्य द॒न्य-न्नाभ्या॒ नाभ्या॑ अ॒न्यत् । 44) अ॒न्य द॑व॒द्ये द॑व॒द्ये द॒न्य द॒न्य द॑व॒द्येत् । 45) अ॒व॒द्ये दु॒परि॑ष्टा दु॒परि॑ष्टा दव॒द्ये द॑व॒द्ये दु॒परि॑ष्टात् । 45) अ॒व॒द्येदित्य॑व - द्येत् । 46) उ॒परि॑ष्टा द॒न्य द॒न्य दु॒परि॑ष्टा दु॒परि॑ष्टा द॒न्यत् । 47) अ॒न्य-त्पु॒रस्ता᳚-त्पु॒रस्ता॑ द॒न्य द॒न्य-त्पु॒रस्ता᳚त् । 48) पु॒रस्ता॒-द्वै वै पु॒रस्ता᳚-त्पु॒रस्ता॒-द्वै । 49) वै नाभ्यै॒ नाभ्यै॒ वै वै नाभ्यै᳚ । 50) नाभ्यै᳚ प्रा॒णः प्रा॒णो नाभ्यै॒ नाभ्यै᳚ प्रा॒णः । ॥ 3 ॥ (50/59)
1) प्रा॒ण उ॒परि॑ष्टा दु॒परि॑ष्टा-त्प्रा॒णः प्रा॒ण उ॒परि॑ष्टात् । 1) प्रा॒ण इति॑ प्र - अ॒नः । 2) उ॒परि॑ष्टा दपा॒नो॑ ऽपा॒न उ॒परि॑ष्टा दु॒परि॑ष्टा दपा॒नः । 3) अ॒पा॒नो यावा॒न्॒. यावा॑-नपा॒नो॑ ऽपा॒नो यावान्॑ । 3) अ॒पा॒न इत्य॑प - अ॒नः । 4) यावा॑ने॒वैव यावा॒न्॒. यावा॑-ने॒व । 5) ए॒व प॒शुः प॒शु रे॒वैव प॒शुः । 6) प॒शु स्तस्य॒ तस्य॑ प॒शुः प॒शु स्तस्य॑ । 7) तस्या वाव॒ तस्य॒ तस्याव॑ । 8) अव॑ द्यति द्य॒त्यवाव॑ द्यति । 9) द्य॒ति॒ विष्ण॑वे॒ विष्ण॑वे द्यति द्यति॒ विष्ण॑वे । 10) विष्ण॑वे शिपिवि॒ष्टाय॑ शिपिवि॒ष्टाय॒ विष्ण॑वे॒ विष्ण॑वे शिपिवि॒ष्टाय॑ । 11) शि॒पि॒वि॒ष्टाय॑ जुहोति जुहोति शिपिवि॒ष्टाय॑ शिपिवि॒ष्टाय॑ जुहोति । 11) शि॒पि॒वि॒ष्टायेति॑ शिपि - वि॒ष्टाय॑ । 12) जु॒हो॒ति॒ य-द्यज् जु॑होति जुहोति॒ यत् । 13) य-द्वै वै य-द्य-द्वै । 14) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 15) य॒ज्ञस्या॑ ति॒रिच्य॑ते ऽति॒रिच्य॑ते य॒ज्ञस्य॑ य॒ज्ञस्या॑ ति॒रिच्य॑ते । 16) अ॒ति॒रिच्य॑ते॒ यो यो॑ ऽति॒रिच्य॑ते ऽति॒रिच्य॑ते॒ यः । 16) अ॒ति॒रिच्य॑त॒ इत्य॑ति - रिच्य॑ते । 17) यः प॒शोः प॒शो-र्यो यः प॒शोः । 18) प॒शो-र्भू॒मा भू॒मा प॒शोः प॒शो-र्भू॒मा । 19) भू॒मा या या भू॒मा भू॒मा या । 20) या पुष्टिः॒ पुष्टि॒-र्या या पुष्टिः॑ । 21) पुष्टि॒ स्त-त्त-त्पुष्टिः॒ पुष्टि॒ स्तत् । 22) त-द्विष्णु॒-र्विष्णु॒ स्त-त्त-द्विष्णुः॑ । 23) विष्णु॑-श्शिपिवि॒ष्ट-श्शि॑पिवि॒ष्टो विष्णु॒-र्विष्णु॑-श्शिपिवि॒ष्टः । 24) शि॒पि॒वि॒ष्टो ऽति॑रि॒क्ते ऽति॑रिक्ते शिपिवि॒ष्ट-श्शि॑पिवि॒ष्टो ऽति॑रिक्ते । 24) शि॒पि॒वि॒ष्ट इति॑ शिपि - वि॒ष्टः । 25) अति॑रिक्त ए॒वैवाति॑रि॒क्ते ऽति॑रिक्त ए॒व । 25) अति॑रिक्त॒ इत्यति॑ - रि॒क्ते॒ । 26) ए॒वा ति॑रिक्त॒ मति॑रिक्त मे॒वैवा ति॑रिक्तम् । 27) अति॑रिक्त-न्दधाति दधा॒ त्यति॑रिक्त॒ मति॑रिक्त-न्दधाति । 27) अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् । 28) द॒धा॒ त्यति॑रिक्त॒स्या ति॑रिक्तस्य दधाति दधा॒ त्यति॑रिक्तस्य । 29) अति॑रिक्तस्य॒ शान्त्यै॒ शान्त्या॒ अति॑रिक्त॒स्या ति॑रिक्तस्य॒ शान्त्यै᳚ । 29) अति॑रिक्त॒स्येत्यति॑ - रि॒क्त॒स्य॒ । 30) शान्त्या॑ अ॒ष्टाप्रू॑ ड॒ष्टाप्रू॒ट् छान्त्यै॒ शान्त्या॑ अ॒ष्टाप्रू᳚ट् । 31) अ॒ष्टाप्रू॒ ड्ढिर॑ण्य॒ग्ं॒ हिर॑ण्य म॒ष्टाप्रू॑ ड॒ष्टाप्रू॒ ड्ढिर॑ण्यम् । 31) अ॒ष्टाप्रू॒डित्य॒ष्टा - प्रू॒ट् । 32) हिर॑ण्य॒-न्दक्षि॑णा॒ दक्षि॑णा॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्दक्षि॑णा । 33) दक्षि॑णा॒ ऽष्टाप॑द्य॒ ष्टाप॑दी॒ दक्षि॑णा॒ दक्षि॑णा॒ ऽष्टाप॑दी । 34) अ॒ष्टाप॑दी॒ हि ह्य॑ष्टाप॑ द्य॒ष्टाप॑दी॒ हि । 34) अ॒ष्टाप॒दीत्य॒ष्टा - प॒दी॒ । 35) ह्ये॑षैषा हि ह्ये॑षा । 36) ए॒षा ऽऽत्मा ऽऽत्मैषैषा ऽऽत्मा । 37) आ॒त्मा न॑व॒मो न॑व॒म आ॒त्मा ऽऽत्मा न॑व॒मः । 38) न॒व॒मः प॒शोः प॒शो-र्न॑व॒मो न॑व॒मः प॒शोः । 39) प॒शो राप्त्या॒ आप्त्यै॑ प॒शोः प॒शो राप्त्यै᳚ । 40) आप्त्या॑ अन्तरको॒शे᳚ ऽन्तरको॒श आप्त्या॒ आप्त्या॑ अन्तरको॒शे । 41) अ॒न्त॒र॒को॒श उ॒ष्णीषे॑ णो॒ष्णीषे॑णा न्तरको॒शे᳚ ऽन्तरको॒श उ॒ष्णीषे॑ण । 41) अ॒न्त॒र॒को॒श इत्य॑न्तर - को॒शे । 42) उ॒ष्णीषे॒णा वि॑ष्टित॒ मावि॑ष्टित मु॒ष्णीषे॑ णो॒ष्णीषे॒णा वि॑ष्टितम् । 43) आवि॑ष्टित-म्भवति भव॒ त्यावि॑ष्टित॒ मावि॑ष्टित-म्भवति । 43) आवि॑ष्टित॒मित्या - वि॒ष्टि॒त॒म् । 44) भ॒व॒ त्ये॒व मे॒व-म्भ॑वति भव त्ये॒वम् । 45) ए॒व मि॑वेवै॒व मे॒व मि॑व । 46) इ॒व॒ हि हीवे॑व॒ हि । 47) हि प॒शुः प॒शुर्-हि हि प॒शुः । 48) प॒शु रुल्ब॒ मुल्ब॑-म्प॒शुः प॒शु रुल्ब᳚म् । 49) उल्ब॑ मिवे॒ वोल्ब॒ मुल्ब॑ मिव । 50) इ॒व॒ चर्म॒ चर्मे॑वेव॒ चर्म॑ । 51) चर्मे॑वेव॒ चर्म॒ चर्मे॑व । 52) इ॒व॒ मा॒ग्ं॒स-म्मा॒ग्ं॒स मि॑वेव मा॒ग्ं॒सम् । 53) मा॒ग्ं॒स मि॑वेव मा॒ग्ं॒स-म्मा॒ग्ं॒स मि॑व । 54) इ॒वास्थ्यस्थी॑ वे॒वास्थि॑ । 55) अस्थी॑ वे॒वास्थ्य स्थी॑व । 56) इ॒व॒ यावा॒न्॒. यावा॑-निवेव॒ यावान्॑ । 57) यावा॑-ने॒वैव यावा॒न्॒. यावा॑-ने॒व । 58) ए॒व प॒शुः प॒शु रे॒वैव प॒शुः । 59) प॒शु स्त-न्त-म्प॒शुः प॒शु स्तम् । 60) त मा॒प्त्वा ऽऽप्त्वा त-न्तमा॒प्त्वा । 61) आ॒प्त्वा ऽवावा॒प्त्वा ऽऽप्त्वा ऽव॑ । 62) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 63) रु॒न्धे॒ यस्य॒ यस्य॑ रुन्धे रुन्धे॒ यस्य॑ । 64) यस्यै॒षैषा यस्य॒ यस्यै॒षा । 65) ए॒षा य॒ज्ञे य॒ज्ञ ए॒षैषा य॒ज्ञे । 66) य॒ज्ञे प्राय॑श्चित्तिः॒ प्राय॑श्चित्ति-र्य॒ज्ञे य॒ज्ञे प्राय॑श्चित्तिः । 67) प्राय॑श्चित्तिः क्रि॒यते᳚ क्रि॒यते॒ प्राय॑श्चित्तिः॒ प्राय॑श्चित्तिः क्रि॒यते᳚ । 68) क्रि॒यत॑ इ॒ष्ट्वे ष्ट्वा क्रि॒यते᳚ क्रि॒यत॑ इ॒ष्ट्वा । 69) इ॒ष्ट्वा वसी॑या॒न्॒. वसी॑या-नि॒ष्ट्वे ष्ट्वा वसी॑यान् । 70) वसी॑या-न्भवति भवति॒ वसी॑या॒न्॒. वसी॑या-न्भवति । 71) भ॒व॒तीति॑ भवति । ॥ 4 ॥ (71/83) ॥ अ. 1 ॥
1) आ वा॑यो वायो॒ आ वा॑यो । 2) वा॒यो॒ भू॒ष॒ भू॒ष॒ वा॒यो॒ वा॒यो॒ भू॒ष॒ । 2) वा॒यो॒ इति॑ वायो । 3) भू॒ष॒ शु॒चि॒पा॒-श्शु॒चि॒पा॒ भू॒ष॒ भू॒ष॒ शु॒चि॒पाः॒ । 4) शु॒चि॒पा॒ उपोप॑ शुचिपा-श्शुचिपा॒ उप॑ । 4) शु॒चि॒पा॒ इति॑ शुचि - पाः॒ । 5) उप॑ नो न॒ उपोप॑ नः । 6) न॒-स्स॒हस्रग्ं॑ स॒हस्र॑-न्नो न-स्स॒हस्र᳚म् । 7) स॒हस्र॑-न्ते ते स॒हस्रग्ं॑ स॒हस्र॑-न्ते । 8) ते॒ नि॒युतो॑ नि॒युत॑ स्ते ते नि॒युतः॑ । 9) नि॒युतो॑ विश्ववार विश्ववार नि॒युतो॑ नि॒युतो॑ विश्ववार । 9) नि॒युत॒ इति॑ नि - युतः॑ । 10) वि॒श्व॒वा॒रेति॑ विश्व - वा॒र॒ । 11) उपो॑ ते त॒ उपो॒ उपो॑ ते । 11) उपो॒ इत्युपो᳚ । 12) ते॒ अन्धो ऽन्ध॑ स्ते ते॒ अन्धः॑ । 13) अन्धो॒ मद्य॒-म्मद्य॒ मन्धो ऽन्धो॒ मद्य᳚म् । 14) मद्य॑ मया म्ययामि॒ मद्य॒-म्मद्य॑ मयामि । 15) अ॒या॒मि॒ यस्य॒ यस्या॑या म्ययामि॒ यस्य॑ । 16) यस्य॑ देव देव॒ यस्य॒ यस्य॑ देव । 17) दे॒व॒ द॒धि॒षे द॑धि॒षे दे॑व देव दधि॒षे । 18) द॒धि॒षे पू᳚र्व॒पेय॑-म्पूर्व॒पेय॑-न्दधि॒षे द॑धि॒षे पू᳚र्व॒पेय᳚म् । 19) पू॒र्व॒पेय॒मिति॑ पूर्व - पेय᳚म् । 20) आकू᳚त्यै त्वा॒ त्वा ऽऽकू᳚त्या॒ आकू᳚त्यै त्वा । 20) आकू᳚त्या॒ इत्या - कू॒त्यै॒ । 21) त्वा॒ कामा॑य॒ कामा॑य त्वा त्वा॒ कामा॑य । 22) कामा॑य त्वा त्वा॒ कामा॑य॒ कामा॑य त्वा । 23) त्वा॒ स॒मृधे॑ स॒मृधे᳚ त्वा त्वा स॒मृधे᳚ । 24) स॒मृधे᳚ त्वा त्वा स॒मृधे॑ स॒मृधे᳚ त्वा । 24) स॒मृध॒ इति॑ सं - ऋधे᳚ । 25) त्वा॒ कि॒क्कि॒टा कि॑क्कि॒टा त्वा᳚ त्वा किक्कि॒टा । 26) कि॒क्कि॒टा ते॑ ते किक्कि॒टा कि॑क्कि॒टा ते᳚ । 27) ते॒ मनो॒ मन॑ स्ते ते॒ मनः॑ । 28) मनः॑ प्र॒जाप॑तये प्र॒जाप॑तये॒ मनो॒ मनः॑ प्र॒जाप॑तये । 29) प्र॒जाप॑तये॒ स्वाहा॒ स्वाहा᳚ प्र॒जाप॑तये प्र॒जाप॑तये॒ स्वाहा᳚ । 29) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । 30) स्वाहा॑ किक्कि॒टा कि॑क्कि॒टा स्वाहा॒ स्वाहा॑ किक्कि॒टा । 31) कि॒क्कि॒टा ते॑ ते किक्कि॒टा कि॑क्कि॒टा ते᳚ । 32) ते॒ प्रा॒ण-म्प्रा॒ण-न्ते॑ ते प्रा॒णम् । 33) प्रा॒णं-वाँ॒यवे॑ वा॒यवे᳚ प्रा॒ण-म्प्रा॒णं-वाँ॒यवे᳚ । 33) प्रा॒णमिति॑ प्र - अ॒नम् । 34) वा॒यवे॒ स्वाहा॒ स्वाहा॑ वा॒यवे॑ वा॒यवे॒ स्वाहा᳚ । 35) स्वाहा॑ किक्कि॒टा कि॑क्कि॒टा स्वाहा॒ स्वाहा॑ किक्कि॒टा । 36) कि॒क्कि॒टा ते॑ ते किक्कि॒टा कि॑क्कि॒टा ते᳚ । 37) ते॒ चक्षु॒ श्चक्षु॑ स्ते ते॒ चक्षुः॑ । 38) चक्षु॒-स्सूर्या॑य॒ सूर्या॑य॒ चक्षु॒ श्चक्षु॒-स्सूर्या॑य । 39) सूर्या॑य॒ स्वाहा॒ स्वाहा॒ सूर्या॑य॒ सूर्या॑य॒ स्वाहा᳚ । 40) स्वाहा॑ किक्कि॒टा कि॑क्कि॒टा स्वाहा॒ स्वाहा॑ किक्कि॒टा । 41) कि॒क्कि॒टा ते॑ ते किक्कि॒टा कि॑क्कि॒टा ते᳚ । 42) ते॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑-न्ते ते॒ श्रोत्र᳚म् । 43) श्रोत्र॒-न्द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॒ग्॒ श्रोत्र॒ग्ग्॒ श्रोत्र॒-न्द्यावा॑पृथि॒वीभ्या᳚म् । 44) द्यावा॑पृथि॒वीभ्या॒ग्॒ स्वाहा॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॒ग्॒ स्वाहा᳚ । 44) द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा᳚ - पृ॒थि॒वीभ्या᳚म् । 45) स्वाहा॑ किक्कि॒टा कि॑क्कि॒टा स्वाहा॒ स्वाहा॑ किक्कि॒टा । 46) कि॒क्कि॒टा ते॑ ते किक्कि॒टा कि॑क्कि॒टा ते᳚ । 47) ते॒ वाचं॒-वाँच॑-न्ते ते॒ वाच᳚म् । 48) वाच॒ग्ं॒ सर॑स्वत्यै॒ सर॑स्वत्यै॒ वाचं॒-वाँच॒ग्ं॒ सर॑स्वत्यै । 49) सर॑स्वत्यै॒ स्वाहा॒ स्वाहा॒ सर॑स्वत्यै॒ सर॑स्वत्यै॒ स्वाहा᳚ । 50) स्वाहा॒ त्व-न्त्वग्ग् स्वाहा॒ स्वाहा॒ त्वम् । ॥ 5 ॥ (50/59)
1) त्व-न्तु॒रीया॑ तु॒रीया॒ त्व-न्त्व-न्तु॒रीया᳚ । 2) तु॒रीया॑ व॒शिनी॑ व॒शिनी॑ तु॒रीया॑ तु॒रीया॑ व॒शिनी᳚ । 3) व॒शिनी॑ व॒शा व॒शा व॒शिनी॑ व॒शिनी॑ व॒शा । 4) व॒शा ऽस्य॑सि व॒शा व॒शा ऽसि॑ । 5) अ॒सि॒ स॒कृ-थ्स॒कृ द॑स्यसि स॒कृत् । 6) स॒कृ-द्य-द्य-थ्स॒कृ-थ्स॒कृ-द्यत् । 7) य-त्त्वा᳚ त्वा॒ य-द्य-त्त्वा᳚ । 8) त्वा॒ मन॑सा॒ मन॑सा त्वा त्वा॒ मन॑सा । 9) मन॑सा॒ गर्भो॒ गर्भो॒ मन॑सा॒ मन॑सा॒ गर्भः॑ । 10) गर्भ॒ आ गर्भो॒ गर्भ॒ आ । 11) आ ऽश॑य॒ दश॑य॒दा ऽश॑यत् । 12) अश॑य॒दित्यश॑यत् । 13) व॒शा त्व-न्त्वं-वँ॒शा व॒शा त्वम् । 14) त्वं-वँ॒शिनी॑ व॒शिनी॒ त्व-न्त्वं-वँ॒शिनी᳚ । 15) व॒शिनी॑ गच्छ गच्छ व॒शिनी॑ व॒शिनी॑ गच्छ । 16) ग॒च्छ॒ दे॒वा-न्दे॒वा-न्ग॑च्छ गच्छ दे॒वान् । 17) दे॒वा-न्थ्स॒त्या-स्स॒त्या दे॒वा-न्दे॒वा-न्थ्स॒त्याः । 18) स॒त्या-स्स॑न्तु सन्तु स॒त्या-स्स॒त्या-स्स॑न्तु । 19) स॒न्तु॒ यज॑मानस्य॒ यज॑मानस्य सन्तु सन्तु॒ यज॑मानस्य । 20) यज॑मानस्य॒ कामाः॒ कामा॒ यज॑मानस्य॒ यज॑मानस्य॒ कामाः᳚ । 21) कामा॒ इति॒ कामाः᳚ । 22) अ॒जा ऽस्य॑ स्य॒जा ऽजा ऽसि॑ । 23) अ॒सि॒ र॒यि॒ष्ठा र॑यि॒ष्ठा ऽस्य॑सि रयि॒ष्ठा । 24) र॒यि॒ष्ठा पृ॑थि॒व्या-म्पृ॑थि॒व्याग्ं र॑यि॒ष्ठा र॑यि॒ष्ठा पृ॑थि॒व्याम् । 24) र॒यि॒ष्ठेति॑ रयि - स्था । 25) पृ॒थि॒व्याग्ं सी॑द सीद पृथि॒व्या-म्पृ॑थि॒व्याग्ं सी॑द । 26) सी॒दो॒र्ध्वो र्ध्वा सी॑द सीदो॒र्ध्वा । 27) ऊ॒र्ध्वा ऽन्तरि॑क्ष म॒न्तरि॑क्ष मू॒र्ध्वोर्ध्वा ऽन्तरि॑क्षम् । 28) अ॒न्तरि॑क्ष॒ मुपोपा॒ न्तरि॑क्ष म॒न्तरि॑क्ष॒ मुप॑ । 29) उप॑ तिष्ठस्व तिष्ठ॒स्वो पोप॑ तिष्ठस्व । 30) ति॒ष्ठ॒स्व॒ दि॒वि दि॒वि ति॑ष्ठस्व तिष्ठस्व दि॒वि । 31) दि॒वि ते॑ ते दि॒वि दि॒वि ते᳚ । 32) ते॒ बृ॒ह-द्बृ॒ह-त्ते॑ ते बृ॒हत् । 33) बृ॒ह-द्भा भा बृ॒ह-द्बृ॒ह-द्भाः । 34) भा इति॒ भाः । 35) तन्तु॑-न्त॒न्व-न्त॒न्व-न्तन्तु॒-न्तन्तु॑-न्त॒न्वन्न् । 36) त॒न्व-न्रज॑सो॒ रज॑स स्त॒न्व-न्त॒न्व-न्रज॑सः । 37) रज॑सो भा॒नु-म्भा॒नुग्ं रज॑सो॒ रज॑सो भा॒नुम् । 38) भा॒नु मन्वनु॑ भा॒नु-म्भा॒नु मनु॑ । 39) अन्वि॑ ही॒ह्य न्वन्वि॑हि । 40) इ॒हि॒ ज्योति॑ष्मतो॒ ज्योति॑ष्मत इहीहि॒ ज्योति॑ष्मतः । 41) ज्योति॑ष्मतः प॒थः प॒थो ज्योति॑ष्मतो॒ ज्योति॑ष्मतः प॒थः । 42) प॒थो र॑क्ष रक्ष प॒थः प॒थो र॑क्ष । 43) र॒क्ष॒ धि॒या धि॒या र॑क्ष रक्ष धि॒या । 44) धि॒या कृ॒तान् कृ॒ता-न्धि॒या धि॒या कृ॒तान् । 45) कृ॒तानिति॑ कृ॒तान् । 46) अ॒नु॒ल्ब॒णं-वँ॑यत वयता नुल्ब॒ण म॑नुल्ब॒णं-वँ॑यत । 47) व॒य॒त॒ जोगु॑वा॒-ञ्जोगु॑वां-वँयत वयत॒ जोगु॑वाम् । 48) जोगु॑वा॒ मपो ऽपो॒ जोगु॑वा॒-ञ्जोगु॑वा॒ मपः॑ । 49) अपो॒ मनु॒-र्मनु॒ रपो ऽपो॒ मनुः॑ । 50) मनु॑-र्भव भव॒ मनु॒-र्मनु॑-र्भव । 51) भ॒व॒ ज॒नय॑ ज॒नय॑ भव भव ज॒नय॑ । 52) ज॒नया॒ दैव्य॒-न्दैव्य॑-ञ्ज॒नय॑ ज॒नया॒ दैव्य᳚म् । 53) दैव्य॒-ञ्जन॒-ञ्जन॒-न्दैव्य॒-न्दैव्य॒-ञ्जन᳚म् । 54) जन॒मिति॒ जन᳚म् । 55) मन॑सो ह॒विर्-ह॒वि-र्मन॑सो॒ मन॑सो ह॒विः । 56) ह॒वि र॑स्यसि ह॒विर्-ह॒वि र॑सि । 57) अ॒सि॒ प्र॒जाप॑तेः प्र॒जाप॑ते रस्यसि प्र॒जाप॑तेः । 58) प्र॒जाप॑ते॒-र्वर्णो॒ वर्णः॑ प्र॒जाप॑तेः प्र॒जाप॑ते॒-र्वर्णः॑ । 58) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 59) वर्णो॒ गात्रा॑णा॒-ङ्गात्रा॑णां॒-वँर्णो॒ वर्णो॒ गात्रा॑णाम् । 60) गात्रा॑णा-न्ते ते॒ गात्रा॑णा॒-ङ्गात्रा॑णा-न्ते । 61) ते॒ गा॒त्र॒भाजो॑ गात्र॒भाज॑ स्ते ते गात्र॒भाजः॑ । 62) गा॒त्र॒भाजो॑ भूयास्म भूयास्म गात्र॒भाजो॑ गात्र॒भाजो॑ भूयास्म । 62) गा॒त्र॒भाज॒ इति॑ गात्र - भाजः॑ । 63) भू॒या॒स्मेति॑ भूयास्म । ॥ 6 ॥ (63/66) ॥ अ. 2 ॥
1) इ॒मे वै वा इ॒मे इ॒मे वै । 1) इ॒मे इती॒मे । 2) वै स॒ह स॒ह वै वै स॒ह । 3) स॒हास्ता॑ मास्ताग्ं स॒ह स॒हास्ता᳚म् । 4) आ॒स्ता॒-न्ते ते आ᳚स्ता मास्ता॒-न्ते । 5) ते वा॒यु-र्वा॒यु स्ते ते वा॒युः । 5) ते इति॒ ते । 6) वा॒यु-र्वि वि वा॒यु-र्वा॒यु-र्वि । 7) व्य॑वा दवा॒-द्वि व्य॑वात् । 8) अ॒वा॒-त्ते ते अ॑वा दवा॒-त्ते । 9) ते गर्भ॒-ङ्गर्भ॒-न्ते ते गर्भ᳚म् । 9) ते इति॒ ते । 10) गर्भ॑ मदधाता मदधाता॒-ङ्गर्भ॒-ङ्गर्भ॑ मदधाताम् । 11) अ॒द॒धा॒ता॒-न्त-न्त म॑दधाता मदधाता॒-न्तम् । 12) तग्ं सोम॒-स्सोम॒ स्त-न्तग्ं सोमः॑ । 13) सोमः॒ प्र प्र सोम॒-स्सोमः॒ प्र । 14) प्रा ज॑नयद जनय॒-त्प्र प्रा ज॑नयत् । 15) अ॒ज॒न॒य॒ द॒ग्नि-र॒ग्नि र॑जनय दजनय द॒ग्निः । 16) आ॒ग्नि र॑ग्रसता ग्रसता॒ ग्नि र॒ग्नि र॑ग्रसत । 17) अ॒ग्र॒स॒त॒ स सो᳚ ऽग्रसता ग्रसत॒ सः । 18) स ए॒त मे॒तग्ं स स ए॒तम् । 19) ए॒त-म्प्र॒जाप॑तिः प्र॒जाप॑ति रे॒त मे॒त-म्प्र॒जाप॑तिः । 20) प्र॒जाप॑ति राग्ने॒य मा᳚ग्ने॒य-म्प्र॒जाप॑तिः प्र॒जाप॑ति राग्ने॒यम् । 20) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 21) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् । 22) अ॒ष्टाक॑पाल मपश्य दपश्य द॒ष्टाक॑पाल म॒ष्टाक॑पाल मपश्यत् । 22) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 23) अ॒प॒श्य॒-त्त-न्त म॑पश्य दपश्य॒-त्तम् । 24) त-न्नि-र्णिष् ट-न्त-न्निः । 25) निर॑वप दवप॒-न्नि-र्णिर॑वपत् । 26) अ॒व॒प॒-त्तेन॒ तेना॑ वप दवप॒-त्तेन॑ । 27) तेनै॒वैव तेन॒ तेनै॒व । 28) ए॒वैना॑ मेना मे॒वैवैना᳚म् । 29) ए॒ना॒ म॒ग्ने र॒ग्ने रे॑ना मेना म॒ग्नेः । 30) अ॒ग्ने रध्यध्य॒ ग्ने र॒ग्ने रधि॑ । 31) अधि॒ नि-र्णि रध्यधि॒ निः । 32) नि र॑क्रीणा दक्रीणा॒-न्नि-र्णिर॑क्रीणात् । 33) अ॒क्री॒णा॒-त्तस्मा॒-त्तस्मा॑ दक्रीणा दक्रीणा॒-त्तस्मा᳚त् । 34) तस्मा॒ दप्यपि॒ तस्मा॒-त्तस्मा॒ दपि॑ । 35) अप्य॑ न्यदेव॒त्या॑ मन्यदेव॒त्या॑ मप्यप्य॑ न्यदेव॒त्या᳚म् । 36) अ॒न्य॒दे॒व॒त्या॑ मा॒लभ॑मान आ॒लभ॑मानो ऽन्यदेव॒त्या॑ मन्यदेव॒त्या॑ मा॒लभ॑मानः । 36) अ॒न्य॒दे॒व॒त्या॑मित्य॑न्य - दे॒व॒त्या᳚म् । 37) आ॒लभ॑मान आग्ने॒य मा᳚ग्ने॒य मा॒लभ॑मान आ॒लभ॑मान आग्ने॒यम् । 37) आ॒लभ॑मान॒ इत्या᳚ - लभ॑मानः । 38) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् । 39) अ॒ष्टाक॑पाल-म्पु॒रस्ता᳚-त्पु॒रस्ता॑ द॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पु॒रस्ता᳚त् । 39) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 40) पु॒रस्ता॒-न्नि-र्णिष् पु॒रस्ता᳚-त्पु॒रस्ता॒-न्निः । 41) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् । 42) व॒पे॒ द॒ग्ने र॒ग्ने-र्व॑पे-द्वपे द॒ग्नेः । 43) अ॒ग्नेरे॒वै वाग्ने र॒ग्नेरे॒व । 44) ए॒वैना॑ मेना मे॒वैवैना᳚म् । 45) ए॒ना॒ मध्यध्ये॑ ना मेना॒ मधि॑ । 46) अधि॑ नि॒ष्क्रीय॑ नि॒ष्क्रीया ध्यधि॑ नि॒ष्क्रीय॑ । 47) नि॒ष्क्रीया नि॒ष्क्रीय॑ नि॒ष्क्रीया । 47) नि॒ष्क्रीयेति॑ निः - क्रीय॑ । 48) आ ल॑भते लभत॒ आ ल॑भते । 49) ल॒भ॒ते॒ य-द्यल्ल॑भते लभते॒ यत् । 50) य-द्वा॒यु-र्वा॒यु-र्य-द्य-द्वा॒युः । ॥ 7 ॥ (50/59)
