Kanda 6 - Krishna Yajurveda Taittiriya Samhita · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1) प्रा॒चीन॑वग्ंश-ङ्करोति करोति प्रा॒चीन॑वग्ंश-म्प्रा॒चीन॑वग्ंश-ङ्करोति । 1) प्रा॒चीन॑वग्ंश॒मिति॑ प्रा॒चीन॑ - व॒ग्ं॒श॒म् । 2) क॒रो॒ति॒ दे॒व॒म॒नु॒ष्या दे॑वमनु॒ष्याः क॑रोति करोति देवमनु॒ष्याः । 3) दे॒व॒म॒नु॒ष्या दिशो॒ दिशो॑ देवमनु॒ष्या दे॑वमनु॒ष्या दिशः॑ । 3) दे॒व॒म॒नु॒ष्या इति॑ देव - म॒नु॒ष्याः । 4) दिशो॒ वि वि दिशो॒ दिशो॒ वि । 5) व्य॑भजन्ता भजन्त॒ वि व्य॑भजन्त । 6) अ॒भ॒ज॒न्त॒ प्राची॒-म्प्राची॑ मभजन्ता भजन्त॒ प्राची᳚म् । 7) प्राची᳚-न्दे॒वा दे॒वाः प्राची॒-म्प्राची᳚-न्दे॒वाः । 8) दे॒वा द॑क्षि॒णा द॑क्षि॒णा दे॒वा दे॒वा द॑क्षि॒णा । 9) द॒क्षि॒णा पि॒तरः॑ पि॒तरो॑ दक्षि॒णा द॑क्षि॒णा पि॒तरः॑ । 10) पि॒तरः॑ प्र॒तीची᳚-म्प्र॒तीची᳚-म्पि॒तरः॑ पि॒तरः॑ प्र॒तीची᳚म् । 11) प्र॒तीची᳚-म्मनु॒ष्या॑ मनु॒ष्याः᳚ प्र॒तीची᳚-म्प्र॒तीची᳚-म्मनु॒ष्याः᳚ । 12) म॒नु॒ष्या॑ उदी॑ची॒ मुदी॑ची-म्मनु॒ष्या॑ मनु॒ष्या॑ उदी॑चीम् । 13) उदी॑चीग्ं रु॒द्रा रु॒द्रा उदी॑ची॒ मुदी॑चीग्ं रु॒द्राः । 14) रु॒द्रा य-द्य-द्रु॒द्रा रु॒द्रा यत् । 15) य-त्प्रा॒चीन॑वग्ंश-म्प्रा॒चीन॑वग्ंशं॒-यँ-द्य-त्प्रा॒चीन॑वग्ंशम् । 16) प्रा॒चीन॑वग्ंश-ङ्क॒रोति॑ क॒रोति॑ प्रा॒चीन॑वग्ंश-म्प्रा॒चीन॑वग्ंश-ङ्क॒रोति॑ । 16) प्रा॒चीन॑वग्ंश॒मिति॑ प्रा॒चीन॑ - व॒ग्ं॒श॒म् । 17) क॒रोति॑ देवलो॒क-न्दे॑वलो॒क-ङ्क॒रोति॑ क॒रोति॑ देवलो॒कम् । 18) दे॒व॒लो॒क मे॒वैव दे॑वलो॒क-न्दे॑वलो॒क मे॒व । 18) दे॒व॒लो॒कमिति॑ देव - लो॒कम् । 19) ए॒व त-त्तदे॒ वैव तत् । 20) त-द्यज॑मानो॒ यज॑मान॒ स्त-त्त-द्यज॑मानः । 21) यज॑मान उ॒पाव॑र्तत उ॒पाव॑र्तते॒ यज॑मानो॒ यज॑मान उ॒पाव॑र्तते । 22) उ॒पाव॑र्तते॒ परि॒ पर्यु॒ पाव॑र्तत उ॒पाव॑र्तते॒ परि॑ । 22) उ॒पाव॑र्तत॒ इत्यु॑प - आव॑र्तते । 23) परि॑ श्रयति श्रयति॒ परि॒ परि॑ श्रयति । 24) श्र॒य॒ त्य॒न्तर्हि॑तो॒ ऽन्तर्हि॑त-श्श्रयति श्रय त्य॒न्तर्हि॑तः । 25) अ॒न्तर्हि॑तो॒ हि ह्य॑न्तर्हि॑तो॒ ऽन्तर्हि॑तो॒ हि । 25) अ॒न्तर्हि॑त॒ इत्य॒न्तः - हि॒तः॒ । 26) हि दे॑वलो॒को दे॑वलो॒को हि हि दे॑वलो॒कः । 27) दे॒व॒लो॒को म॑नुष्यलो॒का-न्म॑नुष्यलो॒का-द्दे॑वलो॒को दे॑वलो॒को म॑नुष्यलो॒कात् । 27) दे॒व॒लो॒क इति॑ देव - लो॒कः । 28) म॒नु॒ष्य॒लो॒का-न्न न म॑नुष्यलो॒का-न्म॑नुष्यलो॒का-न्न । 28) म॒नु॒ष्य॒लो॒कादिति॑ मनुष्य - लो॒कात् । 29) नास्मा द॒स्मा-न्न नास्मात् । 30) अ॒स्मा ल्लो॒का ल्लो॒का द॒स्मा द॒स्मा ल्लो॒कात् । 31) लो॒का-थ्स्वे॑तव्य॒ग्ग्॒ स्वे॑तव्यम् ँलो॒का ल्लो॒का-थ्स्वे॑तव्यम् । 32) स्वे॑तव्य मिवेव॒ स्वे॑तव्य॒ग्ग्॒ स्वे॑तव्य मिव । 32) स्वे॑तव्य॒मिति॒ सु - ए॒त॒व्य॒म् । 33) इ॒वे तीती॑वे॒ वेति॑ । 34) इत्या॑हु राहु॒ रिती त्या॑हुः । 35) आ॒हुः॒ कः क आ॑हु राहुः॒ कः । 36) को हि हि कः को हि । 37) हि त-त्तद्धि हि तत् । 38) त-द्वेद॒ वेद॒ त-त्त-द्वेद॑ । 39) वेद॒ यदि॒ यदि॒ वेद॒ वेद॒ यदि॑ । 40) यद्य॒मुष्मि॑-न्न॒मुष्मि॒न्॒. यदि॒ यद्य॒मुष्मिन्न्॑ । 41) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 42) लो॒के ऽस्त्यस्ति॑ लो॒के लो॒के ऽस्ति॑ । 43) अस्ति॑ वा॒ वा ऽस्त्यस्ति॑ वा । 44) वा॒ न न वा॑ वा॒ न । 45) न वा॑ वा॒ न न वा᳚ । 46) वेतीति॑ वा॒ वेति॑ । 47) इति॑ दि॒क्षु दि॒क्ष्वि तीति॑ दि॒क्षु । 48) दि॒क्ष्व॑ तीका॒शा न॑तीका॒शा-न्दि॒क्षु दि॒क्ष्व॑ तीका॒शान् । 49) अ॒ती॒का॒शान् क॑रोति करोत्य तीका॒शा न॑तीका॒शान् क॑रोति । 50) क॒रो॒ त्यु॒भयो॑ रु॒भयोः᳚ करोति करो त्यु॒भयोः᳚ । ॥ 1 ॥ (50/59)
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
1) उ॒भयो᳚-र्लो॒कयो᳚-र्लो॒कयो॑ रु॒भयो॑ रु॒भयो᳚-र्लो॒कयोः᳚ । 2) लो॒कयो॑ र॒भिजि॑त्या अ॒भिजि॑त्यै लो॒कयो᳚-र्लो॒कयो॑ र॒भिजि॑त्यै । 3) अ॒भिजि॑त्यै केशश्म॒श्रु के॑शश्म॒ श्र्व॑भिजि॑त्या अ॒भिजि॑त्यै केशश्म॒श्रु । 3) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । 4) के॒श॒श्म॒श्रु व॑पते वपते केशश्म॒श्रु के॑शश्म॒श्रु व॑पते । 4) के॒श॒श्म॒श्र्विति॑ केश - श्म॒श्रु । 5) व॒प॒ते॒ न॒खानि॑ न॒खानि॑ वपते वपते न॒खानि॑ । 6) न॒खानि॒ नि नि न॒खानि॑ न॒खानि॒ नि । 7) नि कृ॑न्तते कृन्तते॒ नि नि कृ॑न्तते । 8) कृ॒न्त॒ते॒ मृ॒ता मृ॒ता कृ॑न्तते कृन्तते मृ॒ता । 9) मृ॒ता वै वै मृ॒ता मृ॒ता वै । 10) वा ए॒षैषा वै वा ए॒षा । 11) ए॒षा त्व-क्त्वगे॒ षैषा त्वक् । 12) त्व ग॑मे॒द्ध्या ऽमे॒द्ध्या त्व-क्त्व ग॑मे॒द्ध्या । 13) अ॒मे॒द्ध्या य-द्यद॑मे॒द्ध्या ऽमे॒द्ध्या यत् । 14) य-त्के॑शश्म॒श्रु के॑शश्म॒श्रु य-द्य-त्के॑शश्म॒श्रु । 15) के॒श॒श्म॒श्रु मृ॒ता-म्मृ॒ता-ङ्के॑शश्म॒श्रु के॑शश्म॒श्रु मृ॒ताम् । 15) के॒श॒श्म॒श्र्विति॑ केश - श्म॒श्रु । 16) मृ॒ता मे॒वैव मृ॒ता-म्मृ॒ता मे॒व । 17) ए॒व त्वच॒-न्त्वच॑ मे॒वैव त्वच᳚म् । 18) त्वच॑ ममे॒द्ध्या म॑मे॒द्ध्या-न्त्वच॒-न्त्वच॑ ममे॒द्ध्याम् । 19) अ॒मे॒द्ध्या म॑प॒हत्या॑ प॒हत्या॑ मे॒द्ध्या म॑मे॒द्ध्या म॑प॒हत्य॑ । 20) अ॒प॒हत्य॑ य॒ज्ञियो॑ य॒ज्ञियो॑ ऽप॒हत्या॑ प॒हत्य॑ य॒ज्ञियः॑ । 20) अ॒प॒हत्येत्य॑प - हत्य॑ । 21) य॒ज्ञियो॑ भू॒त्वा भू॒त्वा य॒ज्ञियो॑ य॒ज्ञियो॑ भू॒त्वा । 22) भू॒त्वा मेध॒-म्मेध॑-म्भू॒त्वा भू॒त्वा मेध᳚म् । 23) मेध॒ मुपोप॒ मेध॒-म्मेध॒ मुप॑ । 24) उपै᳚त्ये॒ त्युपो पै॑ति । 25) ए॒त्यङ्गि॑र॒सो ऽङ्गि॑रस एत्ये॒ त्यङ्गि॑रसः । 26) अङ्गि॑रस-स्सुव॒र्गग्ं सु॑व॒र्ग मङ्गि॑र॒सो ऽङ्गि॑रस-स्सुव॒र्गम् । 27) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 27) सु॒व॒र्गमिति॑ सुवः - गम् । 28) लो॒कं-यँन्तो॒ यन्तो॑ लो॒कम् ँलो॒कं-यँन्तः॑ । 29) यन्तो॒ ऽफ्स्व॑फ्सु यन्तो॒ यन्तो॒ ऽफ्सु । 30) अ॒फ्सु दी᳚क्षात॒पसी॑ दीक्षात॒पसी॑ अ॒फ्स्व॑फ्सु दी᳚क्षात॒पसी᳚ । 30) अ॒फ्स्वित्य॑प् - सु । 31) दी॒क्षा॒त॒पसी॒ प्र प्र दी᳚क्षात॒पसी॑ दीक्षात॒पसी॒ प्र । 31) दी॒क्षा॒त॒पसी॒ इति॑ दीक्षा - त॒पसी᳚ । 32) प्रावे॑शय-न्नवेशय॒-न्प्र प्रावे॑शयन्न् । 33) अ॒वे॒श॒य॒-न्न॒फ्स्वा᳚(1॒)फ्स्व॑वेशय-न्नवेशय-न्न॒फ्सु । 34) अ॒फ्सु स्ना॑ति स्ना त्य॒फ्स्व॑फ्सु स्ना॑ति । 34) अ॒फ्स्वित्य॑प् - सु । 35) स्ना॒ति॒ सा॒क्षा-थ्सा॒क्षा-थ्स्ना॑ति स्नाति सा॒क्षात् । 36) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व । 36) सा॒क्षादिति॑ स - अ॒क्षात् । 37) ए॒व दी᳚क्षात॒पसी॑ दीक्षात॒पसी॑ ए॒वैव दी᳚क्षात॒पसी᳚ । 38) दी॒क्षा॒त॒पसी॒ अवाव॑ दीक्षात॒पसी॑ दीक्षात॒पसी॒ अव॑ । 38) दी॒क्षा॒त॒पसी॒ इति॑ दीक्षा - त॒पसी᳚ । 39) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 40) रु॒न्धे॒ ती॒र्थे ती॒र्थे रु॑न्धे रुन्धे ती॒र्थे । 41) ती॒र्थे स्ना॑ति स्नाति ती॒र्थे ती॒र्थे स्ना॑ति । 42) स्ना॒ति॒ ती॒र्थे ती॒र्थे स्ना॑ति स्नाति ती॒र्थे । 43) ती॒र्थे हि हि ती॒र्थे ती॒र्थे हि । 44) हि ते ते हि हि ते । 45) ते ता-न्ता-न्ते ते ताम् । 46) ता-म्प्र प्र ता-न्ता-म्प्र । 47) प्रावे॑शय॒-न्नवे॑शय॒-न्प्र प्रावे॑शयन्न् । 48) अवे॑शय-न्ती॒र्थे ती॒र्थे ऽवे॑शय॒-न्नवे॑शय-न्ती॒र्थे । 49) ती॒र्थे स्ना॑ति स्नाति ती॒र्थे ती॒र्थे स्ना॑ति । 50) स्ना॒ति॒ ती॒र्थ-न्ती॒र्थग्ग् स्ना॑ति स्नाति ती॒र्थम् । ॥ 2 ॥ (50/60)
1) ती॒र्थ मे॒वैव ती॒र्थ-न्ती॒र्थ मे॒व । 2) ए॒व स॑मा॒नानाग्ं॑ समा॒नाना॑ मे॒वैव स॑मा॒नाना᳚म् । 3) स॒मा॒नाना᳚-म्भवति भवति समा॒नानाग्ं॑ समा॒नाना᳚-म्भवति । 4) भ॒व॒ त्य॒पो॑ ऽपो भ॑वति भव त्य॒पः । 5) अ॒पो᳚ ऽश्ञा त्यश्ञा त्य॒पो᳚(1॒) ऽपो᳚ ऽश्ञाति । 6) अ॒श्ञा॒ त्य॒न्त॒र॒तो᳚ ऽन्तर॒तो᳚ ऽश्ञा त्यश्ञा त्यन्तर॒तः । 7) अ॒न्त॒र॒त ए॒वै वान्त॑र॒तो᳚ ऽन्तर॒त ए॒व । 8) ए॒व मेद्ध्यो॒ मेद्ध्य॑ ए॒वैव मेद्ध्यः॑ । 9) मेद्ध्यो॑ भवति भवति॒ मेद्ध्यो॒ मेद्ध्यो॑ भवति । 10) भ॒व॒ति॒ वास॑सा॒ वास॑सा भवति भवति॒ वास॑सा । 11) वास॑सा दीक्षयति दीक्षयति॒ वास॑सा॒ वास॑सा दीक्षयति । 12) दी॒क्ष॒य॒ति॒ सौ॒म्यग्ं सौ॒म्य-न्दी᳚क्षयति दीक्षयति सौ॒म्यम् । 13) सौ॒म्यं-वैँ वै सौ॒म्यग्ं सौ॒म्यं-वैँ । 14) वै क्षौम॒-ङ्क्षौमं॒-वैँ वै क्षौम᳚म् । 15) क्षौम॑-न्दे॒वत॑या दे॒वत॑या॒ क्षौम॒-ङ्क्षौम॑-न्दे॒वत॑या । 16) दे॒वत॑या॒ सोम॒ग्ं॒ सोम॑-न्दे॒वत॑या दे॒वत॑या॒ सोम᳚म् । 17) सोम॑ मे॒ष ए॒ष सोम॒ग्ं॒ सोम॑ मे॒षः । 18) ए॒ष दे॒वता᳚-न्दे॒वता॑ मे॒ष ए॒ष दे॒वता᳚म् । 19) दे॒वता॒ मुपोप॑ दे॒वता᳚-न्दे॒वता॒ मुप॑ । 20) उपै᳚त्ये॒ त्युपो पै॑ति । 21) ए॒ति॒ यो य ए᳚त्येति॒ यः । 22) यो दीक्ष॑ते॒ दीक्ष॑ते॒ यो यो दीक्ष॑ते । 23) दीक्ष॑ते॒ सोम॑स्य॒ सोम॑स्य॒ दीक्ष॑ते॒ दीक्ष॑ते॒ सोम॑स्य । 24) सोम॑स्य त॒नू स्त॒नू-स्सोम॑स्य॒ सोम॑स्य त॒नूः । 25) त॒नू र॑स्यसि त॒नू स्त॒नू र॑सि । 26) अ॒सि॒ त॒नुव॑-न्त॒नुव॑ मस्यसि त॒नुव᳚म् । 27) त॒नुव॑-म्मे मे त॒नुव॑-न्त॒नुव॑-म्मे । 28) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ । 29) पा॒ही तीति॑ पाहि पा॒हीति॑ । 30) इत्या॑हा॒हे तीत्या॑ह । 31) आ॒ह॒ स्वाग् स्वा मा॑हाह॒ स्वाम् । 32) स्वा मे॒वैव स्वाग् स्वा मे॒व । 33) ए॒व दे॒वता᳚-न्दे॒वता॑ मे॒वैव दे॒वता᳚म् । 34) दे॒वता॒ मुपोप॑ दे॒वता᳚-न्दे॒वता॒ मुप॑ । 35) उपै᳚त्ये॒ त्युपो पै॑ति । 36) ए॒त्यथो॒ अथो॑ एत्ये॒ त्यथो᳚ । 37) अथो॑ आ॒शिष॑ मा॒शिष॒ मथो॒ अथो॑ आ॒शिष᳚म् । 37) अथो॒ इत्यथो᳚ । 38) आ॒शिष॑ मे॒वै वाशिष॑ मा॒शिष॑ मे॒व । 38) आ॒शिष॒मित्या᳚ - शिष᳚म् । 39) ए॒वैता मे॒ता मे॒वै वैताम् । 40) ए॒ता मैता मे॒ता मा । 41) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते । 42) शा॒स्ते॒ ऽग्ने र॒ग्ने-श्शा᳚स्ते शास्ते॒ ऽग्नेः । 43) अ॒ग्ने स्तू॑षा॒धान॑-न्तूषा॒धान॑ म॒ग्ने र॒ग्ने स्तू॑षा॒धान᳚म् । 44) तू॒षा॒धानं॑-वाँ॒यो-र्वा॒यो स्तू॑षा॒धान॑-न्तूषा॒धानं॑-वाँ॒योः । 44) तू॒षा॒धान॒मिति॑ तूष - आ॒धान᳚म् । 45) वा॒यो-र्वा॑त॒पानं॑-वाँत॒पानं॑-वाँ॒यो-र्वा॒यो-र्वा॑त॒पान᳚म् । 46) वा॒त॒पान॑-म्पितृ॒णा-म्पि॑तृ॒णां-वाँ॑त॒पानं॑-वाँत॒पान॑-म्पितृ॒णाम् । 46) वा॒त॒पान॒मिति॑ वात - पान᳚म् । 47) पि॒तृ॒णा-न्नी॒वि-र्नी॒विः पि॑तृ॒णा-म्पि॑तृ॒णा-न्नी॒विः । 48) नी॒वि रोष॑धीना॒ मोष॑धीना-न्नी॒वि-र्नी॒वि रोष॑धीनाम् । 49) ओष॑धीना-म्प्रघा॒तः प्र॑घा॒त ओष॑धीना॒ मोष॑धीना-म्प्रघा॒तः । 50) प्र॒घा॒त आ॑दि॒त्याना॑ मादि॒त्याना᳚-म्प्रघा॒तः प्र॑घा॒त आ॑दि॒त्याना᳚म् । 50) प्र॒घा॒त इति॑ प्र - घा॒तः । ॥ 3 ॥ (50/55)