1) वा॒यु-र्व्यवा॒-द्व्यवा᳚-द्वा॒यु-र्वा॒यु-र्व्यवा᳚त् । 2) व्यवा॒-त्तस्मा॒-त्तस्मा॒-द्व्यवा॒-द्व्यवा॒-त्तस्मा᳚त् । 2) व्यवा॒दिति॑ वि - अवा᳚त् । 3) तस्मा᳚-द्वाय॒व्या॑ वाय॒व्या॑ तस्मा॒-त्तस्मा᳚-द्वाय॒व्या᳚ । 4) वा॒य॒व्या॑ य-द्य-द्वा॑य॒व्या॑ वाय॒व्या॑ यत् । 5) यदि॒मे इ॒मे य-द्यदि॒मे । 6) इ॒मे गर्भ॒-ङ्गर्भ॑ मि॒मे इ॒मे गर्भ᳚म् । 6) इ॒मे इती॒मे । 7) गर्भ॒ मद॑धाता॒ मद॑धाता॒-ङ्गर्भ॒-ङ्गर्भ॒ मद॑धाताम् । 8) अद॑धाता॒-न्तस्मा॒-त्तस्मा॒ दद॑धाता॒ मद॑धाता॒-न्तस्मा᳚त् । 9) तस्मा᳚-द्द्यावापृथि॒व्या᳚ द्यावापृथि॒व्या॑ तस्मा॒-त्तस्मा᳚-द्द्यावापृथि॒व्या᳚ । 10) द्या॒वा॒पृ॒थि॒व्या॑ य-द्य-द्द्या॑वापृथि॒व्या᳚ द्यावापृथि॒व्या॑ यत् । 10) द्या॒वा॒पृ॒थि॒व्येति॑ द्यावा - पृ॒थि॒व्या᳚ । 11) य-थ्सोम॒-स्सोमो॒ य-द्य-थ्सोमः॑ । 12) सोमः॒ प्र प्र सोम॒-स्सोमः॒ प्र । 13) प्राज॑नय॒ दज॑नय॒-त्प्र प्राज॑नयत् । 14) अज॑नय द॒ग्नि र॒ग्नि रज॑नय॒ दज॑नय द॒ग्निः । 15) अ॒ग्नि रग्र॑स॒ता ग्र॑सता॒ग्नि र॒ग्नि रग्र॑सत । 16) अग्र॑सत॒ तस्मा॒-त्तस्मा॒ दग्र॑स॒ता ग्र॑सत॒ तस्मा᳚त् । 17) तस्मा॑ दग्नीषो॒मीया᳚ ऽग्नीषो॒मीया॒ तस्मा॒-त्तस्मा॑ दग्नीषो॒मीया᳚ । 18) अ॒ग्नी॒षो॒मीया॒ य-द्यद॑ग्नीषो॒मीया᳚ ऽग्नीषो॒मीया॒ यत् । 18) अ॒ग्नी॒षो॒मीयेत्य॑ग्नी - सो॒मीया᳚ । 19) य द॒नयो॑ र॒नयो॒-र्य-द्य द॒नयोः᳚ । 20) अ॒नयो᳚-र्विय॒त्यो-र्वि॑य॒त्यो र॒नयो॑ र॒नयो᳚-र्विय॒त्योः । 21) वि॒य॒त्यो-र्वाग् वाग् वि॑य॒त्यो-र्वि॑य॒त्यो-र्वाक् । 21) वि॒य॒त्योरिति॑ वि - य॒त्योः । 22) वागव॑द॒ दव॑द॒-द्वाग् वागव॑दत् । 23) अव॑द॒-त्तस्मा॒-त्तस्मा॒ दव॑द॒ दव॑द॒-त्तस्मा᳚त् । 24) तस्मा᳚-थ्सारस्व॒ती सा॑रस्व॒ती तस्मा॒-त्तस्मा᳚-थ्सारस्व॒ती । 25) सा॒र॒स्व॒ती य-द्य-थ्सा॑रस्व॒ती सा॑रस्व॒ती यत् । 26) य-त्प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्य-द्य-त्प्र॒जाप॑तिः । 27) प्र॒जाप॑ति र॒ग्ने र॒ग्नेः प्र॒जाप॑तिः प्र॒जाप॑ति र॒ग्नेः । 27) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 28) अ॒ग्ने रध्यध्य॒ ग्ने र॒ग्ने रधि॑ । 29) अधि॑ नि॒रक्री॑णा-न्नि॒रक्री॑णा॒ दध्यधि॑ नि॒रक्री॑णात् । 30) नि॒रक्री॑णा॒-त्तस्मा॒-त्तस्मा᳚-न्नि॒रक्री॑णा-न्नि॒रक्री॑णा॒-त्तस्मा᳚त् । 30) नि॒रक्री॑णा॒दिति॑ निः - अक्री॑णात् । 31) तस्मा᳚-त्प्राजाप॒त्या प्रा॑जाप॒त्या तस्मा॒-त्तस्मा᳚-त्प्राजाप॒त्या । 32) प्रा॒जा॒प॒त्या सा सा प्रा॑जाप॒त्या प्रा॑जाप॒त्या सा । 32) प्रा॒जा॒प॒त्येति॑ प्राजा - प॒त्या । 33) सा वै वै सा सा वै । 34) वा ए॒षैषा वै वा ए॒षा । 35) ए॒षा स॑र्वदेव॒त्या॑ सर्वदेव॒ त्यै॑षैषा स॑र्वदेव॒त्या᳚ । 36) स॒र्व॒दे॒व॒त्या॑ य-द्य-थ्स॑र्वदेव॒त्या॑ सर्वदेव॒त्या॑ यत् । 36) स॒र्व॒दे॒व॒त्येति॑ सर्व - दे॒व॒त्या᳚ । 37) यद॒जा ऽजा य-द्यद॒जा । 38) अ॒जा व॒शा व॒शा ऽजा ऽजा व॒शा । 39) व॒शा वा॑य॒व्यां᳚-वाँय॒व्यां᳚-वँ॒शा व॒शा वा॑य॒व्या᳚म् । 40) वा॒य॒व्या॑ मा वा॑य॒व्यां᳚-वाँय॒व्या॑ मा । 41) आ ल॑भेत लभे॒ता ल॑भेत । 42) ल॒भे॒त॒ भूति॑कामो॒ भूति॑कामो लभेत लभेत॒ भूति॑कामः । 43) भूति॑कामो वा॒यु-र्वा॒यु-र्भूति॑कामो॒ भूति॑कामो वा॒युः । 43) भूति॑काम॒ इति॒ भूति॑ - का॒मः॒ । 44) वा॒यु-र्वै वै वा॒यु-र्वा॒यु-र्वै । 45) वै क्षेपि॑ष्ठा॒ क्षेपि॑ष्ठा॒ वै वै क्षेपि॑ष्ठा । 46) क्षेपि॑ष्ठा दे॒वता॑ दे॒वता॒ क्षेपि॑ष्ठा॒ क्षेपि॑ष्ठा दे॒वता᳚ । 47) दे॒वता॑ वा॒युं-वाँ॒यु-न्दे॒वता॑ दे॒वता॑ वा॒युम् । 48) वा॒यु मे॒वैव वा॒युं-वाँ॒यु मे॒व । 49) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ । 50) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न । ॥ 8 ॥ (50/60)
1) भा॒ग॒धेये॒नो पोप॑ भाग॒धेये॑न भाग॒धेये॒ नोप॑ । 1) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । 2) उप॑ धावति धाव॒ त्युपोप॑ धावति । 3) धा॒व॒ति॒ स स धा॑वति धावति॒ सः । 4) स ए॒वैव स स ए॒व । 5) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 6) ए॒न॒-म्भूति॒-म्भूति॑ मेन मेन॒-म्भूति᳚म् । 7) भूति॑-ङ्गमयति गमयति॒ भूति॒-म्भूति॑-ङ्गमयति । 8) ग॒म॒य॒ति॒ द्या॒वा॒पृ॒थि॒व्या᳚-न्द्यावापृथि॒व्या᳚-ङ्गमयति गमयति द्यावापृथि॒व्या᳚म् । 9) द्या॒वा॒पृ॒थि॒व्या॑ मा द्या॑वापृथि॒व्या᳚-न्द्यावापृथि॒व्या॑ मा । 9) द्या॒वा॒पृ॒थि॒व्या॑मिति॑ द्यावा - पृ॒थि॒व्या᳚म् । 10) आ ल॑भेत लभे॒ता ल॑भेत । 11) ल॒भे॒त॒ कृ॒षमा॑णः कृ॒षमा॑णो लभेत लभेत कृ॒षमा॑णः । 12) कृ॒षमा॑णः प्रति॒ष्ठाका॑मः प्रति॒ष्ठाका॑मः कृ॒षमा॑णः कृ॒षमा॑णः प्रति॒ष्ठाका॑मः । 13) प्र॒ति॒ष्ठाका॑मो दि॒वो दि॒वः प्र॑ति॒ष्ठाका॑मः प्रति॒ष्ठाका॑मो दि॒वः । 13) प्र॒ति॒ष्ठाका॑म॒ इति॑ प्रति॒ष्ठा - का॒मः॒ । 14) दि॒व ए॒वैव दि॒वो दि॒व ए॒व । 15) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 16) अ॒स्मै॒ प॒र्जन्यः॑ प॒र्जन्यो᳚ ऽस्मा अस्मै प॒र्जन्यः॑ । 17) प॒र्जन्यो॑ वर्षति वर्षति प॒र्जन्यः॑ प॒र्जन्यो॑ वर्षति । 18) व॒र्॒ष॒ति॒ वि वि व॑र्षति वर्षति॒ वि । 19) व्य॑स्या म॒स्यां-विँ व्य॑स्याम् । 20) अ॒स्या मोष॑धय॒ ओष॑धयो॒ ऽस्या म॒स्या मोष॑धयः । 21) ओष॑धयो रोहन्ति रोह॒ न्त्योष॑धय॒ ओष॑धयो रोहन्ति । 22) रो॒ह॒न्ति॒ स॒मर्धु॑कग्ं स॒मर्धु॑कग्ं रोहन्ति रोहन्ति स॒मर्धु॑कम् । 23) स॒मर्धु॑क मस्यास्य स॒मर्धु॑कग्ं स॒मर्धु॑क मस्य । 23) स॒मर्धु॑क॒मिति॑ सं - अर्धु॑कम् । 24) अ॒स्य॒ स॒स्यग्ं स॒स्य म॑स्यास्य स॒स्यम् । 25) स॒स्य-म्भ॑वति भवति स॒स्यग्ं स॒स्य-म्भ॑वति । 26) भ॒व॒ त्य॒ग्नी॒षो॒मीया॑ मग्नीषो॒मीया᳚-म्भवति भव त्यग्नीषो॒मीया᳚म् । 27) अ॒ग्नी॒षो॒मीया॒मा ऽग्नी॑षो॒मीया॑ मग्नीषो॒मीया॒मा । 27) अ॒ग्नी॒षो॒मीया॒मित्य॑ग्नी - सो॒मीया᳚म् । 28) आ ल॑भेत लभे॒ता ल॑भेत । 29) ल॒भे॒त॒ यो यो ल॑भेत लभेत॒ यः । 30) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त । 31) का॒मये॒ता न्न॑वा॒-नन्न॑वान् का॒मये॑त का॒मये॒ता न्न॑वान् । 32) अन्न॑वा-नन्ना॒दो᳚ ऽन्ना॒दो ऽन्न॑वा॒-नन्न॑वा-नन्ना॒दः । 32) अन्न॑वा॒न्नित्यन्न॑ - वा॒न् । 33) अ॒न्ना॒द-स्स्याग्॑ स्या मन्ना॒दो᳚ ऽन्ना॒द-स्स्या᳚म् । 33) अ॒न्ना॒द इत्य॑न्न - अ॒दः । 34) स्या॒ मितीति॑ स्याग् स्या॒ मिति॑ । 35) इत्य॒ग्निना॒ ऽग्निनेती त्य॒ग्निना᳚ । 36) अ॒ग्निनै॒ वैवाग्निना॒ ऽग्निनै॒व । 37) ए॒वान्न॒ मन्न॑ मे॒वैवान्न᳚म् । 38) अन्न॒ मवावान्न॒ मन्न॒ मव॑ । 39) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 40) रु॒न्धे॒ सोमे॑न॒ सोमे॑न रुन्धे रुन्धे॒ सोमे॑न । 41) सोमे॑ना॒ न्नाद्य॑ म॒न्नाद्य॒ग्ं॒ सोमे॑न॒ सोमे॑ना॒ न्नाद्य᳚म् । 42) अ॒न्नाद्य॒ मन्न॑वा॒-नन्न॑वा-न॒न्नाद्य॑ म॒न्नाद्य॒ मन्न॑वान् । 42) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 43) अन्न॑वा-ने॒वैवान्न॑वा॒-नन्न॑वा-ने॒व । 43) अन्न॑वा॒न्नित्यन्न॑ - वा॒न् । 44) ए॒वान्ना॒दो᳚ ऽन्ना॒द ए॒वैवान्ना॒दः । 45) अ॒न्ना॒दो भ॑वति भव त्यन्ना॒दो᳚ ऽन्ना॒दो भ॑वति । 45) अ॒न्ना॒द इत्य॑न्न - अ॒दः । 46) भ॒व॒ति॒ सा॒र॒स्व॒तीग्ं सा॑रस्व॒ती-म्भ॑वति भवति सारस्व॒तीम् । 47) सा॒र॒स्व॒ती मा सा॑रस्व॒तीग्ं सा॑रस्व॒ती मा । 48) आ ल॑भेत लभे॒ता ल॑भेत । 49) ल॒भे॒त॒ यो यो ल॑भेत लभेत॒ यः । 50) य ई᳚श्व॒र ई᳚श्व॒रो यो य ई᳚श्व॒रः । ॥ 9 ॥ (50/60)
1) ई॒श्व॒रो वा॒चो वा॒च ई᳚श्व॒र ई᳚श्व॒रो वा॒चः । 2) वा॒चो वदि॑तो॒-र्वदि॑तो-र्वा॒चो वा॒चो वदि॑तोः । 3) वदि॑तो॒-स्स-न्थ्सन्. वदि॑तो॒-र्वदि॑तो॒-स्सन्न् । 4) सन्. वाचं॒-वाँच॒ग्ं॒ स-न्थ्सन्. वाच᳚म् । 5) वाच॒-न्न न वाचं॒-वाँच॒-न्न । 6) न वदे॒-द्वदे॒-न्न न वदे᳚त् । 7) वदे॒-द्वाग् वाग् वदे॒-द्वदे॒-द्वाक् । 8) वाग् वै वै वाग् वाग् वै । 9) वै सर॑स्वती॒ सर॑स्वती॒ वै वै सर॑स्वती । 10) सर॑स्वती॒ सर॑स्वती॒ग्ं॒ सर॑स्वती॒ग्ं॒ सर॑स्वती॒ सर॑स्वती॒ सर॑स्वतीम् । 11) सर॑स्वती मे॒वैव सर॑स्वती॒ग्ं॒ सर॑स्वती मे॒व । 12) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ । 13) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न । 14) भा॒ग॒धेये॒नो पोप॑ भाग॒धेये॑न भाग॒धेये॒ नोप॑ । 14) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । 15) उप॑ धावति धाव॒ त्युपोप॑ धावति । 16) धा॒व॒ति॒ सा सा धा॑वति धावति॒ सा । 17) सैवैव सा सैव । 18) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ । 19) अ॒स्मि॒न्॒. वाचं॒-वाँच॑ मस्मि-न्नस्मि॒न्॒. वाच᳚म् । 20) वाच॑-न्दधाति दधाति॒ वाचं॒-वाँच॑-न्दधाति । 21) द॒धा॒ति॒ प्रा॒जा॒प॒त्या-म्प्रा॑जाप॒त्या-न्द॑धाति दधाति प्राजाप॒त्याम् । 22) प्रा॒जा॒प॒त्या मा प्रा॑जाप॒त्या-म्प्रा॑जाप॒त्या मा । 22) प्रा॒जा॒प॒त्यामिति॑ प्राजा - प॒त्याम् । 23) आ ल॑भेत लभे॒ता ल॑भेत । 24) ल॒भे॒त॒ यो यो ल॑भेत लभेत॒ यः । 25) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त । 26) का॒मये॒ता न॑भिजित॒ मन॑भिजित-ङ्का॒मये॑त का॒मये॒ता न॑भिजितम् । 27) अन॑भिजित म॒भ्य॑भ्य न॑भिजित॒ मन॑भिजित म॒भि । 27) अन॑भिजित॒मित्यन॑भि - जि॒त॒म् । 28) अ॒भि ज॑येय-ञ्जयेय म॒भ्य॑भि ज॑येयम् । 29) ज॒ये॒य॒ मितीति॑ जयेय-ञ्जयेय॒ मिति॑ । 30) इति॑ प्र॒जाप॑तिः प्र॒जाप॑ति॒ रितीति॑ प्र॒जाप॑तिः । 31) प्र॒जाप॑ति॒-स्सर्वा॒-स्सर्वाः᳚ प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्सर्वाः᳚ । 31) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 32) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ । 33) दे॒वता॑ दे॒वता॑भि-र्दे॒वता॑भि-र्दे॒वता॑ दे॒वता॑ दे॒वता॑भिः । 34) दे॒वता॑भि रे॒वैव दे॒वता॑भि-र्दे॒वता॑भि रे॒व । 35) ए॒वा न॑भिजित॒ मन॑भिजित मे॒वैवा न॑भिजितम् । 36) अन॑भिजित म॒भ्य॑भ्य न॑भिजित॒ मन॑भिजित म॒भि । 36) अन॑भिजित॒मित्यन॑भि - जि॒त॒म् । 37) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 38) ज॒य॒ति॒ वा॒य॒व्य॑या वाय॒व्य॑या जयति जयति वाय॒व्य॑या । 39) वा॒य॒व्य॑यो॒ पाक॑रोत्यु॒ पाक॑रोति वाय॒व्य॑या वाय॒व्य॑यो॒ पाक॑रोति । 40) उ॒पाक॑रोति वा॒यो-र्वा॒योरु॒ पाक॑रो त्यु॒पाक॑रोति वा॒योः । 40) उ॒पाक॑रो॒तीयु॑प - आक॑रोति । 41) वा॒यो रे॒वैव वा॒यो-र्वा॒यो रे॒व । 42) ए॒वैना॑ मेना मे॒वैवैना᳚म् । 43) ए॒ना॒ म॒व॒रुद्ध्या॑ व॒रुद्ध्यै॑ ना मेना मव॒रुद्ध्य॑ । 44) अ॒व॒रुद्ध्या ऽव॒रुद्ध्या॑ व॒रुद्ध्या । 44) अ॒व॒रुद्ध्येत्य॑व - रुद्ध्य॑ । 45) आ ल॑भते लभत॒ आ ल॑भते । 46) ल॒भ॒त॒ आकू᳚त्या॒ आकू᳚त्यै लभते लभत॒ आकू᳚त्यै । 47) आकू᳚त्यै त्वा॒ त्वा ऽऽकू᳚त्या॒ आकू᳚त्यै त्वा । 47) आकू᳚त्या॒ इत्या - कू॒त्यै॒ । 48) त्वा॒ कामा॑य॒ कामा॑य त्वा त्वा॒ कामा॑य । 49) कामा॑य त्वा त्वा॒ कामा॑य॒ कामा॑य त्वा । 50) त्वेतीति॑ त्वा॒ त्वेति॑ । ॥ 10 ॥ (50/58)
1) इत्या॑ हा॒हे तीत्या॑ह । 2) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः । 3) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व । 3) य॒था॒य॒जुरिति॑ यथा - य॒जुः । 4) ए॒वैत दे॒त दे॒वैवैतत् । 5) ए॒त-त्कि॑क्किटा॒कार॑-ङ्किक्किटा॒कार॑ मे॒त दे॒त-त्कि॑क्किटा॒कार᳚म् । 6) कि॒क्कि॒टा॒कार॑-ञ्जुहोति जुहोति किक्किटा॒कार॑-ङ्किक्किटा॒कार॑-ञ्जुहोति । 6) कि॒क्कि॒टा॒कार॒मिति॑ किक्किटा - कार᳚म् । 7) जु॒हो॒ति॒ कि॒क्कि॒टा॒का॒रेण॑ किक्किटाका॒रेण॑ जुहोति जुहोति किक्किटाका॒रेण॑ । 8) कि॒क्कि॒टा॒का॒रेण॒ वै वै कि॑क्किटाका॒रेण॑ किक्किटाका॒रेण॒ वै । 8) कि॒क्कि॒टा॒का॒रेणेति॑ किक्किटा - का॒रेण॑ । 9) वै ग्रा॒म्या ग्रा॒म्या वै वै ग्रा॒म्याः । 10) ग्रा॒म्याः प॒शवः॑ प॒शवो᳚ ग्रा॒म्या ग्रा॒म्याः प॒शवः॑ । 11) प॒शवो॑ रमन्ते रमन्ते प॒शवः॑ प॒शवो॑ रमन्ते । 12) र॒म॒न्ते॒ प्र प्र र॑मन्ते रमन्ते॒ प्र । 13) प्रार॒ण्या आ॑र॒ण्याः प्र प्रार॒ण्याः । 14) आ॒र॒ण्याः प॑तन्ति पत न्त्यार॒ण्या आ॑र॒ण्याः प॑तन्ति । 15) प॒त॒न्ति॒ य-द्य-त्प॑तन्ति पतन्ति॒ यत् । 16) य-त्कि॑क्किटा॒कार॑-ङ्किक्किटा॒कारं॒-यँ-द्य-त्कि॑क्किटा॒कार᳚म् । 17) कि॒क्कि॒टा॒कार॑-ञ्जु॒होति॑ जु॒होति॑ किक्किटा॒कार॑-ङ्किक्किटा॒कार॑-ञ्जु॒होति॑ । 17) कि॒क्कि॒टा॒कार॒मिति॑ किक्किटा - कार᳚म् । 18) जु॒होति॑ ग्रा॒म्याणा᳚-ङ्ग्रा॒म्याणा᳚-ञ्जु॒होति॑ जु॒होति॑ ग्रा॒म्याणा᳚म् । 19) ग्रा॒म्याणा᳚-म्पशू॒ना-म्प॑शू॒ना-ङ्ग्रा॒म्याणा᳚-ङ्ग्रा॒म्याणा᳚-म्पशू॒नाम् । 20) प॒शू॒ना-न्धृत्यै॒ धृत्यै॑ पशू॒ना-म्प॑शू॒ना-न्धृत्यै᳚ । 21) धृत्यै॒ पर्य॑ग्नौ॒ पर्य॑ग्नौ॒ धृत्यै॒ धृत्यै॒ पर्य॑ग्नौ । 22) पर्य॑ग्नौ क्रि॒यमा॑णे क्रि॒यमा॑णे॒ पर्य॑ग्नौ॒ पर्य॑ग्नौ क्रि॒यमा॑णे । 22) पर्य॑ग्ना॒विति॒ परि॑ - अ॒ग्नौ॒ । 23) क्रि॒यमा॑णे जुहोति जुहोति क्रि॒यमा॑णे क्रि॒यमा॑णे जुहोति । 24) जु॒हो॒ति॒ जीव॑न्ती॒-ञ्जीव॑न्ती-ञ्जुहोति जुहोति॒ जीव॑न्तीम् । 25) जीव॑न्ती मे॒वैव जीव॑न्ती॒-ञ्जीव॑न्ती मे॒व । 26) ए॒वैना॑ मेना मे॒वैवैना᳚म् । 27) ए॒ना॒ग्ं॒ सु॒व॒र्गग्ं सु॑व॒र्ग मे॑ना मेनाग्ं सुव॒र्गम् । 28) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 28) सु॒व॒र्गमिति॑ सुवः - गम् । 29) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति । 30) ग॒म॒य॒ति॒ त्व-न्त्व-ङ्ग॑मयति गमयति॒ त्वम् । 31) त्व-न्तु॒रीया॑ तु॒रीया॒ त्व-न्त्व-न्तु॒रीया᳚ । 32) तु॒रीया॑ व॒शिनी॑ व॒शिनी॑ तु॒रीया॑ तु॒रीया॑ व॒शिनी᳚ । 33) व॒शिनी॑ व॒शा व॒शा व॒शिनी॑ व॒शिनी॑ व॒शा । 34) व॒शा ऽस्य॑सि व॒शा व॒शा ऽसि॑ । 35) अ॒सी तीत्य॑ स्य॒सी ति॑ । 36) इत्या॑ हा॒हे तीत्या॑ ह । 37) आ॒ह॒ दे॒व॒त्रा दे॑व॒त्रा ऽऽहा॑ह देव॒त्रा । 38) दे॒व॒त्रै वैव दे॑व॒त्रा दे॑व॒त्रैव । 38) दे॒व॒त्रेति॑ देव - त्रा । 39) ए॒वैना॑ मेना मे॒वैवैना᳚म् । 40) ए॒ना॒-ङ्ग॒म॒य॒ति॒ ग॒म॒य॒ त्ये॒ना॒ मे॒ना॒-ङ्ग॒म॒य॒ति॒ । 41) ग॒म॒य॒ति॒ स॒त्या-स्स॒त्या ग॑मयति गमयति स॒त्याः । 42) स॒त्या-स्स॑न्तु सन्तु स॒त्या-स्स॒त्या-स्स॑न्तु । 43) स॒न्तु॒ यज॑मानस्य॒ यज॑मानस्य सन्तु सन्तु॒ यज॑मानस्य । 44) यज॑मानस्य॒ कामाः॒ कामा॒ यज॑मानस्य॒ यज॑मानस्य॒ कामाः᳚ । 45) कामा॒ इतीति॒ कामाः॒ कामा॒ इति॑ । 46) इत्या॑ हा॒हे तीत्या॑ह । 47) आ॒है॒ष ए॒ष आ॑हा है॒षः । 48) ए॒ष वै वा ए॒ष ए॒ष वै । 49) वै कामः॒ कामो॒ वै वै कामः॑ । 50) कामो॒ यज॑मानस्य॒ यज॑मानस्य॒ कामः॒ कामो॒ यज॑मानस्य । ॥ 11 ॥ (50/57)