1) आ॒दि॒त्याना᳚-म्प्राचीनता॒नः प्रा॑चीनता॒न आ॑दि॒त्याना॑ मादि॒त्याना᳚-म्प्राचीनता॒नः । 2) प्रा॒ची॒न॒ता॒नो विश्वे॑षां॒-विँश्वे॑षा-म्प्राचीनता॒नः प्रा॑चीनता॒नो विश्वे॑षाम् । 2) प्रा॒ची॒न॒ता॒न इति॑ प्राचीन - ता॒नः । 3) विश्वे॑षा-न्दे॒वाना᳚-न्दे॒वानां॒-विँश्वे॑षां॒-विँश्वे॑षा-न्दे॒वाना᳚म् । 4) दे॒वाना॒ मोतु॒ रोतु॑-र्दे॒वाना᳚-न्दे॒वाना॒ मोतुः॑ । 5) ओतु॒-र्नक्ष॑त्राणा॒-न्नक्ष॑त्राणा॒ मोतु॒ रोतु॒-र्नक्ष॑त्राणाम् । 6) नक्ष॑त्राणा मतीका॒शा अ॑तीका॒शा नक्ष॑त्राणा॒-न्नक्ष॑त्राणा मतीका॒शाः । 7) अ॒ती॒का॒शा स्त-त्तद॑तीका॒शा अ॑तीका॒शा स्तत् । 8) त-द्वै वै त-त्त-द्वै । 9) वा ए॒त दे॒त-द्वै वा ए॒तत् । 10) ए॒त-थ्स॑र्वदेव॒त्यग्ं॑ सर्वदेव॒त्य॑ मे॒त दे॒त-थ्स॑र्वदेव॒त्य᳚म् । 11) स॒र्व॒दे॒व॒त्यं॑-यँ-द्य-थ्स॑र्वदेव॒त्यग्ं॑ सर्वदेव॒त्यं॑-यँत् । 11) स॒र्व॒दे॒व॒त्य॑मिति॑ सर्व - दे॒व॒त्य᳚म् । 12) य-द्वासो॒ वासो॒ य-द्य-द्वासः॑ । 13) वासो॒ य-द्य-द्वासो॒ वासो॒ यत् । 14) य-द्वास॑सा॒ वास॑सा॒ य-द्य-द्वास॑सा । 15) वास॑सा दी॒क्षय॑ति दी॒क्षय॑ति॒ वास॑सा॒ वास॑सा दी॒क्षय॑ति । 16) दी॒क्षय॑ति॒ सर्वा॑भि॒-स्सर्वा॑भि-र्दी॒क्षय॑ति दी॒क्षय॑ति॒ सर्वा॑भिः । 17) सर्वा॑भि रे॒वैव सर्वा॑भि॒-स्सर्वा॑भि रे॒व । 18) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 19) ए॒न॒-न्दे॒वता॑भि-र्दे॒वता॑भि रेन मेन-न्दे॒वता॑भिः । 20) दे॒वता॑भि-र्दीक्षयति दीक्षयति दे॒वता॑भि-र्दे॒वता॑भि-र्दीक्षयति । 21) दी॒क्ष॒य॒ति॒ ब॒हिःप्रा॑णो ब॒हिःप्रा॑णो दीक्षयति दीक्षयति ब॒हिःप्रा॑णः । 22) ब॒हिःप्रा॑णो॒ वै वै ब॒हिःप्रा॑णो ब॒हिःप्रा॑णो॒ वै । 22) ब॒हिःप्रा॑ण॒ इति॑ ब॒हिः - प्रा॒णः॒ । 23) वै म॑नु॒ष्यो॑ मनु॒ष्यो॑ वै वै म॑नु॒ष्यः॑ । 24) म॒नु॒ष्य॑ स्तस्य॒ तस्य॑ मनु॒ष्यो॑ मनु॒ष्य॑ स्तस्य॑ । 25) तस्या श॑न॒ मश॑न॒-न्तस्य॒ तस्या श॑नम् । 26) अश॑न-म्प्रा॒णः प्रा॒णो ऽश॑न॒ मश॑न-म्प्रा॒णः । 27) प्रा॒णो᳚ ऽश्ञात्य॒ श्ञाति॑ प्रा॒णः प्रा॒णो᳚ ऽश्ञाति॑ । 27) प्रा॒ण इति॑ प्र - अ॒नः । 28) अ॒श्ञाति॒ सप्रा॑ण॒-स्सप्रा॑णो॒ ऽश्ञात्य॒ श्ञाति॒ सप्रा॑णः । 29) सप्रा॑ण ए॒वैव सप्रा॑ण॒-स्सप्रा॑ण ए॒व । 29) सप्रा॑ण॒ इति॒ स - प्रा॒णः॒ । 30) ए॒व दी᳚क्षते दीक्षत ए॒वैव दी᳚क्षते । 31) दी॒क्ष॒त॒ आशि॑त॒ आशि॑तो दीक्षते दीक्षत॒ आशि॑तः । 32) आशि॑तो भवति भव॒त्या शि॑त॒ आशि॑तो भवति । 33) भ॒व॒ति॒ यावा॒न्॒. यावा᳚-न्भवति भवति॒ यावान्॑ । 34) यावा॑ने॒ वैव यावा॒न्॒. यावा॑ने॒व । 35) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 36) अ॒स्य॒ प्रा॒णः प्रा॒णो᳚ ऽस्यास्य प्रा॒णः । 37) प्रा॒ण स्तेन॒ तेन॑ प्रा॒णः प्रा॒ण स्तेन॑ । 37) प्रा॒ण इति॑ प्र - अ॒नः । 38) तेन॑ स॒ह स॒ह तेन॒ तेन॑ स॒ह । 39) स॒ह मेध॒-म्मेधग्ं॑ स॒ह स॒ह मेध᳚म् । 40) मेध॒ मुपोप॒ मेध॒-म्मेध॒ मुप॑ । 41) उपै᳚त्ये॒ त्युपो पै॑ति । 42) ए॒ति॒ घृ॒त-ङ्घृ॒त मे᳚त्येति घृ॒तम् । 43) घृ॒त-न्दे॒वाना᳚-न्दे॒वाना᳚-ङ्घृ॒त-ङ्घृ॒त-न्दे॒वाना᳚म् । 44) दे॒वाना॒-म्मस्तु॒ मस्तु॑ दे॒वाना᳚-न्दे॒वाना॒-म्मस्तु॑ । 45) मस्तु॑ पितृ॒णा-म्पि॑तृ॒णा-म्मस्तु॒ मस्तु॑ पितृ॒णाम् । 46) पि॒तृ॒णा-न्निष्प॑क्व॒-न्निष्प॑क्व-म्पितृ॒णा-म्पि॑तृ॒णा-न्निष्प॑क्वम् । 47) निष्प॑क्व-म्मनु॒ष्या॑णा-म्मनु॒ष्या॑णा॒-न्निष्प॑क्व॒-न्निष्प॑क्व-म्मनु॒ष्या॑णाम् । 47) निष्प॑क्व॒मिति॒ निः - प॒क्व॒म् । 48) म॒नु॒ष्या॑णा॒-न्त-त्त-न्म॑नु॒ष्या॑णा-म्मनु॒ष्या॑णा॒-न्तत् । 49) त-द्वै वै त-त्त-द्वै । 50) वा ए॒त दे॒त-द्वै वा ए॒तत् । ॥ 4 ॥ (50/57)
1) ए॒त-थ्स॑र्वदेव॒त्यग्ं॑ सर्वदेव॒त्य॑ मे॒त दे॒त-थ्स॑र्वदेव॒त्य᳚म् । 2) स॒र्व॒दे॒व॒त्यं॑-यँ-द्य-थ्स॑र्वदेव॒त्यग्ं॑ सर्वदेव॒त्यं॑-यँत् । 2) स॒र्व॒दे॒व॒त्य॑मिति॑ सर्व - दे॒व॒त्य᳚म् । 3) य-न्नव॑नीत॒-न्नव॑नीतं॒-यँ-द्य-न्नव॑नीतम् । 4) नव॑नीतं॒-यँ-द्य-न्नव॑नीत॒-न्नव॑नीतं॒-यँत् । 4) नव॑नीत॒मिति॒ नव॑ - नी॒त॒म् । 5) य-न्नव॑नीतेन॒ नव॑नीतेन॒ य-द्य-न्नव॑नीतेन । 6) नव॑नीते नाभ्य॒ङ्क्ते᳚ ऽभ्य॒ङ्क्ते नव॑नीतेन॒ नव॑नीते नाभ्य॒ङ्क्ते । 6) नव॑नीते॒नेति॒ नव॑ - नी॒ते॒न॒ । 7) अ॒भ्य॒ङ्क्ते सर्वा॒-स्सर्वा॑ अभ्य॒ङ्क्ते᳚ ऽभ्य॒ङ्क्ते सर्वाः᳚ । 7) अ॒भ्य॒ङ्क्त इत्य॑भि - अ॒ङ्क्ते । 8) सर्वा॑ ए॒वैव सर्वा॒-स्सर्वा॑ ए॒व । 9) ए॒व दे॒वता॑ दे॒वता॑ ए॒वैव दे॒वताः᳚ । 10) दे॒वताः᳚ प्रीणाति प्रीणाति दे॒वता॑ दे॒वताः᳚ प्रीणाति । 11) प्री॒णा॒ति॒ प्रच्यु॑तः॒ प्रच्यु॑तः प्रीणाति प्रीणाति॒ प्रच्यु॑तः । 12) प्रच्यु॑तो॒ वै वै प्रच्यु॑तः॒ प्रच्यु॑तो॒ वै । 12) प्रच्यु॑त॒ इति॒ प्र - च्यु॒तः॒ । 13) वा ए॒ष ए॒ष वै वा ए॒षः । 14) ए॒षो᳚ ऽस्मा द॒स्मा दे॒ष ए॒षो᳚ ऽस्मात् । 15) अ॒स्मा ल्लो॒का ल्लो॒का द॒स्मा द॒स्मा ल्लो॒कात् । 16) लो॒का दग॒तो ऽग॑तो लो॒का ल्लो॒का दग॑तः । 17) अग॑तो देवलो॒क-न्दे॑वलो॒क मग॒तो ऽग॑तो देवलो॒कम् । 18) दे॒व॒लो॒कं-योँ यो दे॑वलो॒क-न्दे॑वलो॒कं-यः ँ। 18) दे॒व॒लो॒कमिति॑ देव - लो॒कम् । 19) यो दी᳚क्षि॒तो दी᳚क्षि॒तो यो यो दी᳚क्षि॒तः । 20) दी॒क्षि॒तो᳚ ऽन्त॒रा ऽन्त॒रा दी᳚क्षि॒तो दी᳚क्षि॒तो᳚ ऽन्त॒रा । 21) अ॒न्त॒ रेवे॑ वान्त॒रा ऽन्त॒ रेव॑ । 22) इ॒व॒ नव॑नीत॒-न्नव॑नीत मिवेव॒ नव॑नीतम् । 23) नव॑नीत॒-न्तस्मा॒-त्तस्मा॒-न्नव॑नीत॒-न्नव॑नीत॒-न्तस्मा᳚त् । 23) नव॑नीत॒मिति॒ नव॑ - नी॒त॒म् । 24) तस्मा॒-न्नव॑नीतेन॒ नव॑नीतेन॒ तस्मा॒-त्तस्मा॒-न्नव॑नीतेन । 25) नव॑नीते ना॒भ्य॑भि नव॑नीतेन॒ नव॑नीते ना॒भि । 25) नव॑नीते॒नेति॒ नव॑ - नी॒ते॒न॒ । 26) अ॒भ्य॑ङ्क्ते ऽङ्क्ते॒ ऽभ्या᳚(1॒) भ्य॑ङ्क्ते । 27) अ॒ङ्क्ते॒ ऽनु॒लो॒म म॑नुलो॒म म॑ङ्क्ते ऽङ्क्ते ऽनुलो॒मम् । 28) अ॒नु॒लो॒मं-यँजु॑षा॒ यजु॑षा ऽनुलो॒म म॑नुलो॒मं-यँजु॑षा । 28) अ॒नु॒लो॒ममित्य॑नु - लो॒मम् । 29) यजु॑षा॒ व्यावृ॑त्त्यै॒ व्यावृ॑त्त्यै॒ यजु॑षा॒ यजु॑षा॒ व्यावृ॑त्त्यै । 30) व्यावृ॑त्त्या॒ इन्द्र॒ इन्द्रो॒ व्यावृ॑त्त्यै॒ व्यावृ॑त्त्या॒ इन्द्रः॑ । 30) व्यावृ॑त्त्या॒ इति॑ वि - आवृ॑त्त्यै । 31) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् । 32) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् । 33) अ॒ह॒-न्तस्य॒ तस्या॑ह-न्नह॒-न्तस्य॑ । 34) तस्य॑ क॒नीनि॑का क॒नीनि॑का॒ तस्य॒ तस्य॑ क॒नीनि॑का । 35) क॒नीनि॑का॒ परा॒ परा॑ क॒नीनि॑का क॒नीनि॑का॒ परा᳚ । 36) परा॑ ऽपत दपत॒-त्परा॒ परा॑ ऽपतत् । 37) अ॒प॒त॒-त्त-त्तद॑पत दपत॒-त्तत् । 38) तदाञ्ज॑न॒ माञ्ज॑न॒-न्त-त्तदाञ्ज॑नम् । 39) आञ्ज॑न मभव दभव॒ दाञ्ज॑न॒ माञ्ज॑न मभवत् । 39) आञ्ज॑न॒मित्या᳚ - अञ्ज॑नम् । 40) अ॒भ॒व॒-द्य-द्यद॑भव दभव॒-द्यत् । 41) यदा॒ङ्क्त आ॒ङ्क्ते य-द्यदा॒ङ्क्ते । 42) आ॒ङ्क्ते चक्षु॒ श्चक्षु॑ रा॒ङ्क्त आ॒ङ्क्ते चक्षुः॑ । 42) आ॒ङ्क्त इत्या᳚ - अ॒ङ्क्ते । 43) चक्षु॑ रे॒वैव चक्षु॒ श्चक्षु॑ रे॒व । 44) ए॒व भ्रातृ॑व्यस्य॒ भ्रातृ॑व्य स्यै॒वैव भ्रातृ॑व्यस्य । 45) भ्रातृ॑व्यस्य वृङ्क्ते वृङ्क्ते॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य वृङ्क्ते । 46) वृ॒ङ्क्ते॒ दक्षि॑ण॒-न्दक्षि॑णं-वृँङ्क्ते वृङ्क्ते॒ दक्षि॑णम् । 47) दक्षि॑ण॒-म्पूर्व॒-म्पूर्व॒-न्दक्षि॑ण॒-न्दक्षि॑ण॒-म्पूर्व᳚म् । 48) पूर्व॒ मा पूर्व॒-म्पूर्व॒ मा । 49) आ ऽङ्क्ते᳚ ऽङ्क्त॒ आ ऽङ्क्ते᳚ । 50) अ॒ङ्क्ते॒ स॒व्यग्ं स॒व्य म॑ङ्क्ते ऽङ्क्ते स॒व्यम् । ॥ 5 ॥ (50/62)
1) स॒व्यग्ं हि हि स॒व्यग्ं स॒व्यग्ं हि । 2) हि पूर्व॒-म्पूर्व॒ग्ं॒ हि हि पूर्व᳚म् । 3) पूर्व॑-म्मनु॒ष्या॑ मनु॒ष्याः᳚ पूर्व॒-म्पूर्व॑-म्मनु॒ष्याः᳚ । 4) म॒नु॒ष्या॑ आ॒ञ्जत॑ आ॒ञ्जते॑ मनु॒ष्या॑ मनु॒ष्या॑ आ॒ञ्जते᳚ । 5) आ॒ञ्जते॒ न नाञ्जत॑ आ॒ञ्जते॒ न । 5) आ॒ञ्जत॒ इत्या᳚ - अ॒ञ्जते᳚ । 6) न नि नि न न नि । 7) नि धा॑वते धावते॒ नि नि धा॑वते । 8) धा॒व॒ते॒ नि नि धा॑वते धावते॒ नि । 9) नीवे॑व॒ नि नीव॑ । 10) इ॒व॒ हि हीवे॑व॒ हि । 11) हि म॑नु॒ष्या॑ मनु॒ष्या॑ हि हि म॑नु॒ष्याः᳚ । 12) म॒नु॒ष्या॑ धाव॑न्ते॒ धाव॑न्ते मनु॒ष्या॑ मनु॒ष्या॑ धाव॑न्ते । 13) धाव॑न्ते॒ पञ्च॒ पञ्च॒ धाव॑न्ते॒ धाव॑न्ते॒ पञ्च॑ । 14) पञ्च॒ कृत्वः॒ कृत्वः॒ पञ्च॒ पञ्च॒ कृत्वः॑ । 15) कृत्व॒ आ कृत्वः॒ कृत्व॒ आ । 16) आ ऽङ्क्ते᳚ ऽङ्क्त॒ आ ऽङ्क्ते᳚ । 17) अ॒ङ्क्ते॒ पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा ऽङ्क्ते ऽङ्क्ते॒ पञ्चा᳚क्षरा । 18) पञ्चा᳚क्षरा प॒ङ्क्तिः प॒ङ्क्तिः पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा प॒ङ्क्तिः । 18) पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । 19) प॒ङ्क्तिः पाङ्क्तः॒ पाङ्क्तः॑ प॒ङ्क्तिः प॒ङ्क्तिः पाङ्क्तः॑ । 20) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः । 21) य॒ज्ञो य॒ज्ञं-यँ॒ज्ञं-यँ॒ज्ञो य॒ज्ञो य॒ज्ञम् । 22) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 23) ए॒वावा वै॒वै वाव॑ । 24) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 25) रु॒न्धे॒ परि॑मित॒-म्परि॑मितग्ं रुन्धे रुन्धे॒ परि॑मितम् । 26) परि॑मित॒ मा परि॑मित॒-म्परि॑मित॒ मा । 26) परि॑मित॒मिति॒ परि॑ - मि॒त॒म् । 27) आ ऽङ्क्ते᳚ ऽङ्क्त॒ आ ऽङ्क्ते᳚ । 28) अ॒ङ्क्ते ऽप॑रिमित॒ मप॑रिमित मङ्क्ते॒ ऽङ्क्ते ऽप॑रिमितम् । 29) अप॑रिमित॒ग्ं॒ हि ह्यप॑रिमित॒ मप॑रिमित॒ग्ं॒ हि । 29) अप॑रिमित॒मित्यप॑रि - मि॒त॒म् । 30) हि म॑नु॒ष्या॑ मनु॒ष्या॑ हि हि म॑नु॒ष्याः᳚ । 31) म॒नु॒ष्या॑ आ॒ञ्जत॑ आ॒ञ्जते॑ मनु॒ष्या॑ मनु॒ष्या॑ आ॒ञ्जते᳚ । 32) आ॒ञ्जते॒ सतू॑लया॒ सतू॑लया॒ ऽऽञ्जत॑ आ॒ञ्जते॒ सतू॑लया । 32) आ॒ञ्जत॒ इत्या᳚ - अ॒ञ्जते᳚ । 33) सतू॑ल॒या ऽऽसतू॑लया॒ सतू॑ल॒या । 33) सतू॑ल॒येति॒ स - तू॒ल॒या॒ । 34) आ ऽङ्क्ते᳚ ऽङ्क्त॒ आ ऽङ्क्ते᳚ । 35) अ॒ङ्क्ते ऽप॑तूल॒या ऽप॑तूलया ऽङ्क्ते॒ ऽङ्क्ते ऽप॑तूलया । 36) अप॑तूलया॒ हि ह्यप॑तूल॒या ऽप॑तूलया॒ हि । 36) अप॑तूल॒येत्यप॑ - तू॒ल॒या॒ । 37) हि म॑नु॒ष्या॑ मनु॒ष्या॑ हि हि म॑नु॒ष्याः᳚ । 38) म॒नु॒ष्या॑ आ॒ञ्जत॑ आ॒ञ्जते॑ मनु॒ष्या॑ मनु॒ष्या॑ आ॒ञ्जते᳚ । 39) आ॒ञ्जते॒ व्यावृ॑त्त्यै॒ व्यावृ॑त्त्या आ॒ञ्जत॑ आ॒ञ्जते॒ व्यावृ॑त्त्यै । 39) आ॒ञ्जत॒ इत्या᳚ - अ॒ञ्जते᳚ । 40) व्यावृ॑त्त्यै॒ य-द्य-द्व्यावृ॑त्त्यै॒ व्यावृ॑त्त्यै॒ यत् । 40) व्यावृ॑त्त्या॒ इति॑ वि - आवृ॑त्त्यै । 41) यदप॑तूल॒या ऽप॑तूलया॒ य-द्यदप॑तूलया । 42) अप॑तूलया ऽऽञ्जी॒ ताञ्जी॒ ताप॑तूल॒या ऽप॑तूलया ऽऽञ्जी॒त । 42) अप॑तूल॒येत्यप॑ - तू॒ल॒या॒ । 43) आ॒ञ्जी॒त वज्रो॒ वज्र॑ आञ्जी॒ताञ्जी॒त वज्रः॑ । 43) आ॒ञ्जी॒तेत्या᳚ - अ॒ञ्जी॒त । 44) वज्र॑ इवेव॒ वज्रो॒ वज्र॑ इव । 45) इ॒व॒ स्या॒-थ्स्या॒ दि॒वे॒व॒ स्या॒त् । 46) स्या॒-थ्सतू॑लया॒ सतू॑लया स्या-थ्स्या॒-थ्सतू॑लया । 47) सतू॑ल॒या ऽऽसतू॑लया॒ सतू॑ल॒या । 47) सतू॑ल॒येति॒ स - तू॒ल॒या॒ । 48) आ ऽङ्क्ते᳚ ऽङ्क्त॒ आ ऽङ्क्ते᳚ । 49) अ॒ङ्क्ते॒ मि॒त्र॒त्वाय॑ मित्र॒त्वाया᳚ङ्क्ते ऽङ्क्ते मित्र॒त्वाय॑ । 50) मि॒त्र॒त्वायेन्द्र॒ इन्द्रो॑ मित्र॒त्वाय॑ मित्र॒त्वायेन्द्रः॑ । 50) मि॒त्र॒त्वायेति॑ मित्र - त्वाय॑ । ॥ 6 ॥ (50/63)
1) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् । 2) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् । 3) अ॒ह॒-न्थ्स सो॑ ऽह-न्नह॒-न्थ्सः । 4) सो᳚(1॒) ऽपो॑ ऽप-स्स सो॑ ऽपः । 5) अ॒पो᳚(1॒) ऽभ्या᳚(1॒)भ्या᳚(1॒)पो᳚(1॒) ऽपो॑ ऽभि । 6) अ॒भ्य॑म्रियता म्रियता॒भ्या᳚(1॒) भ्य॑म्रियत । 7) अ॒म्रि॒य॒त॒ तासा॒-न्तासा॑ मम्रिय ताम्रियत॒ तासा᳚म् । 8) तासां॒-यँ-द्य-त्तासा॒-न्तासां॒-यँत् । 9) य-न्मेद्ध्य॒-म्मेद्ध्यं॒-यँ-द्य-न्मेद्ध्य᳚म् । 10) मेद्ध्यं॑-यँ॒ज्ञियं॑-यँ॒ज्ञिय॒-म्मेद्ध्य॒-म्मेद्ध्यं॑-यँ॒ज्ञिय᳚म् । 11) य॒ज्ञिय॒ग्ं॒ सदे॑व॒ग्ं॒ सदे॑वं-यँ॒ज्ञियं॑-यँ॒ज्ञिय॒ग्ं॒ सदे॑वम् । 12) सदे॑व॒ मासी॒ दासी॒-थ्सदे॑व॒ग्ं॒ सदे॑व॒ मासी᳚त् । 12) सदे॑व॒मिति॒ स - दे॒व॒म् । 13) आसी॒-त्त-त्तदासी॒ दासी॒-त्तत् । 14) तद पाप॒ त-त्तदप॑ । 15) अपो दुद पापोत् । 16) उद॑क्राम दक्राम॒ दुदु द॑क्रामत् । 17) अ॒क्रा॒म॒-त्ते ते᳚ ऽक्राम दक्राम॒-त्ते । 18) ते द॒र्भा द॒र्भा स्ते ते द॒र्भाः । 19) द॒र्भा अ॑भव-न्नभव-न्द॒र्भा द॒र्भा अ॑भवन्न् । 20) अ॒भ॒व॒न्॒. य-द्यद॑भव-न्नभव॒न्॒. यत् । 21) य-द्द॑र्भपुञ्जी॒लै-र्द॑र्भपुञ्जी॒लै-र्य-द्य-द्द॑र्भपुञ्जी॒लैः । 22) द॒र्भ॒पु॒ञ्जी॒लैः प॒वय॑ति प॒वय॑ति दर्भपुञ्जी॒लै-र्द॑र्भपुञ्जी॒लैः प॒वय॑ति । 22) द॒र्भ॒पु॒ञ्जी॒लैरिति॑ दर्भ - पु॒ञ्जी॒लैः । 23) प॒वय॑ति॒ या याः प॒वय॑ति प॒वय॑ति॒ याः । 24) या ए॒वैव या या ए॒व । 25) ए॒व मेद्ध्या॒ मेद्ध्या॑ ए॒वैव मेद्ध्याः᳚ । 26) मेद्ध्या॑ य॒ज्ञिया॑ य॒ज्ञिया॒ मेद्ध्या॒ मेद्ध्या॑ य॒ज्ञियाः᳚ । 27) य॒ज्ञिया॒-स्सदे॑वा॒-स्सदे॑वा य॒ज्ञिया॑ य॒ज्ञिया॒-स्सदे॑वाः । 28) सदे॑वा॒ आप॒ आप॒-स्सदे॑वा॒-स्सदे॑वा॒ आपः॑ । 28) सदे॑वा॒ इति॒ स - दे॒वाः॒ । 29) आप॒ स्ताभि॒ स्ताभि॒ राप॒ आप॒ स्ताभिः॑ । 30) ताभि॑ रे॒वैव ताभि॒ स्ताभि॑ रे॒व । 31) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 32) ए॒न॒-म्प॒व॒य॒ति॒ प॒व॒य॒ त्ये॒न॒ मे॒न॒-म्प॒व॒य॒ति॒ । 33) प॒व॒य॒ति॒ द्वाभ्या॒-न्द्वाभ्या᳚-म्पवयति पवयति॒ द्वाभ्या᳚म् । 34) द्वाभ्या᳚-म्पवयति पवयति॒ द्वाभ्या॒-न्द्वाभ्या᳚-म्पवयति । 35) प॒व॒य॒ त्य॒हो॒रा॒त्राभ्या॑ महोरा॒त्राभ्या᳚-म्पवयति पवय त्यहोरा॒त्राभ्या᳚म् । 36) अ॒हो॒रा॒त्राभ्या॑ मे॒वै वाहो॑रा॒त्राभ्या॑ महोरा॒त्राभ्या॑ मे॒व । 36) अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । 37) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 38) ए॒न॒-म्प॒व॒य॒ति॒ प॒व॒य॒ त्ये॒न॒ मे॒न॒-म्प॒व॒य॒ति॒ । 39) प॒व॒य॒ति॒ त्रि॒भि स्त्रि॒भिः प॑वयति पवयति त्रि॒भिः । 40) त्रि॒भिः प॑वयति पवयति त्रि॒भि स्त्रि॒भिः प॑वयति । 40) त्रि॒भिरिति॑ त्रि - भिः । 41) प॒व॒य॒ति॒ त्रय॒ स्त्रयः॑ पवयति पवयति॒ त्रयः॑ । 42) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे । 43) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः । 44) लो॒का ए॒भि रे॒भि-र्लो॒का लो॒का ए॒भिः । 45) ए॒भि रे॒वै वैभि रे॒भि रे॒व । 46) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 47) ए॒न॒म् ँलो॒कै-र्लो॒कै रे॑न मेनम् ँलो॒कैः । 48) लो॒कैः प॑वयति पवयति लो॒कै-र्लो॒कैः प॑वयति । 49) प॒व॒य॒ति॒ प॒ञ्चभिः॑ प॒ञ्चभिः॑ पवयति पवयति प॒ञ्चभिः॑ । 50) प॒ञ्चभिः॑ पवयति पवयति प॒ञ्चभिः॑ प॒ञ्चभिः॑ पवयति । 50) प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ । ॥ 7 ॥ (50/56)
1) प॒व॒य॒ति॒ पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा पवयति पवयति॒ पञ्चा᳚क्षरा । 2) पञ्चा᳚क्षरा प॒ङ्क्तिः प॒ङ्क्तिः पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा प॒ङ्क्तिः । 2) पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । 3) प॒ङ्क्तिः पाङ्क्तः॒ पाङ्क्तः॑ प॒ङ्क्तिः प॒ङ्क्तिः पाङ्क्तः॑ । 4) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः । 5) य॒ज्ञो य॒ज्ञाय॑ य॒ज्ञाय॑ य॒ज्ञो य॒ज्ञो य॒ज्ञाय॑ । 6) य॒ज्ञायै॒ वैव य॒ज्ञाय॑ य॒ज्ञायै॒व । 7) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 8) ए॒न॒-म्प॒व॒य॒ति॒ प॒व॒य॒ त्ये॒न॒ मे॒न॒-म्प॒व॒य॒ति॒ । 9) प॒व॒य॒ति॒ ष॒ड्भि ष्ष॒ड्भिः प॑वयति पवयति ष॒ड्भिः । 10) ष॒ड्भिः प॑वयति पवयति ष॒ड्भि ष्ष॒ड्भिः प॑वयति । 10) ष॒ड्भिरिति॑ षट् - भिः । 11) प॒व॒य॒ति॒ ष-ट्थ्षट् प॑वयति पवयति॒ षट् । 12) ष-ड्वै वै ष-ट्थ्ष-ड्वै । 13) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 14) ऋ॒तव॑ ऋ॒तुभिर्॑. ऋ॒तुभिर्॑. ऋ॒तव॑ ऋ॒तव॑ ऋ॒तुभिः॑ । 15) ऋ॒तुभि॑ रे॒वैव र्तुभिर्॑. ऋ॒तुभि॑ रे॒व । 15) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । 16) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 17) ए॒न॒-म्प॒व॒य॒ति॒ प॒व॒य॒ त्ये॒न॒ मे॒न॒-म्प॒व॒य॒ति॒ । 18) प॒व॒य॒ति॒ स॒प्तभि॑-स्स॒प्तभिः॑ पवयति पवयति स॒प्तभिः॑ । 19) स॒प्तभिः॑ पवयति पवयति स॒प्तभि॑-स्स॒प्तभिः॑ पवयति । 19) स॒प्तभि॒रिति॑ स॒प्त - भिः॒ । 20) प॒व॒य॒ति॒ स॒प्त स॒प्त प॑वयति पवयति स॒प्त । 21) स॒प्त छन्दाग्ं॑सि॒ छन्दाग्ं॑सि स॒प्त स॒प्त छन्दाग्ं॑सि । 22) छन्दाग्ं॑सि॒ छन्दो॑भि॒ श्छन्दो॑भि॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ छन्दो॑भिः । 23) छन्दो॑भि रे॒वैव छन्दो॑भि॒ श्छन्दो॑भि रे॒व । 23) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 24) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 25) ए॒न॒-म्प॒व॒य॒ति॒ प॒व॒य॒ त्ये॒न॒ मे॒न॒-म्प॒व॒य॒ति॒ । 26) प॒व॒य॒ति॒ न॒वभि॑-र्न॒वभिः॑ पवयति पवयति न॒वभिः॑ । 27) न॒वभिः॑ पवयति पवयति न॒वभि॑-र्न॒वभिः॑ पवयति । 27) न॒वभि॒रिति॑ न॒व - भिः॒ । 28) प॒व॒य॒ति॒ नव॒ नव॑ पवयति पवयति॒ नव॑ । 29) नव॒ वै वै नव॒ नव॒ वै । 30) वै पुरु॑षे॒ पुरु॑षे॒ वै वै पुरु॑षे । 31) पुरु॑षे प्रा॒णाः प्रा॒णाः पुरु॑षे॒ पुरु॑षे प्रा॒णाः । 32) प्रा॒णा-स्सप्रा॑ण॒ग्ं॒ सप्रा॑ण-म्प्रा॒णाः प्रा॒णा-स्सप्रा॑णम् । 32) प्रा॒णा इति॑ प्र - अ॒नाः । 33) सप्रा॑ण मे॒वैव सप्रा॑ण॒ग्ं॒ सप्रा॑ण मे॒व । 33) सप्रा॑ण॒मिति॒ स - प्रा॒ण॒म् । 34) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 35) ए॒न॒-म्प॒व॒य॒ति॒ प॒व॒य॒ त्ये॒न॒ मे॒न॒-म्प॒व॒य॒ति॒ । 36) प॒व॒य॒ त्येक॑विग्ंश॒त्यै क॑विग्ंशत्या पवयति पवय॒ त्येक॑विग्ंशत्या । 37) एक॑विग्ंशत्या पवयति पवय॒त्येक॑विग्ंश॒ त्यैक॑विग्ंशत्या पवयति । 37) एक॑विग्ंश॒त्येत्येक॑ - वि॒ग्ं॒श॒त्या॒ । 38) प॒व॒य॒ति॒ दश॒ दश॑ पवयति पवयति॒ दश॑ । 39) दश॒ हस्त्या॒ हस्त्या॒ दश॒ दश॒ हस्त्याः᳚ । 40) हस्त्या॑ अ॒ङ्गुल॑यो॒ ऽङ्गुल॑यो॒ हस्त्या॒ हस्त्या॑ अ॒ङ्गुल॑यः । 41) अ॒ङ्गुल॑यो॒ दश॒ दशा॒ ङ्गुल॑यो॒ ऽङ्गुल॑यो॒ दश॑ । 42) दश॒ पद्याः॒ पद्या॒ दश॒ दश॒ पद्याः᳚ । 43) पद्या॑ आ॒त्मा ऽऽत्मा पद्याः॒ पद्या॑ आ॒त्मा । 44) आ॒त्मै क॑वि॒ग्ं॒श ए॑कवि॒ग्ं॒श आ॒त्मा ऽऽत्मै क॑वि॒ग्ं॒शः । 45) ए॒क॒वि॒ग्ं॒शो यावा॒न्॒. यावा॑ नेकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो यावान्॑ । 45) ए॒क॒वि॒ग्ं॒श इत्येक॑ - वि॒ग्ं॒शः । 46) यावा॑ने॒ वैव यावा॒न्॒. यावा॑ने॒व । 47) ए॒व पुरु॑षः॒ पुरु॑ष ए॒वैव पुरु॑षः । 48) पुरु॑ष॒ स्त-न्त-म्पुरु॑षः॒ पुरु॑ष॒ स्तम् । 49) तमप॑रिवर्ग॒ मप॑रिवर्ग॒-न्त-न्तमप॑रिवर्गम् । 50) अप॑रिवर्ग-म्पवयति पवय॒ त्यप॑रिवर्ग॒ मप॑रिवर्ग-म्पवयति । 50) अप॑रिवर्ग॒मित्यप॑रि - व॒र्ग॒म् । ॥ 8 ॥ (50/61)
1) प॒व॒य॒ति॒ चि॒त्पति॑ श्चि॒त्पतिः॑ पवयति पवयति चि॒त्पतिः॑ । 2) चि॒त्पति॑ स्त्वा त्वा चि॒त्पति॑ श्चि॒त्पति॑ स्त्वा । 2) चि॒त्पति॒रिति॑ चित् - पतिः॑ । 3) त्वा॒ पु॒ना॒तु॒ पु॒ना॒तु॒ त्वा॒ त्वा॒ पु॒ना॒तु॒ । 4) पु॒ना॒ त्वितीति॑ पुनातु पुना॒ त्विति॑ । 5) इत्या॑हा॒हे तीत्या॑ह । 6) आ॒ह॒ मनो॒ मन॑ आहाह॒ मनः॑ । 7) मनो॒ वै वै मनो॒ मनो॒ वै । 8) वै चि॒त्पति॑ श्चि॒त्पति॒-र्वै वै चि॒त्पतिः॑ । 9) चि॒त्पति॒-र्मन॑सा॒ मन॑सा चि॒त्पति॑ श्चि॒त्पति॒-र्मन॑सा । 9) चि॒त्पति॒रिति॑ चित् - पतिः॑ । 10) मन॑सै॒ वैव मन॑सा॒ मन॑ सै॒व । 11) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 12) ए॒न॒-म्प॒व॒य॒ति॒ प॒व॒य॒ त्ये॒न॒ मे॒न॒-म्प॒व॒य॒ति॒ । 13) प॒व॒य॒ति॒ वा॒क्पति॑-र्वा॒क्पतिः॑ पवयति पवयति वा॒क्पतिः॑ । 14) वा॒क्पति॑ स्त्वा त्वा वा॒क्पति॑-र्वा॒क्पति॑ स्त्वा । 14) वा॒क्पति॒रिति॑ वाक् - पतिः॑ । 15) त्वा॒ पु॒ना॒तु॒ पु॒ना॒तु॒ त्वा॒ त्वा॒ पु॒ना॒तु॒ । 16) पु॒ना॒ त्वितीति॑ पुनातु पुना॒ त्विति॑ । 17) इत्या॑हा॒हे तीत्या॑ह । 18) आ॒ह॒ वा॒चा वा॒चा ऽऽहा॑ह वा॒चा । 19) वा॒चै वैव वा॒चा वा॒चैव । 20) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 21) ए॒न॒-म्प॒व॒य॒ति॒ प॒व॒य॒ त्ये॒न॒ मे॒न॒-म्प॒व॒य॒ति॒ । 22) प॒व॒य॒ति॒ दे॒वो दे॒वः प॑वयति पवयति दे॒वः । 23) दे॒व स्त्वा᳚ त्वा दे॒वो दे॒व स्त्वा᳚ । 24) त्वा॒ स॒वि॒ता स॑वि॒ता त्वा᳚ त्वा सवि॒ता । 25) स॒वि॒ता पु॑नातु पुनातु सवि॒ता स॑वि॒ता पु॑नातु । 26) पु॒ना॒ त्वितीति॑ पुनातु पुना॒ त्विति॑ । 27) इत्या॑हा॒हे तीत्या॑ह । 28) आ॒ह॒ स॒वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत आहाह सवि॒तृप्र॑सूतः । 29) स॒वि॒तृप्र॑सूत ए॒वैव स॑वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत ए॒व । 29) स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ । 30) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 31) ए॒न॒-म्प॒व॒य॒ति॒ प॒व॒य॒ त्ये॒न॒ मे॒न॒-म्प॒व॒य॒ति॒ । 32) प॒व॒य॒ति॒ तस्य॒ तस्य॑ पवयति पवयति॒ तस्य॑ । 33) तस्य॑ ते ते॒ तस्य॒ तस्य॑ ते । 34) ते॒ प॒वि॒त्र॒प॒ते॒ प॒वि॒त्र॒प॒ते॒ ते॒ ते॒ प॒वि॒त्र॒प॒ते॒ । 35) प॒वि॒त्र॒प॒ते॒ प॒वित्रे॑ण प॒वित्रे॑ण पवित्रपते पवित्रपते प॒वित्रे॑ण । 35) प॒वि॒त्र॒प॒त॒ इति॑ पवित्र - प॒ते॒ । 36) प॒वित्रे॑ण॒ यस्मै॒ यस्मै॑ प॒वित्रे॑ण प॒वित्रे॑ण॒ यस्मै᳚ । 37) यस्मै॒ क-ङ्कं-यँस्मै॒ यस्मै॒ कम् । 38) क-म्पु॒ने पु॒ने क-ङ्क-म्पु॒ने । 39) पु॒ने त-त्त-त्पु॒ने पु॒ने तत् । 40) तच्छ॑केयग्ं शकेय॒-न्त-त्तच्छ॑केयम् । 41) श॒के॒य॒ मितीति॑ शकेयग्ं शकेय॒ मिति॑ । 42) इत्या॑हा॒हे तीत्या॑ह । 43) आ॒हा॒शिष॑ मा॒शिष॑ माहाहा॒ शिष᳚म् । 44) आ॒शिष॑ मे॒वै वाशिष॑ मा॒शिष॑ मे॒व । 44) आ॒शिष॒मित्या᳚ - शिष᳚म् । 45) ए॒वैता मे॒ता मे॒वै वैताम् । 46) ए॒ता मैता मे॒ता मा । 47) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते । 48) शा॒स्त॒ इति॑ शास्ते । ॥ 9 ॥ (48/54) ॥ अ. 1 ॥