1) यज॑मानस्य॒ य-द्य-द्यज॑मानस्य॒ यज॑मानस्य॒ यत् । 2) यद ना॒र्तो ऽना᳚र्तो॒ य-द्यद ना᳚र्तः । 3) अना᳚र्त उ॒दृच॑ मु॒दृच॒ मना॒र्तो ऽना᳚र्त उ॒दृच᳚म् । 4) उ॒दृच॒-ङ्गच्छ॑ति॒ गच्छ॑ त्यु॒दृच॑ मु॒दृच॒-ङ्गच्छ॑ति । 4) उ॒दृच॒मित्यु॑त् - ऋच᳚म् । 5) गच्छ॑ति॒ तस्मा॒-त्तस्मा॒-द्गच्छ॑ति॒ गच्छ॑ति॒ तस्मा᳚त् । 6) तस्मा॑ दे॒व मे॒व-न्तस्मा॒-त्तस्मा॑ दे॒वम् । 7) ए॒व मा॑हाहै॒व मे॒व मा॑ह । 8) आ॒हा॒जा ऽजा ऽऽहा॑हा॒जा । 9) अ॒जा ऽस्य॑ स्य॒जा ऽजा ऽसि॑ । 10) अ॒सि॒ र॒यि॒ष्ठा र॑यि॒ष्ठा ऽस्य॑सि रयि॒ष्ठा । 11) र॒यि॒ष्ठेतीति॑ रयि॒ष्ठा र॑यि॒ष्ठेति॑ । 11) र॒यि॒ष्ठेति॑ रयि - स्था । 12) इत्या॑ हा॒हे तीत्या॑ह । 13) आ॒है॒ष्वे᳚(1॒)ष्वा॑हाहै॒षु । 14) ए॒ष्वे॑ वैवै ष्वे᳚(1॒)ष्वे॑व । 15) ए॒वैना॑ मेना मे॒वैवैना᳚म् । 16) ए॒ना॒म् ँलो॒केषु॑ लो॒के ष्वे॑ना मेनाम् ँलो॒केषु॑ । 17) लो॒केषु॒ प्रति॒ प्रति॑ लो॒केषु॑ लो॒केषु॒ प्रति॑ । 18) प्रति॑ ष्ठापयति स्थापयति॒ प्रति॒ प्रति॑ ष्ठापयति । 19) स्था॒प॒य॒ति॒ दि॒वि दि॒वि स्था॑पयति स्थापयति दि॒वि । 20) दि॒वि ते॑ ते दि॒वि दि॒वि ते᳚ । 21) ते॒ बृ॒ह-द्बृ॒ह-त्ते॑ ते बृ॒हत् । 22) बृ॒ह-द्भा भा बृ॒ह-द्बृ॒ह-द्भाः । 23) भा इतीति॒ भा भा इति॑ । 24) इत्या॑ हा॒हेती त्या॑ह । 25) आ॒ह॒ सु॒व॒र्गे सु॑व॒र्ग आ॑हाह सुव॒र्गे । 26) सु॒व॒र्ग ए॒वैव सु॑व॒र्गे सु॑व॒र्ग ए॒व । 26) सु॒व॒र्ग इति॑ सुवः - गे । 27) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 28) अ॒स्मै॒ लो॒के लो॒के᳚ ऽस्मा अस्मै लो॒के । 29) लो॒के ज्योति॒-र्ज्योति॑-र्लो॒के लो॒के ज्योतिः॑ । 30) ज्योति॑-र्दधाति दधाति॒ ज्योति॒-र्ज्योति॑-र्दधाति । 31) द॒धा॒ति॒ तन्तु॒-न्तन्तु॑-न्दधाति दधाति॒ तन्तु᳚म् । 32) तन्तु॑-न्त॒न्व-न्त॒न्व-न्तन्तु॒-न्तन्तु॑-न्त॒न्वन्न् । 33) त॒न्व-न्रज॑सो॒ रज॑स स्त॒न्व-न्त॒न्व-न्रज॑सः । 34) रज॑सो भा॒नु-म्भा॒नुग्ं रज॑सो॒ रज॑सो भा॒नुम् । 35) भा॒नु मन्वनु॑ भा॒नु-म्भा॒नु मनु॑ । 36) अन्वि॑ही॒ ह्यन्वन् वि॑हि । 37) इ॒ही तीती॑ही॒ हीति॑ । 38) इत्या॑हा॒हे तीत्या॑ह । 39) आ॒हे॒मा-नि॒मा-ना॑हाहे॒मान् । 40) इ॒मा-ने॒वैवेमा-नि॒मा-ने॒व । 41) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 42) अ॒स्मै॒ लो॒कान् ँलो॒का-न॑स्मा अस्मै लो॒कान् । 43) लो॒कान् ज्योति॑ष्मतो॒ ज्योति॑ष्मतो लो॒कान् ँलो॒कान् ज्योति॑ष्मतः । 44) ज्योति॑ष्मतः करोति करोति॒ ज्योति॑ष्मतो॒ ज्योति॑ष्मतः करोति । 45) क॒रो॒ त्य॒नु॒ल्ब॒ण म॑नुल्ब॒ण-ङ्क॑रोति करो त्यनुल्ब॒णम् । 46) अ॒नु॒ल्ब॒णं-वँ॑यत वयता नुल्ब॒ण म॑नुल्ब॒णं-वँ॑यत । 47) व॒य॒त॒ जोगु॑वा॒-ञ्जोगु॑वां-वँयत वयत॒ जोगु॑वाम् । 48) जोगु॑वा॒ मपो ऽपो॒ जोगु॑वा॒-ञ्जोगु॑वा॒ मपः॑ । 49) अप॒ इती त्यपो-ऽप॒ इति॑ । 50) इत्या॑ हा॒हेती त्या॑ह । ॥ 12 ॥ (50/53)
1) आ॒ह॒ य-द्यदा॑हाह॒ यत् । 2) यदे॒ वैव य-द्यदे॒व । 3) ए॒व य॒ज्ञे य॒ज्ञ ए॒वैव य॒ज्ञे । 4) य॒ज्ञ उ॒ल्बण॑ मु॒ल्बणं॑-यँ॒ज्ञे य॒ज्ञ उ॒ल्बण᳚म् । 5) उ॒ल्बण॑-ङ्क्रि॒यते᳚ क्रि॒यत॑ उ॒ल्बण॑ मु॒ल्बण॑-ङ्क्रि॒यते᳚ । 6) क्रि॒यते॒ तस्य॒ तस्य॑ क्रि॒यते᳚ क्रि॒यते॒ तस्य॑ । 7) तस्यै॒वैव तस्य॒ तस्यै॒व । 8) ए॒वै षैषै वैवैषा । 9) ए॒षा शान्ति॒-श्शान्ति॑ रे॒षैषा शान्तिः॑ । 10) शान्ति॒-र्मनु॒-र्मनु॒-श्शान्ति॒-श्शान्ति॒-र्मनुः॑ । 11) मनु॑-र्भव भव॒ मनु॒-र्मनु॑-र्भव । 12) भ॒व॒ ज॒नय॑ ज॒नय॑ भव भव ज॒नय॑ । 13) ज॒नया॒ दैव्य॒-न्दैव्य॑-ञ्ज॒नय॑ ज॒नया॒ दैव्य᳚म् । 14) दैव्य॒-ञ्जन॒-ञ्जन॒-न्दैव्य॒-न्दैव्य॒-ञ्जन᳚म् । 15) जन॒ मितीति॒ जन॒-ञ्जन॒ मिति॑ । 16) इत्या॑ हा॒हेती त्या॑ह । 17) आ॒ह॒ मा॒न॒व्यो॑ मान॒व्य॑ आहाह मान॒व्यः॑ । 18) मा॒न॒व्यो॑ वै वै मा॑न॒व्यो॑ मान॒व्यो॑ वै । 19) वै प्र॒जाः प्र॒जा वै वै प्र॒जाः । 20) प्र॒जा स्ता स्ताः प्र॒जाः प्र॒जा स्ताः । 20) प्र॒जा इति॑ प्र - जाः । 21) ता ए॒वैव ता स्ता ए॒व । 22) ए॒वाद्या॑ आ॒द्या॑ ए॒वैवाद्याः᳚ । 23) आ॒द्याः᳚ कुरुते कुरुत आ॒द्या॑ आ॒द्याः᳚ कुरुते । 24) कु॒रु॒ते॒ मन॑सो॒ मन॑सः कुरुते कुरुते॒ मन॑सः । 25) मन॑सो ह॒विर्-ह॒वि-र्मन॑सो॒ मन॑सो ह॒विः । 26) ह॒वि र॑स्यसि ह॒विर्-ह॒वि र॑सि । 27) अ॒सीती त्य॑स्य॒ सीति॑ । 28) इत्या॑ हा॒हेती त्या॑ह । 29) आ॒ह॒ स्व॒गाकृ॑त्यै स्व॒गाकृ॑त्या आहाह स्व॒गाकृ॑त्यै । 30) स्व॒गाकृ॑त्यै॒ गात्रा॑णा॒-ङ्गात्रा॑णाग् स्व॒गाकृ॑त्यै स्व॒गाकृ॑त्यै॒ गात्रा॑णाम् । 30) स्व॒गाकृ॑त्या॒ इति॑ स्व॒गा - कृ॒त्यै॒ । 31) गात्रा॑णा-न्ते ते॒ गात्रा॑णा॒-ङ्गात्रा॑णा-न्ते । 32) ते॒ गा॒त्र॒भाजो॑ गात्र॒भाज॑ स्ते ते गात्र॒भाजः॑ । 33) गा॒त्र॒भाजो॑ भूयास्म भूयास्म गात्र॒भाजो॑ गात्र॒भाजो॑ भूयास्म । 33) गा॒त्र॒भाज॒ इति॑ गात्र - भाजः॑ । 34) भू॒या॒स्मेतीति॑ भूयास्म भूया॒स्मेति॑ । 35) इत्या॑ हा॒हेती त्या॑ह । 36) आ॒हा॒ शिष॑ मा॒शिष॑ माहा हा॒शिष᳚म् । 37) आ॒शिष॑ मे॒वैवाशिष॑ मा॒शिष॑मे॒व । 37) आ॒शिष॒मित्या᳚ - शिष᳚म् । 38) ए॒वैता मे॒ता मे॒वैवैताम् । 39) ए॒ता मैता मे॒तामा । 40) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते । 41) शा॒स्ते॒ तस्यै॒ तस्यै॑ शास्ते शास्ते॒ तस्यै᳚ । 42) तस्यै॒ वै वै तस्यै॒ तस्यै॒ वै । 43) वा ए॒तस्या॑ ए॒तस्या॒ वै वा ए॒तस्याः᳚ । 44) ए॒तस्या॒ एक॒ मेक॑ मे॒तस्या॑ ए॒तस्या॒ एक᳚म् । 45) एक॑ मे॒वैवैक॒ मेक॑ मे॒व । 46) ए॒वा दे॑वयजन॒ मदे॑वयजन मे॒वैवा दे॑वयजनम् । 47) अदे॑वयजनं॒-यँ-द्यददे॑वयजन॒ मदे॑वयजनं॒-यँत् । 47) अदे॑वयजन॒मित्यदे॑व - य॒ज॒न॒म् । 48) यदाल॑ब्धाया॒ माल॑ब्धायां॒-यँ-द्यदाल॑ब्धायाम् । 49) आल॑ब्धाया म॒भ्रो᳚ ऽभ्र आल॑ब्धाया॒ माल॑ब्धाया म॒भ्रः । 49) आल॑ब्धाया॒मित्या - ल॒ब्धा॒या॒म् । 50) अ॒भ्रो भव॑ति॒ भव॑ त्य॒भ्रो᳚ ऽभ्रो भव॑ति । ॥ 13 ॥ (50/56)
1) भव॑ति॒ य-द्य-द्भव॑ति॒ भव॑ति॒ यत् । 2) यदाल॑ब्धाया॒ माल॑ब्धायां॒-यँ-द्यदाल॑ब्धायाम् । 3) आल॑ब्धाया म॒भ्रो᳚ ऽभ्र आल॑ब्धाया॒ माल॑ब्धाया म॒भ्रः । 3) आल॑ब्धाया॒मित्या - ल॒ब्धा॒या॒म् । 4) अ॒भ्र-स्स्या-थ्स्या द॒भ्रो᳚ ऽभ्र-स्स्यात् । 5) स्या द॒फ्स्व॑फ्सु स्या-थ्स्या द॒फ्सु । 6) अ॒फ्सु वा॑ वा॒ ऽफ्स्व॑फ्सु वा᳚ । 6) अ॒फ्स्वित्य॑प् - सु । 7) वा॒ प्र॒वे॒शये᳚-त्प्रवे॒शये᳚-द्वा वा प्रवे॒शये᳚त् । 8) प्र॒वे॒शये॒-थ्सर्वा॒ग्ं॒ सर्वा᳚-म्प्रवे॒शये᳚-त्प्रवे॒शये॒-थ्सर्वा᳚म् । 8) प्र॒वे॒शये॒दिति॑ प्र - वे॒शये᳚त् । 9) सर्वां᳚-वाँ वा॒ सर्वा॒ग्ं॒ सर्वां᳚-वाँ । 10) वा॒ प्र प्र वा॑ वा॒ प्र । 11) प्राश्ञी॑याद श्ञीया॒-त्प्र प्राश्ञी॑यात् । 12) अ॒श्ञी॒या॒-द्य-द्यद॑श्ञीया दश्ञीया॒-द्यत् । 13) यद॒फ्स्व॑ फ्सु य-द्यद॒फ्सु । 14) अ॒फ्सु प्र॑वे॒शये᳚-त्प्रवे॒शये॑ द॒फ्स्व॑ फ्सु प्र॑वे॒शये᳚त् । 14) अ॒फ्स्वित्य॑प् - सु । 15) प्र॒वे॒शये᳚-द्यज्ञवेश॒सं-यँ॑ज्ञवेश॒स-म्प्र॑वे॒शये᳚-त्प्रवे॒शये᳚-द्यज्ञवेश॒सम् । 15) प्र॒वे॒शये॒दिति॑ प्र - वे॒शये᳚त् । 16) य॒ज्ञ॒वे॒श॒स-ङ्कु॑र्या-त्कुर्या-द्यज्ञवेश॒सं-यँ॑ज्ञवेश॒स-ङ्कु॑र्यात् । 16) य॒ज्ञ॒वे॒श॒समिति॑ यज्ञ - वे॒श॒सम् । 17) कु॒र्या॒-थ्सर्वा॒ग्ं॒ सर्वा᳚-ङ्कुर्या-त्कुर्या॒-थ्सर्वा᳚म् । 18) सर्वा॑ मे॒वैव सर्वा॒ग्ं॒ सर्वा॑ मे॒व । 19) ए॒व प्र प्रैवैव प्र । 20) प्राश्ञी॑या दश्ञीया॒-त्प्र प्रा श्ञी॑यात् । 21) अ॒श्ञी॒या॒ दि॒न्द्रि॒य मि॑न्द्रि॒य म॑श्ञीया दश्ञीया दिन्द्रि॒यम् । 22) इ॒न्द्रि॒य मे॒वैवेन्द्रि॒य मि॑न्द्रि॒य मे॒व । 23) ए॒वात्म-न्ना॒त्म-ने॒वैवात्मन्न् । 24) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 25) ध॒त्ते॒ सा सा ध॑त्ते धत्ते॒ सा । 26) सा वै वै सा सा वै । 27) वा ए॒षैषा वै वा ए॒षा । 28) ए॒षा त्र॑या॒णा-न्त्र॑या॒णा मे॒षैषा त्र॑या॒णाम् । 29) त्र॒या॒णा मे॒वैव त्र॑या॒णा-न्त्र॑या॒णा मे॒व । 30) ए॒वा व॑रु॒द्धा ऽव॑रुद्धै॒वैवा व॑रुद्धा । 31) अव॑रुद्धा संवँथ्सर॒सद॑-स्संवँथ्सर॒सदो ऽव॑रु॒द्धा ऽव॑रुद्धा संवँथ्सर॒सदः॑ । 31) अव॑रु॒द्धेत्यव॑ - रु॒द्धा॒ । 32) सं॒वँ॒थ्स॒र॒सद॑-स्सहस्रया॒जिन॑-स्सहस्रया॒जिन॑-स्संवँथ्सर॒सद॑-स्संवँथ्सर॒सद॑-स्सहस्रया॒जिनः॑ । 32) सं॒वँ॒थ्स॒र॒सद॒ इति॑ संवँथ्सर - सदः॑ । 33) स॒ह॒स्र॒या॒जिनो॑ गृहमे॒धिनो॑ गृहमे॒धिन॑-स्सहस्रया॒जिन॑-स्सहस्रया॒जिनो॑ गृहमे॒धिनः॑ । 33) स॒ह॒स्र॒या॒जिन॒ इति॑ सहस्र - या॒जिनः॑ । 34) गृ॒ह॒मे॒धिन॒ स्ते ते गृ॑हमे॒धिनो॑ गृहमे॒धिन॒ स्ते । 34) गृ॒ह॒मे॒धिन॒ इति॑ गृह - मे॒धिनः॑ । 35) त ए॒वैव ते त ए॒व । 36) ए॒वैतयै॒ तयै॒ वैवैतया᳚ । 37) ए॒तया॑ यजेरन्. यजेर-न्ने॒तयै॒तया॑ यजेरन्न् । 38) य॒जे॒र॒-न्तेषा॒-न्तेषां᳚-यँजेरन्. यजेर॒-न्तेषा᳚म् । 39) तेषा॑ मे॒वैव तेषा॒-न्तेषा॑ मे॒व । 40) ए॒वै षैषै वैवैषा । 41) ए॒षा ऽऽप्ता ऽऽप्तै षैषा ऽऽप्ता । 42) आ॒प्तेत्या॒प्ता । ॥ 14 ॥ (42/52) ॥ अ. 3 ॥
1) चि॒त्त-ञ्च॑ च चि॒त्त-ञ्चि॒त्त-ञ्च॑ । 2) च॒ चित्ति॒ श्चित्ति॑श्च च॒ चित्तिः॑ । 3) चित्ति॑श्च च॒ चित्ति॒ श्चित्ति॑श्च । 4) चाकू॑त॒ माकू॑त-ञ्च॒ चाकू॑तम् । 5) आकू॑त-ञ्च॒ चाकू॑त॒ माकू॑त-ञ्च । 5) आकू॑त॒मित्या - कू॒त॒म् । 6) चाकू॑ति॒ राकू॑तिश्च॒ चाकू॑तिः । 7) आकू॑तिश्च॒ चाकू॑ति॒ राकू॑तिश्च । 7) आकू॑ति॒रित्या - कू॒तिः॒ । 8) च॒ विज्ञा॑तं॒-विँज्ञा॑त-ञ्च च॒ विज्ञा॑तम् । 9) विज्ञा॑त-ञ्च च॒ विज्ञा॑तं॒-विँज्ञा॑त-ञ्च । 9) विज्ञा॑त॒मिति॒ वि - ज्ञा॒त॒म् । 10) च॒ वि॒ज्ञानं॑-विँ॒ज्ञान॑-ञ्च च वि॒ज्ञान᳚म् । 11) वि॒ज्ञान॑-ञ्च च वि॒ज्ञानं॑-विँ॒ज्ञान॑-ञ्च । 11) वि॒ज्ञान॒मिति॑ वि - ज्ञान᳚म् । 12) च॒ मनो॒ मन॑श्च च॒ मनः॑ । 13) मन॑श्च च॒ मनो॒ मन॑श्च । 14) च॒ शक्व॑री॒-श्शक्व॑रीश्च च॒ शक्व॑रीः । 15) शक्व॑रीश्च च॒ शक्व॑री॒-श्शक्व॑रीश्च । 16) च॒ दर्शो॒ दर्श॑श्च च॒ दर्शः॑ । 17) दर्श॑श्च च॒ दर्शो॒ दर्श॑श्च । 18) च॒ पू॒र्णमा॑सः पू॒र्णमा॑सश्च च पू॒र्णमा॑सः । 19) पू॒र्णमा॑सश्च च पू॒र्णमा॑सः पू॒र्णमा॑सश्च । 19) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒सः॒ । 20) च॒ बृ॒ह-द्बृ॒हच् च॑ च बृ॒हत् । 21) बृ॒हच् च॑ च बृ॒ह-द्बृ॒हच् च॑ । 22) च॒ र॒थ॒न्त॒रग्ं र॑थन्त॒र-ञ्च॑ च रथन्त॒रम् । 23) र॒थ॒न्त॒र-ञ्च॑ च रथन्त॒रग्ं र॑थन्त॒र-ञ्च॑ । 23) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । 24) च॒ प्र॒जाप॑तिः प्र॒जाप॑तिश्च च प्र॒जाप॑तिः । 25) प्र॒जाप॑ति॒-र्जया॒न् जया᳚-न्प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्जयान्॑ । 25) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 26) जया॒-निन्द्रा॒ येन्द्रा॑य॒ जया॒न् जया॒-निन्द्रा॑य । 27) इन्द्रा॑य॒ वृष्णे॒ वृष्ण॒ इन्द्रा॒ येन्द्रा॑य॒ वृष्णे᳚ । 28) वृष्णे॒ प्र प्र वृष्णे॒ वृष्णे॒ प्र । 29) प्रा य॑च्छ दयच्छ॒-त्प्र प्रा य॑च्छत् । 30) अ॒य॒च्छ॒ दु॒ग्र उ॒ग्रो॑ ऽयच्छ दयच्छ दु॒ग्रः । 31) उ॒ग्रः पृ॑त॒नाज्ये॑षु पृत॒नाज्ये॑षू॒ग्र उ॒ग्रः पृ॑त॒नाज्ये॑षु । 32) पृ॒त॒नाज्ये॑षु॒ तस्मै॒ तस्मै॑ पृत॒नाज्ये॑षु पृत॒नाज्ये॑षु॒ तस्मै᳚ । 33) तस्मै॒ विशो॒ विश॒ स्तस्मै॒ तस्मै॒ विशः॑ । 34) विश॒-स्सग्ं सं-विँशो॒ विश॒-स्सम् । 35) स म॑नमन्ता नमन्त॒ सग्ं स म॑नमन्त । 36) अ॒न॒म॒न्त॒ सर्वा॒-स्सर्वा॑ अनमन्ता नमन्त॒ सर्वाः᳚ । 37) सर्वा॒-स्स स सर्वा॒-स्सर्वा॒-स्सः । 38) स उ॒ग्र उ॒ग्र-स्स स उ॒ग्रः । 39) उ॒ग्र-स्स स उ॒ग्र उ॒ग्र-स्सः । 40) स हि हि स स हि । 41) हि हव्यो॒ हव्यो॒ हि हि हव्यः॑ । 42) हव्यो॑ ब॒भूव॑ ब॒भूव॒ हव्यो॒ हव्यो॑ ब॒भूव॑ । 43) ब॒भूव॑ देवासु॒रा दे॑वासु॒रा ब॒भूव॑ ब॒भूव॑ देवासु॒राः । 44) दे॒वा॒सु॒रा-स्संयँ॑त्ता॒-स्संयँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्संयँ॑त्ताः । 44) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । 45) संयँ॑त्ता आस-न्नास॒-न्थ्संयँ॑त्ता॒-स्संयँ॑त्ता आसन्न् । 45) संयँ॑त्ता॒ इति॒ सं - य॒त्ताः॒ । 46) आ॒स॒-न्थ्स स आ॑स-न्नास॒-न्थ्सः । 47) स इन्द्र॒ इन्द्र॒-स्स स इन्द्रः॑ । 48) इन्द्रः॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मिन्द्र॒ इन्द्रः॑ प्र॒जाप॑तिम् । 49) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ । 49) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । 50) उपा॑ धाव दधाव॒ दुपोपा॑ धावत् । 51) अ॒धा॒व॒-त्तस्मै॒ तस्मा॑ अधाव दधाव॒-त्तस्मै᳚ । 52) तस्मा॑ ए॒ता-ने॒ता-न्तस्मै॒ तस्मा॑ ए॒तान् । 53) ए॒तान् जया॒न् जया॑-ने॒ता-ने॒तान् जयान्॑ । 54) जया॒-न्प्र प्र जया॒न् जया॒-न्प्र । 55) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् । 56) अ॒य॒च्छ॒-त्ताग् स्ता,न॑यच्छ दयच्छ॒-त्तान् । 57) तान॑जुहो दजुहो॒-त्ताग् स्ता-न॑जुहोत् । 58) अ॒जु॒हो॒-त्तत॒ स्ततो॑ ऽजुहो दजुहो॒-त्ततः॑ । 59) ततो॒ वै वै तत॒ स्ततो॒ वै । 60) वै दे॒वा दे॒वा वै वै दे॒वाः । 61) दे॒वा असु॑रा॒-नसु॑रा-न्दे॒वा दे॒वा असु॑रान् । 62) असु॑रा-नजय-न्नजय॒-न्नसु॑रा॒-नसु॑रा-नजयन्न् । 63) अ॒ज॒य॒न्॒. य-द्यद॑जय-न्नजय॒न्॒. यत् । 64) यदज॑य॒-न्नज॑य॒न्॒. य-द्यदज॑यन्न् । 65) अज॑य॒-न्त-त्तदज॑य॒-न्नज॑य॒-न्तत् । 66) तज् जया॑ना॒-ञ्जया॑ना॒-न्त-त्तज् जया॑नाम् । 67) जया॑ना-ञ्जय॒त्व-ञ्ज॑य॒त्व-ञ्जया॑ना॒-ञ्जया॑ना-ञ्जय॒त्वम् । 68) ज॒य॒त्वग्ग् स्पर्ध॑मानेन॒ स्पर्ध॑मानेन जय॒त्व-ञ्ज॑य॒त्वग्ग् स्पर्ध॑मानेन । 68) ज॒य॒त्वमिति॑ जय - त्वम् । 69) स्पर्ध॑माने नै॒त ए॒ते स्पर्ध॑मानेन॒ स्पर्ध॑माने नै॒ते । 70) ए॒ते हो॑त॒व्या॑ होत॒व्या॑ ए॒त ए॒ते हो॑त॒व्याः᳚ । 71) हो॒त॒व्या॑ जय॑ति॒ जय॑ति होत॒व्या॑ होत॒व्या॑ जय॑ति । 72) जय॑ त्ये॒वैव जय॑ति॒ जय॑ त्ये॒व । 73) ए॒व ता-न्ता मे॒वैव ताम् । 74) ता-म्पृत॑ना॒-म्पृत॑ना॒-न्ता-न्ता-म्पृत॑नाम् । 75) पृत॑ना॒मिति॒ पृत॑नाम् । ॥ 15 ॥ (75/86) ॥ अ. 4 ॥
1) अ॒ग्नि-र्भू॒ताना᳚-म्भू॒ताना॑ म॒ग्नि र॒ग्नि-र्भू॒ताना᳚म् । 2) भू॒ताना॒ मधि॑पति॒ रधि॑पति-र्भू॒ताना᳚-म्भू॒ताना॒ मधि॑पतिः । 3) अधि॑पति॒-स्स सो ऽधि॑पति॒ रधि॑पति॒-स्सः । 3) अधि॑पति॒रित्यधि॑ - प॒तिः॒ । 4) स मा॑ मा॒ स स मा᳚ । 5) मा॒ ऽव॒ त्व॒व॒तु॒ मा॒ मा॒ ऽव॒तु॒ । 6) अ॒व॒त्विन्द्र॒ इन्द्रो॑ ऽवत्व व॒त्विन्द्रः॑ । 7) इन्द्रो᳚ ज्ये॒ष्ठाना᳚-ञ्ज्ये॒ष्ठाना॒ मिन्द्र॒ इन्द्रो᳚ ज्ये॒ष्ठाना᳚म् । 8) ज्ये॒ष्ठानां᳚-यँ॒मो य॒मो ज्ये॒ष्ठाना᳚-ञ्ज्ये॒ष्ठानां᳚-यँ॒मः । 9) य॒मः पृ॑थि॒व्याः पृ॑थि॒व्या य॒मो य॒मः पृ॑थि॒व्याः । 10) पृ॒थि॒व्या वा॒यु-र्वा॒युः पृ॑थि॒व्याः पृ॑थि॒व्या वा॒युः । 11) वा॒यु र॒न्तरि॑क्षस्या॒ न्तरि॑क्षस्य वा॒यु-र्वा॒यु र॒न्तरि॑क्षस्य । 12) अ॒न्तरि॑क्षस्य॒ सूर्य॒-स्सूर्यो॒ ऽन्तरि॑क्षस्या॒ न्तरि॑क्षस्य॒ सूर्यः॑ । 13) सूर्यो॑ दि॒वो दि॒व-स्सूर्य॒-स्सूर्यो॑ दि॒वः । 14) दि॒व श्च॒न्द्रमा᳚ श्च॒न्द्रमा॑ दि॒वो दि॒व श्च॒न्द्रमाः᳚ । 15) च॒न्द्रमा॒ नक्ष॑त्राणा॒-न्नक्ष॑त्राणा-ञ्च॒न्द्रमा᳚ श्च॒न्द्रमा॒ नक्ष॑त्राणाम् । 16) नक्ष॑त्राणा॒-म्बृह॒स्पति॒-र्बृह॒स्पति॒-र्नक्ष॑त्राणा॒-न्नक्ष॑त्राणा॒-म्बृह॒स्पतिः॑ । 17) बृह॒स्पति॒-र्ब्रह्म॑णो॒ ब्रह्म॑णो॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्ब्रह्म॑णः । 18) ब्रह्म॑णो मि॒त्रो मि॒त्रो ब्रह्म॑णो॒ ब्रह्म॑णो मि॒त्रः । 19) मि॒त्र-स्स॒त्यानाग्ं॑ स॒त्याना᳚-म्मि॒त्रो मि॒त्र-स्स॒त्याना᳚म् । 20) स॒त्यानां॒-वँरु॑णो॒ वरु॑ण-स्स॒त्यानाग्ं॑ स॒त्यानां॒-वँरु॑णः । 21) वरु॑णो॒ ऽपा म॒पां-वँरु॑णो॒ वरु॑णो॒ ऽपाम् । 22) अ॒पाग्ं स॑मु॒द्र-स्स॑मु॒द्रो॑ ऽपा म॒पाग्ं स॑मु॒द्रः । 23) स॒मु॒द्र-स्स्रो॒त्यानाग्॑ स्रो॒त्यानाग्ं॑ समु॒द्र-स्स॑मु॒द्र-स्स्रो॒त्याना᳚म् । 24) स्रो॒त्याना॒ मन्न॒ मन्नग्ग्॑ स्रो॒त्यानाग्॑ स्रो॒त्याना॒ मन्न᳚म् । 25) अन्न॒ग्ं॒ साम्रा᳚ज्याना॒ग्ं॒ साम्रा᳚ज्याना॒ मन्न॒ मन्न॒ग्ं॒ साम्रा᳚ज्यानाम् । 26) साम्रा᳚ज्याना॒ मधि॑प॒त्य धि॑पति॒ साम्रा᳚ज्याना॒ग्ं॒ साम्रा᳚ज्याना॒ मधि॑पति । 26) साम्रा᳚ज्याना॒मिति॒ सां - रा॒ज्या॒ना॒म् । 27) अधि॑पति॒ त-त्तदधि॑प॒त्य धि॑पति॒ तत् । 27) अधि॑प॒तीत्यधि॑ - प॒ति॒ । 28) त-न्मा॑ मा॒ त-त्त-न्मा᳚ । 29) मा॒ ऽव॒ त्व॒व॒तु॒ मा॒ मा॒ ऽव॒तु॒ । 30) अ॒व॒तु॒ सोम॒-स्सोमो॑ ऽवत्ववतु॒ सोमः॑ । 31) सोम॒ ओष॑धीना॒ मोष॑धीना॒ग्ं॒ सोम॒-स्सोम॒ ओष॑धीनाम् । 32) ओष॑धीनाग्ं सवि॒ता स॑वि॒तौ ष॑धीना॒ मोष॑धीनाग्ं सवि॒ता । 33) स॒वि॒ता प्र॑स॒वाना᳚-म्प्रस॒वानाग्ं॑ सवि॒ता स॑वि॒ता प्र॑स॒वाना᳚म् । 34) प्र॒स॒वानाग्ं॑ रु॒द्रो रु॒द्रः प्र॑स॒वाना᳚-म्प्रस॒वानाग्ं॑ रु॒द्रः । 34) प्र॒स॒वाना॒मिति॑ प्र - स॒वाना᳚म् । 35) रु॒द्रः प॑शू॒ना-म्प॑शू॒नाग्ं रु॒द्रो रु॒द्रः प॑शू॒नाम् । 36) प॒शू॒ना-न्त्वष्टा॒ त्वष्टा॑ पशू॒ना-म्प॑शू॒ना-न्त्वष्टा᳚ । 37) त्वष्टा॑ रू॒पाणाग्ं॑ रू॒पाणा॒-न्त्वष्टा॒ त्वष्टा॑ रू॒पाणा᳚म् । 38) रू॒पाणां॒-विँष्णु॒-र्विष्णू॑ रू॒पाणाग्ं॑ रू॒पाणां॒-विँष्णुः॑ । 39) विष्णुः॒ पर्व॑ताना॒-म्पर्व॑तानां॒-विँष्णु॒-र्विष्णुः॒ पर्व॑तानाम् । 40) पर्व॑ताना-म्म॒रुतो॑ म॒रुतः॒ पर्व॑ताना॒-म्पर्व॑ताना-म्म॒रुतः॑ । 41) म॒रुतो॑ ग॒णाना᳚-ङ्ग॒णाना᳚-म्म॒रुतो॑ म॒रुतो॑ ग॒णाना᳚म् । 42) ग॒णाना॒ मधि॑पत॒यो ऽधि॑पतयो ग॒णाना᳚-ङ्ग॒णाना॒ मधि॑पतयः । 43) अधि॑पतय॒ स्ते ते ऽधि॑पत॒यो ऽधि॑पतय॒ स्ते । 43) अधि॑पतय॒ इत्यधि॑ - प॒त॒यः॒ । 44) ते मा॑ मा॒ ते ते मा᳚ । 45) मा॒ ऽव॒न्त्व॒व॒न्तु॒ मा॒ मा॒ ऽव॒न्तु॒ । 46) अ॒व॒न्तु॒ पित॑रः॒ पित॑रो ऽवन्त्ववन्तु॒ पित॑रः । 47) पित॑रः पितामहाः पितामहाः॒ पित॑रः॒ पित॑रः पितामहाः । 48) पि॒ता॒म॒हाः॒ प॒रे॒ प॒रे॒ पि॒ता॒म॒हाः॒ पि॒ता॒म॒हाः॒ प॒रे॒ । 49) प॒रे॒ ऽव॒रे॒ ऽव॒रे॒ प॒रे॒ प॒रे॒ ऽव॒रे॒ । 50) अ॒व॒रे॒ तता॒ स्तता॑ अवरे ऽवरे॒ तताः᳚ । 51) तता᳚ स्ततामहा स्ततामहा॒ स्तता॒ स्तता᳚ स्ततामहाः । 52) त॒ता॒म॒हा॒ इ॒हेह त॑तामहा स्ततामहा इ॒ह । 53) इ॒ह मा॑ मे॒हेह मा᳚ । 54) मा॒ ऽव॒ता॒ व॒त॒ मा॒ मा॒ ऽव॒त॒ । 55) अ॒व॒तेत्य॑वत । 56) अ॒स्मि-न्ब्रह्म॒-न्ब्रह्म॑-न्न॒स्मि-न्न॒स्मि-न्ब्रह्मन्न्॑ । 57) ब्रह्म॑-न्न॒स्मि-न्न॒स्मि-न्ब्रह्म॒-न्ब्रह्म॑-न्न॒स्मिन्न् । 58) अ॒स्मिन् क्ष॒त्रे क्ष॒त्रे᳚ ऽस्मि-न्न॒स्मिन् क्ष॒त्रे । 59) क्ष॒त्रे᳚ ऽस्या म॒स्या-ङ्क्ष॒त्रे क्ष॒त्रे᳚ ऽस्याम् । 60) अ॒स्या मा॒शि ष्या॒शि ष्य॒स्या म॒स्या मा॒शिषि॑ । 61) आ॒शिष्य॒स्या म॒स्या मा॒शि ष्या॒शिष्य॒स्याम् । 61) आ॒शिषीत्या᳚ - शिषि॑ । 62) अ॒स्या-म्पु॑रो॒धाया᳚-म्पुरो॒धाया॑ म॒स्या म॒स्या-म्पु॑रो॒धाया᳚म् । 63) पु॒रो॒धाया॑ म॒स्मि-न्न॒स्मि-न्पु॑रो॒धाया᳚-म्पुरो॒धाया॑ म॒स्मिन्न् । 63) पु॒रो॒धाया॒मिति॑ पुरः - धाया᳚म् । 64) अ॒स्मिन् कर्म॒न् कर्म॑-न्न॒स्मि-न्न॒स्मिन् कर्मन्न्॑ । 65) कर्म॑-न्न॒स्या म॒स्या-ङ्कर्म॒न् कर्म॑-न्न॒स्याम् । 66) अ॒स्या-न्दे॒वहू᳚त्या-न्दे॒वहू᳚त्या म॒स्या म॒स्या-न्दे॒वहू᳚त्याम् । 67) दे॒वहू᳚त्या॒मिति॑ दे॒व - हू॒त्या॒म् । ॥ 16 ॥ (67/74) ॥ अ. 5 ॥
1) दे॒वा वै वै दे॒वा दे॒वा वै । 2) वै य-द्य-द्वै वै यत् । 3) य-द्य॒ज्ञे य॒ज्ञे य-द्य-द्य॒ज्ञे । 4) य॒ज्ञे ऽकु॑र्व॒ता कु॑र्वत य॒ज्ञे य॒ज्ञे ऽकु॑र्वत । 5) अकु॑र्वत॒ त-त्तदकु॑र्व॒ता कु॑र्वत॒ तत् । 6) तदसु॑रा॒ असु॑रा॒ स्त-त्तदसु॑राः । 7) असु॑रा अकुर्वता कुर्व॒ता सु॑रा॒ असु॑रा अकुर्वत । 8) अ॒कु॒र्व॒त॒ ते ते॑ ऽकुर्वता कुर्वत॒ ते । 9) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 10) दे॒वा ए॒ता-ने॒ता-न्दे॒वा दे॒वा ए॒तान् । 11) ए॒ता-न॑भ्याता॒ना-न॑भ्याता॒ना-ने॒ता-ने॒ता-न॑भ्याता॒नान् । 12) अ॒भ्या॒ता॒ना-न॑पश्य-न्नपश्य-न्नभ्याता॒ना-न॑भ्याता॒ना-न॑पश्यन्न् । 12) अ॒भ्या॒ता॒नानित्य॑भि - आ॒ता॒नान् । 13) अ॒प॒श्य॒-न्ताग् स्ता-न॑पश्य-न्नपश्य॒-न्तान् । 14) तान॒भ्यात॑न्वता॒ भ्यात॑न्वत॒ ताग् स्ता-न॒भ्यात॑न्वत । 15) अ॒भ्यात॑न्वत॒ य-द्यद॒भ्यात॑न्वता॒ भ्यात॑न्वत॒ यत् । 15) अ॒भ्यात॑न्व॒तेत्य॑भि - आत॑न्वत । 16) य-द्दे॒वाना᳚-न्दे॒वानां॒-यँ-द्य-द्दे॒वाना᳚म् । 17) दे॒वाना॒-ङ्कर्म॒ कर्म॑ दे॒वाना᳚-न्दे॒वाना॒-ङ्कर्म॑ । 18) कर्मासी॒ दासी॒-त्कर्म॒ कर्मासी᳚त् । 19) आसी॒ दार्ध्य॒ता र्ध्य॒ता सी॒दा सी॒दा र्ध्य॑त । 20) आर्ध्य॑त॒ त-त्त दार्ध्य॒ता र्ध्य॑त॒ तत् । 21) त-द्य-द्य-त्त-त्त-द्यत् । 22) यदसु॑राणा॒ मसु॑राणां॒-यँ-द्यदसु॑राणाम् । 23) असु॑राणा॒-न्न नासु॑राणा॒ मसु॑राणा॒-न्न । 24) न त-त्त-न्न न तत् । 25) तदा᳚र्ध्यता र्ध्यत॒ त-त्तदा᳚र्ध्यत । 26) आ॒र्ध्य॒त॒ येन॒ येना᳚ र्ध्यता र्ध्यत॒ येन॑ । 27) येन॒ कर्म॑णा॒ कर्म॑णा॒ येन॒ येन॒ कर्म॑णा । 28) कर्म॒ णेर्थ्से॒ दीर्थ्से॒-त्कर्म॑णा॒ कर्म॒ णेर्थ्से᳚त् । 29) ईर्थ्से॒-त्तत्र॒ तत्रेर्थ्से॒ दीर्थ्से॒-त्तत्र॑ । 30) तत्र॑ होत॒व्या॑ होत॒व्या᳚ स्तत्र॒ तत्र॑ होत॒व्याः᳚ । 31) हो॒त॒व्या॑ ऋ॒द्ध्नो त्यृ॒द्ध्नोति॑ होत॒व्या॑ होत॒व्या॑ ऋ॒द्ध्नोति॑ । 32) ऋ॒द्ध्नोत् ये॒वैव र्ध्नो त्यृ॒द्ध्नो त्ये॒व । 33) ए॒व तेन॒ तेनै॒वैव तेन॑ । 34) तेन॒ कर्म॑णा॒ कर्म॑णा॒ तेन॒ तेन॒ कर्म॑णा । 35) कर्म॑णा॒ य-द्य-त्कर्म॑णा॒ कर्म॑णा॒ यत् । 36) य-द्विश्वे॒ विश्वे॒ य-द्य-द्विश्वे᳚ । 37) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः । 38) दे॒वा-स्स॒मभ॑र-न्थ्स॒मभ॑र-न्दे॒वा दे॒वा-स्स॒मभ॑रन्न् । 39) स॒मभ॑र॒-न्तस्मा॒-त्तस्मा᳚-थ्स॒मभ॑र-न्थ्स॒मभ॑र॒-न्तस्मा᳚त् । 39) स॒मभ॑र॒न्निति॑ सं - अभ॑रन्न् । 40) तस्मा॑ दभ्याता॒ना अ॑भ्याता॒ना स्तस्मा॒-त्तस्मा॑ दभ्याता॒नाः । 41) अ॒भ्या॒ता॒ना वै᳚श्वदे॒वा वै᳚श्वदे॒वा अ॑भ्याता॒ना अ॑भ्याता॒ना वै᳚श्वदे॒वाः । 41) अ॒भ्या॒ता॒ना इत्य॑भि - आ॒ता॒नाः । 42) वै॒श्व॒दे॒वा य-द्य-द्वै᳚श्वदे॒वा वै᳚श्वदे॒वा यत् । 42) वै॒श्व॒दे॒वा इति॑ वैश्व - दे॒वाः । 43) य-त्प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्य-द्य-त्प्र॒जाप॑तिः । 44) प्र॒जाप॑ति॒-र्जया॒न् जया᳚-न्प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्जयान्॑ । 44) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 45) जया॒-न्प्र प्र जया॒न् जया॒-न्प्र । 46) प्रा य॑च्छ॒ दय॑च्छ॒-त्प्र प्राय॑च्छत् । 47) अय॑च्छ॒-त्तस्मा॒-त्तस्मा॒ दय॑च्छ॒ दय॑च्छ॒-त्तस्मा᳚त् । 48) तस्मा॒ज् जया॒ जया॒ स्तस्मा॒-त्तस्मा॒ज् जयाः᳚ । 49) जयाः᳚ प्राजाप॒त्याः प्रा॑जाप॒त्या जया॒ जयाः᳚ प्राजाप॒त्याः । 50) प्रा॒जा॒प॒त्या य-द्य-त्प्रा॑जाप॒त्याः प्रा॑जाप॒त्या यत् । 50) प्रा॒जा॒प॒त्या इति॑ प्राजा - प॒त्याः । ॥ 17 ॥ (50/57)
1) य-द्रा᳚ष्ट्र॒भृद्भी॑ राष्ट्र॒भृद्भि॒-र्य-द्य-द्रा᳚ष्ट्र॒भृद्भिः॑ । 2) रा॒ष्ट्र॒भृद्भी॑ रा॒ष्ट्रग्ं रा॒ष्ट्रग्ं रा᳚ष्ट्र॒भृद्भी॑ राष्ट्र॒भृद्भी॑ रा॒ष्ट्रम् । 2) रा॒ष्ट्र॒भृद्भि॒रिति॑ राष्ट्र॒भृत् - भिः॒ । 3) रा॒ष्ट्र मा रा॒ष्ट्रग्ं रा॒ष्ट्र मा । 4) आ ऽद॑द॒ता द॑द॒ता ऽद॑दत । 5) अद॑दत॒ त-त्त दद॑द॒ता द॑दत॒ तत् । 6) त-द्रा᳚ष्ट्र॒भृताग्ं॑ राष्ट्र॒भृता॒-न्त-त्त-द्रा᳚ष्ट्र॒भृता᳚म् । 7) रा॒ष्ट्र॒भृताग्ं॑ राष्ट्रभृ॒त्त्वग्ं रा᳚ष्ट्रभृ॒त्त्वग्ं रा᳚ष्ट्र॒भृताग्ं॑ राष्ट्र॒भृताग्ं॑ राष्ट्रभृ॒त्त्वम् । 7) रा॒ष्ट्र॒भृता॒मिति॑ राष्ट्र - भृता᳚म् । 8) रा॒ष्ट्र॒भृ॒त्त्व-न्ते ते रा᳚ष्ट्रभृ॒त्त्वग्ं रा᳚ष्ट्रभृ॒त्त्व-न्ते । 8) रा॒ष्ट्र॒भृ॒त्त्वमिति॑ राष्ट्रभृत् - त्वम् । 9) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 10) दे॒वा अ॑भ्याता॒नै र॑भ्याता॒नै-र्दे॒वा दे॒वा अ॑भ्याता॒नैः । 11) अ॒भ्या॒ता॒नै रसु॑रा॒-नसु॑रा-नभ्याता॒नै र॑भ्याता॒नै रसु॑रान् । 11) अ॒भ्या॒ता॒नैरित्य॑भि - आ॒ता॒नैः । 12) असु॑रा-न॒भ्यात॑न्वता॒ भ्यात॑न्व॒ता सु॑रा॒-नसु॑रा-न॒भ्यात॑न्वत । 13) अ॒भ्यात॑न्वत॒ जयै॒-र्जयै॑ र॒भ्यात॑न्वता॒ भ्यात॑न्वत॒ जयैः᳚ । 13) अ॒भ्यात॑न्व॒तेत्य॑भि - आत॑न्वत । 14) जयै॑ रजय-नजय॒न् जयै॒-र्जयै॑ रजयन्न् । 15) अ॒ज॒य॒-न्रा॒ष्ट्र॒भृद्भी॑ राष्ट्र॒भृद्भि॑ रजय-नजय-न्राष्ट्र॒भृद्भिः॑ । 16) रा॒ष्ट्र॒भृद्भी॑ रा॒ष्ट्रग्ं रा॒ष्ट्रग्ं रा᳚ष्ट्र॒भृद्भी॑ राष्ट्र॒भृद्भी॑ रा॒ष्ट्रम् । 16) रा॒ष्ट्र॒भृद्भि॒रिति॑ राष्ट्र॒भृत् - भिः॒ । 17) रा॒ष्ट्र मा रा॒ष्ट्रग्ं रा॒ष्ट्र मा । 18) आ ऽद॑दता दद॒ता ऽद॑दत । 19) अ॒द॒द॒त॒ य-द्यद॑ददता ददत॒ यत् । 20) य-द्दे॒वा दे॒वा य-द्य-द्दे॒वाः । 21) दे॒वा अ॑भ्याता॒नै र॑भ्याता॒नै-र्दे॒वा दे॒वा अ॑भ्याता॒नैः । 22) अ॒भ्या॒ता॒नै रसु॑रा॒-नसु॑रा-नभ्याता॒नै र॑भ्याता॒नै रसु॑रान् । 22) अ॒भ्या॒ता॒नैरित्य॑भि - आ॒ता॒नैः । 23) असु॑रा-न॒भ्यात॑न्वता॒ भ्यात॑न्व॒ता सु॑रा॒-नसु॑रा-न॒भ्यात॑न्वत । 24) अ॒भ्यात॑न्वत॒ त-त्त-द॒भ्यात॑न्वता॒ भ्यात॑न्वत॒ तत् । 24) अ॒भ्यात॑न्व॒तेत्य॑भि - आत॑न्वत । 25) तद॑भ्याता॒नाना॑ मभ्याता॒नाना॒-न्त-त्तद॑भ्याता॒नाना᳚म् । 26) अ॒भ्या॒ता॒नाना॑ मभ्यातान॒त्व म॑भ्यातान॒त्व म॑भ्याता॒नाना॑ मभ्याता॒नाना॑ मभ्यातान॒त्वम् । 26) अ॒भ्या॒ता॒नाना॒मित्य॑भि - आ॒ता॒नाना᳚म् । 27) अ॒भ्या॒ता॒न॒त्वं-यँ-द्यद॑भ्यातान॒त्व म॑भ्यातान॒त्वं-यँत् । 27) अ॒भ्या॒ता॒न॒त्वमित्य॑भ्यातान - त्वम् । 28) यज् जयै॒-र्जयै॒-र्य-द्यज् जयैः᳚ । 29) जयै॒ रज॑य॒-न्नज॑य॒न् जयै॒-र्जयै॒ रज॑यन्न् । 30) अज॑य॒-न्त-त्तदज॑य॒-न्नज॑य॒-न्तत् । 31) तज् जया॑ना॒-ञ्जया॑ना॒-न्त-त्तज् जया॑नाम् । 32) जया॑ना-ञ्जय॒त्व-ञ्ज॑य॒त्व-ञ्जया॑ना॒-ञ्जया॑ना-ञ्जय॒त्वम् । 33) ज॒य॒त्वं-यँ-द्यज् ज॑य॒त्व-ञ्ज॑य॒त्वं-यँत् । 33) ज॒य॒त्वमिति॑ जय - त्वम् । 34) य-द्रा᳚ष्ट्र॒भृद्भी॑ राष्ट्र॒भृद्भि॒-र्य-द्य-द्रा᳚ष्ट्र॒भृद्भिः॑ । 35) रा॒ष्ट्र॒भृद्भी॑ रा॒ष्ट्रग्ं रा॒ष्ट्रग्ं रा᳚ष्ट्र॒भृद्भी॑ राष्ट्र॒भृद्भी॑ रा॒ष्ट्रम् । 35) रा॒ष्ट्र॒भृद्भि॒रिति॑ राष्ट्र॒भृत् - भिः॒ । 36) रा॒ष्ट्र मा रा॒ष्ट्रग्ं रा॒ष्ट्र मा । 37) आ ऽद॑द॒ता द॑द॒ता ऽद॑दत । 38) अद॑दत॒ त-त्तदद॑द॒ता द॑दत॒ तत् । 39) त-द्रा᳚ष्ट्र॒भृताग्ं॑ राष्ट्र॒भृता॒-न्त-त्त-द्रा᳚ष्ट्र॒भृता᳚म् । 40) रा॒ष्ट्र॒भृताग्ं॑ राष्ट्रभृ॒त्त्वग्ं रा᳚ष्ट्रभृ॒त्त्वग्ं रा᳚ष्ट्र॒भृताग्ं॑ राष्ट्र॒भृताग्ं॑ राष्ट्रभृ॒त्त्वम् । 40) रा॒ष्ट्र॒भृता॒मिति॑ राष्ट्र - भृता᳚म् । 41) रा॒ष्ट्र॒भृ॒त्त्व-न्तत॒ स्ततो॑ राष्ट्रभृ॒त्त्वग्ं रा᳚ष्ट्रभृ॒त्त्व-न्ततः॑ । 41) रा॒ष्ट्र॒भृ॒त्त्वमिति॑ राष्ट्रभृत् - त्वम् । 42) ततो॑ दे॒वा दे॒वा स्तत॒ स्ततो॑ दे॒वाः । 43) दे॒वा अभ॑व॒न्,नभ॑व-न्दे॒वा दे॒वा अभ॑वन्न् । 44) अभ॑व॒-न्परा॒ परा ऽभ॑व॒-न्नभ॑व॒-न्परा᳚ । 45) परा ऽसु॑रा॒ असु॑राः॒ परा॒ परा ऽसु॑राः । 46) असु॑रा॒ यो यो ऽसु॑रा॒ असु॑रा॒ यः । 47) यो भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒न्॒. यो यो भ्रातृ॑व्यवान् । 48) भ्रातृ॑व्यवा॒-न्थ्स्या-थ्स्या-द्भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒-न्थ्स्यात् । 48) भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । 49) स्या-थ्स स स्या-थ्स्या-थ्सः । 50) स ए॒ता-ने॒ता-न्थ्स स ए॒तान् । 51) ए॒तान् जु॑हुयाज् जुहुया दे॒ता-ने॒तान् जु॑हुयात् । 52) जु॒हु॒या॒ द॒भ्या॒ता॒नै र॑भ्याता॒नै-र्जु॑हुयाज् जुहुया दभ्याता॒नैः । 53) अ॒भ्या॒ता॒नै रे॒वैवा भ्या॑ता॒नै र॑भ्याता॒नै रे॒व । 53) अ॒भ्या॒ता॒नैरित्य॑भि - आ॒ता॒नैः । 54) ए॒व भ्रातृ॑व्या॒-न्भ्रातृ॑व्या-ने॒वैव भ्रातृ॑व्यान् । 55) भ्रातृ॑व्या-न॒भ्यात॑नुते॒ ऽभ्यात॑नुते॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या-न॒भ्यात॑नुते । 56) अ॒भ्यात॑नुते॒ जयै॒-र्जयै॑ र॒भ्यात॑नुते॒ ऽभ्यात॑नुते॒ जयैः᳚ । 56) अ॒भ्यात॑नुत॒ इत्य॑भि - आत॑नुते । 57) जयै᳚-र्जयति जयति॒ जयै॒-र्जयै᳚-र्जयति । 58) ज॒य॒ति॒ रा॒ष्ट्र॒भृद्भी॑ राष्ट्र॒भृद्भि॑-र्जयति जयति राष्ट्र॒भृद्भिः॑ । 59) रा॒ष्ट्र॒भृद्भी॑ रा॒ष्ट्रग्ं रा॒ष्ट्रग्ं रा᳚ष्ट्र॒भृद्भी॑ राष्ट्र॒भृद्भी॑ रा॒ष्ट्रम् । 59) रा॒ष्ट्र॒भृद्भि॒रिति॑ राष्ट्र॒भृत् - भिः॒ । 60) रा॒ष्ट्रमा रा॒ष्ट्रग्ं रा॒ष्ट्रमा । 61) आ द॑त्ते दत्त॒ आ द॑त्ते । 62) द॒त्ते॒ भव॑ति॒ भव॑ति दत्ते दत्ते॒ भव॑ति । 63) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ । 64) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ । 65) परा᳚ ऽस्या स्य॒ परा॒ परा᳚ ऽस्य । 66) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्या स्य॒ भ्रातृ॑व्यः । 67) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति । 68) भ॒व॒तीति॑ भवति । ॥ 18 ॥ (68/86) ॥ अ. 6 ॥