1) याव॑न्तो॒ वै वै याव॑न्तो॒ याव॑न्तो॒ वै । 2) वै दे॒वा दे॒वा वै वै दे॒वाः । 3) दे॒वा य॒ज्ञाय॑ य॒ज्ञाय॑ दे॒वा दे॒वा य॒ज्ञाय॑ । 4) य॒ज्ञाया पु॑न॒ता पु॑नत य॒ज्ञाय॑ य॒ज्ञाया पु॑नत । 5) अपु॑नत॒ ते ते ऽपु॑न॒ता पु॑नत॒ ते । 6) त ए॒वैव ते त ए॒व । 7) ए॒वाभ॑व-न्नभवन्ने॒ वैवा भ॑वन्न् । 8) अ॒भ॒व॒न्॒. यो यो॑ ऽभवन्न भव॒न्॒. यः । 9) य ए॒व मे॒वं-योँ य ए॒वम् । 10) ए॒वं-विँ॒द्वान्. वि॒द्वाने॒व मे॒वं-विँ॒द्वान् । 11) वि॒द्वान्. य॒ज्ञाय॑ य॒ज्ञाय॑ वि॒द्वान्. वि॒द्वान्. य॒ज्ञाय॑ । 12) य॒ज्ञाय॑ पुनी॒ते पु॑नी॒ते य॒ज्ञाय॑ य॒ज्ञाय॑ पुनी॒ते । 13) पु॒नी॒ते भव॑ति॒ भव॑ति पुनी॒ते पु॑नी॒ते भव॑ति । 14) भव॑ त्ये॒वैव भव॑ति॒ भव॑ त्ये॒व । 15) ए॒व ब॒हि-र्ब॒हि रे॒वैव ब॒हिः । 16) ब॒हिः प॑वयि॒त्वा प॑वयि॒त्वा ब॒हि-र्ब॒हिः प॑वयि॒त्वा । 17) प॒व॒यि॒त्वा ऽन्त र॒न्तः प॑वयि॒त्वा प॑वयि॒त्वा ऽन्तः । 18) अ॒न्तः प्र प्रान्त र॒न्तः प्र । 19) प्र पा॑दयति पादयति॒ प्र प्र पा॑दयति । 20) पा॒द॒य॒ति॒ म॒नु॒ष्य॒लो॒के म॑नुष्यलो॒के पा॑दयति पादयति मनुष्यलो॒के । 21) म॒नु॒ष्य॒लो॒क ए॒वैव म॑नुष्यलो॒के म॑नुष्यलो॒क ए॒व । 21) म॒नु॒ष्य॒लो॒क इति॑ मनुष्य - लो॒के । 22) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 23) ए॒न॒-म्प॒व॒यि॒त्वा प॑वयि॒त्वैन॑ मेन-म्पवयि॒त्वा । 24) प॒व॒यि॒त्वा पू॒त-म्पू॒त-म्प॑वयि॒त्वा प॑वयि॒त्वा पू॒तम् । 25) पू॒त-न्दे॑वलो॒क-न्दे॑वलो॒क-म्पू॒त-म्पू॒त-न्दे॑वलो॒कम् । 26) दे॒व॒लो॒क-म्प्र प्र दे॑वलो॒क-न्दे॑वलो॒क-म्प्र । 26) दे॒व॒लो॒कमिति॑ देव - लो॒कम् । 27) प्र ण॑यति नयति॒ प्र प्र ण॑यति । 28) न॒य॒ त्यदी᳚क्षि॒तो ऽदी᳚क्षितो नयति नय॒ त्यदी᳚क्षितः । 29) अदी᳚क्षित॒ एक॒यैक॒या ऽदी᳚क्षि॒तो ऽदी᳚क्षित॒ एक॑या । 30) एक॒या ऽऽहु॒त्या ऽऽहु॒ त्यैक॒ यैक॒या ऽऽहु॑त्या । 31) आहु॒त्ये तीत्या हु॒त्या ऽऽहु॒ त्येति॑ । 31) आहु॒त्येत्या - हु॒त्या॒ । 32) इत्या॑हु राहु॒ रिती त्या॑हुः । 33) आ॒हु॒-स्स्रु॒वेण॑ स्रु॒वेणा॑ हुराहु-स्स्रु॒वेण॑ । 34) स्रु॒वेण॒ चत॑स्र॒ श्चत॑स्र-स्स्रु॒वेण॑ स्रु॒वेण॒ चत॑स्रः । 35) चत॑स्रो जुहोति जुहोति॒ चत॑स्र॒ श्चत॑स्रो जुहोति । 36) जु॒हो॒ति॒ दी॒क्षि॒त॒त्वाय॑ दीक्षित॒त्वाय॑ जुहोति जुहोति दीक्षित॒त्वाय॑ । 37) दी॒क्षि॒त॒त्वाय॑ स्रु॒चा स्रु॒चा दी᳚क्षित॒त्वाय॑ दीक्षित॒त्वाय॑ स्रु॒चा । 37) दी॒क्षि॒त॒त्वायेति॑ दीक्षित - त्वाय॑ । 38) स्रु॒चा प॑ञ्च॒मी-म्प॑ञ्च॒मीग् स्रु॒चा स्रु॒चा प॑ञ्च॒मीम् । 39) प॒ञ्च॒मी-म्पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा पञ्च॒मी-म्प॑ञ्च॒मी-म्पञ्चा᳚क्षरा । 40) पञ्चा᳚क्षरा प॒ङ्क्तिः प॒ङ्क्तिः पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा प॒ङ्क्तिः । 40) पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । 41) प॒ङ्क्तिः पाङ्क्तः॒ पाङ्क्तः॑ प॒ङ्क्तिः प॒ङ्क्तिः पाङ्क्तः॑ । 42) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः । 43) य॒ज्ञो य॒ज्ञं-यँ॒ज्ञं-यँ॒ज्ञो य॒ज्ञो य॒ज्ञम् । 44) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 45) ए॒वावा वै॒वै वाव॑ । 46) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 47) रु॒न्ध॒ आकू᳚त्या॒ आकू᳚त्यै रुन्धे रुन्ध॒ आकू᳚त्यै । 48) आकू᳚त्यै प्र॒युजे᳚ प्र॒युज॒ आकू᳚त्या॒ आकू᳚त्यै प्र॒युजे᳚ । 48) आकू᳚त्या॒ इत्या - कू॒त्यै॒ । 49) प्र॒युजे॒ ऽग्नये॒ ऽग्नये᳚ प्र॒युजे᳚ प्र॒युजे॒ ऽग्नये᳚ । 49) प्र॒युज॒ इति॑ प्र - युजे᳚ । 50) अ॒ग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये॒ ऽग्नये॒ स्वाहा᳚ । ॥ 10 ॥ (50/57)
1) स्वाहेतीति॒ स्वाहा॒ स्वाहेति॑ । 2) इत्या॑हा॒हे तीत्या॑ह । 3) आ॒हा कू॒त्या ऽऽकू᳚त्या ऽऽहा॒हा कू᳚त्या । 4) आकू᳚त्या॒ हि ह्याकू॒त्या ऽऽकू᳚त्या॒ हि । 4) आकू॒त्येत्या - कू॒त्या॒ । 5) हि पुरु॑षः॒ पुरु॑षो॒ हि हि पुरु॑षः । 6) पुरु॑षो य॒ज्ञं-यँ॒ज्ञ-म्पुरु॑षः॒ पुरु॑षो य॒ज्ञम् । 7) य॒ज्ञ म॒भ्य॑भि य॒ज्ञं-यँ॒ज्ञ म॒भि । 8) अ॒भि प्र॑यु॒ङ्क्ते प्र॑यु॒ङ्क्ते᳚(1॒) ऽभ्य॑भि प्र॑यु॒ङ्क्ते । 9) प्र॒यु॒ङ्क्ते यजे॑य॒ यजे॑य प्रयु॒ङ्क्ते प्र॑यु॒ङ्क्ते यजे॑य । 9) प्र॒यु॒ङ्क्त इति॑ प्र - यु॒ङ्क्ते । 10) यजे॒ये तीति॒ यजे॑य॒ यजे॒येति॑ । 11) इति॑ मे॒धायै॑ मे॒धाया॒ इतीति॑ मे॒धायै᳚ । 12) मे॒धायै॒ मन॑से॒ मन॑से मे॒धायै॑ मे॒धायै॒ मन॑से । 13) मन॑से॒ ऽग्नये॒ ऽग्नये॒ मन॑से॒ मन॑से॒ ऽग्नये᳚ । 14) अ॒ग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये॒ ऽग्नये॒ स्वाहा᳚ । 15) स्वाहे तीति॒ स्वाहा॒ स्वाहेति॑ । 16) इत्या॑हा॒हे तीत्या॑ह । 17) आ॒ह॒ मे॒धया॑ मे॒धया॑ ऽऽहाह मे॒धया᳚ । 18) मे॒धया॒ हि हि मे॒धया॑ मे॒धया॒ हि । 19) हि मन॑सा॒ मन॑सा॒ हि हि मन॑सा । 20) मन॑सा॒ पुरु॑षः॒ पुरु॑षो॒ मन॑सा॒ मन॑सा॒ पुरु॑षः । 21) पुरु॑षो य॒ज्ञं-यँ॒ज्ञ-म्पुरु॑षः॒ पुरु॑षो य॒ज्ञम् । 22) य॒ज्ञ म॑भि॒गच्छ॑ त्यभि॒गच्छ॑ति य॒ज्ञं-यँ॒ज्ञ म॑भि॒गच्छ॑ति । 23) अ॒भि॒गच्छ॑ति॒ सर॑स्वत्यै॒ सर॑स्वत्या अभि॒गच्छ॑ त्यभि॒गच्छ॑ति॒ सर॑स्वत्यै । 23) अ॒भि॒गच्छ॒तीत्य॑भि - गच्छ॑ति । 24) सर॑स्वत्यै पू॒ष्णे पू॒ष्णे सर॑स्वत्यै॒ सर॑स्वत्यै पू॒ष्णे । 25) पू॒ष्णे᳚ ऽग्नये॒ ऽग्नये॑ पू॒ष्णे पू॒ष्णे᳚ ऽग्नये᳚ । 26) अ॒ग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये॒ ऽग्नये॒ स्वाहा᳚ । 27) स्वाहे तीति॒ स्वाहा॒ स्वाहेति॑ । 28) इत्या॑हा॒हे तीत्या॑ह । 29) आ॒ह॒ वाग् वागा॑ हाह॒ वाक् । 30) वाग् वै वै वाग् वाग् वै । 31) वै सर॑स्वती॒ सर॑स्वती॒ वै वै सर॑स्वती । 32) सर॑स्वती पृथि॒वी पृ॑थि॒वी सर॑स्वती॒ सर॑स्वती पृथि॒वी । 33) पृ॒थि॒वी पू॒षा पू॒षा पृ॑थि॒वी पृ॑थि॒वी पू॒षा । 34) पू॒षा वा॒चा वा॒चा पू॒षा पू॒षा वा॒चा । 35) वा॒चै वैव वा॒चा वा॒चैव । 36) ए॒व पृ॑थि॒व्या पृ॑थि॒व्यै वैव पृ॑थि॒व्या । 37) पृ॒थि॒व्या य॒ज्ञं-यँ॒ज्ञ-म्पृ॑थि॒व्या पृ॑थि॒व्या य॒ज्ञम् । 38) य॒ज्ञ-म्प्र प्र य॒ज्ञं-यँ॒ज्ञ-म्प्र । 39) प्र यु॑ङ्क्ते युङ्क्ते॒ प्र प्र यु॑ङ्क्ते । 40) यु॒ङ्क्त॒ आप॒ आपो॑ युङ्क्ते युङ्क्त॒ आपः॑ । 41) आपो॑ देवी-र्देवी॒ राप॒ आपो॑ देवीः । 42) दे॒वी॒-र्बृ॒ह॒ती॒-र्बृ॒ह॒ती॒-र्दे॒वी॒-र्दे॒वी॒-र्बृ॒ह॒तीः॒ । 43) बृ॒ह॒ती॒-र्वि॒श्व॒श॒म्भु॒वो॒ वि॒श्व॒श॒म्भु॒वो॒ बृ॒ह॒ती॒-र्बृ॒ह॒ती॒-र्वि॒श्व॒श॒म्भु॒वः॒ । 44) वि॒श्व॒श॒म्भु॒व॒ इतीति॑ विश्वशम्भुवो विश्वशम्भुव॒ इति॑ । 44) वि॒श्व॒श॒म्भु॒व॒ इति॑ विश्व - श॒म्भु॒वः॒ । 45) इत्या॑हा॒हे तीत्या॑ह । 46) आ॒ह॒ या या आ॑हाह॒ याः । 47) या वै वै या या वै । 48) वै वर्ष्या॒ वर्ष्या॒ वै वै वर्ष्याः᳚ । 49) वर्ष्या॒ स्ता स्ता वर्ष्या॒ वर्ष्या॒ स्ताः । 50) ता आप॒ आप॒ स्ता स्ता आपः॑ । ॥ 11 ॥ (50/54)
1) आपो॑ दे॒वी-र्दे॒वी राप॒ आपो॑ दे॒वीः । 2) दे॒वी-र्बृ॑ह॒ती-र्बृ॑ह॒ती-र्दे॒वी-र्दे॒वी-र्बृ॑ह॒तीः । 3) बृ॒ह॒ती-र्वि॒श्वश॑म्भुवो वि॒श्वश॑म्भुवो बृह॒ती-र्बृ॑ह॒ती-र्वि॒श्वश॑म्भुवः । 4) वि॒श्वश॑म्भुवो॒ य-द्य-द्वि॒श्वश॑म्भुवो वि॒श्वश॑म्भुवो॒ यत् । 4) वि॒श्वश॑म्भुव॒ इति॑ वि॒श्व - श॒म्भु॒वः॒ । 5) यदे॒त दे॒त-द्य-द्यदे॒तत् । 6) ए॒त-द्यजु॒-र्यजु॑ रे॒त दे॒त-द्यजुः॑ । 7) यजु॒-र्न न यजु॒-र्यजु॒-र्न । 8) न ब्रू॒या-द्ब्रू॒या-न्न न ब्रू॒यात् । 9) ब्रू॒या-द्दि॒व्या दि॒व्या ब्रू॒या-द्ब्रू॒या-द्दि॒व्याः । 10) दि॒व्या आप॒ आपो॑ दि॒व्या दि॒व्या आपः॑ । 11) आपो ऽशा᳚न्ता॒ अशा᳚न्ता॒ आप॒ आपो ऽशा᳚न्ताः । 12) अशा᳚न्ता इ॒म मि॒म मशा᳚न्ता॒ अशा᳚न्ता इ॒मम् । 13) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् । 14) लो॒क मा लो॒कम् ँलो॒क मा । 15) आ ग॑च्छेयु-र्गच्छेयु॒रा ग॑च्छेयुः । 16) ग॒च्छे॒यु॒ राप॒ आपो॑ गच्छेयु-र्गच्छेयु॒ रापः॑ । 17) आपो॑ देवी-र्देवी॒ राप॒ आपो॑ देवीः । 18) दे॒वी॒-र्बृ॒ह॒ती॒-र्बृ॒ह॒ती॒-र्दे॒वी॒-र्दे॒वी॒-र्बृ॒ह॒तीः॒ । 19) बृ॒ह॒ती॒-र्वि॒श्व॒श॒म्भु॒वो॒ वि॒श्व॒श॒म्भु॒वो॒ बृ॒ह॒ती॒-र्बृ॒ह॒ती॒-र्वि॒श्व॒श॒म्भु॒वः॒ । 20) वि॒श्व॒श॒म्भु॒व॒ इतीति॑ विश्वशम्भुवो विश्वशम्भुव॒ इति॑ । 20) वि॒श्व॒श॒म्भु॒व॒ इति॑ विश्व - श॒म्भु॒वः॒ । 21) इत्या॑हा॒हे तीत्या॑ह । 22) आ॒हा॒स्मा अ॒स्मा आ॑हा हा॒स्मै । 23) अ॒स्मा ए॒वै वास्मा अ॒स्मा ए॒व । 24) ए॒वैना॑ एना ए॒वै वैनाः᳚ । 25) ए॒ना॒ लो॒काय॑ लो॒कायै॑ना एना लो॒काय॑ । 26) लो॒काय॑ शमयति शमयति लो॒काय॑ लो॒काय॑ शमयति । 27) श॒म॒य॒ति॒ तस्मा॒-त्तस्मा᳚ च्छमयति शमयति॒ तस्मा᳚त् । 28) तस्मा᳚ च्छा॒न्ता-श्शा॒न्ता स्तस्मा॒-त्तस्मा᳚ च्छा॒न्ताः । 29) शा॒न्ता इ॒म मि॒मग्ं शा॒न्ता-श्शा॒न्ता इ॒मम् । 30) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् । 31) लो॒क मा लो॒कम् ँलो॒क मा । 32) आ ग॑च्छन्ति गच्छ॒न्त्या ग॑च्छन्ति । 33) ग॒च्छ॒न्ति॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी ग॑च्छन्ति गच्छन्ति॒ द्यावा॑पृथि॒वी । 34) द्यावा॑पृथि॒वी इतीति॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी इति॑ । 34) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । 35) इत्या॑हा॒हे तीत्या॑ह । 36) आ॒ह॒ द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒व्यो रा॑हाह॒ द्यावा॑पृथि॒व्योः । 37) द्यावा॑पृथि॒व्योर्-हि हि द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒व्योर्-हि । 37) द्यावा॑पृथि॒व्योरिति॒ द्यावा᳚ - पृ॒थि॒व्योः । 38) हि य॒ज्ञो य॒ज्ञो हि हि य॒ज्ञः । 39) य॒ज्ञ उ॒रू॑रु य॒ज्ञो य॒ज्ञ उ॒रु । 40) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्षम् । 41) अ॒न्तरि॑क्ष॒ मितीत्य॒ न्तरि॑क्ष म॒न्तरि॑क्ष॒ मिति॑ । 42) इत्या॑हा॒हे तीत्या॑ह । 43) आ॒हा॒न्तरि॑क्षे॒ ऽन्तरि॑क्ष आहाहा॒ न्तरि॑क्षे । 44) अ॒न्तरि॑क्षे॒ हि ह्य॑न्तरि॑क्षे॒ ऽन्तरि॑क्षे॒ हि । 45) हि य॒ज्ञो य॒ज्ञो हि हि य॒ज्ञः । 46) य॒ज्ञो बृह॒स्पति॒-र्बृह॒स्पति॑-र्य॒ज्ञो य॒ज्ञो बृह॒स्पतिः॑ । 47) बृह॒स्पति॑-र्नो नो॒ बृह॒स्पति॒-र्बृह॒स्पति॑-र्नः । 48) नो॒ ह॒विषा॑ ह॒विषा॑ नो नो ह॒विषा᳚ । 49) ह॒विषा॑ वृधातु वृधातु ह॒विषा॑ ह॒विषा॑ वृधातु । 50) वृ॒धा॒ त्वितीति॑ वृधातु वृधा॒ त्विति॑ । ॥ 12 ॥ (50/54)