1) ऋ॒ता॒षा डृ॒तधा॑म॒ र्तधा॑म र्ता॒षा डृ॑ता॒षा डृ॒तधा॑मा । 2) ऋ॒तधा॑मा॒ ऽग्नि र॒ग्निर्-ऋ॒तधा॑म॒ र्तधा॑मा॒ ऽग्निः । 2) ऋ॒तधा॒मेत्यृ॒त - धा॒मा॒ । 3) अ॒ग्नि-र्ग॑न्ध॒र्वो ग॑न्ध॒र्वो᳚ ऽग्नि र॒ग्नि-र्ग॑न्ध॒र्वः । 4) ग॒न्ध॒र्व स्तस्य॒ तस्य॑ गन्ध॒र्वो ग॑न्ध॒र्व स्तस्य॑ । 5) तस्यौष॑धय॒ ओष॑धय॒ स्तस्य॒ तस्यौष॑धयः । 6) ओष॑धयो ऽफ्स॒रसो᳚ ऽफ्स॒रस॒ ओष॑धय॒ ओष॑धयो ऽफ्स॒रसः॑ । 7) अ॒फ्स॒रस॒ ऊर्ज॒ ऊर्जो᳚ ऽफ्स॒रसो᳚ ऽफ्स॒रस॒ ऊर्जः॑ । 8) ऊर्जो॒ नाम॒ नामोर्ज॒ ऊर्जो॒ नाम॑ । 9) नाम॒ स स नाम॒ नाम॒ सः । 10) स इ॒द मि॒दग्ं स स इ॒दम् । 11) इ॒द-म्ब्रह्म॒ ब्रह्मे॒द मि॒द-म्ब्रह्म॑ । 12) ब्रह्म॑ क्ष॒त्र-ङ्क्ष॒त्र-म्ब्रह्म॒ ब्रह्म॑ क्ष॒त्रम् । 13) क्ष॒त्र-म्पा॑तु पातु क्ष॒त्र-ङ्क्ष॒त्र-म्पा॑तु । 14) पा॒तु॒ ता स्ताः पा॑तु पातु॒ ताः । 15) ता इ॒द मि॒द-न्ता स्ता इ॒दम् । 16) इ॒द-म्ब्रह्म॒ ब्रह्मे॒द मि॒द-म्ब्रह्म॑ । 17) ब्रह्म॑ क्ष॒त्र-ङ्क्ष॒त्र-म्ब्रह्म॒ ब्रह्म॑ क्ष॒त्रम् । 18) क्ष॒त्र-म्पा᳚न्तु पान्तु क्ष॒त्र-ङ्क्ष॒त्र-म्पा᳚न्तु । 19) पा॒न्तु॒ तस्मै॒ तस्मै॑ पान्तु पान्तु॒ तस्मै᳚ । 20) तस्मै॒ स्वाहा॒ स्वाहा॒ तस्मै॒ तस्मै॒ स्वाहा᳚ । 21) स्वाहा॒ ताभ्य॒ स्ताभ्य॒-स्स्वाहा॒ स्वाहा॒ ताभ्यः॑ । 22) ताभ्य॒-स्स्वाहा॒ स्वाहा॒ ताभ्य॒ स्ताभ्य॒-स्स्वाहा᳚ । 23) स्वाहा॑ सग्ंहि॒त-स्सग्ं॑हि॒त-स्स्वाहा॒ स्वाहा॑ सग्ंहि॒तः । 24) स॒ग्ं॒हि॒तो वि॒श्वसा॑मा वि॒श्वसा॑मा सग्ंहि॒त-स्सग्ं॑हि॒तो वि॒श्वसा॑मा । 24) स॒ग्ं॒हि॒त इति॑ सं - हि॒तः । 25) वि॒श्वसा॑मा॒ सूर्य॒-स्सूर्यो॑ वि॒श्वसा॑मा वि॒श्वसा॑मा॒ सूर्यः॑ । 25) वि॒श्वसा॒मेति॑ वि॒श्व - सा॒मा॒ । 26) सूर्यो॑ गन्ध॒र्वो ग॑न्ध॒र्व-स्सूर्य॒-स्सूर्यो॑ गन्ध॒र्वः । 27) ग॒न्ध॒र्व स्तस्य॒ तस्य॑ गन्ध॒र्वो ग॑न्ध॒र्व स्तस्य॑ । 28) तस्य॒ मरी॑चयो॒ मरी॑चय॒ स्तस्य॒ तस्य॒ मरी॑चयः । 29) मरी॑चयो ऽफ्स॒रसो᳚ ऽफ्स॒रसो॒ मरी॑चयो॒ मरी॑चयो ऽफ्स॒रसः॑ । 30) अ॒फ्स॒रस॑ आ॒युव॑ आ॒युवो᳚ ऽफ्स॒रसो᳚ ऽफ्स॒रस॑ आ॒युवः॑ । 31) आ॒युव॑-स्सुषु॒म्न-स्सु॑षु॒म्न आ॒युव॑ आ॒युव॑-स्सुषु॒म्नः । 31) आ॒युव॒ इत्या᳚ - युवः॑ । 32) सु॒षु॒म्न-स्सूर्य॑रश्मि॒-स्सूर्य॑रश्मि-स्सुषु॒म्न-स्सु॑षु॒म्न-स्सूर्य॑रश्मिः । 32) सु॒षु॒म्न इति॑ सु - सु॒म्नः । 33) सूर्य॑रश्मि श्च॒न्द्रमा᳚ श्च॒न्द्रमा॒-स्सूर्य॑रश्मि॒-स्सूर्य॑रश्मि श्च॒न्द्रमाः᳚ । 33) सूर्य॑रश्मि॒रिति॒ सूर्य॑ - र॒श्मिः॒ । 34) च॒न्द्रमा॑ गन्ध॒र्वो ग॑न्ध॒र्व श्च॒न्द्रमा᳚ श्च॒न्द्रमा॑ गन्ध॒र्वः । 35) ग॒न्ध॒र्व स्तस्य॒ तस्य॑ गन्ध॒र्वो ग॑न्ध॒र्व स्तस्य॑ । 36) तस्य॒ नक्ष॑त्राणि॒ नक्ष॑त्राणि॒ तस्य॒ तस्य॒ नक्ष॑त्राणि । 37) नक्ष॑त्रा ण्यफ्स॒रसो᳚ ऽफ्स॒रसो॒ नक्ष॑त्राणि॒ नक्ष॑त्रा ण्यफ्स॒रसः॑ । 38) अ॒फ्स॒रसो॑ बे॒कुर॑यो बे॒कुर॑यो ऽफ्स॒रसो᳚ ऽफ्स॒रसो॑ बे॒कुर॑यः । 39) बे॒कुर॑यो भु॒ज्यु-र्भु॒ज्यु-र्बे॒कुर॑यो बे॒कुर॑यो भु॒ज्युः । 40) भु॒ज्यु-स्सु॑प॒र्ण-स्सु॑प॒र्णो भु॒ज्यु-र्भु॒ज्यु-स्सु॑प॒र्णः । 41) सु॒प॒र्णो य॒ज्ञो य॒ज्ञ-स्सु॑प॒र्ण-स्सु॑प॒र्णो य॒ज्ञः । 41) सु॒प॒र्ण इति॑ सु - प॒र्णः । 42) य॒ज्ञो ग॑न्ध॒र्वो ग॑न्ध॒र्वो य॒ज्ञो य॒ज्ञो ग॑न्ध॒र्वः । 43) ग॒न्ध॒र्व स्तस्य॒ तस्य॑ गन्ध॒र्वो ग॑न्ध॒र्व स्तस्य॑ । 44) तस्य॒ दक्षि॑णा॒ दक्षि॑णा॒ स्तस्य॒ तस्य॒ दक्षि॑णाः । 45) दक्षि॑णा अफ्स॒रसो᳚ ऽफ्स॒रसो॒ दक्षि॑णा॒ दक्षि॑णा अफ्स॒रसः॑ । 46) अ॒फ्स॒रस॑-स्स्त॒वा-स्स्त॒वा अ॑फ्स॒रसो᳚ ऽफ्स॒रस॑-स्स्त॒वाः । 47) स्त॒वाः प्र॒जाप॑तिः प्र॒जाप॑ति-स्स्त॒वा-स्स्त॒वाः प्र॒जाप॑तिः । 48) प्र॒जाप॑ति-र्वि॒श्वक॑र्मा वि॒श्वक॑र्मा प्र॒जाप॑तिः प्र॒जाप॑ति-र्वि॒श्वक॑र्मा । 48) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 49) वि॒श्वक॑र्मा॒ मनो॒ मनो॑ वि॒श्वक॑र्मा वि॒श्वक॑र्मा॒ मनः॑ । 49) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । 50) मनो॑ गन्ध॒र्वो ग॑न्ध॒र्वो मनो॒ मनो॑ गन्ध॒र्वः । ॥ 19 ॥ (50/59)
1) ग॒न्ध॒र्व स्तस्य॒ तस्य॑ गन्ध॒र्वो ग॑न्ध॒र्व स्तस्य॑ । 2) तस्य॑ र्ख्सा॒मा न्यृ॑ख्सा॒मानि॒ तस्य॒ तस्य॑ र्ख्सा॒मानि॑ । 3) ऋ॒ख्सा॒मा न्य॑फ्स॒रसो᳚ ऽफ्स॒रस॑ ऋख्सा॒मा न्यृ॑ख्सा॒मा न्य॑फ्स॒रसः॑ । 3) ऋ॒ख्सा॒मानीत्यृ॑क् - सा॒मानि॑ । 4) अ॒फ्स॒रसो॒ वह्न॑यो॒ वह्न॑यो ऽफ्स॒रसो᳚ ऽफ्स॒रसो॒ वह्न॑यः । 5) वह्न॑य इषि॒र इ॑षि॒रो वह्न॑यो॒ वह्न॑य इषि॒रः । 6) इ॒षि॒रो वि॒श्वव्य॑चा वि॒श्वव्य॑चा इषि॒र इ॑षि॒रो वि॒श्वव्य॑चाः । 7) वि॒श्वव्य॑चा॒ वातो॒ वातो॑ वि॒श्वव्य॑चा वि॒श्वव्य॑चा॒ वातः॑ । 7) वि॒श्वव्य॑चा॒ इति॑ वि॒श्व - व्य॒चाः॒ । 8) वातो॑ गन्ध॒र्वो ग॑न्ध॒र्वो वातो॒ वातो॑ गन्ध॒र्वः । 9) ग॒न्ध॒र्व स्तस्य॒ तस्य॑ गन्ध॒र्वो ग॑न्ध॒र्व स्तस्य॑ । 10) तस्याप॒ आप॒ स्तस्य॒ तस्यापः॑ । 11) आपो᳚ ऽफ्स॒रसो᳚ ऽफ्स॒रस॒ आप॒ आपो᳚ ऽफ्स॒रसः॑ । 12) अ॒फ्स॒रसो॑ मु॒दा मु॒दा अ॑फ्स॒रसो᳚ ऽफ्स॒रसो॑ मु॒दाः । 13) मु॒दा भुव॑नस्य॒ भुव॑नस्य मु॒दा मु॒दा भुव॑नस्य । 14) भुव॑नस्य पते पते॒ भुव॑नस्य॒ भुव॑नस्य पते । 15) प॒ते॒ यस्य॒ यस्य॑ पते पते॒ यस्य॑ । 16) यस्य॑ ते ते॒ यस्य॒ यस्य॑ ते । 17) त॒ उ॒पर्यु॒परि॑ ते त उ॒परि॑ । 18) उ॒परि॑ गृ॒हा गृ॒हा उ॒पर्यु॒परि॑ गृ॒हाः । 19) गृ॒हा इ॒हेह गृ॒हा गृ॒हा इ॒ह । 20) इ॒ह च॑ चे॒हेह च॑ । 21) चेति॑ च । 22) स नो॑ न॒-स्स स नः॑ । 23) नो॒ रा॒स्व॒ रा॒स्व॒ नो॒ नो॒ रा॒स्व॒ । 24) रा॒स्वा ज्या॑नि॒ मज्या॑निग्ं रास्व रा॒स्वा ज्या॑निम् । 25) अज्या॑निग्ं रा॒यो रा॒यो अज्या॑नि॒ मज्या॑निग्ं रा॒यः । 26) रा॒य स्पोष॒-म्पोषग्ं॑ रा॒यो रा॒य स्पोष᳚म् । 27) पोषग्ं॑ सु॒वीर्यग्ं॑ सु॒वीर्य॒-म्पोष॒-म्पोषग्ं॑ सु॒वीर्य᳚म् । 28) सु॒वीर्यग्ं॑ संवँथ्स॒रीणाग्ं॑ संवँथ्स॒रीणाग्ं॑ सु॒वीर्यग्ं॑ सु॒वीर्यग्ं॑ संवँथ्स॒रीणा᳚म् । 28) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् । 29) सं॒वँ॒थ्स॒रीणाग्॑ स्व॒स्तिग्ग् स्व॒स्तिग्ं सं॑वँथ्स॒रीणाग्ं॑ संवँथ्स॒रीणाग्॑ स्व॒स्तिम् । 29) सं॒वँ॒थ्स॒रीणा॒मिति॑ सं - व॒थ्स॒रीणा᳚म् । 30) स्व॒स्तिमिति॑ स्व॒स्तिम् । 31) प॒र॒मे॒ ष्ठ्यधि॑पति॒ रधि॑पतिः परमे॒ष्ठी प॑रमे॒ ष्ठ्यधि॑पतिः । 32) अधि॑पति-र्मृ॒त्यु-र्मृ॒त्यु रधि॑पति॒ रधि॑पति-र्मृ॒त्युः । 32) अधि॑पति॒रित्यधि॑ - प॒तिः॒ । 33) मृ॒त्यु-र्ग॑न्ध॒र्वो ग॑न्ध॒र्वो मृ॒त्यु-र्मृ॒त्यु-र्ग॑न्ध॒र्वः । 34) ग॒न्ध॒र्व स्तस्य॒ तस्य॑ गन्ध॒र्वो ग॑न्ध॒र्व स्तस्य॑ । 35) तस्य॒ विश्वं॒-विँश्व॒-न्तस्य॒ तस्य॒ विश्व᳚म् । 36) विश्व॑ मफ्स॒रसो᳚ ऽफ्स॒रसो॒ विश्वं॒-विँश्व॑ मफ्स॒रसः॑ । 37) अ॒फ्स॒रसो॒ भुवो॒ भुवो᳚ ऽफ्स॒रसो᳚ ऽफ्स॒रसो॒ भुवः॑ । 38) भुव॑-स्सुक्षि॒ति-स्सु॑क्षि॒ति-र्भुवो॒ भुव॑-स्सुक्षि॒तिः । 39) सु॒क्षि॒ति-स्सुभू॑ति॒-स्सुभू॑ति-स्सुक्षि॒ति-स्सु॑क्षि॒ति-स्सुभू॑तिः । 39) सु॒क्षि॒तिरिति॑ सु - क्षि॒तिः । 40) सुभू॑ति-र्भद्र॒कृ-द्भ॑द्र॒कृ-थ्सुभू॑ति॒-स्सुभू॑ति-र्भद्र॒कृत् । 40) सुभू॑ति॒रिति॒ सु - भू॒तिः॒ । 41) भ॒द्र॒कृ-थ्सुव॑र्वा॒-न्थ्सुव॑र्वा-न्भद्र॒कृ-द्भ॑द्र॒कृ-थ्सुव॑र्वान् । 41) भ॒द्र॒कृदिति॑ भद्र - कृत् । 42) सुव॑र्वा-न्प॒र्जन्यः॑ प॒र्जन्य॒-स्सुव॑र्वा॒-न्थ्सुव॑र्वा-न्प॒र्जन्यः॑ । 42) सुव॑र्वा॒निति॒ सुवः॑ - वा॒न् । 43) प॒र्जन्यो॑ गन्ध॒र्वो ग॑न्ध॒र्वः प॒र्जन्यः॑ प॒र्जन्यो॑ गन्ध॒र्वः । 44) ग॒न्ध॒र्व स्तस्य॒ तस्य॑ गन्ध॒र्वो ग॑न्ध॒र्व स्तस्य॑ । 45) तस्य॑ वि॒द्युतो॑ वि॒द्युत॒ स्तस्य॒ तस्य॑ वि॒द्युतः॑ । 46) वि॒द्युतो᳚ ऽफ्स॒रसो᳚ ऽफ्स॒रसो॑ वि॒द्युतो॑ वि॒द्युतो᳚ ऽफ्स॒रसः॑ । 46) वि॒द्युत॒ इति॑ वि - द्युतः॑ । 47) अ॒फ्स॒रसो॒ रुचो॒ रुचो᳚ ऽफ्स॒रसो᳚ ऽफ्स॒रसो॒ रुचः॑ । 48) रुचो॑ दू॒रेहे॑ति-र्दू॒रे हे॑ती॒ रुचो॒ रुचो॑ दू॒रेहे॑तिः । 49) दू॒रेहे॑ति रमृड॒यो॑ ऽमृड॒यो दू॒रेहे॑ति-र्दू॒रेहे॑ति रमृड॒यः । 49) दू॒रेहे॑ति॒रिति॑ दू॒रे - हे॒तिः॒ । 50) अ॒मृ॒ड॒यो मृ॒त्यु-र्मृ॒त्यु र॑मृड॒यो॑ ऽमृड॒यो मृ॒त्युः । ॥ 20 ॥ (50/61)
1) मृ॒त्यु-र्ग॑न्ध॒र्वो ग॑न्ध॒र्वो मृ॒त्यु-र्मृ॒त्यु-र्ग॑न्ध॒र्वः । 2) ग॒न्ध॒र्व स्तस्य॒ तस्य॑ गन्ध॒र्वो ग॑न्ध॒र्व स्तस्य॑ । 3) तस्य॑ प्र॒जाः प्र॒जा स्तस्य॒ तस्य॑ प्र॒जाः । 4) प्र॒जा अ॑फ्स॒रसो᳚ ऽफ्स॒रसः॑ प्र॒जाः प्र॒जा अ॑फ्स॒रसः॑ । 4) प्र॒जा इति॑ प्र - जाः । 5) अ॒फ्स॒रसो॑ भी॒रुवो॑ भी॒रुवो᳚ ऽफ्स॒रसो᳚ ऽफ्स॒रसो॑ भी॒रुवः॑ । 6) भि॒रुव॒ श्चारु॒ श्चारु॑-र्भी॒रुवो॑ भि॒रुव॒ श्चारुः॑ । 7) चारुः॑ कृपणका॒शी कृ॑पणका॒शी चारु॒ श्चारुः॑ कृपणका॒शी । 8) कृ॒प॒ण॒का॒शी कामः॒ कामः॑ कृपणका॒शी कृ॑पणका॒शी कामः॑ । 8) कृ॒प॒ण॒का॒शीति॑ कृपण - का॒शी । 9) कामो॑ गन्ध॒र्वो ग॑न्ध॒र्वः कामः॒ कामो॑ गन्ध॒र्वः । 10) ग॒न्ध॒र्व स्तस्य॒ तस्य॑ गन्ध॒र्वो ग॑न्ध॒र्व स्तस्य॑ । 11) तस्या॒ धय॑ आ॒धय॒ स्तस्य॒ तस्या॒ धयः॑ । 12) आ॒धयो᳚ ऽफ्स॒रसो᳚ ऽफ्स॒रस॑ आ॒धय॑ आ॒धयो᳚ ऽफ्स॒रसः॑ । 12) आ॒धय॒ इत्या᳚ - धयः॑ । 13) अ॒फ्स॒रस॑-श्शो॒चय॑न्ती-श्शो॒चय॑न्ती रफ्स॒रसो᳚ ऽफ्स॒रस॑-श्शो॒चय॑न्तीः । 14) शो॒चय॑न्ती॒-र्नाम॒ नाम॑ शो॒चय॑न्ती-श्शो॒चय॑न्ती॒-र्नाम॑ । 15) नाम॒ स स नाम॒ नाम॒ सः । 16) स इ॒द मि॒दग्ं स स इ॒दम् । 17) इ॒द-म्ब्रह्म॒ ब्रह्मे॒द मि॒द-म्ब्रह्म॑ । 18) ब्रह्म॑ क्ष॒त्र-ङ्क्ष॒त्र-म्ब्रह्म॒ ब्रह्म॑ क्ष॒त्रम् । 19) क्ष॒त्र-म्पा॑तु पातु क्ष॒त्र-ङ्क्ष॒त्र-म्पा॑तु । 20) पा॒तु॒ ता स्ताः पा॑तु पातु॒ ताः । 21) ता इ॒द मि॒द-न्ता स्ता इ॒दम् । 22) इ॒द-म्ब्रह्म॒ ब्रह्मे॒द मि॒द-म्ब्रह्म॑ । 23) ब्रह्म॑ क्ष॒त्र-ङ्क्ष॒त्र-म्ब्रह्म॒ ब्रह्म॑ क्ष॒त्रम् । 24) क्ष॒त्र-म्पा᳚न्तु पान्तु क्ष॒त्र-ङ्क्ष॒त्र-म्पा᳚न्तु । 25) पा॒न्तु॒ तस्मै॒ तस्मै॑ पान्तु पान्तु॒ तस्मै᳚ । 26) तस्मै॒ स्वाहा॒ स्वाहा॒ तस्मै॒ तस्मै॒ स्वाहा᳚ । 27) स्वाहा॒ ताभ्य॒ स्ताभ्य॒-स्स्वाहा॒ स्वाहा॒ ताभ्यः॑ । 28) ताभ्य॒-स्स्वाहा॒ स्वाहा॒ ताभ्य॒ स्ताभ्य॒-स्स्वाहा᳚ । 29) स्वाहा॒ स स स्वाहा॒ स्वाहा॒ सः । 30) स नो॑ न॒-स्स स नः॑ । 31) नो॒ भु॒व॒न॒स्य॒ भु॒व॒न॒स्य॒ नो॒ नो॒ भु॒व॒न॒स्य॒ । 32) भु॒व॒न॒स्य॒ प॒ते॒ प॒ते॒ भु॒व॒न॒स्य॒ भु॒व॒न॒स्य॒ प॒ते॒ । 33) प॒ते॒ यस्य॒ यस्य॑ पते पते॒ यस्य॑ । 34) यस्य॑ ते ते॒ यस्य॒ यस्य॑ ते । 35) त॒ उ॒पर्यु॒परि॑ ते त उ॒परि॑ । 36) उ॒परि॑ गृ॒हा गृ॒हा उ॒पर्यु॒परि॑ गृ॒हाः । 37) गृ॒हा इ॒हेह गृ॒हा गृ॒हा इ॒ह । 38) इ॒ह च॑ चे॒हेह च॑ । 39) चेति॑ च । 40) उ॒रु ब्रह्म॑णे॒ ब्रह्म॑ण उ॒रू॑रु ब्रह्म॑णे । 41) ब्रह्म॑णे॒ ऽस्मा अ॒स्मै ब्रह्म॑णे॒ ब्रह्म॑णे॒ ऽस्मै । 42) अ॒स्मै क्ष॒त्राय॑ क्ष॒त्राया॒ स्मा अ॒स्मै क्ष॒त्राय॑ । 43) क्ष॒त्राय॒ महि॒ महि॑ क्ष॒त्राय॑ क्ष॒त्राय॒ महि॑ । 44) महि॒ शर्म॒ शर्म॒ महि॒ महि॒ शर्म॑ । 45) शर्म॑ यच्छ यच्छ॒ शर्म॒ शर्म॑ यच्छ । 46) य॒च्छेति॑ यच्छ । ॥ 21 ॥ (46/49) ॥ अ. 7 ॥
1) रा॒ष्ट्रका॑माय होत॒व्या॑ होत॒व्या॑ रा॒ष्ट्रका॑माय रा॒ष्ट्रका॑माय होत॒व्याः᳚ । 1) रा॒ष्ट्रका॑मा॒येति॑ रा॒ष्ट्र - का॒मा॒य॒ । 2) हो॒त॒व्या॑ रा॒ष्ट्रग्ं रा॒ष्ट्रग्ं हो॑त॒व्या॑ होत॒व्या॑ रा॒ष्ट्रम् । 3) रा॒ष्ट्रं-वैँ वै रा॒ष्ट्रग्ं रा॒ष्ट्रं-वैँ । 4) वै रा᳚ष्ट्र॒भृतो॑ राष्ट्र॒भृतो॒ वै वै रा᳚ष्ट्र॒भृतः॑ । 5) रा॒ष्ट्र॒भृतो॑ रा॒ष्ट्रेण॑ रा॒ष्ट्रेण॑ राष्ट्र॒भृतो॑ राष्ट्र॒भृतो॑ रा॒ष्ट्रेण॑ । 5) रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ । 6) रा॒ष्ट्रेणै॒वैव रा॒ष्ट्रेण॑ रा॒ष्ट्रेणै॒व । 7) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 8) अ॒स्मै॒ रा॒ष्ट्रग्ं रा॒ष्ट्र म॑स्मा अस्मै रा॒ष्ट्रम् । 9) रा॒ष्ट्र मवाव॑ रा॒ष्ट्रग्ं रा॒ष्ट्र मव॑ । 10) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 11) रु॒न्धे॒ रा॒ष्ट्रग्ं रा॒ष्ट्रग्ं रु॑न्धे रुन्धे रा॒ष्ट्रम् । 12) रा॒ष्ट्र मे॒वैव रा॒ष्ट्रग्ं रा॒ष्ट्र मे॒व । 13) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 14) भ॒व॒ त्या॒त्मन॑ आ॒त्मने॑ भवति भव त्या॒त्मने᳚ । 15) आ॒त्मने॑ होत॒व्या॑ होत॒व्या॑ आ॒त्मन॑ आ॒त्मने॑ होत॒व्याः᳚ । 16) हो॒त॒व्या॑ रा॒ष्ट्रग्ं रा॒ष्ट्रग्ं हो॑त॒व्या॑ होत॒व्या॑ रा॒ष्ट्रम् । 17) रा॒ष्ट्रं-वैँ वै रा॒ष्ट्रग्ं रा॒ष्ट्रं-वैँ । 18) वै रा᳚ष्ट्र॒भृतो॑ राष्ट्र॒भृतो॒ वै वै रा᳚ष्ट्र॒भृतः॑ । 19) रा॒ष्ट्र॒भृतो॑ रा॒ष्ट्रग्ं रा॒ष्ट्रग्ं रा᳚ष्ट्र॒भृतो॑ राष्ट्र॒भृतो॑ रा॒ष्ट्रम् । 19) रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ । 20) रा॒ष्ट्र-म्प्र॒जा प्र॒जा रा॒ष्ट्रग्ं रा॒ष्ट्र-म्प्र॒जा । 21) प्र॒जा रा॒ष्ट्रग्ं रा॒ष्ट्र-म्प्र॒जा प्र॒जा रा॒ष्ट्रम् । 21) प्र॒जेति॑ प्र - जा । 22) रा॒ष्ट्र-म्प॒शवः॑ प॒शवो॑ रा॒ष्ट्रग्ं रा॒ष्ट्र-म्प॒शवः॑ । 23) प॒शवो॑ रा॒ष्ट्रग्ं रा॒ष्ट्र-म्प॒शवः॑ प॒शवो॑ रा॒ष्ट्रम् । 24) रा॒ष्ट्रं-यँ-द्य-द्रा॒ष्ट्रग्ं रा॒ष्ट्रं-यँत् । 25) यच्छ्रेष्ठ॒-श्श्रेष्ठो॒ य-द्यच्छ्रेष्ठः॑ । 26) श्रेष्ठो॒ भव॑ति॒ भव॑ति॒ श्रेष्ठ॒-श्श्रेष्ठो॒ भव॑ति । 27) भव॑ति रा॒ष्ट्रेण॑ रा॒ष्ट्रेण॒ भव॑ति॒ भव॑ति रा॒ष्ट्रेण॑ । 28) रा॒ष्ट्रेणै॒वैव रा॒ष्ट्रेण॑ रा॒ष्ट्रेणै॒व । 29) ए॒व रा॒ष्ट्रग्ं रा॒ष्ट्र मे॒वैव रा॒ष्ट्रम् । 30) रा॒ष्ट्र मवाव॑ रा॒ष्ट्रग्ं रा॒ष्ट्र मव॑ । 31) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 32) रु॒न्धे॒ वसि॑ष्ठो॒ वसि॑ष्ठो रुन्धे रुन्धे॒ वसि॑ष्ठः । 33) वसि॑ष्ठ-स्समा॒नानाग्ं॑ समा॒नानां॒-वँसि॑ष्ठो॒ वसि॑ष्ठ-स्समा॒नाना᳚म् । 34) स॒मा॒नाना᳚-म्भवति भवति समा॒नानाग्ं॑ समा॒नाना᳚-म्भवति । 35) भ॒व॒ति॒ ग्राम॑कामाय॒ ग्राम॑कामाय भवति भवति॒ ग्राम॑कामाय । 36) ग्राम॑कामाय होत॒व्या॑ होत॒व्या᳚ ग्राम॑कामाय॒ ग्राम॑कामाय होत॒व्याः᳚ । 36) ग्राम॑कामा॒येति॒ ग्राम॑ - का॒मा॒य॒ । 37) हो॒त॒व्या॑ रा॒ष्ट्रग्ं रा॒ष्ट्रग्ं हो॑त॒व्या॑ होत॒व्या॑ रा॒ष्ट्रम् । 38) रा॒ष्ट्रं-वैँ वै रा॒ष्ट्रग्ं रा॒ष्ट्रं-वैँ । 39) वै रा᳚ष्ट्र॒भृतो॑ राष्ट्र॒भृतो॒ वै वै रा᳚ष्ट्र॒भृतः॑ । 40) रा॒ष्ट्र॒भृतो॑ रा॒ष्ट्रग्ं रा॒ष्ट्रग्ं रा᳚ष्ट्र॒भृतो॑ राष्ट्र॒भृतो॑ रा॒ष्ट्रम् । 40) रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ । 41) रा॒ष्ट्रग्ं स॑जा॒ता-स्स॑जा॒ता रा॒ष्ट्रग्ं रा॒ष्ट्रग्ं स॑जा॒ताः । 42) स॒जा॒ता रा॒ष्ट्रेण॑ रा॒ष्ट्रेण॑ सजा॒ता-स्स॑जा॒ता रा॒ष्ट्रेण॑ । 42) स॒जा॒ता इति॑ स - जा॒ताः । 43) रा॒ष्ट्रेणै॒वैव रा॒ष्ट्रेण॑ रा॒ष्ट्रेणै॒व । 44) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 45) अ॒स्मै॒ रा॒ष्ट्रग्ं रा॒ष्ट्र म॑स्मा अस्मै रा॒ष्ट्रम् । 46) रा॒ष्ट्रग्ं स॑जा॒ता-न्थ्स॑जा॒ता-न्रा॒ष्ट्रग्ं रा॒ष्ट्रग्ं स॑जा॒तान् । 47) स॒जा॒ता-नवाव॑ सजा॒ता-न्थ्स॑जा॒ता-नव॑ । 47) स॒जा॒तानिति॑ स - जा॒तान् । 48) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 49) रु॒न्धे॒ ग्रा॒मी ग्रा॒मी रु॑न्धे रुन्धे ग्रा॒मी । 50) ग्रा॒म्ये॑वैव ग्रा॒मी ग्रा॒म्ये॑व । ॥ 22 ॥ (50/58)
1) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 2) भ॒व॒ त्य॒धि॒देव॑ने ऽधि॒देव॑ने भवति भव त्यधि॒देव॑ने । 3) अ॒धि॒देव॑ने जुहोति जुहो त्यधि॒देव॑ने ऽधि॒देव॑ने जुहोति । 3) अ॒धि॒देव॑न॒ इत्य॑धि - देव॑ने । 4) जु॒हो॒ त्य॒धि॒देव॑ने ऽधि॒देव॑ने जुहोति जुहो त्यधि॒देव॑ने । 5) अ॒धि॒देव॑न ए॒वैवा धि॒देव॑ने ऽधि॒देव॑न ए॒व । 5) अ॒धि॒देव॑न॒ इत्य॑धि - देव॑ने । 6) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 7) अ॒स्मै॒ स॒जा॒ता-न्थ्स॑जा॒ता-न॑स्मा अस्मै सजा॒तान् । 8) स॒जा॒ता-नवाव॑ सजा॒ता-न्थ्स॑जा॒ता-नव॑ । 8) स॒जा॒तानिति॑ स - जा॒तान् । 9) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 10) रु॒न्धे॒ ते ते रु॑न्धे रुन्धे॒ ते । 11) त ए॑न मेन॒-न्ते त ए॑नम् । 12) ए॒न॒ मव॑रुद्धा॒ अव॑रुद्धा एन मेन॒ मव॑रुद्धाः । 13) अव॑रुद्धा॒ उपोपा व॑रुद्धा॒ अव॑रुद्धा॒ उप॑ । 13) अव॑रुद्धा॒ इत्यव॑ - रु॒द्धाः॒ । 14) उप॑ तिष्ठन्ते तिष्ठन्त॒ उपोप॑ तिष्ठन्ते । 15) ति॒ष्ठ॒न्ते॒ र॒थ॒मु॒खे र॑थमु॒खे ति॑ष्ठन्ते तिष्ठन्ते रथमु॒खे । 16) र॒थ॒मु॒ख ओज॑स्काम॒स्यौ ज॑स्कामस्य रथमु॒खे र॑थमु॒ख ओज॑स्कामस्य । 16) र॒थ॒मु॒ख इति॑ रथ - मु॒खे । 17) ओज॑स्कामस्य होत॒व्या॑ होत॒व्या॑ ओज॑स्काम॒ स्यौज॑स्कामस्य होत॒व्याः᳚ । 17) ओज॑स्काम॒स्येत्योजः॑ - का॒म॒स्य॒ । 18) हो॒त॒व्या॑ ओज॒ ओजो॑ होत॒व्या॑ होत॒व्या॑ ओजः॑ । 19) ओजो॒ वै वा ओज॒ ओजो॒ वै । 20) वै रा᳚ष्ट्र॒भृतो॑ राष्ट्र॒भृतो॒ वै वै रा᳚ष्ट्र॒भृतः॑ । 21) रा॒ष्ट्र॒भृत॒ ओज॒ ओजो॑ राष्ट्र॒भृतो॑ राष्ट्र॒भृत॒ ओजः॑ । 21) रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ । 22) ओजो॒ रथो॒ रथ॒ ओज॒ ओजो॒ रथः॑ । 23) रथ॒ ओज॒ सौज॑सा॒ रथो॒ रथ॒ ओज॑सा । 24) ओज॑सै॒वै वौज॒सौ ज॑सै॒व । 25) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 26) अ॒स्मा॒ ओज॒ ओजो᳚ ऽस्मा अस्मा॒ ओजः॑ । 27) ओजो ऽवा वौज॒ ओजो ऽव॑ । 28) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 29) रु॒न्ध॒ ओ॒ज॒स्व्यो॑ज॒स्वी रु॑न्धे रुन्ध ओज॒स्वी । 30) ओ॒ज॒ स्व्ये॑वैवौज॒ स्व्यो॑ज॒ स्व्ये॑व । 31) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 32) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः । 33) यो रा॒ष्ट्रा-द्रा॒ष्ट्रा-द्यो यो रा॒ष्ट्रात् । 34) रा॒ष्ट्रा दप॑भू॒तो ऽप॑भूतो रा॒ष्ट्रा-द्रा॒ष्ट्रा दप॑भूतः । 35) अप॑भूत॒-स्स्या-थ्स्यादप॑भू॒तो ऽप॑भूत॒-स्स्यात् । 35) अप॑भूत॒ इत्यप॑ - भू॒तः॒ । 36) स्या-त्तस्मै॒ तस्मै॒ स्या-थ्स्या-त्तस्मै᳚ । 37) तस्मै॑ होत॒व्या॑ होत॒व्या᳚ स्तस्मै॒ तस्मै॑ होत॒व्याः᳚ । 38) हो॒त॒व्या॑ याव॑न्तो॒ याव॑न्तो होत॒व्या॑ होत॒व्या॑ याव॑न्तः । 39) याव॑न्तो ऽस्यास्य॒ याव॑न्तो॒ याव॑न्तो ऽस्य । 40) अ॒स्य॒ रथा॒ रथा॑ अस्यास्य॒ रथाः᳚ । 41) रथा॒-स्स्यु-स्स्यू रथा॒ रथा॒-स्स्युः । 42) स्यु स्ताग् स्ता-न्थ्स्यु-स्स्यु स्तान् । 43) ता-न्ब्रू॑या-द्ब्रूया॒-त्ताग् स्ता-न्ब्रू॑यात् । 44) ब्रू॒या॒-द्यु॒न्ध्वं-युँ॒न्ध्व-म्ब्रू॑या-द्ब्रूया-द्यु॒न्ध्वम् । 45) यु॒न्ध्व मितीति॑ यु॒न्ध्वं-युँ॒न्ध्व मिति॑ । 46) इति॑ रा॒ष्ट्रग्ं रा॒ष्ट्र मितीति॑ रा॒ष्ट्रम् । 47) रा॒ष्ट्र मे॒वैव रा॒ष्ट्रग्ं रा॒ष्ट्र मे॒व । 48) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 49) अ॒स्मै॒ यु॒न॒क्ति॒ यु॒न॒क्त्य॒ स्मा॒ अ॒स्मै॒ यु॒न॒क्ति॒ । 50) यु॒न॒क्त्या हु॑तय॒ आहु॑तयो युनक्ति युन॒क्त्या हु॑तयः । ॥ 23 ॥ (50/58)
1) आहु॑तयो॒ वै वा आहु॑तय॒ आहु॑तयो॒ वै । 1) आहु॑तय॒ इत्या - हु॒त॒यः॒ । 2) वा ए॒त स्यै॒तस्य॒ वै वा ए॒तस्य॑ । 3) ए॒तस्या क्लृ॑प्ता॒ अक्लृ॑प्ता ए॒त स्यै॒तस्या क्लृ॑प्ताः । 4) अक्लृ॑प्ता॒ यस्य॒ यस्या क्लृ॑प्ता॒ अक्लृ॑प्ता॒ यस्य॑ । 5) यस्य॑ रा॒ष्ट्रग्ं रा॒ष्ट्रं-यँस्य॒ यस्य॑ रा॒ष्ट्रम् । 6) रा॒ष्ट्र-न्न न रा॒ष्ट्रग्ं रा॒ष्ट्र-न्न । 7) न कल्प॑ते॒ कल्प॑ते॒ न न कल्प॑ते । 8) कल्प॑ते स्वर॒थस्य॑ स्वर॒थस्य॒ कल्प॑ते॒ कल्प॑ते स्वर॒थस्य॑ । 9) स्व॒र॒थस्य॒ दक्षि॑ण॒-न्दक्षि॑णग्ग् स्वर॒थस्य॑ स्वर॒थस्य॒ दक्षि॑णम् । 9) स्व॒र॒थस्येति॑ स्व - र॒थस्य॑ । 10) दक्षि॑ण-ञ्च॒क्र-ञ्च॒क्र-न्दक्षि॑ण॒-न्दक्षि॑ण-ञ्च॒क्रम् । 11) च॒क्र-म्प्र॒वृह्य॑ प्र॒वृह्य॑ च॒क्र-ञ्च॒क्र-म्प्र॒वृह्य॑ । 12) प्र॒वृह्य॑ ना॒डी-न्ना॒डी-म्प्र॒वृह्य॑ प्र॒वृह्य॑ ना॒डीम् । 12) प्र॒वृह्येति॑ प्र - वृह्य॑ । 13) ना॒डी म॒भ्य॑भि ना॒डी-न्ना॒डी म॒भि । 14) अ॒भि जु॑हुयाज् जुहुया द॒भ्य॑भि जु॑हुयात् । 15) जु॒हु॒या॒ दाहु॑ती॒ राहु॑ती-र्जुहुयाज् जुहुया॒ दाहु॑तीः । 16) आहु॑ती रे॒वै वाहु॑ती॒ राहु॑ती रे॒व । 16) आहु॑ती॒रित्या - हु॒तीः॒ । 17) ए॒वास्या᳚ स्यै॒वैवास्य॑ । 18) अ॒स्य॒ क॒ल्प॒य॒ति॒ क॒ल्प॒य॒ त्य॒स्या॒स्य॒ क॒ल्प॒य॒ति॒ । 19) क॒ल्प॒य॒ति॒ ता स्ताः क॑ल्पयति कल्पयति॒ ताः । 20) ता अ॑स्या स्य॒ ता स्ता अ॑स्य । 21) अ॒स्य॒ कल्प॑मानाः॒ कल्प॑माना अस्यास्य॒ कल्प॑मानाः । 22) कल्प॑माना रा॒ष्ट्रग्ं रा॒ष्ट्र-ङ्कल्प॑मानाः॒ कल्प॑माना रा॒ष्ट्रम् । 23) रा॒ष्ट्र मन्वनु॑ रा॒ष्ट्रग्ं रा॒ष्ट्र मनु॑ । 24) अनु॑ कल्पते कल्पते॒ ऽन्वनु॑ कल्पते । 25) क॒ल्प॒ते॒ स॒ङ्ग्रा॒मे स॑ङ्ग्रा॒मे क॑ल्पते कल्पते सङ्ग्रा॒मे । 26) स॒ङ्ग्रा॒मे संयँ॑त्ते॒ संयँ॑त्ते सङ्ग्रा॒मे स॑ङ्ग्रा॒मे संयँ॑त्ते । 26) स॒ङ्ग्रा॒म इति॑ सं - ग्रा॒मे । 27) संयँ॑त्ते होत॒व्या॑ होत॒व्या᳚-स्संयँ॑त्ते॒ संयँ॑त्ते होत॒व्याः᳚ । 27) संयँ॑त्त॒ इति॒ सं - य॒त्ते॒ । 28) हो॒त॒व्या॑ रा॒ष्ट्रग्ं रा॒ष्ट्रग्ं हो॑त॒व्या॑ होत॒व्या॑ रा॒ष्ट्रम् । 29) रा॒ष्ट्रं-वैँ वै रा॒ष्ट्रग्ं रा॒ष्ट्रं-वैँ । 30) वै रा᳚ष्ट्र॒भृतो॑ राष्ट्र॒भृतो॒ वै वै रा᳚ष्ट्र॒भृतः॑ । 31) रा॒ष्ट्र॒भृतो॑ रा॒ष्ट्रे रा॒ष्ट्रे रा᳚ष्ट्र॒भृतो॑ राष्ट्र॒भृतो॑ रा॒ष्ट्रे । 31) रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ । 32) रा॒ष्ट्रे खलु॒ खलु॑ रा॒ष्ट्रे रा॒ष्ट्रे खलु॑ । 33) खलु॒ वै वै खलु॒ खलु॒ वै । 34) वा ए॒त ए॒ते वै वा ए॒ते । 35) ए॒ते व्याय॑च्छन्ते॒ व्याय॑च्छन्त ए॒त ए॒ते व्याय॑च्छन्ते । 36) व्याय॑च्छन्ते॒ ये ये व्याय॑च्छन्ते॒ व्याय॑च्छन्ते॒ ये । 36) व्याय॑च्छन्त॒ इति॑ वि - आय॑च्छन्ते । 37) ये स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒मं-येँ ये स॑ङ्ग्रा॒मम् । 38) स॒ङ्ग्रा॒मग्ं सं॒यँन्ति॑ सं॒यँन्ति॑ सङ्ग्रा॒मग्ं स॑ङ्ग्रा॒मग्ं सं॒यँन्ति॑ । 38) स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् । 39) सं॒यँन्ति॒ यस्य॒ यस्य॑ सं॒यँन्ति॑ सं॒यँन्ति॒ यस्य॑ । 39) सं॒यँन्तीति॑ सं - यन्ति॑ । 40) यस्य॒ पूर्व॑स्य॒ पूर्व॑स्य॒ यस्य॒ यस्य॒ पूर्व॑स्य । 41) पूर्व॑स्य॒ जुह्व॑ति॒ जुह्व॑ति॒ पूर्व॑स्य॒ पूर्व॑स्य॒ जुह्व॑ति । 42) जुह्व॑ति॒ स स जुह्व॑ति॒ जुह्व॑ति॒ सः । 43) स ए॒वैव स स ए॒व । 44) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 45) भ॒व॒ति॒ जय॑ति॒ जय॑ति भवति भवति॒ जय॑ति । 46) जय॑ति॒ त-न्त-ञ्जय॑ति॒ जय॑ति॒ तम् । 47) तग्ं स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म-न्त-न्तग्ं स॑ङ्ग्रा॒मम् । 48) स॒ङ्ग्रा॒म-म्मा᳚न्धु॒को मा᳚न्धु॒क-स्स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म-म्मा᳚न्धु॒कः । 48) स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् । 49) मा॒न्धु॒क इ॒द्ध्म इ॒द्ध्मो मा᳚न्धु॒को मा᳚न्धु॒क इ॒द्ध्मः । 50) इ॒द्ध्मो भ॑वति भवती॒ द्ध्म इ॒द्ध्मो भ॑वति । ॥ 24 ॥ (50/61)
1) भ॒व॒ त्यङ्गा॑रा॒ अङ्गा॑रा भवति भव॒ त्यङ्गा॑राः । 2) अङ्गा॑रा ए॒वैवाङ्गा॑रा॒ अङ्गा॑रा ए॒व । 3) ए॒व प्र॑ति॒वेष्ट॑मानाः प्रति॒वेष्ट॑माना ए॒वैव प्र॑ति॒वेष्ट॑मानाः । 4) प्र॒ति॒वेष्ट॑माना अ॒मित्रा॑णा म॒मित्रा॑णा-म्प्रति॒वेष्ट॑मानाः प्रति॒वेष्ट॑माना अ॒मित्रा॑णाम् । 4) प्र॒ति॒वेष्ट॑माना॒ इति॑ प्रति - वेष्ट॑मानाः । 5) अ॒मित्रा॑णा मस्यास्या॒ मित्रा॑णा म॒मित्रा॑णा मस्य । 6) अ॒स्य॒ सेना॒ग्ं॒ सेना॑ मस्यास्य॒ सेना᳚म् । 7) सेना॒-म्प्रति॒ प्रति॒ सेना॒ग्ं॒ सेना॒-म्प्रति॑ । 8) प्रति॑ वेष्टयन्ति वेष्टयन्ति॒ प्रति॒ प्रति॑ वेष्टयन्ति । 9) वे॒ष्ट॒य॒न्ति॒ यो यो वे᳚ष्टयन्ति वेष्टयन्ति॒ यः । 10) य उ॒न्माद्ये॑ दु॒न्माद्ये॒-द्यो य उ॒न्माद्ये᳚त् । 11) उ॒न्माद्ये॒-त्तस्मै॒ तस्मा॑ उ॒न्माद्ये॑ दु॒न्माद्ये॒-त्तस्मै᳚ । 11) उ॒न्माद्ये॒दित्यु॑त् - माद्ये᳚त् । 12) तस्मै॑ होत॒व्या॑ होत॒व्या᳚ स्तस्मै॒ तस्मै॑ होत॒व्याः᳚ । 13) हो॒त॒व्या॑ गन्धर्वाफ्स॒रसो॑ गन्धर्वाफ्स॒रसो॑ होत॒व्या॑ होत॒व्या॑ गन्धर्वाफ्स॒रसः॑ । 14) ग॒न्ध॒र्वा॒फ्स॒रसो॒ वै वै ग॑न्धर्वाफ्स॒रसो॑ गन्धर्वाफ्स॒रसो॒ वै । 14) ग॒न्ध॒र्वा॒फ्स॒रस॒ इति॑ गन्धर्व - अ॒फ्स॒रसः॑ । 15) वा ए॒त मे॒तं-वैँ वा ए॒तम् । 16) ए॒त मुदु दे॒त मे॒त मुत् । 17) उ-न्मा॑दयन्ति मादय॒ न्त्युदु-न्मा॑दयन्ति । 18) मा॒द॒य॒न्ति॒ यो यो मा॑दयन्ति मादयन्ति॒ यः । 19) य उ॒न्माद्य॑ त्यु॒न्माद्य॑ति॒ यो य उ॒न्माद्य॑ति । 20) उ॒न्माद्य॑ त्ये॒त ए॒त उ॒न्माद्य॑ त्यु॒न्माद्य॑ त्ये॒ते । 20) उ॒न्माद्य॒तीत्यु॑त् - माद्य॑ति । 21) ए॒ते खलु॒ खल्वे॒त ए॒ते खलु॑ । 22) खलु॒ वै वै खलु॒ खलु॒ वै । 23) वै ग॑न्धर्वाफ्स॒रसो॑ गन्धर्वाफ्स॒रसो॒ वै वै ग॑न्धर्वाफ्स॒रसः॑ । 24) ग॒न्ध॒र्वा॒ फ्स॒रसो॒ य-द्य-द्ग॑न्धर्वा फ्स॒रसो॑ गन्धर्वा फ्स॒रसो॒ यत् । 24) ग॒न्ध॒र्वा॒फ्स॒रस॒ इति॑ गन्धर्व - अ॒फ्स॒रसः॑ । 25) य-द्रा᳚ष्ट्र॒भृतो॑ राष्ट्र॒भृतो॒ य-द्य-द्रा᳚ष्ट्र॒भृतः॑ । 26) रा॒ष्ट्र॒भृत॒ स्तस्मै॒ तस्मै॑ राष्ट्र॒भृतो॑ राष्ट्र॒भृत॒ स्तस्मै᳚ । 26) रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ । 27) तस्मै॒ स्वाहा॒ स्वाहा॒ तस्मै॒ तस्मै॒ स्वाहा᳚ । 28) स्वाहा॒ ताभ्य॒ स्ताभ्य॒-स्स्वाहा॒ स्वाहा॒ ताभ्यः॑ । 29) ताभ्य॒-स्स्वाहा॒ स्वाहा॒ ताभ्य॒ स्ताभ्य॒-स्स्वाहा᳚ । 30) स्वाहे तीति॒ स्वाहा॒ स्वाहेति॑ । 31) इति॑ जुहोति जुहो॒ती तीति॑ जुहोति । 32) जु॒हो॒ति॒ तेन॒ तेन॑ जुहोति जुहोति॒ तेन॑ । 33) तेनै॒वैव तेन॒ तेनै॒व । 34) ए॒वैना॑-नेना-ने॒वैवैनान्॑ । 35) ए॒ना॒-ञ्छ॒म॒य॒ति॒ श॒म॒य॒ त्ये॒ना॒-ने॒ना॒-ञ्छ॒म॒य॒ति॒ । 36) श॒म॒य॒ति॒ नैय॑ग्रोधो॒ नैय॑ग्रोध-श्शमयति शमयति॒ नैय॑ग्रोधः । 37) नैय॑ग्रोध॒ औदु॑म्बर॒ औदु॑म्बरो॒ नैय॑ग्रोधो॒ नैय॑ग्रोध॒ औदु॑म्बरः । 38) औदु॑म्बर॒ आश्व॑त्थ॒ आश्व॑त्थ॒ औदु॑म्बर॒ औदु॑म्बर॒ आश्व॑त्थः । 39) आश्व॑त्थः॒ प्लाक्षः॒ प्लाक्ष॒ आश्व॑त्थ॒ आश्व॑त्थः॒ प्लाक्षः॑ । 40) प्लाक्ष॒ इतीति॒ प्लाक्षः॒ प्लाक्ष॒ इति॑ । 41) इती॒ द्ध्म इ॒द्ध्म इतीती॒ द्ध्मः । 42) इ॒द्ध्मो भ॑वति भवती॒ द्ध्म इ॒द्ध्मो भ॑वति । 43) भ॒व॒ त्ये॒त ए॒ते भ॑वति भव त्ये॒ते । 44) ए॒ते वै वा ए॒त ए॒ते वै । 45) वै ग॑न्धर्वाफ्स॒रसा᳚-ङ्गन्धर्वाफ्स॒रसां॒-वैँ वै ग॑न्धर्वाफ्स॒रसा᳚म् । 46) ग॒न्ध॒र्वा॒फ्स॒रसा᳚-ङ्गृ॒हा गृ॒हा ग॑न्धर्वाफ्स॒रसा᳚-ङ्गन्धर्वाफ्स॒रसा᳚-ङ्गृ॒हाः । 46) ग॒न्ध॒र्वा॒फ्स॒रसा॒मिति॑ गन्धर्व - अ॒फ्स॒रसा᳚म् । 47) गृ॒हा-स्स्वे स्वे गृ॒हा गृ॒हा-स्स्वे । 48) स्व ए॒वैव स्वे स्व ए॒व । 49) ए॒वैना॑-नेना-ने॒वैवैनान्॑ । 50) ए॒ना॒-ना॒यत॑न आ॒यत॑न एना-नेना-ना॒यत॑ने । ॥ 25 ॥ (50/57)
1) आ॒यत॑ने शमयति शमयत्या॒ यत॑न आ॒यत॑ने शमयति । 1) आ॒यत॑न॒ इत्या᳚ - यत॑ने । 2) श॒म॒य॒ त्य॒भि॒चर॑ता ऽभि॒चर॑ता शमयति शमय त्यभि॒चर॑ता । 3) अ॒भि॒चर॑ता प्रतिलो॒म-म्प्र॑तिलो॒म म॑भि॒चर॑ता ऽभि॒चर॑ता प्रतिलो॒मम् । 3) अ॒भि॒चर॒तेत्य॑भि - चर॑ता । 4) प्र॒ति॒लो॒मग्ं हो॑त॒व्या॑ होत॒व्याः᳚ प्रतिलो॒म-म्प्र॑तिलो॒मग्ं हो॑त॒व्याः᳚ । 4) प्र॒ति॒लो॒ममिति॑ प्रति - लो॒मम् । 5) हो॒त॒व्याः᳚ प्रा॒णा-न्प्रा॒णान्. हो॑त॒व्या॑ होत॒व्याः᳚ प्रा॒णान् । 6) प्रा॒णा-ने॒वैव प्रा॒णा-न्प्रा॒णा-ने॒व । 6) प्रा॒णानिति॑ प्र - अ॒नान् । 7) ए॒वा स्या᳚ स्यै॒वैवास्य॑ । 8) अ॒स्य॒ प्र॒तीचः॑ प्र॒तीचो᳚ ऽस्यास्य प्र॒तीचः॑ । 9) प्र॒तीचः॒ प्रति॒ प्रति॑ प्र॒तीचः॑ प्र॒तीचः॒ प्रति॑ । 10) प्रति॑ यौति यौति॒ प्रति॒ प्रति॑ यौति । 11) यौ॒ति॒ त-न्तं-यौँ॑ति यौति॒ तम् । 12) त-न्तत॒ स्तत॒ स्त-न्त-न्ततः॑ । 13) ततो॒ येन॒ येन॒ तत॒ स्ततो॒ येन॑ । 14) येन॒ केन॒ केन॒ येन॒ येन॒ केन॑ । 15) केन॑ च च॒ केन॒ केन॑ च । 16) च॒ स्तृ॒णु॒ते॒ स्तृ॒णु॒ते॒ च॒ च॒ स्तृ॒णु॒ते॒ । 17) स्तृ॒णु॒ते॒ स्वकृ॑ते॒ स्वकृ॑ते स्तृणुते स्तृणुते॒ स्वकृ॑ते । 18) स्वकृ॑त॒ इरि॑ण॒ इरि॑णे॒ स्वकृ॑ते॒ स्वकृ॑त॒ इरि॑णे । 18) स्वकृ॑त॒ इति॒ स्व - कृ॒ते॒ । 19) इरि॑णे जुहोति जुहो॒ती रि॑ण॒ इरि॑णे जुहोति । 20) जु॒हो॒ति॒ प्र॒द॒रे प्र॑द॒रे जु॑होति जुहोति प्रद॒रे । 21) प्र॒द॒रे वा॑ वा प्रद॒रे प्र॑द॒रे वा᳚ । 21) प्र॒द॒र इति॑ प्र - द॒रे । 22) वै॒त दे॒त-द्वा॑ वै॒तत् । 23) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 24) वा अ॒स्या अ॒स्यै वै वा अ॒स्यै । 25) अ॒स्यै निर्-ऋ॑तिगृहीत॒-न्निर्-ऋ॑तिगृहीत म॒स्या अ॒स्यै निर्-ऋ॑तिगृहीतम् । 26) निर्-ऋ॑तिगृहीत॒-न्निर्-ऋ॑तिगृहीते॒ निर्-ऋ॑तिगृहीते॒ निर्-ऋ॑तिगृहीत॒-न्निर्-ऋ॑तिगृहीत॒-न्निर्-ऋ॑तिगृहीते । 26) निर्-ऋ॑तिगृहीत॒मिति॒ निर्-ऋ॑ति - गृ॒ही॒त॒म् । 27) निर्-ऋ॑तिगृहीत ए॒वैव निर्-ऋ॑तिगृहीते॒ निर्-ऋ॑तिगृहीत ए॒व । 27) निर्-ऋ॑तिगृहीत॒ इति॒ निर्-ऋ॑ति - गृ॒ही॒ते॒ । 28) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 29) ए॒न॒-न्निर्-ऋ॑त्या॒ निर्-ऋ॑ त्यैन मेन॒-न्निर्-ऋ॑त्या । 30) निर्-ऋ॑त्या ग्राहयति ग्राहयति॒ निर्-ऋ॑त्या॒ निर्-ऋ॑त्या ग्राहयति । 30) निर्-ऋ॒त्येति॒ निः - ऋ॒त्या॒ । 31) ग्रा॒ह॒य॒ति॒ य-द्य-द्ग्रा॑हयति ग्राहयति॒ यत् । 32) य-द्वा॒चो वा॒चो य-द्य-द्वा॒चः । 33) वा॒चः क्रू॒र-ङ्क्रू॒रं-वाँ॒चो वा॒चः क्रू॒रम् । 34) क्रू॒र-न्तेन॒ तेन॑ क्रू॒र-ङ्क्रू॒र-न्तेन॑ । 35) तेन॒ वष॒-ड्वष॒-ट्तेन॒ तेन॒ वष॑ट् । 36) वष॑-ट्करोति करोति॒ वष॒-ड्वष॑-ट्करोति । 37) क॒रो॒ति॒ वा॒चो वा॒चः क॑रोति करोति वा॒चः । 38) वा॒च ए॒वैव वा॒चो वा॒च ए॒व । 39) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 40) ए॒न॒-ङ्क्रू॒रेण॑ क्रू॒रेणै॑न मेन-ङ्क्रू॒रेण॑ । 41) क्रू॒रेण॒ प्र प्र क्रू॒रेण॑ क्रू॒रेण॒ प्र । 42) प्र वृ॑श्चति वृश्चति॒ प्र प्र वृ॑श्चति । 43) वृ॒श्च॒ति॒ ता॒ज-क्ता॒जग् वृ॑श्चति वृश्चति ता॒जक् । 44) ता॒ज गार्ति॒ मार्ति॑-न्ता॒ज-क्ता॒ज गार्ति᳚म् । 45) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 46) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति । 47) ऋ॒च्छ॒ति॒ यस्य॒ यस्य॑ र्च्छ त्यृच्छति॒ यस्य॑ । 48) यस्य॑ का॒मये॑त का॒मये॑त॒ यस्य॒ यस्य॑ का॒मये॑त । 49) का॒मये॑ता॒ न्नाद्य॑ म॒न्नाद्य॑-ङ्का॒मये॑त का॒मये॑ता॒ न्नाद्य᳚म् । 50) अ॒न्नाद्य॒ मा ऽन्नाद्य॑ म॒न्नाद्य॒ मा । 50) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । ॥ 26 ॥ (50/60)
1) आ द॑दीय ददी॒या द॑दीय । 2) द॒दी॒येतीति॑ ददीय ददी॒येति॑ । 3) इति॒ तस्य॒ तस्ये तीति॒ तस्य॑ । 4) तस्य॑ स॒भायाग्ं॑ स॒भाया॒-न्तस्य॒ तस्य॑ स॒भाया᳚म् । 5) स॒भाया॑ मुत्ता॒न उ॑त्ता॒न-स्स॒भायाग्ं॑ स॒भाया॑ मुत्ता॒नः । 6) उ॒त्ता॒नो नि॒पद्य॑ नि॒पद्यो᳚ त्ता॒न उ॑त्ता॒नो नि॒पद्य॑ । 6) उ॒त्ता॒न इत्यु॑त् - ता॒नः । 7) नि॒पद्य॒ भुव॑नस्य॒ भुव॑नस्य नि॒पद्य॑ नि॒पद्य॒ भुव॑नस्य । 7) नि॒पद्येति॑ नि - पद्य॑ । 8) भुव॑नस्य पते पते॒ भुव॑नस्य॒ भुव॑नस्य पते । 9) प॒त॒ इतीति॑ पते पत॒ इति॑ । 10) इति॒ तृणा॑नि॒ तृणा॒नी तीति॒ तृणा॑नि । 11) तृणा॑नि॒ सग्ं स-न्तृणा॑नि॒ तृणा॑नि॒ सम् । 12) स-ङ्गृ॑ह्णीया-द्गृह्णीया॒-थ्सग्ं स-ङ्गृ॑ह्णीयात् । 13) गृ॒ह्णी॒या॒-त्प्र॒जाप॑तिः प्र॒जाप॑ति-र्गृह्णीया-द्गृह्णीया-त्प्र॒जाप॑तिः । 14) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै । 14) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 15) वै भुव॑नस्य॒ भुव॑नस्य॒ वै वै भुव॑नस्य । 16) भुव॑नस्य॒ पति॒ष् पति॒-र्भुव॑नस्य॒ भुव॑नस्य॒ पतिः॑ । 17) पतिः॑ प्र॒जाप॑तिना प्र॒जाप॑तिना॒ पति॒ष् पतिः॑ प्र॒जाप॑तिना । 18) प्र॒जाप॑तिनै॒वैव प्र॒जाप॑तिना प्र॒जाप॑तिनै॒व । 18) प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । 19) ए॒वा स्या᳚ स्यै॒वैवास्य॑ । 20) अ॒स्या॒न्नाद्य॑ म॒न्नाद्य॑ मस्या स्या॒-न्नाद्य᳚म् । 21) अ॒न्नाद्य॒ मा ऽन्नाद्य॑ म॒न्नाद्य॒ मा । 21) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 22) आ द॑त्ते दत्त॒ आ द॑त्ते । 23) द॒त्त॒ इ॒द मि॒द-न्द॑त्ते दत्त इ॒दम् । 24) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् । 25) अ॒ह म॒मुष्या॒ मुष्या॒ह म॒ह म॒मुष्य॑ । 26) अ॒मुष्या॑ मुष्याय॒णस्या॑ मुष्याय॒णस्या॒ मुष्या॒ मुष्या॑ मुष्याय॒णस्य॑ । 27) आ॒मु॒ष्या॒य॒णस्या॒ न्नाद्य॑ म॒न्नाद्य॑ मामुष्याय॒णस्या॑ मुष्याय॒णस्या॒-न्नाद्य᳚म् । 28) अ॒न्नाद्यग्ं॑ हरामि हरा म्य॒-न्नाद्य॑ म॒न्नाद्यग्ं॑ हरामि । 28) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 29) ह॒रा॒मीतीति॑ हरामि हरा॒मीति॑ । 30) इत्या॑ हा॒हे तीत्या॑ह । 31) आ॒हा॒ न्नाद्य॑ म॒न्नाद्य॑ माहाहा॒ न्नाद्य᳚म् । 32) अ॒न्नाद्य॑ मे॒वै वान्नाद्य॑ म॒न्नाद्य॑ मे॒व । 32) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 33) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 34) अ॒स्य॒ ह॒र॒ति॒ ह॒र॒ त्य॒स्या॒स्य॒ ह॒र॒ति॒ । 35) ह॒र॒ति॒ ष॒ड्भि ष्ष॒ड्भिर्-ह॑रति हरति ष॒ड्भिः । 36) ष॒ड्भिर्-ह॑रति हरति ष॒ड्भि ष्ष॒ड्भिर्-ह॑रति । 36) ष॒ड्भिरिति॑ षट् - भिः । 37) ह॒र॒ति॒ षट्-थ्षड्ढ॑रति हरति॒ षट् । 38) ष-ड्वै वै षट्-थ्ष-ड्वै । 39) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 40) ऋ॒तवः॑ प्र॒जाप॑तिना प्र॒जाप॑तिन॒ र्तव॑ ऋ॒तवः॑ प्र॒जाप॑तिना । 41) प्र॒जाप॑तिनै॒वैव प्र॒जाप॑तिना प्र॒जाप॑तिनै॒व । 41) प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । 42) ए॒वा स्या᳚ स्यै॒वै वास्य॑ । 43) अ॒स्या॒ न्नाद्य॑ म॒न्नाद्य॑ मस्या स्या॒ न्नाद्य᳚म् । 44) अ॒न्नाद्य॑ मा॒दाया॒ दाया॒ न्नाद्य॑ म॒न्नाद्य॑ मा॒दाय॑ । 44) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 45) आ॒दाय॒ र्तव॑ ऋ॒तव॑ आ॒दाया॒ दाय॒ र्तवः॑ । 45) आ॒दायेत्या᳚ - दाय॑ । 46) ऋ॒तवो᳚ ऽस्मा अस्मा ऋ॒तव॑ ऋ॒तवो᳚ ऽस्मै । 47) अ॒स्मा॒ अन्वन्व॑स्मा अस्मा॒ अनु॑ । 48) अनु॒ प्र प्राण्वनु॒ प्र । 49) प्र य॑च्छन्ति यच्छन्ति॒ प्र प्र य॑च्छन्ति । 50) य॒च्छ॒न्ति॒ यो यो य॑च्छन्ति यच्छन्ति॒ यः । ॥ 27 ॥ (50/61)