1) इत्या॑हा॒हे तीत्या॑ह । 2) आ॒ह॒ ब्रह्म॒ ब्रह्मा॑हाह॒ ब्रह्म॑ । 3) ब्रह्म॒ वै वै ब्रह्म॒ ब्रह्म॒ वै । 4) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 5) दे॒वाना॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वाना᳚-न्दे॒वाना॒-म्बृह॒स्पतिः॑ । 6) बृह॒स्पति॒-र्ब्रह्म॑णा॒ ब्रह्म॑णा॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्ब्रह्म॑णा । 7) ब्रह्म॑णै॒ वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व । 8) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 9) अ॒स्मै॒ य॒ज्ञं-यँ॒ज्ञ म॑स्मा अस्मै य॒ज्ञम् । 10) य॒ज्ञ मवाव॑ य॒ज्ञं-यँ॒ज्ञ मव॑ । 11) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 12) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् । 13) य-द्ब्रू॒या-द्ब्रू॒या-द्य-द्य-द्ब्रू॒यात् । 14) ब्रू॒या-द्वि॑धे-र्विधे-र्ब्रू॒या-द्ब्रू॒या-द्वि॑धेः । 15) वि॒धे॒ रितीति॑ विधे-र्विधे॒ रिति॑ । 16) इति॑ यज्ञस्था॒णुं-यँ॑ज्ञस्था॒णु मितीति॑ यज्ञस्था॒णुम् । 17) य॒ज्ञ॒स्था॒णु मृ॑च्छे दृच्छे-द्यज्ञस्था॒णुं-यँ॑ज्ञस्था॒णु मृ॑च्छेत् । 17) य॒ज्ञ॒स्था॒णुमिति॑ यज्ञ - स्था॒णुम् । 18) ऋ॒च्छे॒-द्वृ॒धा॒तु॒ वृ॒धा॒ त्वृ॒च्छे॒ दृ॒च्छे॒-द्वृ॒धा॒तु॒ । 19) वृ॒धा॒ त्वितीति॑ वृधातु वृधा॒ त्विति॑ । 20) इत्या॑हा॒हे तीत्या॑ह । 21) आ॒ह॒ य॒ज्ञ॒स्था॒णुं-यँ॑ज्ञस्था॒णु मा॑हाह यज्ञस्था॒णुम् । 22) य॒ज्ञ॒स्था॒णु मे॒वैव य॑ज्ञस्था॒णुं-यँ॑ज्ञस्था॒णु मे॒व । 22) य॒ज्ञ॒स्था॒णुमिति॑ यज्ञ - स्था॒णुम् । 23) ए॒व परि॒ पर्ये॒ वैव परि॑ । 24) परि॑ वृणक्ति वृणक्ति॒ परि॒ परि॑ वृणक्ति । 25) वृ॒ण॒क्ति॒ प्र॒जाप॑तिः प्र॒जाप॑ति-र्वृणक्ति वृणक्ति प्र॒जाप॑तिः । 26) प्र॒जाप॑ति-र्य॒ज्ञं-यँ॒ज्ञ-म्प्र॒जाप॑तिः प्र॒जाप॑ति-र्य॒ज्ञम् । 26) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 27) य॒ज्ञ म॑सृजता सृजत य॒ज्ञं-यँ॒ज्ञ म॑सृजत । 28) अ॒सृ॒ज॒त॒ स सो॑ ऽसृजता सृजत॒ सः । 29) सो᳚ ऽस्मा दस्मा॒-थ्स सो᳚ ऽस्मात् । 30) अ॒स्मा॒-थ्सृ॒ष्ट-स्सृ॒ष्टो᳚ ऽस्मा दस्मा-थ्सृ॒ष्टः । 31) सृ॒ष्टः परा॒-म्परा᳚-ङ्ख्सृ॒ष्ट-स्सृ॒ष्टः परां॑ । 32) परां॑ऐदै॒-त्परा॒-म्परां॑ऐत् । 33) ऐ॒-थ्स स ऐ॑दै॒-थ्सः । 34) स प्र प्र स स प्र । 35) प्र यजु॒-र्यजुः॒ प्र प्र यजुः॑ । 36) यजु॒ रव्ली॑ना॒ दव्ली॑ना॒-द्यजु॒-र्यजु॒ रव्ली॑नात् । 37) अव्ली॑ना॒-त्प्र प्राव्ली॑ना॒ दव्ली॑ना॒-त्प्र । 38) प्र साम॒ साम॒ प्र प्र साम॑ । 39) साम॒ त-न्तग्ं साम॒ साम॒ तम् । 40) त मृगृ-क्त-न्त मृक् । 41) ऋगुदु दृगृगुत् । 42) उद॑यच्छ दयच्छ॒ दुदु द॑यच्छत् । 43) अ॒य॒च्छ॒-द्य-द्यद॑यच्छ दयच्छ॒-द्यत् । 44) य-दृगृग् य-द्यदृक् । 45) ऋगु॒दय॑च्छ दु॒दय॑च्छ॒ दृगृगु॒ दय॑च्छत् । 46) उ॒दय॑च्छ॒-त्त-त्तदु॒दय॑च्छ दु॒दय॑च्छ॒-त्तत् । 46) उ॒दय॑च्छ॒दित्यु॑त् - अय॑च्छत् । 47) तदौ᳚द्ग्रह॒णस्यौ᳚ द्ग्रह॒णस्य॒ त-त्तदौ᳚द्ग्रह॒णस्य॑ । 48) औ॒द्ग्र॒ह॒ण स्यौ᳚द्ग्रहण॒त्व मौ᳚द्ग्रहण॒त्व मौ᳚द्ग्रह॒ण स्यौ᳚द्ग्रह॒ण स्यौ᳚द्ग्रहण॒त्वम् । 48) औ॒द्ग्र॒ह॒णस्येत्यौ᳚त् - ग्र॒ह॒णस्य॑ । 49) औ॒द्ग्र॒ह॒ण॒त्व मृ॒च र्चौद्ग्र॑हण॒त्व मौ᳚द्ग्रहण॒त्व मृ॒चा । 49) औ॒द्ग्र॒ह॒ण॒त्वमित्यौ᳚द्ग्रहण - त्वम् । 50) ऋ॒चा जु॑होति जुहो त्यृ॒च र्चा जु॑होति । ॥ 13 ॥ (50/56)
1) जु॒हो॒ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ जुहोति जुहोति य॒ज्ञस्य॑ । 2) य॒ज्ञ स्योद्य॑त्या॒ उद्य॑त्यै य॒ज्ञस्य॑ य॒ज्ञ स्योद्य॑त्यै । 3) उद्य॑त्या अनु॒ष्टुब॑ नु॒ष्टु बुद्य॑त्या॒ उद्य॑त्या अनु॒ष्टुप् । 3) उद्य॑त्या॒ इत्युत् - य॒त्यै॒ । 4) अ॒नु॒ष्टु-प्छन्द॑सा॒-ञ्छन्द॑सा मनु॒ष्टु ब॑नु॒ष्टु-प्छन्द॑साम् । 4) अ॒नु॒ष्टुबित्य॑नु - स्तुप् । 5) छन्द॑सा॒ मुदु च्छन्द॑सा॒-ञ्छन्द॑सा॒ मुत् । 6) उद॑यच्छ दयच्छ॒ दुदु द॑यच्छत् । 7) अ॒य॒च्छ॒ दिती त्य॑यच्छ दयच्छ॒ दिति॑ । 8) इत्या॑हु राहु॒ रिती त्या॑हुः । 9) आ॒हु॒ स्तस्मा॒-त्तस्मा॑ दाहु राहु॒ स्तस्मा᳚त् । 10) तस्मा॑ दनु॒ष्टुभा॑ ऽनु॒ष्टुभा॒ तस्मा॒-त्तस्मा॑ दनु॒ष्टुभा᳚ । 11) अ॒नु॒ष्टुभा॑ जुहोति जुहो त्यनु॒ष्टुभा॑ ऽनु॒ष्टुभा॑ जुहोति । 11) अ॒नु॒ष्टुभेत्य॑नु - स्तुभा᳚ । 12) जु॒हो॒ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ जुहोति जुहोति य॒ज्ञस्य॑ । 13) य॒ज्ञ स्योद्य॑त्या॒ उद्य॑त्यै य॒ज्ञस्य॑ य॒ज्ञ स्योद्य॑त्यै । 14) उद्य॑त्यै॒ द्वाद॑श॒ द्वाद॒शो द्य॑त्या॒ उद्य॑त्यै॒ द्वाद॑श । 14) उद्य॑त्या॒ इत्युत् - य॒त्यै॒ । 15) द्वाद॑श वाथ्सब॒न्धानि॑ वाथ्सब॒न्धानि॒ द्वाद॑श॒ द्वाद॑श वाथ्सब॒न्धानि॑ । 16) वा॒थ्स॒ब॒न्धा न्युदु-द्वा᳚थ्सब॒न्धानि॑ वाथ्सब॒न्धा न्युत् । 16) वा॒थ्स॒ब॒न्धानीति॑ वाथ्स - ब॒न्धानि॑ । 17) उद॑यच्छ-न्नयच्छ॒-न्नुदु द॑यच्छन्न् । 18) अ॒य॒च्छ॒-न्निती त्य॑यच्छ-न्नयच्छ॒-न्निति॑ । 19) इत्या॑हु राहु॒ रिती त्या॑हुः । 20) आ॒हु॒ स्तस्मा॒-त्तस्मा॑ दाहु राहु॒ स्तस्मा᳚त् । 21) तस्मा᳚-द्द्वाद॒शभि॑-र्द्वाद॒शभि॒ स्तस्मा॒-त्तस्मा᳚-द्द्वाद॒शभिः॑ । 22) द्वा॒द॒शभि॑-र्वाथ्सबन्ध॒विदो॑ वाथ्सबन्ध॒विदो᳚ द्वाद॒शभि॑-र्द्वाद॒शभि॑-र्वाथ्सबन्ध॒विदः॑ । 22) द्वा॒द॒शभि॒रिति॑ द्वाद॒श - भिः॒ । 23) वा॒थ्स॒ब॒न्ध॒विदो॑ दीक्षयन्ति दीक्षयन्ति वाथ्सबन्ध॒विदो॑ वाथ्सबन्ध॒विदो॑ दीक्षयन्ति । 23) वा॒थ्स॒ब॒न्ध॒विद॒ इति॑ वाथ्सबन्ध - विदः॑ । 24) दी॒क्ष॒य॒न्ति॒ सा सा दी᳚क्षयन्ति दीक्षयन्ति॒ सा । 25) सा वै वै सा सा वै । 26) वा ए॒षैषा वै वा ए॒षा । 27) ए॒ष र्गृगे॒षैष र्क् । 28) ऋग॑नु॒ष्टु ग॑नु॒ष्टु गृगृ ग॑नु॒ष्टुक् । 29) अ॒नु॒ष्टुग् वाग् वाग॑नु॒ष्टु ग॑नु॒ष्टुग् वाक् । 29) अ॒नु॒ष्टुगित्य॑नु - स्तुक् । 30) वाग॑नु॒ष्टु ग॑नु॒ष्टुग् वाग् वाग॑नु॒ष्टुक् । 31) अ॒नु॒ष्टुग् य-द्यद॑नु॒ष्टु ग॑नु॒ष्टुग् यत् । 31) अ॒नु॒ष्टुगित्य॑नु - स्तुक् । 32) यदे॒त यै॒तया॒ य-द्यदे॒तया᳚ । 33) ए॒तय॒ र्च र्चैत यै॒तय॒ र्चा । 34) ऋ॒चा दी॒क्षय॑ति दी॒क्षय॑ त्यृ॒च र्चा दी॒क्षय॑ति । 35) दी॒क्षय॑ति वा॒चा वा॒चा दी॒क्षय॑ति दी॒क्षय॑ति वा॒चा । 36) वा॒चै वैव वा॒चा वा॒चैव । 37) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 38) ए॒न॒ग्ं॒ सर्व॑या॒ सर्व॑यैन मेन॒ग्ं॒ सर्व॑या । 39) सर्व॑या दीक्षयति दीक्षयति॒ सर्व॑या॒ सर्व॑या दीक्षयति । 40) दी॒क्ष॒य॒ति॒ विश्वे॒ विश्वे॑ दीक्षयति दीक्षयति॒ विश्वे᳚ । 41) विश्वे॑ दे॒वस्य॑ दे॒वस्य॒ विश्वे॒ विश्वे॑ दे॒वस्य॑ । 42) दे॒वस्य॑ ने॒तु-र्ने॒तु-र्दे॒वस्य॑ दे॒वस्य॑ ने॒तुः । 43) ने॒तु रितीति॑ ने॒तु-र्ने॒तु रिति॑ । 44) इत्या॑हा॒हे तीत्या॑ह । 45) आ॒ह॒ सा॒वि॒त्री सा॑वि॒ त्र्या॑हाह सावि॒त्री । 46) सा॒वि॒ त्र्ये॑ते नै॒तेन॑ सावि॒त्री सा॑वि॒ त्र्ये॑तेन॑ । 47) ए॒तेन॒ मर्तो॒ मर्त॑ ए॒ते नै॒तेन॒ मर्तः॑ । 48) मर्तो॑ वृणीत वृणीत॒ मर्तो॒ मर्तो॑ वृणीत । 49) वृ॒णी॒त॒ स॒ख्यग्ं स॒ख्यं-वृँ॑णीत वृणीत स॒ख्यम् । 50) स॒ख्य मितीति॑ स॒ख्यग्ं स॒ख्य मिति॑ । ॥ 14 ॥ (50/59)
1) इत्या॑हा॒हे तीत्या॑ह । 2) आ॒ह॒ पि॒तृ॒दे॒व॒त्या॑ पितृदेव॒त्या॑ ऽऽहाह पितृदेव॒त्या᳚ । 3) पि॒तृ॒दे॒व॒ त्यै॑ते नै॒तेन॑ पितृदेव॒त्या॑ पितृदेव॒ त्यै॑तेन॑ । 3) पि॒तृ॒दे॒व॒त्येति॑ पितृ - दे॒व॒त्या᳚ । 4) ए॒तेन॒ विश्वे॒ विश्व॑ ए॒तेनै॒ तेन॒ विश्वे᳚ । 5) विश्वे॑ रा॒यो रा॒यो विश्वे॒ विश्वे॑ रा॒यः । 6) रा॒य इ॑षुद्ध्यसी षुद्ध्यसि रा॒यो रा॒य इ॑षुद्ध्यसि । 7) इ॒षु॒द्ध्य॒ सीतीती॑ षुद्ध्यसी षुद्ध्य॒ सीति॑ । 8) इत्या॑हा॒हे तीत्या॑ह । 9) आ॒ह॒ वै॒श्व॒दे॒वी वै᳚श्वदे॒ व्या॑हाह वैश्वदे॒वी । 10) वै॒श्व॒दे॒व्ये॑ तेनै॒तेन॑ वैश्वदे॒वी वै᳚श्वदे॒व्ये॑ तेन॑ । 10) वै॒श्व॒दे॒वीति॑ वैश्व - दे॒वी । 11) ए॒तेन॑ द्यु॒म्न-न्द्यु॒म्न मे॒तेनै॒ तेन॑ द्यु॒म्नम् । 12) द्यु॒म्नं-वृँ॑णीत वृणीत द्यु॒म्न-न्द्यु॒म्नं-वृँ॑णीत । 13) वृ॒णी॒त॒ पु॒ष्यसे॑ पु॒ष्यसे॑ वृणीत वृणीत पु॒ष्यसे᳚ । 14) पु॒ष्यस॒ इतीति॑ पु॒ष्यसे॑ पु॒ष्यस॒ इति॑ । 15) इत्या॑हा॒हे तीत्या॑ह । 16) आ॒ह॒ पौ॒ष्णी पौ॒ष्ण्या॑ हाह पौ॒ष्णी । 17) पौ॒ष्ण्ये॑ तेनै॒तेन॑ पौ॒ष्णी पौ॒ष्ण्ये॑तेन॑ । 18) ए॒तेन॒ सा सैते नै॒तेन॒ सा । 19) सा वै वै सा सा वै । 20) वा ए॒षैषा वै वा ए॒षा । 21) ए॒ष र्गृगे॒ षैषर्क् । 22) ऋ-ख्स॑र्वदेव॒त्या॑ सर्वदेव॒त्य॑ र्गृ-ख्स॑र्वदेव॒त्या᳚ । 23) स॒र्व॒दे॒व॒त्या॑ य-द्य-थ्स॑र्वदेव॒त्या॑ सर्वदेव॒त्या॑ यत् । 23) स॒र्व॒दे॒व॒त्येति॑ सर्व - दे॒व॒त्या᳚ । 24) यदे॒त यै॒तया॒ य-द्यदे॒तया᳚ । 25) ए॒तय॒ र्च र्चैत यै॒तय॒ र्चा । 26) ऋ॒चा दी॒क्षय॑ति दी॒क्षय॑ त्यृ॒च र्चा दी॒क्षय॑ति । 27) दी॒क्षय॑ति॒ सर्वा॑भि॒-स्सर्वा॑भि-र्दी॒क्षय॑ति दी॒क्षय॑ति॒ सर्वा॑भिः । 28) सर्वा॑भिरे॒ वैव सर्वा॑भि॒-स्सर्वा॑भि रे॒व । 29) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 30) ए॒न॒-न्दे॒वता॑भि-र्दे॒वता॑भि रेन मेन-न्दे॒वता॑भिः । 31) दे॒वता॑भि-र्दीक्षयति दीक्षयति दे॒वता॑भि-र्दे॒वता॑भि-र्दीक्षयति । 32) दी॒क्ष॒य॒ति॒ स॒प्ताक्ष॑रग्ं स॒प्ताक्ष॑र-न्दीक्षयति दीक्षयति स॒प्ताक्ष॑रम् । 33) स॒प्ताक्ष॑र-म्प्रथ॒म-म्प्र॑थ॒मग्ं स॒प्ताक्ष॑रग्ं स॒प्ताक्ष॑र-म्प्रथ॒मम् । 33) स॒प्ताक्ष॑र॒मिति॑ स॒प्त - अ॒क्ष॒र॒म् । 34) प्र॒थ॒म-म्प॒द-म्प॒द-म्प्र॑थ॒म-म्प्र॑थ॒म-म्प॒दम् । 35) प॒द म॒ष्टाक्ष॑राण्य॒ ष्टाक्ष॑राणि प॒द-म्प॒द म॒ष्टाक्ष॑राणि । 36) अ॒ष्टाक्ष॑राणि॒ त्रीणि॒ त्रीण्य॒ष्टाक्ष॑रा ण्य॒ष्टाक्ष॑राणि॒ त्रीणि॑ । 36) अ॒ष्टाक्ष॑रा॒णीत्य॒ष्टा - अ॒क्ष॒रा॒णि॒ । 37) त्रीणि॒ यानि॒ यानि॒ त्रीणि॒ त्रीणि॒ यानि॑ । 38) यानि॒ त्रीणि॒ त्रीणि॒ यानि॒ यानि॒ त्रीणि॑ । 39) त्रीणि॒ तानि॒ तानि॒ त्रीणि॒ त्रीणि॒ तानि॑ । 40) तान्य॒ष्टा व॒ष्टौ तानि॒ तान्य॒ष्टौ । 41) अ॒ष्टा वुपो पा॒ष्टा व॒ष्टा वुप॑ । 42) उप॑ यन्ति य॒न्त्यु पोप॑ यन्ति । 43) य॒न्ति॒ यानि॒ यानि॑ यन्ति यन्ति॒ यानि॑ । 44) यानि॑ च॒त्वारि॑ च॒त्वारि॒ यानि॒ यानि॑ च॒त्वारि॑ । 45) च॒त्वारि॒ तानि॒ तानि॑ च॒त्वारि॑ च॒त्वारि॒ तानि॑ । 46) तान्य॒ष्टा व॒ष्टौ तानि॒ तान्य॒ष्टौ । 47) अ॒ष्टौ य-द्यद॒ष्टा व॒ष्टौ यत् । 48) यद॒ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा॒ य-द्यद॒ष्टाक्ष॑रा । 49) अ॒ष्टाक्ष॑रा॒ तेन॒ तेना॒ ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा॒ तेन॑ । 49) अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ । 50) तेन॑ गाय॒त्री गा॑य॒त्री तेन॒ तेन॑ गाय॒त्री । ॥ 15 ॥ (50/56)
1) गा॒य॒त्री य-द्य-द्गा॑य॒त्री गा॑य॒त्री यत् । 2) यदेका॑दशाक्ष॒ रैका॑दशाक्षरा॒ य-द्यदेका॑दशाक्षरा । 3) एका॑दशाक्षरा॒ तेन॒ तेनै का॑दशाक्ष॒ रैका॑दशाक्षरा॒ तेन॑ । 3) एका॑दशाक्ष॒रेत्येका॑दश - अ॒क्ष॒रा॒ । 4) तेन॑ त्रि॒ष्टु-क्त्रि॒ष्टु-क्तेन॒ तेन॑ त्रि॒ष्टुक् । 5) त्रि॒ष्टुग् य-द्य-त्त्रि॒ष्टु-क्त्रि॒ष्टुग् यत् । 6) य-द्द्वाद॑शाक्षरा॒ द्वाद॑शाक्षरा॒ य-द्य-द्द्वाद॑शाक्षरा । 7) द्वाद॑शाक्षरा॒ तेन॒ तेन॒ द्वाद॑शाक्षरा॒ द्वाद॑शाक्षरा॒ तेन॑ । 7) द्वाद॑शाक्ष॒रेति॒ द्वाद॑श - अ॒क्ष॒रा॒ । 8) तेन॒ जग॑ती॒ जग॑ती॒ तेन॒ तेन॒ जग॑ती । 9) जग॑ती॒ सा सा जग॑ती॒ जग॑ती॒ सा । 10) सा वै वै सा सा वै । 11) वा ए॒षैषा वै वा ए॒षा । 12) ए॒ष र्गृगे॒ षैष र्क् । 13) ऋ-ख्सर्वा॑णि॒ सर्वा॒ण्यृग् ऋ-ख्सर्वा॑णि । 14) सर्वा॑णि॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ सर्वा॑णि॒ सर्वा॑णि॒ छन्दाग्ं॑सि । 15) छन्दाग्ं॑सि॒ य-द्यच् छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ यत् । 16) यदे॒त यै॒तया॒ य-द्यदे॒तया᳚ । 17) ए॒तय॒ र्च र्चैत यै॒तय॒ र्चा । 18) ऋ॒चा दी॒क्षय॑ति दी॒क्षय॑ त्यृ॒च र्चा दी॒क्षय॑ति । 19) दी॒क्षय॑ति॒ सर्वे॑भि॒-स्सर्वे॑भि-र्दी॒क्षय॑ति दी॒क्षय॑ति॒ सर्वे॑भिः । 20) सर्वे॑भि रे॒वैव सर्वे॑भि॒-स्सर्वे॑भि रे॒व । 21) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 22) ए॒न॒-ञ्छन्दो॑भि॒ श्छन्दो॑भि रेन मेन॒-ञ्छन्दो॑भिः । 23) छन्दो॑भि-र्दीक्षयति दीक्षयति॒ छन्दो॑भि॒ श्छन्दो॑भि-र्दीक्षयति । 23) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 24) दी॒क्ष॒य॒ति॒ स॒प्ताक्ष॑रग्ं स॒प्ताक्ष॑र-न्दीक्षयति दीक्षयति स॒प्ताक्ष॑रम् । 25) स॒प्ताक्ष॑र-म्प्रथ॒म-म्प्र॑थ॒मग्ं स॒प्ताक्ष॑रग्ं स॒प्ताक्ष॑र-म्प्रथ॒मम् । 25) स॒प्ताक्ष॑र॒मिति॑ स॒प्त - अ॒क्ष॒र॒म् । 26) प्र॒थ॒म-म्प॒द-म्प॒द-म्प्र॑थ॒म-म्प्र॑थ॒म-म्प॒दम् । 27) प॒दग्ं स॒प्तप॑दा स॒प्तप॑दा प॒द-म्प॒दग्ं स॒प्तप॑दा । 28) स॒प्तप॑दा॒ शक्व॑री॒ शक्व॑री स॒प्तप॑दा स॒प्तप॑दा॒ शक्व॑री । 28) स॒प्तप॒देति॑ स॒प्त - प॒दा॒ । 29) शक्व॑री प॒शवः॑ प॒शव॒-श्शक्व॑री॒ शक्व॑री प॒शवः॑ । 30) प॒शव॒-श्शक्व॑री॒ शक्व॑री प॒शवः॑ प॒शव॒-श्शक्व॑री । 31) शक्व॑री प॒शू-न्प॒शू-ञ्छक्व॑री॒ शक्व॑री प॒शून् । 32) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व । 33) ए॒वावा वै॒वै वाव॑ । 34) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 35) रु॒न्ध॒ एक॑स्मा॒ देक॑स्मा-द्रुन्धे रुन्ध॒ एक॑स्मात् । 36) एक॑स्मा द॒क्षरा॑ द॒क्षरा॒ देक॑स्मा॒ देक॑स्मा द॒क्षरा᳚त् । 37) अ॒क्षरा॒ दना᳚प्त॒ मना᳚प्त म॒क्षरा॑ द॒क्षरा॒ दना᳚प्तम् । 38) अना᳚प्त-म्प्रथ॒म-म्प्र॑थ॒म मना᳚प्त॒ मना᳚प्त-म्प्रथ॒मम् । 39) प्र॒थ॒म-म्प॒द-म्प॒द-म्प्र॑थ॒म-म्प्र॑थ॒म-म्प॒दम् । 40) प॒द-न्तस्मा॒-त्तस्मा᳚-त्प॒द-म्प॒द-न्तस्मा᳚त् । 41) तस्मा॒-द्य-द्य-त्तस्मा॒-त्तस्मा॒-द्यत् । 42) य-द्वा॒चो वा॒चो य-द्य-द्वा॒चः । 43) वा॒चो ऽना᳚प्त॒ मना᳚प्तं-वाँ॒चो वा॒चो ऽना᳚प्तम् । 44) अना᳚प्त॒-न्त-त्तदना᳚प्त॒ मना᳚प्त॒-न्तत् । 45) त-न्म॑नु॒ष्या॑ मनु॒ष्या᳚ स्त-त्त-न्म॑नु॒ष्याः᳚ । 46) म॒नु॒ष्या॑ उपोप॑ मनु॒ष्या॑ मनु॒ष्या॑ उप॑ । 47) उप॑ जीवन्ति जीव॒-न्त्युपोप॑ जीवन्ति । 48) जी॒व॒न्ति॒ पू॒र्णया॑ पू॒र्णया॑ जीवन्ति जीवन्ति पू॒र्णया᳚ । 49) पू॒र्णया॑ जुहोति जुहोति पू॒र्णया॑ पू॒र्णया॑ जुहोति । 50) जु॒हो॒ति॒ पू॒र्णः पू॒र्णो जु॑होति जुहोति पू॒र्णः । 51) पू॒र्ण इ॑वेव पू॒र्णः पू॒र्ण इ॑व । 52) इ॒व॒ हि हीवे॑व॒ हि । 53) हि प्र॒जाप॑तिः प्र॒जाप॑ति॒र्॒ हि हि प्र॒जाप॑तिः । 54) प्र॒जाप॑तिः प्र॒जाप॑तेः प्र॒जाप॑तेः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाप॑तेः । 54) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 55) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ । 55) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 56) आप्त्यै॒ न्यू॑नया॒ न्यू॑न॒या ऽऽप्त्या॒ आप्त्यै॒ न्यू॑नया । 57) न्यू॑नया जुहोति जुहोति॒ न्यू॑नया॒ न्यू॑नया जुहोति । 57) न्यू॑न॒येति॒ नि - ऊ॒न॒या॒ । 58) जु॒हो॒ति॒ न्यू॑ना॒-न्न्यू॑नाज् जुहोति जुहोति॒ न्यू॑नात् । 59) न्यू॑ना॒द्धि हि न्यू॑ना॒-न्न्यू॑ना॒द्धि । 59) न्यू॑ना॒दिति॒ नि - ऊ॒ना॒त् । 60) हि प्र॒जाप॑तिः प्र॒जाप॑ति॒र्॒ हि हि प्र॒जाप॑तिः । 61) प्र॒जाप॑तिः प्र॒जाः प्र॒जाः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाः । 61) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 62) प्र॒जा असृ॑ज॒ता सृ॑जत प्र॒जाः प्र॒जा असृ॑जत । 62) प्र॒जा इति॑ प्र - जाः । 63) असृ॑जत प्र॒जाना᳚-म्प्र॒जाना॒ मसृ॑ज॒ता सृ॑जत प्र॒जाना᳚म् । 64) प्र॒जाना॒ग्ं॒ सृष्ट्यै॒ सृष्ट्यै᳚ प्र॒जाना᳚-म्प्र॒जाना॒ग्ं॒ सृष्ट्यै᳚ । 64) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 65) सृष्ट्या॒ इति॒ सृष्ट्यै᳚ । ॥ 16 ॥ (65/77) ॥ अ. 2 ॥
1) ऋ॒ख्सा॒मे वै वा ऋ॑ख्सा॒मे ऋ॑ख्सा॒मे वै । 1) ऋ॒ख्सा॒मे इत्यृ॑क् - सा॒मे । 2) वै दे॒वेभ्यो॑ दे॒वेभ्यो॒ वै वै दे॒वेभ्यः॑ । 3) दे॒वेभ्यो॑ य॒ज्ञाय॑ य॒ज्ञाय॑ दे॒वेभ्यो॑ दे॒वेभ्यो॑ य॒ज्ञाय॑ । 4) य॒ज्ञाया ति॑ष्ठमाने॒ अति॑ष्ठमाने य॒ज्ञाय॑ य॒ज्ञाया ति॑ष्ठमाने । 5) अति॑ष्ठमाने॒ कृष्णः॒ कृष्णो ऽति॑ष्ठमाने॒ अति॑ष्ठमाने॒ कृष्णः॑ । 5) अति॑ष्ठमाने॒ इत्यति॑ष्ठमाने । 6) कृष्णो॑ रू॒पग्ं रू॒प-ङ्कृष्णः॒ कृष्णो॑ रू॒पम् । 7) रू॒प-ङ्कृ॒त्वा कृ॒त्वा रू॒पग्ं रू॒प-ङ्कृ॒त्वा । 8) कृ॒त्वा ऽप॒क्रम्या॑ प॒क्रम्य॑ कृ॒त्वा कृ॒त्वा ऽप॒क्रम्य॑ । 9) अ॒प॒क्रम्या॑ तिष्ठता मतिष्ठता मप॒क्रम्या॑ प॒क्रम्या॑ तिष्ठताम् । 9) अ॒प॒क्रम्येत्य॑प - क्रम्य॑ । 10) अ॒ति॒ष्ठ॒ता॒-न्ते ते॑ ऽतिष्ठता मतिष्ठता॒-न्ते । 11) ते॑ ऽमन्यन्ता मन्यन्त॒ ते ते॑ ऽमन्यन्त । 12) अ॒म॒न्य॒न्त॒ यं-यँ म॑मन्यन्ता मन्यन्त॒ यम् । 13) यं-वैँ वै यं-यंँ वै । 14) वा इ॒मे इ॒मे वै वा इ॒मे । 15) इ॒मे उ॑पाव॒र्थ्स्यत॑ उपाव॒र्थ्स्यत॑ इ॒मे इ॒मे उ॑पाव॒र्थ्स्यतः॑ । 15) इ॒मे इती॒मे । 16) उ॒पा॒व॒र्थ्स्यत॒-स्स स उ॑पाव॒र्थ्स्यत॑ उपाव॒र्थ्स्यत॒-स्सः । 16) उ॒पा॒व॒र्थ्स्यत॒ इत्यु॑प - आ॒व॒र्थ्स्यतः॑ । 17) स इ॒द मि॒दग्ं स स इ॒दम् । 18) इ॒द-म्भ॑विष्यति भविष्यती॒द मि॒द-म्भ॑विष्यति । 19) भ॒वि॒ष्य॒ती तीति॑ भविष्यति भविष्य॒तीति॑ । 20) इति॒ ते ते इतीति॒ ते । 21) ते उपोप॒ ते ते उप॑ । 21) ते इति॒ ते । 22) उपा॑मन्त्रयन्ता मन्त्रय॒न्तो पोपा॑ मन्त्रयन्त । 23) अ॒म॒न्त्र॒य॒न्त॒ ते ते अ॑मन्त्रयन्ता मन्त्रयन्त॒ ते । 24) ते अ॑होरा॒त्रयो॑ रहोरा॒त्रयो॒ स्ते ते अ॑होरा॒त्रयोः᳚ । 24) ते इति॒ ते । 25) अ॒हो॒रा॒त्रयो᳚-र्महि॒मान॑-म्महि॒मान॑ महोरा॒त्रयो॑ रहोरा॒त्रयो᳚-र्महि॒मान᳚म् । 25) अ॒हो॒रा॒त्रयो॒रित्य॑हः - रा॒त्रयोः᳚ । 26) म॒हि॒मान॑ मपनि॒धाया॑ पनि॒धाय॑ महि॒मान॑-म्महि॒मान॑ मपनि॒धाय॑ । 27) अ॒प॒नि॒धाय॑ दे॒वा-न्दे॒वान॑ पनि॒धाया॑ पनि॒धाय॑ दे॒वान् । 27) अ॒प॒नि॒धायेत्य॑प - नि॒धाय॑ । 28) दे॒वानु॒ पाव॑र्तेता मु॒पाव॑र्तेता-न्दे॒वा-न्दे॒वानु॒ पाव॑र्तेताम् । 29) उ॒पाव॑र्तेता मे॒ष ए॒ष उ॒पाव॑र्तेता मु॒पाव॑र्तेता मे॒षः । 29) उ॒पाव॑र्तेता॒मित्यु॑प - आव॑र्तेताम् । 30) ए॒ष वै वा ए॒ष ए॒ष वै । 31) वा ऋ॒च ऋ॒चो वै वा ऋ॒चः । 32) ऋ॒चो वर्णो॒ वर्ण॑ ऋ॒च ऋ॒चो वर्णः॑ । 33) वर्णो॒ य-द्य-द्वर्णो॒ वर्णो॒ यत् । 34) यच्छु॒क्लग्ं शु॒क्लं-यँ-द्यच्छु॒क्लम् । 35) शु॒क्ल-ङ्कृ॑ष्णाजि॒नस्य॑ कृष्णाजि॒नस्य॑ शु॒क्लग्ं शु॒क्ल-ङ्कृ॑ष्णाजि॒नस्य॑ । 36) कृ॒ष्णा॒जि॒न स्यै॒ष ए॒ष कृ॑ष्णाजि॒नस्य॑ कृष्णाजि॒न स्यै॒षः । 36) कृ॒ष्णा॒जि॒नस्येति॑ कृष्ण - अ॒जि॒नस्य॑ । 37) ए॒ष साम्न॒-स्साम्न॑ ए॒ष ए॒ष साम्नः॑ । 38) साम्नो॒ य-द्य-थ्साम्न॒-स्साम्नो॒ यत् । 39) य-त्कृ॒ष्ण-ङ्कृ॒ष्णं-यँ-द्य-त्कृ॒ष्णम् । 40) कृ॒ष्ण मृ॑ख्सा॒मयोर्॑. ऋख्सा॒मयोः᳚ कृ॒ष्ण-ङ्कृ॒ष्ण मृ॑ख्सा॒मयोः᳚ । 41) ऋ॒ख्सा॒मयो॒-श्शिल्पे॒ शिल्पे॑ ऋख्सा॒मयोर्॑. ऋख्सा॒मयो॒-श्शिल्पे᳚ । 41) ऋ॒ख्सा॒मयो॒रित्यृ॑क् - सा॒मयोः᳚ । 42) शिल्पे᳚ स्थ-स्स्थ॒-श्शिल्पे॒ शिल्पे᳚ स्थः । 42) शिल्पे॒ इति॒ शिल्पे᳚ । 43) स्थ॒ इतीति॑ स्थ-स्स्थ॒ इति॑ । 44) इत्या॑हा॒हे तीत्या॑ह । 45) आ॒ह॒ र्ख्सा॒मे ऋ॑ख्सा॒मे आ॑हाह र्ख्सा॒मे । 46) ऋ॒ख्सा॒मे ए॒वैव र्ख्सा॒मे ऋ॑ख्सा॒मे ए॒व । 46) ऋ॒ख्सा॒मे इत्यृ॑क् - सा॒मे । 47) ए॒वावा वै॒वै वाव॑ । 48) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 49) रु॒न्ध॒ ए॒ष ए॒ष रु॑न्धे रुन्ध ए॒षः । 50) ए॒ष वै वा ए॒ष ए॒ष वै । ॥ 17 ॥ (50/64)
1) वा अह्नो ऽह्नो॒ वै वा अह्नः॑ । 2) अह्नो॒ वर्णो॒ वर्णो ऽह्नो ऽह्नो॒ वर्णः॑ । 3) वर्णो॒ य-द्य-द्वर्णो॒ वर्णो॒ यत् । 4) यच्छु॒क्लग्ं शु॒क्लं-यँ-द्यच्छु॒क्लम् । 5) शु॒क्ल-ङ्कृ॑ष्णाजि॒नस्य॑ कृष्णाजि॒नस्य॑ शु॒क्लग्ं शु॒क्ल-ङ्कृ॑ष्णाजि॒नस्य॑ । 6) कृ॒ष्णा॒जि॒नस्यै॒ष ए॒ष कृ॑ष्णाजि॒नस्य॑ कृष्णाजि॒नस्यै॒षः । 6) कृ॒ष्णा॒जि॒नस्येति॑ कृष्ण - अ॒जि॒नस्य॑ । 7) ए॒ष रात्रि॑या॒ रात्रि॑या ए॒ष ए॒ष रात्रि॑याः । 8) रात्रि॑या॒ य-द्य-द्रात्रि॑या॒ रात्रि॑या॒ यत् । 9) य-त्कृ॒ष्ण-ङ्कृ॒ष्णं-यँ-द्य-त्कृ॒ष्णम् । 10) कृ॒ष्णं-यँ-द्य-त्कृ॒ष्ण-ङ्कृ॒ष्णं-यँत् । 11) यदे॒ वैव य-द्यदे॒व । 12) ए॒वैन॑यो रेनयो रे॒वै वैन॑योः । 13) ए॒न॒यो॒ स्तत्र॒ तत्रै॑ नयो रेनयो॒ स्तत्र॑ । 14) तत्र॒ न्य॑क्त॒-न्न्य॑क्त॒-न्तत्र॒ तत्र॒ न्य॑क्तम् । 15) न्य॑क्त॒-न्त-त्त-न्न्य॑क्त॒-न्न्य॑क्त॒-न्तत् । 15) न्य॑क्त॒मिति॒ नि - अ॒क्त॒म् । 16) तदे॒वैव त-त्तदे॒व । 17) ए॒वावा वै॒वै वाव॑ । 18) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 19) रु॒न्धे॒ कृ॒ष्णा॒जि॒नेन॑ कृष्णाजि॒नेन॑ रुन्धे रुन्धे कृष्णाजि॒नेन॑ । 20) कृ॒ष्णा॒जि॒नेन॑ दीक्षयति दीक्षयति कृष्णाजि॒नेन॑ कृष्णाजि॒नेन॑ दीक्षयति । 20) कृ॒ष्णा॒जि॒नेनेति॑ कृष्ण - अ॒जि॒नेन॑ । 21) दी॒क्ष॒य॒ति॒ ब्रह्म॑णो॒ ब्रह्म॑णो दीक्षयति दीक्षयति॒ ब्रह्म॑णः । 22) ब्रह्म॑णो॒ वै वै ब्रह्म॑णो॒ ब्रह्म॑णो॒ वै । 23) वा ए॒त दे॒त-द्वै वा ए॒तत् । 24) ए॒त-द्रू॒पग्ं रू॒प मे॒त दे॒त-द्रू॒पम् । 25) रू॒पं-यँ-द्य-द्रू॒पग्ं रू॒पं-यँत् । 26) य-त्कृ॑ष्णाजि॒न-ङ्कृ॑ष्णाजि॒नं-यँ-द्य-त्कृ॑ष्णाजि॒नम् । 27) कृ॒ष्णा॒जि॒न-म्ब्रह्म॑णा॒ ब्रह्म॑णा कृष्णाजि॒न-ङ्कृ॑ष्णाजि॒न-म्ब्रह्म॑णा । 27) कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । 28) ब्रह्म॑ णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व । 29) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 30) ए॒न॒-न्दी॒क्ष॒य॒ति॒ दी॒क्ष॒य॒ त्ये॒न॒ मे॒न॒-न्दी॒क्ष॒य॒ति॒ । 31) दी॒क्ष॒य॒ती॒मा मि॒मा-न्दी᳚क्षयति दीक्षयती॒माम् । 32) इ॒मा-न्धिय॒-न्धिय॑ मि॒मा मि॒मा-न्धिय᳚म् । 33) धिय॒ग्ं॒ शिक्ष॑माणस्य॒ शिक्ष॑माणस्य॒ धिय॒-न्धिय॒ग्ं॒ शिक्ष॑माणस्य । 34) शिक्ष॑माणस्य देव देव॒ शिक्ष॑माणस्य॒ शिक्ष॑माणस्य देव । 35) दे॒वे तीति॑ देव दे॒वेति॑ । 36) इत्या॑हा॒हे तीत्या॑ह । 37) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः । 38) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व । 38) य॒था॒य॒जुरिति॑ यथा - य॒जुः । 39) ए॒वैत दे॒त दे॒वै वैतत् । 40) ए॒त-द्गर्भो॒ गर्भ॑ ए॒त दे॒त-द्गर्भः॑ । 41) गर्भो॒ वै वै गर्भो॒ गर्भो॒ वै । 42) वा ए॒ष ए॒ष वै वा ए॒षः । 43) ए॒ष य-द्यदे॒ष ए॒ष यत् । 44) य-द्दी᳚क्षि॒तो दी᳚क्षि॒तो य-द्य-द्दी᳚क्षि॒तः । 45) दी॒क्षि॒त उल्ब॒ मुल्ब॑-न्दीक्षि॒तो दी᳚क्षि॒त उल्ब᳚म् । 46) उल्बं॒-वाँसो॒ वास॒ उल्ब॒ मुल्बं॒-वाँसः॑ । 47) वासः॒ प्र प्र वासो॒ वासः॒ प्र । 48) प्रोर्णु॑त ऊर्णुते॒ प्र प्रोर्णु॑ते । 49) ऊ॒र्णु॒ते॒ तस्मा॒-त्तस्मा॑ दूर्णुत ऊर्णुते॒ तस्मा᳚त् । 50) तस्मा॒-द्गर्भा॒ गर्भा॒ स्तस्मा॒-त्तस्मा॒-द्गर्भाः᳚ । ॥ 18 ॥ (50/55)
1) गर्भाः॒ प्रावृ॑ताः॒ प्रावृ॑ता॒ गर्भा॒ गर्भाः॒ प्रावृ॑ताः । 2) प्रावृ॑ता जायन्ते जायन्ते॒ प्रावृ॑ताः॒ प्रावृ॑ता जायन्ते । 3) जा॒य॒न्ते॒ न न जा॑यन्ते जायन्ते॒ न । 4) न पु॒रा पु॒रा न न पु॒रा । 5) पु॒रा सोम॑स्य॒ सोम॑स्य पु॒रा पु॒रा सोम॑स्य । 6) सोम॑स्य क्र॒या-त्क्र॒या-थ्सोम॑स्य॒ सोम॑स्य क्र॒यात् । 7) क्र॒या दपाप॑ क्र॒या-त्क्र॒या दप॑ । 8) अपो᳚र्ण्वी तोर्ण्वी॒ता पापो᳚र्ण्वीत । 9) ऊ॒र्ण्वी॒त॒ य-द्यदू᳚ र्ण्वीतो र्ण्वीत॒ यत् । 10) य-त्पु॒रा पु॒रा य-द्य-त्पु॒रा । 11) पु॒रा सोम॑स्य॒ सोम॑स्य पु॒रा पु॒रा सोम॑स्य । 12) सोम॑स्य क्र॒या-त्क्र॒या-थ्सोम॑स्य॒ सोम॑स्य क्र॒यात् । 13) क्र॒या द॑पोर्ण्वी॒ता पो᳚र्ण्वी॒त क्र॒या-त्क्र॒या द॑पोर्ण्वी॒त । 14) अ॒पो॒र्ण्वी॒त गर्भा॒ गर्भा॑ अपोर्ण्वी॒ता पो᳚र्ण्वी॒त गर्भाः᳚ । 14) अ॒पो॒र्ण्वी॒तेत्य॑प - ऊ॒र्ण्वी॒त । 15) गर्भाः᳚ प्र॒जाना᳚-म्प्र॒जाना॒-ङ्गर्भा॒ गर्भाः᳚ प्र॒जाना᳚म् । 16) प्र॒जाना᳚-म्परा॒पातु॑काः परा॒पातु॑काः प्र॒जाना᳚-म्प्र॒जाना᳚-म्परा॒पातु॑काः । 16) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 17) प॒रा॒पातु॑का-स्स्यु-स्स्युः परा॒पातु॑काः परा॒पातु॑का-स्स्युः । 17) प॒रा॒पातु॑का॒ इति॑ परा - पातु॑काः । 18) स्युः॒ क्री॒ते क्री॒ते स्यु॑-स्स्युः क्री॒ते । 19) क्री॒ते सोमे॒ सोमे᳚ क्री॒ते क्री॒ते सोमे᳚ । 20) सोमे ऽपाप॒ सोमे॒ सोमे ऽप॑ । 21) अपो᳚र्णुत ऊर्णु॒ते ऽपापो᳚ र्णुते । 22) ऊ॒र्णु॒ते॒ जाय॑ते॒ जाय॑त ऊर्णुत ऊर्णुते॒ जाय॑ते । 23) जाय॑त ए॒वैव जाय॑ते॒ जाय॑त ए॒व । 24) ए॒व त-त्तदे॒ वैव तत् । 25) तदथो॒ अथो॒ त-त्तदथो᳚ । 26) अथो॒ यथा॒ यथा ऽथो॒ अथो॒ यथा᳚ । 26) अथो॒ इत्यथो᳚ । 27) यथा॒ वसी॑याग्ंसं॒-वँसी॑याग्ंसं॒-यँथा॒ यथा॒ वसी॑याग्ंसम् । 28) वसी॑याग्ंस-म्प्रत्यपोर्णु॒ते प्र॑त्यपोर्णु॒ते वसी॑याग्ंसं॒-वँसी॑याग्ंस-म्प्रत्यपोर्णु॒ते । 29) प्र॒त्य॒पो॒र्णु॒ते ता॒दृ-क्ता॒दृ-क्प्र॑त्यपोर्णु॒ते प्र॑त्यपोर्णु॒ते ता॒दृक् । 29) प्र॒त्य॒पो॒र्णु॒त इति॑ प्रति - अ॒पो॒र्णु॒ते । 30) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 31) ए॒व त-त्तदे॒ वैव तत् । 32) तदङ्गि॑र॒सो ऽङ्गि॑रस॒ स्त-त्तदङ्गि॑रसः । 33) अङ्गि॑रस-स्सुव॒र्गग्ं सु॑व॒र्ग मङ्गि॑र॒सो ऽङ्गि॑रस-स्सुव॒र्गम् । 34) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 34) सु॒व॒र्गमिति॑ सुवः - गम् । 35) लो॒कं-यँन्तो॒ यन्तो॑ लो॒कम् ँलो॒कं-यँन्तः॑ । 36) यन्त॒ ऊर्ज॒ मूर्जं॒-यँन्तो॒ यन्त॒ ऊर्ज᳚म् । 37) ऊर्जं॒-विँ व्यूर्ज॒ मूर्जं॒-विँ । 38) व्य॑भजन्ता भजन्त॒ वि व्य॑भजन्त । 39) अ॒भ॒ज॒न्त॒ तत॒ स्ततो॑ ऽभजन्ता भजन्त॒ ततः॑ । 40) ततो॒ य-द्य-त्तत॒ स्ततो॒ यत् । 41) यद॒त्यशि॑ष्यता॒ त्यशि॑ष्यत॒ य-द्यद॒त्यशि॑ष्यत । 42) अ॒त्यशि॑ष्यत॒ ते ते᳚ ऽत्यशि॑ष्यता॒ त्यशि॑ष्यत॒ ते । 42) अ॒त्यशि॑ष्य॒तेत्य॑ति - अशि॑ष्यत । 43) ते श॒रा-श्श॒रा स्ते ते श॒राः । 44) श॒रा अ॑भव-न्नभव-ञ्छ॒रा-श्श॒रा अ॑भवन्न् । 45) अ॒भ॒व॒-न्नूर्गू-र्ग॑भव-न्नभव॒-न्नूर्क् । 46) ऊर्ग् वै वा ऊर्गूर्ग् वै । 47) वै श॒रा-श्श॒रा वै वै श॒राः । 48) श॒रा य-द्यच्छ॒रा-श्श॒रा यत् । 49) यच्छ॑र॒मयी॑ शर॒मयी॒ य-द्यच्छ॑र॒मयी᳚ । 50) श॒र॒मयी॒ मेख॑ला॒ मेख॑ला शर॒मयी॑ शर॒मयी॒ मेख॑ला । 50) श॒र॒मयीति॑ शर - मयी᳚ । ॥ 19 ॥ (50/58)
1) मेख॑ला॒ भव॑ति॒ भव॑ति॒ मेख॑ला॒ मेख॑ला॒ भव॑ति । 2) भव॒ त्यूर्ज॒ मूर्ज॒-म्भव॑ति॒ भव॒ त्यूर्ज᳚म् । 3) ऊर्ज॑ मे॒वै वोर्ज॒ मूर्ज॑ मे॒व । 4) ए॒वावा वै॒वै वाव॑ । 5) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 6) रु॒न्धे॒ म॒द्ध्य॒तो म॑द्ध्य॒तो रु॑न्धे रुन्धे मद्ध्य॒तः । 7) म॒द्ध्य॒त-स्सग्ं स-म्म॑द्ध्य॒तो म॑द्ध्य॒त-स्सम् । 8) सन्न॑ह्यति नह्यति॒ सग्ं सन्न॑ह्यति । 9) न॒ह्य॒ति॒ म॒द्ध्य॒तो म॑द्ध्य॒तो न॑ह्यति नह्यति मद्ध्य॒तः । 10) म॒द्ध्य॒त ए॒वैव म॑द्ध्य॒तो म॑द्ध्य॒त ए॒व । 11) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 12) अ॒स्मा॒ ऊर्ज॒ मूर्ज॑ मस्मा अस्मा॒ ऊर्ज᳚म् । 13) ऊर्ज॑-न्दधाति दधा॒ त्यूर्ज॒ मूर्ज॑-न्दधाति । 14) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् । 15) तस्मा᳚-न्मद्ध्य॒तो म॑द्ध्य॒त स्तस्मा॒-त्तस्मा᳚-न्मद्ध्य॒तः । 16) म॒द्ध्य॒त ऊ॒र्जोर्जा म॑द्ध्य॒तो म॑द्ध्य॒त ऊ॒र्जा । 17) ऊ॒र्जा भु॑ञ्जते भुञ्जत ऊ॒र्जोर्जा भु॑ञ्जते । 18) भु॒ञ्ज॒त॒ ऊ॒र्ध्व मू॒र्ध्व-म्भु॑ञ्जते भुञ्जत ऊ॒र्ध्वम् । 19) ऊ॒र्ध्वं-वैँ वा ऊ॒र्ध्व मू॒र्ध्वं-वैँ । 20) वै पुरु॑षस्य॒ पुरु॑षस्य॒ वै वै पुरु॑षस्य । 21) पुरु॑षस्य॒ नाभ्यै॒ नाभ्यै॒ पुरु॑षस्य॒ पुरु॑षस्य॒ नाभ्यै᳚ । 22) नाभ्यै॒ मेद्ध्य॒-म्मेद्ध्य॒-न्नाभ्यै॒ नाभ्यै॒ मेद्ध्य᳚म् । 23) मेद्ध्य॑ मवा॒चीन॑ मवा॒चीन॒-म्मेद्ध्य॒-म्मेद्ध्य॑ मवा॒चीन᳚म् । 24) अ॒वा॒चीन॑ ममे॒द्ध्य म॑मे॒द्ध्य म॑वा॒चीन॑ मवा॒चीन॑ ममे॒द्ध्यम् । 25) अ॒मे॒द्ध्यं-यँ-द्यद॑मे॒द्ध्य म॑मे॒द्ध्यं-यँत् । 26) य-न्म॑द्ध्य॒तो म॑द्ध्य॒तो य-द्य-न्म॑द्ध्य॒तः । 27) म॒द्ध्य॒त-स्स॒न्नह्य॑ति स॒न्नह्य॑ति मद्ध्य॒तो म॑द्ध्य॒त-स्स॒न्नह्य॑ति । 28) स॒न्नह्य॑ति॒ मेद्ध्य॒-म्मेद्ध्यग्ं॑ स॒न्नह्य॑ति स॒न्नह्य॑ति॒ मेद्ध्य᳚म् । 28) स॒न्नह्य॒तीति॑ सं - नह्य॑ति । 29) मेद्ध्य॑-ञ्च च॒ मेद्ध्य॒-म्मेद्ध्य॑-ञ्च । 30) चै॒वैव च॑ चै॒व । 31) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 32) अ॒स्या॒मे॒द्ध्य म॑मे॒द्ध्य म॑स्यास्या मे॒द्ध्यम् । 33) अ॒मे॒द्ध्य-ञ्च॑ चामे॒द्ध्य म॑मे॒द्ध्य-ञ्च॑ । 34) च॒ व्याव॑र्तयति॒ व्याव॑र्तयति च च॒ व्याव॑र्तयति । 35) व्याव॑र्तय॒ तीन्द्र॒ इन्द्रो॒ व्याव॑र्तयति॒ व्याव॑र्तय॒ तीन्द्रः॑ । 35) व्याव॑र्तय॒तीति॑ वि - आव॑र्तयति । 36) इन्द्रो॑ वृ॒त्राय॑ वृ॒त्रायेन्द्र॒ इन्द्रो॑ वृ॒त्राय॑ । 37) वृ॒त्राय॒ वज्रं॒-वँज्रं॑-वृँ॒त्राय॑ वृ॒त्राय॒ वज्र᳚म् । 38) वज्र॒-म्प्र प्र वज्रं॒-वँज्र॒-म्प्र । 39) प्राह॑र दहर॒-त्प्र प्राह॑रत् । 40) अ॒ह॒र॒-थ्स सो॑ ऽहर दहर॒-थ्सः । 41) स त्रे॒धा त्रे॒धा स स त्रे॒धा । 42) त्रे॒धा वि वि त्रे॒धा त्रे॒धा वि । 43) व्य॑भव दभव॒-द्वि व्य॑भवत् । 44) अ॒भ॒व॒-थ्स्फ्य-स्स्फ्यो॑ ऽभव दभव॒-थ्स्फ्यः । 45) स्फ्य स्तृती॑य॒-न्तृती॑य॒ग्ग्॒ स्फ्य-स्स्फ्य स्तृती॑यम् । 46) तृती॑य॒ग्ं॒ रथो॒ रथ॒ स्तृती॑य॒-न्तृती॑य॒ग्ं॒ रथः॑ । 47) रथ॒ स्तृती॑य॒-न्तृती॑य॒ग्ं॒ रथो॒ रथ॒ स्तृती॑यम् । 48) तृती॑यं॒-यूँपो॒ यूप॒ स्तृती॑य॒-न्तृती॑यं॒-यूँपः॑ । 49) यूप॒ स्तृती॑य॒-न्तृती॑यं॒-यूँपो॒ यूप॒ स्तृती॑यम् । 50) तृती॑यं॒-येँ ये तृती॑य॒-न्तृती॑यं॒-येँ । ॥ 20 ॥ (50/52)
1) ये᳚ ऽन्तश्श॒रा अ॑न्तश्श॒रा ये ये᳚ ऽन्तश्श॒राः । 2) अ॒न्त॒श्श॒रा अशी᳚र्य॒न्ता शी᳚र्य-न्तान्तश्श॒रा अ॑न्तश्श॒रा अशी᳚र्यन्त । 2) अ॒न्त॒श्श॒रा इत्य॑न्तः - श॒राः । 3) अशी᳚र्यन्त॒ ते ते ऽशी᳚र्य॒न्ता शी᳚र्यन्त॒ ते । 4) ते श॒रा-श्श॒रा स्ते ते श॒राः । 5) श॒रा अ॑भव-न्नभव-ञ्छ॒रा-श्श॒रा अ॑भवन्न् । 6) अ॒भ॒व॒-न्त-त्तद॑भव-न्नभव॒-न्तत् । 7) तच्छ॒राणाग्ं॑ श॒राणा॒-न्त-त्तच्छ॒राणा᳚म् । 8) श॒राणाग्ं॑ शर॒त्वग्ं श॑र॒त्वग्ं श॒राणाग्ं॑ श॒राणाग्ं॑ शर॒त्वम् । 9) श॒र॒त्वं-वँज्रो॒ वज्र॑-श्शर॒त्वग्ं श॑र॒त्वं-वँज्रः॑ । 9) श॒र॒त्वमिति॑ शर - त्वम् । 10) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै । 11) वै श॒रा-श्श॒रा वै वै श॒राः । 12) श॒राः, क्षु-त्क्षु च्छ॒रा-श्श॒राः, क्षुत् । 13) क्षु-त्खलु॒ खलु॒ क्षु-त्क्षु-त्खलु॑ । 14) खलु॒ वै वै खलु॒ खलु॒ वै । 15) वै म॑नु॒ष्य॑स्य मनु॒ष्य॑स्य॒ वै वै म॑नु॒ष्य॑स्य । 16) म॒नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो मनु॒ष्य॑स्य मनु॒ष्य॑स्य॒ भ्रातृ॑व्यः । 17) भ्रातृ॑व्यो॒ य-द्य-द्भ्रातृ॑व्यो॒ भ्रातृ॑व्यो॒ यत् । 18) यच्छ॑र॒मयी॑ शर॒मयी॒ य-द्यच्छ॑र॒मयी᳚ । 19) श॒र॒मयी॒ मेख॑ला॒ मेख॑ला शर॒मयी॑ शर॒मयी॒ मेख॑ला । 19) श॒र॒मयीति॑ शर - मयी᳚ । 20) मेख॑ला॒ भव॑ति॒ भव॑ति॒ मेख॑ला॒ मेख॑ला॒ भव॑ति । 21) भव॑ति॒ वज्रे॑ण॒ वज्रे॑ण॒ भव॑ति॒ भव॑ति॒ वज्रे॑ण । 22) वज्रे॑ णै॒वैव वज्रे॑ण॒ वज्रे॑णै॒व । 23) ए॒व सा॒क्षा-थ्सा॒क्षा दे॒वैव सा॒क्षात् । 24) सा॒क्षा-त्क्षुध॒-ङ्क्षुधग्ं॑ सा॒क्षा-थ्सा॒क्षा-त्क्षुध᳚म् । 24) सा॒क्षादिति॑ स - अ॒क्षात् । 25) क्षुध॒-म्भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒-ङ्क्षुध॒-ङ्क्षुध॒-म्भ्रातृ॑व्यम् । 26) भ्रातृ॑व्य-म्मद्ध्य॒तो म॑द्ध्य॒तो भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-म्मद्ध्य॒तः । 27) म॒द्ध्य॒तो ऽपाप॑ मद्ध्य॒तो म॑द्ध्य॒तो ऽप॑ । 28) अप॑ हते ह॒ते ऽपाप॑ हते । 29) ह॒ते॒ त्रि॒वृ-त्त्रि॒वृ द्ध॑ते हते त्रि॒वृत् । 30) त्रि॒वृ-द्भ॑वति भवति त्रि॒वृ-त्त्रि॒वृ-द्भ॑वति । 30) त्रि॒वृदिति॑ त्रि - वृत् । 31) भ॒व॒ति॒ त्रि॒वृ-त्त्रि॒वृ-द्भ॑वति भवति त्रि॒वृत् । 32) त्रि॒वृ-द्वै वै त्रि॒वृ-त्त्रि॒वृ-द्वै । 32) त्रि॒वृदिति॑ त्रि - वृत् । 33) वै प्रा॒णः प्रा॒णो वै वै प्रा॒णः । 34) प्रा॒ण स्त्रि॒वृत॑-न्त्रि॒वृत॑-म्प्रा॒णः प्रा॒ण स्त्रि॒वृत᳚म् । 34) प्रा॒ण इति॑ प्र - अ॒नः । 35) त्रि॒वृत॑ मे॒वैव त्रि॒वृत॑-न्त्रि॒वृत॑ मे॒व । 35) त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् । 36) ए॒व प्रा॒ण-म्प्रा॒ण मे॒वैव प्रा॒णम् । 37) प्रा॒ण-म्म॑द्ध्य॒तो म॑द्ध्य॒तः प्रा॒ण-म्प्रा॒ण-म्म॑द्ध्य॒तः । 37) प्रा॒णमिति॑ प्र - अ॒नम् । 38) म॒द्ध्य॒तो यज॑माने॒ यज॑माने मद्ध्य॒तो म॑द्ध्य॒तो यज॑माने । 39) यज॑माने दधाति दधाति॒ यज॑माने॒ यज॑माने दधाति । 40) द॒धा॒ति॒ पृ॒थ्वी पृ॒थ्वी द॑धाति दधाति पृ॒थ्वी । 41) पृ॒थ्वी भ॑वति भवति पृ॒थ्वी पृ॒थ्वी भ॑वति । 42) भ॒व॒ति॒ रज्जू॑ना॒ग्ं॒ रज्जू॑ना-म्भवति भवति॒ रज्जू॑नाम् । 43) रज्जू॑नां॒-व्याँवृ॑त्त्यै॒ व्यावृ॑त्त्यै॒ रज्जू॑ना॒ग्ं॒ रज्जू॑नां॒-व्याँवृ॑त्त्यै । 44) व्यावृ॑त्त्यै॒ मेख॑लया॒ मेख॑लया॒ व्यावृ॑त्त्यै॒ व्यावृ॑त्त्यै॒ मेख॑लया । 44) व्यावृ॑त्या॒ इति॑ वि - आवृ॑त्यै । 45) मेख॑लया॒ यज॑मानं॒-यँज॑मान॒-म्मेख॑लया॒ मेख॑लया॒ यज॑मानम् । 46) यज॑मान-न्दीक्षयति दीक्षयति॒ यज॑मानं॒-यँज॑मान-न्दीक्षयति । 47) दी॒क्ष॒य॒ति॒ योक्त्रे॑ण॒ योक्त्रे॑ण दीक्षयति दीक्षयति॒ योक्त्रे॑ण । 48) योक्त्रे॑ण॒ पत्नी॒-म्पत्नीं॒-योँक्त्रे॑ण॒ योक्त्रे॑ण॒ पत्नी᳚म् । 49) पत्नी᳚-म्मिथुन॒त्वाय॑ मिथुन॒त्वाय॒ पत्नी॒-म्पत्नी᳚-म्मिथुन॒त्वाय॑ । 50) मि॒थु॒न॒त्वाय॑ य॒ज्ञो य॒ज्ञो मि॑थुन॒त्वाय॑ मिथुन॒त्वाय॑ य॒ज्ञः । 50) मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । ॥ 21 ॥ (50/61)
1) य॒ज्ञो दक्षि॑णा॒-न्दक्षि॑णां-यँ॒ज्ञो य॒ज्ञो दक्षि॑णाम् । 2) दक्षि॑णा म॒भ्य॑भि दक्षि॑णा॒-न्दक्षि॑णा म॒भि । 3) अ॒भ्य॑द्ध्याय दद्ध्याय द॒भ्या᳚(1॒)भ्य॑द्ध्यायत् । 4) अ॒द्ध्या॒य॒-त्ता-न्ता म॑द्ध्याय दद्ध्याय॒-त्ताम् । 5) ताग्ं सग्ं स-न्ता-न्ताग्ं सम् । 6) स म॑भव दभव॒-थ्सग्ं स म॑भवत् । 7) अ॒भ॒व॒-त्त-त्तद॑भव दभव॒-त्तत् । 8) तदिन्द्र॒ इन्द्र॒ स्त-त्तदिन्द्रः॑ । 9) इन्द्रो॑ ऽचाय दचाय॒ दिन्द्र॒ इन्द्रो॑ ऽचायत् । 10) अ॒चा॒य॒-थ्स सो॑ ऽचाय दचाय॒-थ्सः । 11) सो॑ ऽमन्यता मन्यत॒ स सो॑ ऽमन्यत । 12) अ॒म॒न्य॒त॒ यो यो॑ ऽमन्यता मन्यत॒ यः । 13) यो वै वै यो यो वै । 14) वा इ॒त इ॒तो वै वा इ॒तः । 15) इ॒तो ज॑नि॒ष्यते॑ जनि॒ष्यत॑ इ॒त इ॒तो ज॑नि॒ष्यते᳚ । 16) ज॒नि॒ष्यते॒ स स ज॑नि॒ष्यते॑ जनि॒ष्यते॒ सः । 17) स इ॒द मि॒दग्ं स स इ॒दम् । 18) इ॒द-म्भ॑विष्यति भविष्यती॒द मि॒द-म्भ॑विष्यति । 19) भ॒वि॒ष्य॒ती तीति॑ भविष्यति भविष्य॒तीति॑ । 20) इति॒ ता-न्ता मितीति॒ ताम् । 21) ता-म्प्र प्र ता-न्ता-म्प्र । 22) प्रावि॑श दविश॒-त्प्र प्रावि॑शत् । 23) अ॒वि॒श॒-त्तस्या॒ स्तस्या॑ अविश दविश॒-त्तस्याः᳚ । 24) तस्या॒ इन्द्र॒ इन्द्र॒ स्तस्या॒ स्तस्या॒ इन्द्रः॑ । 25) इन्द्र॑ ए॒वै वेन्द्र॒ इन्द्र॑ ए॒व । 26) ए॒वा जा॑यता जाय तै॒वैवा जा॑यत । 27) अ॒जा॒य॒त॒ स सो॑ ऽजायता जायत॒ सः । 28) सो॑ ऽमन्यता मन्यत॒ स सो॑ ऽमन्यत । 29) अ॒म॒न्य॒त॒ यो यो॑ ऽमन्यता मन्यत॒ यः । 30) यो वै वै यो यो वै । 31) वै म-न्म-द्वै वै मत् । 32) मदि॒त इ॒तो म-न्मदि॒तः । 33) इ॒तो ऽप॒रो ऽप॑र इ॒त इ॒तो ऽप॑रः । 34) अप॑रो जनि॒ष्यते॑ जनि॒ष्यते ऽप॒रो ऽप॑रो जनि॒ष्यते᳚ । 35) ज॒नि॒ष्यते॒ स स ज॑नि॒ष्यते॑ जनि॒ष्यते॒ सः । 36) स इ॒द मि॒दग्ं स स इ॒दम् । 37) इ॒द-म्भ॑विष्यति भविष्य ती॒द मि॒द-म्भ॑विष्यति । 38) भ॒वि॒ष्य॒ती तीति॑ भविष्यति भविष्य॒ तीति॑ । 39) इति॒ तस्या॒ स्तस्या॒ इतीति॒ तस्याः᳚ । 40) तस्या॑ अनु॒मृश्या॑ नु॒मृश्य॒ तस्या॒ स्तस्या॑ अनु॒मृश्य॑ । 41) अ॒नु॒मृश्य॒ योनिं॒-योँनि॑ मनु॒मृश्या॑ नु॒मृश्य॒ योनि᳚म् । 41) अ॒नु॒मृश्येत्य॑नु - मृश्य॑ । 42) योनि॒ मा योनिं॒-योँनि॒ मा । 43) आ ऽच्छि॑न दच्छिन॒ दा ऽच्छि॑नत् । 44) अ॒च्छि॒न॒-थ्सा सा ऽच्छि॑न दच्छिन॒-थ्सा । 45) सा सू॒तव॑शा सू॒तव॑शा॒ सा सा सू॒तव॑शा । 46) सू॒तव॑शा ऽभव दभव-थ्सू॒तव॑शा सू॒तव॑शा ऽभवत् । 46) सू॒तव॒शेति॑ सू॒त - व॒शा॒ । 47) अ॒भ॒व॒-त्त-त्तद॑भव दभव॒-त्तत् । 48) त-थ्सू॒तव॑शायै सू॒तव॑शायै॒ त-त्त-थ्सू॒तव॑शायै । 49) सू॒तव॑शायै॒ जन्म॒ जन्म॑ सू॒तव॑शायै सू॒तव॑शायै॒ जन्म॑ । 49) सू॒तव॑शाया॒ इति॑ सू॒त - व॒शा॒यै॒ । 50) जन्म॒ ता-न्ता-ञ्जन्म॒ जन्म॒ ताम् । ॥ 22 ॥ (50/53)
1) ताग्ं हस्ते॒ हस्ते॒ ता-न्ताग्ं हस्ते᳚ । 2) हस्ते॒ नि नि हस्ते॒ हस्ते॒ नि । 3) न्य॑वेष्टयता वेष्टयत॒ नि न्य॑वेष्टयत । 4) अ॒वे॒ष्ट॒य॒त॒ ता-न्ता म॑वेष्टयता वेष्टयत॒ ताम् । 5) ता-म्मृ॒गेषु॑ मृ॒गेषु॒ ता-न्ता-म्मृ॒गेषु॑ । 6) मृ॒गेषु॒ नि नि मृ॒गेषु॑ मृ॒गेषु॒ नि । 7) न्य॑दधा ददधा॒-न्नि न्य॑दधात् । 8) अ॒द॒धा॒-थ्सा सा ऽद॑धा ददधा॒-थ्सा । 9) सा कृ॑ष्णविषा॒णा कृ॑ष्णविषा॒णा सा सा कृ॑ष्णविषा॒णा । 10) कृ॒ष्ण॒वि॒षा॒णा ऽभ॑व दभव-त्कृष्णविषा॒णा कृ॑ष्णविषा॒णा ऽभ॑वत् । 10) कृ॒ष्ण॒वि॒षा॒णेति॑ कृष्ण - वि॒षा॒णा । 11) अ॒भ॒व॒ दिन्द्र॒ स्येन्द्र॑स्या भव दभव॒ दिन्द्र॑स्य । 12) इन्द्र॑स्य॒ योनि॒-र्योनि॒ रिन्द्र॒ स्येन्द्र॑स्य॒ योनिः॑ । 13) योनि॑ रस्यसि॒ योनि॒-र्योनि॑ रसि । 14) अ॒सि॒ मा मा ऽस्य॑सि॒ मा । 15) मा मा॑ मा॒ मा मा मा᳚ । 16) मा॒ हि॒ग्ं॒सी॒र्॒ हि॒ग्ं॒सी॒-र्मा॒ मा॒ हि॒ग्ं॒सीः॒ । 17) हि॒ग्ं॒सी॒ रितीति॑ हिग्ंसीर्-हिग्ंसी॒ रिति॑ । 18) इति॑ कृष्णविषा॒णा-ङ्कृ॑ष्णविषा॒णा मितीति॑ कृष्णविषा॒णाम् । 19) कृ॒ष्ण॒वि॒षा॒णा-म्प्र प्र कृ॑ष्णविषा॒णा-ङ्कृ॑ष्णविषा॒णा-म्प्र । 19) कृ॒ष्ण॒वि॒षा॒णामिति॑ कृष्ण - वि॒षा॒णाम् । 20) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति । 21) य॒च्छ॒ति॒ सयो॑नि॒ग्ं॒ सयो॑निं-यँच्छति यच्छति॒ सयो॑निम् । 22) सयो॑नि मे॒वैव सयो॑नि॒ग्ं॒ सयो॑नि मे॒व । 22) सयो॑नि॒मिति॒ स - यो॒नि॒म् । 23) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् । 24) य॒ज्ञ-ङ्क॑रोति करोति य॒ज्ञं-यँ॒ज्ञ-ङ्क॑रोति । 25) क॒रो॒ति॒ सयो॑नि॒ग्ं॒ सयो॑नि-ङ्करोति करोति॒ सयो॑निम् । 26) सयो॑नि॒-न्दक्षि॑णा॒-न्दक्षि॑णा॒ग्ं॒ सयो॑नि॒ग्ं॒ सयो॑नि॒-न्दक्षि॑णाम् । 26) सयो॑नि॒मिति॒ स - यो॒नि॒म् । 27) दक्षि॑णा॒ग्ं॒ सयो॑नि॒ग्ं॒ सयो॑नि॒-न्दक्षि॑णा॒-न्दक्षि॑णा॒ग्ं॒ सयो॑निम् । 28) सयो॑नि॒ मिन्द्र॒ मिन्द्र॒ग्ं॒ सयो॑नि॒ग्ं॒ सयो॑नि॒ मिन्द्र᳚म् । 28) सयो॑नि॒मिति॒ स - यो॒नि॒म् । 29) इन्द्रग्ं॑ सयोनि॒त्वाय॑ सयोनि॒त्वायेन्द्र॒ मिन्द्रग्ं॑ सयोनि॒त्वाय॑ । 30) स॒यो॒नि॒त्वाय॑ कृ॒ष्यै कृ॒ष्यै स॑योनि॒त्वाय॑ सयोनि॒त्वाय॑ कृ॒ष्यै । 30) स॒यो॒नि॒त्वायेति॑ सयोनि - त्वाय॑ । 31) कृ॒ष्यै त्वा᳚ त्वा कृ॒ष्यै कृ॒ष्यै त्वा᳚ । 32) त्वा॒ सु॒स॒स्यायै॑ सुस॒स्यायै᳚ त्वा त्वा सुस॒स्यायै᳚ । 33) सु॒स॒स्याया॒ इतीति॑ सुस॒स्यायै॑ सुस॒स्याया॒ इति॑ । 33) सु॒स॒स्याया॒ इति॑ सु - स॒स्यायै᳚ । 34) इत्या॑हा॒हे तीत्या॑ह । 35) आ॒ह॒ तस्मा॒-त्तस्मा॑ दाहाह॒ तस्मा᳚त् । 36) तस्मा॑ दकृष्टप॒च्या अ॑कृष्टप॒च्या स्तस्मा॒-त्तस्मा॑ दकृष्टप॒च्याः । 37) अ॒कृ॒ष्ट॒प॒च्या ओष॑धय॒ ओष॑धयो ऽकृष्टप॒च्या अ॑कृष्टप॒च्या ओष॑धयः । 37) अ॒कृ॒ष्ट॒प॒च्या इत्य॑कृष्ट - प॒च्याः । 38) ओष॑धयः पच्यन्ते पच्यन्त॒ ओष॑धय॒ ओष॑धयः पच्यन्ते । 39) प॒च्य॒न्ते॒ सु॒पि॒प्प॒लाभ्य॑-स्सुपिप्प॒लाभ्यः॑ पच्यन्ते पच्यन्ते सुपिप्प॒लाभ्यः॑ । 40) सु॒पि॒प्प॒लाभ्य॑ स्त्वा त्वा सुपिप्प॒लाभ्य॑-स्सुपिप्प॒लाभ्य॑ स्त्वा । 40) सु॒पि॒प्प॒लाभ्य॒ इति॑ सु - पि॒प्प॒लाभ्यः॑ । 41) त्वौष॑धीभ्य॒ ओष॑धीभ्य स्त्वा॒ त्वौष॑धीभ्यः । 42) ओष॑धीभ्य॒ इतीत्योष॑धीभ्य॒ ओष॑धीभ्य॒ इति॑ । 42) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । 43) इत्या॑हा॒हे तीत्या॑ह । 44) आ॒ह॒ तस्मा॒-त्तस्मा॑ दाहाह॒ तस्मा᳚त् । 45) तस्मा॒ दोष॑धय॒ ओष॑धय॒ स्तस्मा॒-त्तस्मा॒ दोष॑धयः । 46) ओष॑धयः॒ फल॒-म्फल॒ मोष॑धय॒ ओष॑धयः॒ फल᳚म् । 47) फल॑-ङ्गृह्णन्ति गृह्णन्ति॒ फल॒-म्फल॑-ङ्गृह्णन्ति । 48) गृ॒ह्ण॒न्ति॒ य-द्य-द्गृ॑ह्णन्ति गृह्णन्ति॒ यत् । 49) यद्धस्ते॑न॒ हस्ते॑न॒ य-द्यद्धस्ते॑न । 50) हस्ते॑न कण्डू॒येत॑ कण्डू॒येत॒ हस्ते॑न॒ हस्ते॑न कण्डू॒येत॑ । ॥ 23 ॥ (50/60)
1) क॒ण्डू॒येत॑ पामन॒म्भावु॑काः पामन॒म्भावु॑काः कण्डू॒येत॑ कण्डू॒येत॑ पामन॒म्भावु॑काः । 2) पा॒म॒न॒म्भावु॑काः प्र॒जाः प्र॒जाः पा॑मन॒म्भावु॑काः पामन॒म्भावु॑काः प्र॒जाः । 2) पा॒म॒न॒म्भावु॑का॒ इति॑ पामनम् - भावु॑काः । 3) प्र॒जा-स्स्यु॑-स्स्युः प्र॒जाः प्र॒जा-स्स्युः॑ । 3) प्र॒जा इति॑ प्र - जाः । 4) स्यु॒-र्य-द्य-थ्स्यु॑-स्स्यु॒-र्यत् । 5) य-थ्स्मये॑त॒ स्मये॑त॒ य-द्य-थ्स्मये॑त । 6) स्मये॑त नग्न॒म्भावु॑का नग्न॒म्भावु॑का॒-स्स्मये॑त॒ स्मये॑त नग्न॒म्भावु॑काः । 7) न॒ग्न॒म्भावु॑काः कृष्णविषा॒णया॑ कृष्णविषा॒णया॑ नग्न॒म्भावु॑का नग्न॒म्भावु॑काः कृष्णविषा॒णया᳚ । 7) न॒ग्न॒म्भावु॑का॒ इति॑ नग्नम् - भावु॑काः । 8) कृ॒ष्ण॒वि॒षा॒णया॑ कण्डूयते कण्डूयते कृष्णविषा॒णया॑ कृष्णविषा॒णया॑ कण्डूयते । 8) कृ॒ष्ण॒वि॒षा॒णयेति॑ कृष्ण - वि॒षा॒णया᳚ । 9) क॒ण्डू॒य॒ते॒ ऽपि॒गृह्या॑ पि॒गृह्य॑ कण्डूयते कण्डूयते ऽपि॒गृह्य॑ । 10) अ॒पि॒गृह्य॑ स्मयते स्मयते ऽपि॒गृह्या॑ पि॒गृह्य॑ स्मयते । 10) अ॒पि॒गृह्येत्य॑पि - गृह्य॑ । 11) स्म॒य॒ते॒ प्र॒जाना᳚-म्प्र॒जानाग्॑ स्मयते स्मयते प्र॒जाना᳚म् । 12) प्र॒जाना᳚-ङ्गोपी॒थाय॑ गोपी॒थाय॑ प्र॒