1) यो ज्ये॒ष्ठब॑न्धु-र्ज्ये॒ष्ठब॑न्धु॒-र्यो यो ज्ये॒ष्ठब॑न्धुः । 2) ज्ये॒ष्ठब॑न्धु॒ रप॑भू॒तो ऽप॑भूतो ज्ये॒ष्ठब॑न्धु-र्ज्ये॒ष्ठब॑न्धु॒ रप॑भूतः । 2) ज्ये॒ष्ठब॑न्धु॒रिति॑ ज्ये॒ष्ठ - ब॒न्धुः॒ । 3) अप॑भूत॒-स्स्या-थ्स्या दप॑भू॒तो ऽप॑भूत॒-स्स्यात् । 3) अप॑भूत॒ इत्यप॑ - भू॒तः॒ । 4) स्या-त्त-न्तग्ग् स्या-थ्स्या-त्तम् । 5) तग्ग् स्थले॒ स्थले॒ त-न्तग्ग् स्थले᳚ । 6) स्थले॑ ऽव॒साय्या॑ व॒साय्य॒ स्थले॒ स्थले॑ ऽव॒साय्य॑ । 7) अ॒व॒साय्य॑ ब्रह्मौद॒न-म्ब्र॑ह्मौद॒न म॑व॒साय्या॑ व॒साय्य॑ ब्रह्मौद॒नम् । 7) अ॒व॒साय्येत्य॑व - साय्य॑ । 8) ब्र॒ह्मौ॒द॒न-ञ्चतु॑श्शराव॒-ञ्चतु॑श्शराव-म्ब्रह्मौद॒न-म्ब्र॑ह्मौद॒न-ञ्चतु॑श्शरावम् । 8) ब्र॒ह्मौ॒द॒नमिति॑ ब्रह्म - ओ॒द॒नम् । 9) चतु॑श्शराव-म्प॒क्त्वा प॒क्त्वा चतु॑श्शराव॒-ञ्चतु॑श्शराव-म्प॒क्त्वा । 9) चतु॑श्शराव॒मिति॒ चतुः॑ - श॒रा॒व॒म् । 10) प॒क्त्वा तस्मै॒ तस्मै॑ प॒क्त्वा प॒क्त्वा तस्मै᳚ । 11) तस्मै॑ होत॒व्या॑ होत॒व्या᳚ स्तस्मै॒ तस्मै॑ होत॒व्याः᳚ । 12) हो॒त॒व्या॑ वर्ष्म॒ वर्ष्म॑ होत॒व्या॑ होत॒व्या॑ वर्ष्म॑ । 13) वर्ष्म॒ वै वै वर्ष्म॒ वर्ष्म॒ वै । 14) वै रा᳚ष्ट्र॒भृतो॑ राष्ट्र॒भृतो॒ वै वै रा᳚ष्ट्र॒भृतः॑ । 15) रा॒ष्ट्र॒भृतो॒ वर्ष्म॒ वर्ष्म॑ राष्ट्र॒भृतो॑ राष्ट्र॒भृतो॒ वर्ष्म॑ । 15) रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ । 16) वर्ष्म॒ स्थल॒ग्ग्॒ स्थलं॒-वँर्ष्म॒ वर्ष्म॒ स्थल᳚म् । 17) स्थलं॒-वँर्ष्म॑णा॒ वर्ष्म॑णा॒ स्थल॒ग्ग्॒ स्थलं॒-वँर्ष्म॑णा । 18) वर्ष्म॑णै॒वैव वर्ष्म॑णा॒ वर्ष्म॑णै॒व । 19) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 20) ए॒नं॒-वँर्ष्म॒ वर्ष्मै॑न मेनं॒-वँर्ष्म॑ । 21) वर्ष्म॑ समा॒नानाग्ं॑ समा॒नानां॒-वँर्ष्म॒ वर्ष्म॑ समा॒नाना᳚म् । 22) स॒मा॒नाना᳚-ङ्गमयति गमयति समा॒नानाग्ं॑ समा॒नाना᳚-ङ्गमयति । 23) ग॒म॒य॒ति॒ चतु॑श्शराव॒ श्चतु॑श्शरावो गमयति गमयति॒ चतु॑श्शरावः । 24) चतु॑श्शरावो भवति भवति॒ चतु॑श्शराव॒ श्चतु॑श्शरावो भवति । 24) चतु॑श्शराव॒ इति॒ चतुः॑ - श॒रा॒वः॒ । 25) भ॒व॒ति॒ दि॒क्षु दि॒क्षु भ॑वति भवति दि॒क्षु । 26) दि॒क्ष्वे॑वैव दि॒क्षु दि॒क्ष्वे॑व । 27) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ । 28) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 29) ति॒ष्ठ॒ति॒ क्षी॒रे क्षी॒रे ति॑ष्ठति तिष्ठति क्षी॒रे । 30) क्षी॒रे भ॑वति भवति क्षी॒रे क्षी॒रे भ॑वति । 31) भ॒व॒ति॒ रुच॒ग्ं॒ रुच॑-म्भवति भवति॒ रुच᳚म् । 32) रुच॑ मे॒वैव रुच॒ग्ं॒ रुच॑ मे॒व । 33) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ । 34) अ॒स्मि॒-न्द॒धा॒ति॒ द॒धा॒त्य॒ स्मि॒-न्न॒स्मि॒-न्द॒धा॒ति॒ । 35) द॒धा॒ त्युदु-द्द॑धाति दधा॒त्युत् । 36) उद्ध॑रति हर॒ त्युदु द्ध॑रति । 37) ह॒र॒ति॒ शृ॒त॒त्वाय॑ शृत॒त्वाय॑ हरति हरति शृत॒त्वाय॑ । 38) शृ॒त॒त्वाय॑ स॒र्पिष्वा᳚-न्थ्स॒र्पिष्वा᳚-ञ्छृत॒त्वाय॑ शृत॒त्वाय॑ स॒र्पिष्वान्॑ । 38) शृ॒त॒त्वायेति॑ शृत - त्वाय॑ । 39) स॒र्पिष्वा᳚-न्भवति भवति स॒र्पिष्वा᳚-न्थ्स॒र्पिष्वा᳚-न्भवति । 40) भ॒व॒ति॒ मे॒द्ध्य॒त्वाय॑ मेद्ध्य॒त्वाय॑ भवति भवति मेद्ध्य॒त्वाय॑ । 41) मे॒द्ध्य॒त्वाय॑ च॒त्वार॑श्च॒त्वारो॑ मेद्ध्य॒त्वाय॑ मेद्ध्य॒त्वाय॑ च॒त्वारः॑ । 41) मे॒द्ध्य॒त्वायेति॑ मेद्ध्य - त्वाय॑ । 42) च॒त्वार॑ आर्षे॒या आ॑र्षे॒या श्च॒त्वार॑ श्च॒त्वार॑ आर्षे॒याः । 43) आ॒र्॒षे॒याः प्र प्रार्षे॒या आ॑र्षे॒याः प्र । 44) प्राश्ञ॑ न्त्यश्ञन्ति॒ प्र प्राश्ञ॑न्ति । 45) अ॒श्ञ॒न्ति॒ दि॒शा-न्दि॒शा म॑श्ञ न्त्यश्ञन्ति दि॒शाम् । 46) दि॒शा मे॒वैव दि॒शा-न्दि॒शा मे॒व । 47) ए॒व ज्योति॑षि॒ ज्योति॑ष्ये॒वैव ज्योति॑षि । 48) ज्योति॑षि जुहोति जुहोति॒ ज्योति॑षि॒ ज्योति॑षि जुहोति । 49) जु॒हो॒तीति॑ जुहोति । ॥ 28 ॥ (49/58) ॥ अ. 8 ॥
1) देवि॑का॒ नि-र्णि-र्देवि॑का॒ देवि॑का॒ निः । 2) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् । 3) व॒पे॒-त्प्र॒जाका॑मः प्र॒जाका॑मो वपे-द्वपे-त्प्र॒जाका॑मः । 4) प्र॒जाका॑म॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि प्र॒जाका॑मः प्र॒जाका॑म॒ श्छन्दाग्ं॑सि । 4) प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ । 5) छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै । 6) वै देवि॑का॒ देवि॑का॒ वै वै देवि॑काः । 7) देवि॑का॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ देवि॑का॒ देवि॑का॒ श्छन्दाग्ं॑सि । 8) छन्दाग्ं॑सीवेव॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सीव । 9) इ॒व॒ खलु॒ खल्वि॑वेव॒ खलु॑ । 10) खलु॒ वै वै खलु॒ खलु॒ वै । 11) वै प्र॒जाः प्र॒जा वै वै प्र॒जाः । 12) प्र॒जा श्छन्दो॑भि॒ श्छन्दो॑भिः प्र॒जाः प्र॒जा श्छन्दो॑भिः । 12) प्र॒जा इति॑ प्र - जाः । 13) छन्दो॑भि रे॒वैव छन्दो॑भि॒ श्छन्दो॑भि रे॒व । 13) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 14) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 15) अ॒स्मै॒ प्र॒जाः प्र॒जा अ॑स्मा अस्मै प्र॒जाः । 16) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र । 16) प्र॒जा इति॑ प्र - जाः । 17) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति । 18) ज॒न॒य॒ति॒ प्र॒थ॒म-म्प्र॑थ॒म-ञ्ज॑नयति जनयति प्रथ॒मम् । 19) प्र॒थ॒म-न्धा॒तार॑-न्धा॒तार॑-म्प्रथ॒म-म्प्र॑थ॒म-न्धा॒तार᳚म् । 20) धा॒तार॑-ङ्करोति करोति धा॒तार॑-न्धा॒तार॑-ङ्करोति । 21) क॒रो॒ति॒ मि॒थु॒नी मि॑थु॒नी क॑रोति करोति मिथु॒नी । 22) मि॒थु॒नी ए॒वैव मि॑थु॒नी मि॑थु॒नी ए॒व । 23) ए॒व तेन॒ तेनै॒वैव तेन॑ । 24) तेन॑ करोति करोति॒ तेन॒ तेन॑ करोति । 25) क॒रो॒ त्यन्वनु॑ करोति करो॒ त्यनु॑ । 26) अन्वे॒ वैवान् वन्वे॒व । 27) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 28) अ॒स्मा॒ अनु॑मति॒ रनु॑मति रस्मा अस्मा॒ अनु॑मतिः । 29) अनु॑मति-र्मन्यते मन्य॒ते ऽनु॑मति॒ रनु॑मति-र्मन्यते । 29) अनु॑मति॒रित्य॑नु - म॒तिः॒ । 30) म॒न्य॒ते॒ रा॒ते रा॒ते म॑न्यते मन्यते रा॒ते । 31) रा॒ते रा॒का रा॒का रा॒ते रा॒ते रा॒का । 32) रा॒का प्र प्र रा॒का रा॒का प्र । 33) प्र सि॑नीवा॒ली सि॑नीवा॒ली प्र प्र सि॑नीवा॒ली । 34) सि॒नी॒वा॒ली ज॑नयति जनयति सिनीवा॒ली सि॑नीवा॒ली ज॑नयति । 35) ज॒न॒य॒ति॒ प्र॒जासु॑ प्र॒जासु॑ जनयति जनयति प्र॒जासु॑ । 36) प्र॒जास्वे॒वैव प्र॒जासु॑ प्र॒जा स्वे॒व । 36) प्र॒जास्विति॑ प्र - जासु॑ । 37) ए॒व प्रजा॑तासु॒ प्रजा॑तास्वे॒वैव प्रजा॑तासु । 38) प्रजा॑तासु कु॒ह्वा॑ कु॒ह्वा᳚ प्रजा॑तासु॒ प्रजा॑तासु कु॒ह्वा᳚ । 38) प्रजा॑ता॒स्विति॒ प्र - जा॒ता॒सु॒ । 39) कु॒ह्वा॑ वाचं॒-वाँच॑-ङ्कु॒ह्वा॑ कु॒ह्वा॑ वाच᳚म् । 40) वाच॑-न्दधाति दधाति॒ वाचं॒-वाँच॑-न्दधाति । 41) द॒धा॒ त्ये॒ता ए॒ता द॑धाति दधात्ये॒ताः । 42) ए॒ता ए॒वैवैता ए॒ता ए॒व । 43) ए॒व नि-र्णि रे॒वैव निः । 44) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् । 45) व॒पे॒-त्प॒शुका॑मः प॒शुका॑मो वपे-द्वपे-त्प॒शुका॑मः । 46) प॒शुका॑म॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि प॒शुका॑मः प॒शुका॑म॒ श्छन्दाग्ं॑सि । 46) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । 47) छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै । 48) वै देवि॑का॒ देवि॑का॒ वै वै देवि॑काः । 49) देवि॑का॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ देवि॑का॒ देवि॑का॒ श्छन्दाग्ं॑सि । 50) छन्दाग्ं॑सीवेव॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सीव । ॥ 29 ॥ (50/58)
1) इ॒व॒ खलु॒ खल्वि॑वे व॒ खलु॑ । 2) खलु॒ वै वै खलु॒ खलु॒ वै । 3) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ । 4) प॒शव॒ श्छन्दो॑भि॒ श्छन्दो॑भिः प॒शवः॑ प॒शव॒ श्छन्दो॑भिः । 5) छन्दो॑भि रे॒वैव छन्दो॑भि॒ श्छन्दो॑भि रे॒व । 5) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 6) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 7) अ॒स्मै॒ प॒शू-न्प॒शू-न॑स्मा अस्मै प॒शून् । 8) प॒शू-न्प्र प्र प॒शू-न्प॒शू-न्प्र । 9) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति । 10) ज॒न॒य॒ति॒ प्र॒थ॒म-म्प्र॑थ॒म-ञ्ज॑नयति जनयति प्रथ॒मम् । 11) प्र॒थ॒म-न्धा॒तार॑-न्धा॒तार॑-म्प्रथ॒म-म्प्र॑थ॒म-न्धा॒तार᳚म् । 12) धा॒तार॑-ङ्करोति करोति धा॒तार॑-न्धा॒तार॑-ङ्करोति । 13) क॒रो॒ति॒ प्र प्र क॑रोति करोति॒ प्र । 14) प्रैवैव प्र प्रैव । 15) ए॒व तेन॒ तेनै॒वैव तेन॑ । 16) तेन॑ वापयति वापयति॒ तेन॒ तेन॑ वापयति । 17) वा॒प॒य॒ त्यन्वनु॑ वापयति वापय॒ त्यनु॑ । 18) अन्वे॒ वैवा,न्वन्,वे॒व । 19) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 20) अ॒स्मा॒ अनु॑मति॒ रनु॑मति रस्मा अस्मा॒ अनु॑मतिः । 21) अनु॑मति-र्मन्यते मन्य॒ते ऽनु॑मति॒ रनु॑मति-र्मन्यते । 21) अनु॑मति॒रित्य॑नु - म॒तिः॒ । 22) म॒न्य॒ते॒ रा॒ते रा॒ते म॑न्यते मन्यते रा॒ते । 23) रा॒ते रा॒का रा॒का रा॒ते रा॒ते रा॒का । 24) रा॒का प्र प्र रा॒का रा॒का प्र । 25) प्र सि॑नीवा॒ली सि॑नीवा॒ली प्र प्र सि॑नीवा॒ली । 26) सि॒नी॒वा॒ली ज॑नयति जनयति सिनीवा॒ली सि॑नीवा॒ली ज॑नयति । 27) ज॒न॒य॒ति॒ प॒शू-न्प॒शून् ज॑नयति जनयति प॒शून् । 28) प॒शू-ने॒वैव प॒शू-न्प॒शू,ने॒व । 29) ए॒व प्रजा॑ता॒-न्प्रजा॑ता-ने॒वैव प्रजा॑तान् । 30) प्रजा॑तान् कु॒ह्वा॑ कु॒ह्वा᳚ प्रजा॑ता॒-न्प्रजा॑तान् कु॒ह्वा᳚ । 30) प्रजा॑ता॒निति॒ प्र - जा॒ता॒न् । 31) कु॒ह्वा᳚ प्रति॒ प्रति॑ कु॒ह्वा॑ कु॒ह्वा᳚ प्रति॑ । 32) प्रति॑ ष्ठापयति स्थापयति॒ प्रति॒ प्रति॑ ष्ठापयति । 33) स्था॒प॒य॒ त्ये॒ता ए॒ता-स्स्था॑पयति स्थापय त्ये॒ताः । 34) ए॒ता ए॒वैवैता ए॒ता ए॒व । 35) ए॒व नि-र्णि रे॒वैव निः । 36) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् । 37) व॒पे॒-द्ग्राम॑कामो॒ ग्राम॑कामो वपे-द्वपे॒-द्ग्राम॑कामः । 38) ग्राम॑काम॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ ग्राम॑कामो॒ ग्राम॑काम॒ श्छन्दाग्ं॑सि । 38) ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ । 39) छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै । 40) वै देवि॑का॒ देवि॑का॒ वै वै देवि॑काः । 41) देवि॑का॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ देवि॑का॒ देवि॑का॒ श्छन्दाग्ं॑सि । 42) छन्दाग्ं॑सीवेव॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सीव । 43) इ॒व॒ खलु॒ खल्वि॑वे व॒ खलु॑ । 44) खलु॒ वै वै खलु॒ खलु॒ वै । 45) वै ग्रामो॒ ग्रामो॒ वै वै ग्रामः॑ । 46) ग्राम॒ श्छन्दो॑भि॒ श्छन्दो॑भि॒-र्ग्रामो॒ ग्राम॒ श्छन्दो॑भिः । 47) छन्दो॑भि रे॒वैव छन्दो॑भि॒ श्छन्दो॑भि रे॒व । 47) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 48) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 49) अ॒स्मै॒ ग्राम॒-ङ्ग्राम॑ मस्मा अस्मै॒ ग्राम᳚म् । 50) ग्राम॒ मवाव॒ ग्राम॒-ङ्ग्राम॒ मव॑ । ॥ 30 ॥ (50/55)
1) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 2) रु॒न्धे॒ म॒द्ध्य॒तो म॑द्ध्य॒तो रु॑न्धे रुन्धे मद्ध्य॒तः । 3) म॒द्ध्य॒तो धा॒तार॑-न्धा॒तार॑-म्मद्ध्य॒तो म॑द्ध्य॒तो धा॒तार᳚म् । 4) धा॒तार॑-ङ्करोति करोति धा॒तार॑-न्धा॒तार॑-ङ्करोति । 5) क॒रो॒ति॒ म॒द्ध्य॒तो म॑द्ध्य॒तः क॑रोति करोति मद्ध्य॒तः । 6) म॒द्ध्य॒त ए॒वैव म॑द्ध्य॒तो म॑द्ध्य॒त ए॒व । 7) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 8) ए॒न॒-ङ्ग्राम॑स्य॒ ग्राम॑स्यैन मेन॒-ङ्ग्राम॑स्य । 9) ग्राम॑स्य दधाति दधाति॒ ग्राम॑स्य॒ ग्राम॑स्य दधाति । 10) द॒धा॒ त्ये॒ता ए॒ता द॑धाति दधा त्ये॒ताः । 11) ए॒ता ए॒वैवैता ए॒ता ए॒व । 12) ए॒व नि-र्णि रे॒वैव निः । 13) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् । 14) व॒पे॒ज् ज्योगा॑मयावी॒ ज्योगा॑मयावी वपे-द्वपे॒ज् ज्योगा॑मयावी । 15) ज्योगा॑मयावी॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ ज्योगा॑मयावी॒ ज्योगा॑मयावी॒ छन्दाग्ं॑सि । 15) ज्योगा॑मया॒वीति॒ ज्योक् - आ॒म॒या॒वी॒ । 16) छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै । 17) वै देवि॑का॒ देवि॑का॒ वै वै देवि॑काः । 18) देवि॑का॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ देवि॑का॒ देवि॑का॒ श्छन्दाग्ं॑सि । 19) छन्दाग्ं॑सि॒ खलु॒ खलु॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ खलु॑ । 20) खलु॒ वै वै खलु॒ खलु॒ वै । 21) वा ए॒त मे॒तं-वैँ वा ए॒तम् । 22) ए॒त म॒भ्या᳚(1॒)भ्ये॑त मे॒त म॒भि । 23) अ॒भि म॑न्यन्ते मन्यन्ते॒ ऽभ्य॑भि म॑न्यन्ते । 24) म॒न्य॒न्ते॒ यस्य॒ यस्य॑ मन्यन्ते मन्यन्ते॒ यस्य॑ । 25) यस्य॒ ज्योग् ज्योग् यस्य॒ यस्य॒ ज्योक् । 26) ज्यो गा॒मय॑ त्या॒मय॑ति॒ ज्योग् ज्यो गा॒मय॑ति । 27) आ॒मय॑ति॒ छन्दो॑भि॒ श्छन्दो॑भि रा॒मय॑ त्या॒मय॑ति॒ छन्दो॑भिः । 28) छन्दो॑भि रे॒वैव छन्दो॑भि॒ श्छन्दो॑भि रे॒व । 28) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 29) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 30) ए॒न॒ म॒ग॒द म॑ग॒द मे॑न मेन मग॒दम् । 31) अ॒ग॒द-ङ्क॑रोति करो त्यग॒द म॑ग॒द-ङ्क॑रोति । 32) क॒रो॒ति॒ म॒द्ध्य॒तो म॑द्ध्य॒तः क॑रोति करोति मद्ध्य॒तः । 33) म॒द्ध्य॒तो धा॒तार॑-न्धा॒तार॑-म्मद्ध्य॒तो म॑द्ध्य॒तो धा॒तार᳚म् । 34) धा॒तार॑-ङ्करोति करोति धा॒तार॑-न्धा॒तार॑-ङ्करोति । 35) क॒रो॒ति॒ म॒द्ध्य॒तो म॑द्ध्य॒तः क॑रोति करोति मद्ध्य॒तः । 36) म॒द्ध्य॒तो वै वै म॑द्ध्य॒तो म॑द्ध्य॒तो वै । 37) वा ए॒तस्यै॒ तस्य॒ वै वा ए॒तस्य॑ । 38) ए॒तस्या क्लृ॑प्त॒ मक्लृ॑प्त मे॒त स्यै॒तस्या क्लृ॑प्तम् । 39) अक्लृ॑प्तं॒-यँस्य॒ यस्या क्लृ॑प्त॒ मक्लृ॑प्तं॒-यँस्य॑ । 40) यस्य॒ ज्योग् ज्योग् यस्य॒ यस्य॒ ज्योक् । 41) ज्यो गा॒मय॑ त्या॒मय॑ति॒ ज्योग् ज्यो गा॒मय॑ति । 42) आ॒मय॑ति मद्ध्य॒तो म॑द्ध्य॒त आ॒मय॑ त्या॒मय॑ति मद्ध्य॒तः । 43) म॒द्ध्य॒त ए॒वैव म॑द्ध्य॒तो म॑द्ध्य॒त ए॒व । 44) ए॒वा स्या᳚ स्यै॒वै वास्य॑ । 45) अ॒स्य॒ तेन॒ तेना᳚ स्यास्य॒ तेन॑ । 46) तेन॑ कल्पयति कल्पयति॒ तेन॒ तेन॑ कल्पयति । 47) क॒ल्प॒य॒ त्ये॒ता ए॒ताः क॑ल्पयति कल्पय त्ये॒ताः । 48) ए॒ता ए॒वैवैता ए॒ता ए॒व । 49) ए॒व नि-र्णि रे॒वैव निः । 50) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् । ॥ 31 ॥ (50/52)
1) व॒पे॒-द्यं-यंँ व॑पे-द्वपे॒-द्यम् । 2) यं-यँ॒ज्ञो य॒ज्ञो यं-यंँ य॒ज्ञः । 3) य॒ज्ञो न न य॒ज्ञो य॒ज्ञो न । 4) नो प॒नमे॑ दुप॒नमे॒-न्न नो प॒नमे᳚त् । 5) उ॒प॒नमे॒च् छन्दाग्ं॑सि॒ छन्दाग्॑स्यु प॒नमे॑ दुप॒नमे॒च् छन्दाग्ं॑सि । 5) उ॒प॒नमे॒दित्यु॑प - नमे᳚त् । 6) छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै । 7) वै देवि॑का॒ देवि॑का॒ वै वै देवि॑काः । 8) देवि॑का॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ देवि॑का॒ देवि॑का॒ श्छन्दाग्ं॑सि । 9) छन्दाग्ं॑सि॒ खलु॒ खलु॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ खलु॑ । 10) खलु॒ वै वै खलु॒ खलु॒ वै । 11) वा ए॒त मे॒तं-वैँ वा ए॒तम् । 12) ए॒त-न्न नैत मे॒त-न्न । 13) नो पोप॒ न नोप॑ । 14) उप॑ नमन्ति नम॒ न्त्युपोप॑ नमन्ति । 15) न॒म॒न्ति॒ यं-यँ-न्न॑मन्ति नमन्ति॒ यम् । 16) यं-यँ॒ज्ञो य॒ज्ञो यं-यंँ य॒ज्ञः । 17) य॒ज्ञो न न य॒ज्ञो य॒ज्ञो न । 18) नो प॒नम॑ त्युप॒नम॑ति॒ न नो प॒नम॑ति । 19) उ॒प॒नम॑ति प्रथ॒म-म्प्र॑थ॒म मु॑प॒नम॑ त्युप॒नम॑ति प्रथ॒मम् । 19) उ॒प॒नम॒तीत्यु॑प - नम॑ति । 20) प्र॒थ॒म-न्धा॒तार॑-न्धा॒तार॑-म्प्रथ॒म-म्प्र॑थ॒म-न्धा॒तार᳚म् । 21) धा॒तार॑-ङ्करोति करोति धा॒तार॑-न्धा॒तार॑-ङ्करोति । 22) क॒रो॒ति॒ मु॒ख॒तो मु॑ख॒तः क॑रोति करोति मुख॒तः । 23) मु॒ख॒त ए॒वैव मु॑ख॒तो मु॑ख॒त ए॒व । 24) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 25) अ॒स्मै॒ छन्दाग्ं॑सि॒ छन्दाग्॑स्यस्मा अस्मै॒ छन्दाग्ं॑सि । 26) छन्दाग्ं॑सि दधाति दधाति॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि दधाति । 27) द॒धा॒ त्युपोप॑ दधाति दधा॒ त्युप॑ । 28) उपै॑न मेन॒ मुपो पै॑नम् । 29) ए॒नं॒-यँ॒ज्ञो य॒ज्ञ ए॑न मेनं-यँ॒ज्ञः । 30) य॒ज्ञो न॑मति नमति य॒ज्ञो य॒ज्ञो न॑मति । 31) न॒म॒ त्ये॒ता ए॒ता न॑मति नम त्ये॒ताः । 32) ए॒ता ए॒वै वैता ए॒ता ए॒व । 33) ए॒व नि-र्णि रे॒वैव निः । 34) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् । 35) व॒पे॒ दी॒जा॒न ई॑जा॒नो व॑पे-द्वपे दीजा॒नः । 36) ई॒जा॒न श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सी जा॒न ई॑जा॒न श्छन्दाग्ं॑सि । 37) छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै । 38) वै देवि॑का॒ देवि॑का॒ वै वै देवि॑काः । 39) देवि॑का या॒तया॑मानि या॒तया॑मानि॒ देवि॑का॒ देवि॑का या॒तया॑मानि । 40) या॒तया॑मा नीवेव या॒तया॑मानि या॒तया॑मा नीव । 40) या॒तया॑मा॒नीति॑ या॒त - या॒मा॒नि॒ । 41) इ॒व॒ खलु॒ खल्वि॑वेव॒ खलु॑ । 42) खलु॒ वै वै खलु॒ खलु॒ वै । 43) वा ए॒तस्यै॒तस्य॒ वै वा ए॒तस्य॑ । 44) ए॒तस्य॒ छन्दाग्ं॑सि॒ छन्दाग्॑ स्ये॒त स्यै॒तस्य॒ छन्दाग्ं॑सि । 45) छन्दाग्ं॑सि॒ यो य श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ यः । 46) य ई॑जा॒न ई॑जा॒नो यो य ई॑जा॒नः । 47) ई॒जा॒न उ॑त्त॒म मु॑त्त॒म मी॑जा॒न ई॑जा॒न उ॑त्त॒मम् । 48) उ॒त्त॒म-न्धा॒तार॑-न्धा॒तार॑ मुत्त॒म मु॑त्त॒म-न्धा॒तार᳚म् । 48) उ॒त्त॒ममित्यु॑त् - त॒मम् । 49) धा॒तार॑-ङ्करोति करोति धा॒तार॑-न्धा॒तार॑-ङ्करोति । 50) क॒रो॒ त्यु॒परि॑ष्टा दु॒परि॑ष्टा-त्करोति करो त्यु॒परि॑ष्टात् । ॥ 32 ॥ (50/54)
1) उ॒परि॑ष्टा दे॒वै वोपरि॑ष्टा दु॒परि॑ष्टा दे॒व । 2) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 3) अ॒स्मै॒ छन्दाग्ं॑सि॒ छन्दाग्॑स्य स्मा अस्मै॒ छन्दाग्ं॑सि । 4) छन्दा॒ग्॒ स्यया॑तयामा॒न्य या॑तयामानि॒ छन्दाग्ं॑सि॒ छन्दा॒ग्॒ स्यया॑तयामानि । 5) अया॑तयामा॒ न्यवावा या॑तयामा॒ न्यया॑तयामा॒ न्यव॑ । 5) अया॑तयामा॒नीत्यया॑त - या॒मा॒नि॒ । 6) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 7) रु॒न्ध॒ उपोप॑ रुन्धे रुन्ध॒ उप॑ । 8) उपै॑न मेन॒ मुपो पै॑नम् । 9) ए॒न॒ मुत्त॑र॒ उत्त॑र एन मेन॒ मुत्त॑रः । 10) उत्त॑रो य॒ज्ञो य॒ज्ञ उत्त॑र॒ उत्त॑रो य॒ज्ञः । 10) उत्त॑र॒ इत्युत् - त॒रः॒ । 11) य॒ज्ञो न॑मति नमति य॒ज्ञो य॒ज्ञो न॑मति । 12) न॒म॒ त्ये॒ता ए॒ता न॑मति नम त्ये॒ताः । 13) ए॒ता ए॒वै वैता ए॒ता ए॒व । 14) ए॒व नि-र्णि रे॒वैव निः । 15) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् । 16) व॒पे॒-द्यं-यंँ व॑पे-द्वपे॒-द्यम् । 17) य-म्मे॒धा मे॒धा यं-यँ-म्मे॒धा । 18) मे॒धा न न मे॒धा मे॒धा न । 19) नो प॒नमे॑ दुप॒नमे॒-न्न नो प॒नमे᳚त् । 20) उ॒प॒नमे॒च् छन्दाग्ं॑सि॒ छन्दाग्॑ स्युप॒नमे॑ दुप॒नमे॒च् छन्दाग्ं॑सि । 20) उ॒प॒नमे॒दित्यु॑प - नमे᳚त् । 21) छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै । 22) वै देवि॑का॒ देवि॑का॒ वै वै देवि॑काः । 23) देवि॑का॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ देवि॑का॒ देवि॑का॒ श्छन्दाग्ं॑सि । 24) छन्दाग्ं॑सि॒ खलु॒ खलु॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ खलु॑ । 25) खलु॒ वै वै खलु॒ खलु॒ वै । 26) वा ए॒त मे॒तं-वैँ वा ए॒तम् । 27) ए॒त-न्न नैत मे॒त-न्न । 28) नो पोप॒ न नोप॑ । 29) उप॑ नमन्ति नम॒ न्त्युपोप॑ नमन्ति । 30) न॒म॒न्ति॒ यं-यँ-न्न॑मन्ति नमन्ति॒ यम् । 31) य-म्मे॒धा मे॒धा यं-यँ-म्मे॒धा । 32) मे॒धा न न मे॒धा मे॒धा न । 33) नो प॒नम॑ त्युप॒नम॑ति॒ न नो प॒नम॑ति । 34) उ॒प॒नम॑ति प्रथ॒म-म्प्र॑थ॒म मु॑प॒नम॑ त्युप॒नम॑ति प्रथ॒मम् । 34) उ॒प॒नम॒तीत्यु॑प - नम॑ति । 35) प्र॒थ॒म-न्धा॒तार॑-न्धा॒तार॑-म्प्रथ॒म-म्प्र॑थ॒म-न्धा॒तार᳚म् । 36) धा॒तार॑-ङ्करोति करोति धा॒तार॑-न्धा॒तार॑-ङ्करोति । 37) क॒रो॒ति॒ मु॒ख॒तो मु॑ख॒तः क॑रोति करोति मुख॒तः । 38) मु॒ख॒त ए॒वैव मु॑ख॒तो मु॑ख॒त ए॒व । 39) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 40) अ॒स्मै॒ छन्दाग्ं॑सि॒ छन्दाग्॑ स्यस्मा अस्मै॒ छन्दाग्ं॑सि । 41) छन्दाग्ं॑सि दधाति दधाति॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि दधाति । 42) द॒धा॒ त्युपोप॑ दधाति दधा॒ त्युप॑ । 43) उपै॑न मेन॒ मुपो पै॑नम् । 44) ए॒न॒-म्मे॒धा मे॒धै न॑ मेन-म्मे॒धा । 45) मे॒धा न॑मति नमति मे॒धा मे॒धा न॑मति । 46) न॒म॒ त्ये॒ता ए॒ता न॑मति नम त्ये॒ताः । 47) ए॒ता ए॒वै वैता ए॒ता ए॒व । 48) ए॒व नि-र्णि रे॒वैव निः । 49) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् । 50) व॒पे॒-द्रुक्का॑मो॒ रुक्का॑मो वपे-द्वपे॒-द्रुक्का॑मः । ॥ 33 ॥ (50/54)
1) रुक्का॑म॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ रुक्का॑मो॒ रुक्का॑म॒ श्छन्दाग्ं॑सि । 1) रुक्का॑म॒ इति॒ रुक् - का॒मः॒ । 2) छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै । 3) वै देवि॑का॒ देवि॑का॒ वै वै देवि॑काः । 4) देवि॑का॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ देवि॑का॒ देवि॑का॒ श्छन्दाग्ं॑सि । 5) छन्दाग्ं॑सीवेव॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सीव । 6) इ॒व॒ खलु॒ खल्वि॑वेव॒ खलु॑ । 7) खलु॒ वै वै खलु॒ खलु॒ वै । 8) वै रुग् रुग् वै वै रुक् । 9) रुक् छन्दो॑भि॒ श्छन्दो॑भी॒ रुग् रुक् छन्दो॑भिः । 10) छन्दो॑भि रे॒वैव छन्दो॑भि॒ श्छन्दो॑भि रे॒व । 10) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 11) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ । 12) अ॒स्मि॒-न्रुच॒ग्ं॒ रुच॑ मस्मि-न्नस्मि॒-न्रुच᳚म् । 13) रुच॑-न्दधाति दधाति॒ रुच॒ग्ं॒ रुच॑-न्दधाति । 14) द॒धा॒ति॒ क्षी॒रे क्षी॒रे द॑धाति दधाति क्षी॒रे । 15) क्षी॒रे भ॑वन्ति भवन्ति क्षी॒रे क्षी॒रे भ॑वन्ति । 16) भ॒व॒न्ति॒ रुच॒ग्ं॒ रुच॑-म्भवन्ति भवन्ति॒ रुच᳚म् । 17) रुच॑ मे॒वैव रुच॒ग्ं॒ रुच॑ मे॒व । 18) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ । 19) अ॒स्मि॒-न्द॒ध॒ति॒ द॒ध॒ त्य॒स्मि॒-न्न॒स्मि॒-न्द॒ध॒ति॒ । 20) द॒ध॒ति॒ म॒द्ध्य॒तो म॑द्ध्य॒तो द॑धति दधति मद्ध्य॒तः । 21) म॒द्ध्य॒तो धा॒तार॑-न्धा॒तार॑-म्मद्ध्य॒तो म॑द्ध्य॒तो धा॒तार᳚म् । 22) धा॒तार॑-ङ्करोति करोति धा॒तार॑-न्धा॒तार॑-ङ्करोति । 23) क॒रो॒ति॒ म॒द्ध्य॒तो म॑द्ध्य॒तः क॑रोति करोति मद्ध्य॒तः । 24) म॒द्ध्य॒त ए॒वैव म॑द्ध्य॒तो म॑द्ध्य॒त ए॒व । 25) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 26) ए॒न॒ग्ं॒ रु॒चो रु॒च ए॑न मेनग्ं रु॒चः । 27) रु॒चो द॑धाति दधाति रु॒चो रु॒चो द॑धाति । 28) द॒धा॒ति॒ गा॒य॒त्री गा॑य॒त्री द॑धाति दधाति गाय॒त्री । 29) गा॒य॒त्री वै वै गा॑य॒त्री गा॑य॒त्री वै । 30) वा अनु॑मति॒ रनु॑मति॒-र्वै वा अनु॑मतिः । 31) अनु॑मति स्त्रि॒ष्टु-क्त्रि॒ष्टु गनु॑मति॒ रनु॑मति स्त्रि॒ष्टुक् । 31) अनु॑मति॒रित्य॑नु - म॒तिः॒ । 32) त्रि॒ष्टुग् रा॒का रा॒का त्रि॒ष्टु-क्त्रि॒ष्टुग् रा॒का । 33) रा॒का जग॑ती॒ जग॑ती रा॒का रा॒का जग॑ती । 34) जग॑ती सिनीवा॒ली सि॑नीवा॒ली जग॑ती॒ जग॑ती सिनीवा॒ली । 35) सि॒नी॒वा॒ ल्य॑नु॒ष्टु ब॑नु॒ष्टु-फ्सि॑नीवा॒ली सि॑नीवा॒ ल्य॑नु॒ष्टुप् । 36) अ॒नु॒ष्टुप् कु॒हूः कु॒हू र॑नु॒ष्टु ब॑नु॒ष्टुप् कु॒हूः । 36) अ॒नु॒ष्टुबित्य॑नु - स्तुप् । 37) कु॒हू-र्धा॒ता धा॒ता कु॒हूः कु॒हू-र्धा॒ता । 38) धा॒ता व॑षट्का॒रो व॑षट्का॒रो धा॒ता धा॒ता व॑षट्का॒रः । 39) व॒ष॒ट्का॒रः पू᳚र्वप॒क्षः पू᳚र्वप॒क्षो व॑षट्का॒रो व॑षट्का॒रः पू᳚र्वप॒क्षः । 39) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । 40) पू॒र्व॒प॒क्षो रा॒का रा॒का पू᳚र्वप॒क्षः पू᳚र्वप॒क्षो रा॒का । 40) पू॒र्व॒प॒क्ष इति॑ पूर्व - प॒क्षः । 41) रा॒का ऽप॑रप॒क्षो॑ ¶प॒क्षो रा॒का रा॒का ऽप॑रप॒क्षः । 42) अ॒प॒र॒प॒क्षः कु॒हूः कु॒हू र॑परप॒क्षो॑ ¶प॒क्षः कु॒हूः । 42) अ॒प॒र॒प॒क्ष इत्य॑पर - प॒क्षः । 43) कु॒हू र॑मावा॒स्या॑ ऽमावा॒स्या॑ कु॒हूः कु॒हू र॑मावा॒स्या᳚ । 44) अ॒मा॒वा॒स्या॑ सिनीवा॒ली सि॑नीवा॒ल्य॑मावा॒स्या॑ ऽमावा॒स्या॑ सिनीवा॒ली । 44) अ॒मा॒वा॒स्येत्य॑मा - वा॒स्या᳚ । 45) सि॒नी॒वा॒ली पौ᳚र्णमा॒सी पौ᳚र्णमा॒सी सि॑नीवा॒ली सि॑नीवा॒ली पौ᳚र्णमा॒सी । 46) पौ॒र्ण॒मा॒स्य नु॑मति॒ रनु॑मतिः पौर्णमा॒सी पौ᳚र्णमा॒स्य नु॑मतिः । 46) पौ॒र्ण॒मा॒सीति॑ पौर्ण - मा॒सी । 47) अनु॑मति श्च॒न्द्रमा᳚ श्च॒न्द्रमा॒ अनु॑मति॒ रनु॑मति श्च॒न्द्रमाः᳚ । 47) अनु॑मति॒रित्य॑नु - म॒तिः॒ । 48) च॒न्द्रमा॑ धा॒ता धा॒ता च॒न्द्रमा᳚ श्च॒न्द्रमा॑ धा॒ता । 49) धा॒ता ऽष्टा व॒ष्टौ धा॒ता धा॒ता ऽष्टौ । 50) अ॒ष्टौ वस॑वो॒ वस॑वो॒ ऽष्टा व॒ष्टौ वस॑वः । ॥ 34 ॥ (50/60)
1) वस॑वो॒ ऽष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा॒ वस॑वो॒ वस॑वो॒ ऽष्टाक्ष॑रा । 2) अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒ त्र्य॑ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा गाय॒त्री । 2) अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ । 3) गा॒य॒ त्र्येका॑द॒शै का॑दश गाय॒त्री गा॑य॒ त्र्येका॑दश । 4) एका॑दश रु॒द्रा रु॒द्रा एका॑द॒शै का॑दश रु॒द्राः । 5) रु॒द्रा एका॑दशाक्ष॒ रैका॑दशाक्षरा रु॒द्रा रु॒द्रा एका॑दशाक्षरा । 6) एका॑दशाक्षरा त्रि॒ष्टु-प्त्रि॒ष्टु बेका॑दशाक्ष॒ रैका॑दशाक्षरा त्रि॒ष्टुप् । 6) एका॑दशाक्ष॒रेत्येका॑दश - अ॒क्ष॒रा॒ । 7) त्रि॒ष्टुब् द्वाद॑श॒ द्वाद॑श त्रि॒ष्टु-प्त्रि॒ष्टुब् द्वाद॑श । 8) द्वाद॑शादि॒त्या आ॑दि॒त्या द्वाद॑श॒ द्वाद॑शादि॒त्याः । 9) आ॒दि॒त्या द्वाद॑शाक्षरा॒ द्वाद॑शाक्षरा ऽऽदि॒त्या आ॑दि॒त्या द्वाद॑शाक्षरा । 10) द्वाद॑शाक्षरा॒ जग॑ती॒ जग॑ती॒ द्वाद॑शाक्षरा॒ द्वाद॑शाक्षरा॒ जग॑ती । 10) द्वाद॑शाक्ष॒रेति॒ द्वाद॑श - अ॒क्ष॒रा॒ । 11) जग॑ती प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्जग॑ती॒ जग॑ती प्र॒जाप॑तिः । 12) प्र॒जाप॑ति रनु॒ष्टु ब॑नु॒ष्टुप् प्र॒जाप॑तिः प्र॒जाप॑ति रनु॒ष्टुप् । 12) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 13) अ॒नु॒ष्टुब् धा॒ता धा॒ता ऽनु॒ष्टु ब॑नु॒ष्टुब् धा॒ता । 13) अ॒नु॒ष्टुबित्य॑नु - स्तुप् । 14) धा॒ता व॑षट्का॒रो व॑षट्का॒रो धा॒ता धा॒ता व॑षट्का॒रः । 15) व॒ष॒ट्का॒र ए॒त दे॒त-द्व॑षट्का॒रो व॑षट्का॒र ए॒तत् । 15) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । 16) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 17) वै देवि॑का॒ देवि॑का॒ वै वै देवि॑काः । 18) देवि॑का॒-स्सर्वा॑णि॒ सर्वा॑णि॒ देवि॑का॒ देवि॑का॒-स्सर्वा॑णि । 19) सर्वा॑णि च च॒ सर्वा॑णि॒ सर्वा॑णि च । 20) च॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि च च॒ छन्दाग्ं॑सि । 21) छन्दाग्ं॑सि॒ सर्वा॒-स्सर्वा॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ सर्वाः᳚ । 22) सर्वा᳚श्च च॒ सर्वा॒-स्सर्वा᳚श्च । 23) च॒ दे॒वता॑ दे॒वता᳚श्च च दे॒वताः᳚ । 24) दे॒वता॑ वषट्का॒रो व॑षट्का॒रो दे॒वता॑ दे॒वता॑ वषट्का॒रः । 25) व॒ष॒ट्का॒र स्ता स्ता व॑षट्का॒रो व॑षट्का॒र स्ताः । 25) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । 26) ता य-द्य-त्ता स्ता यत् । 27) य-थ्स॒ह स॒ह य-द्य-थ्स॒ह । 28) स॒ह सर्वा॒-स्सर्वा᳚-स्स॒ह स॒ह सर्वाः᳚ । 29) सर्वा॑ नि॒र्वपे᳚-न्नि॒र्वपे॒-थ्सर्वा॒-स्सर्वा॑ नि॒र्वपे᳚त् । 30) नि॒र्वपे॑ दीश्व॒रा ई᳚श्व॒रा नि॒र्वपे᳚-न्नि॒र्वपे॑ दीश्व॒राः । 30) नि॒र्वपे॒दिति॑ निः - वपे᳚त् । 31) ई॒श्व॒रा ए॑न मेन मीश्व॒रा ई᳚श्व॒रा ए॑नम् । 32) ए॒न॒-म्प्र॒दहः॑ प्र॒दह॑ एन मेन-म्प्र॒दहः॑ । 33) प्र॒दहो॒ द्वे द्वे प्र॒दहः॑ प्र॒दहो॒ द्वे । 33) प्र॒दह॒ इति॑ प्र - दहः॑ । 34) द्वे प्र॑थ॒मे प्र॑थ॒मे द्वे द्वे प्र॑थ॒मे । 34) द्वे इति॒ द्वे । 35) प्र॒थ॒मे नि॒रुप्य॑ नि॒रुप्य॑ प्रथ॒मे प्र॑थ॒मे नि॒रुप्य॑ । 35) प्र॒थ॒मे इति॑ प्रथ॒मे । 36) नि॒रुप्य॑ धा॒तु-र्धा॒तु-र्नि॒रुप्य॑ नि॒रुप्य॑ धा॒तुः । 36) नि॒रुप्येति॑ निः - उप्य॑ । 37) धा॒तु स्तृ॒तीय॑-न्तृ॒तीय॑-न्धा॒तु-र्धा॒तु स्तृ॒तीय᳚म् । 38) तृ॒तीय॒-न्नि-र्णिष् टृ॒तीय॑-न्तृ॒तीय॒-न्निः । 39) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् । ॥ 35 ॥ (39, 51)
॥ अ. 9 ॥
Browse Related Categories: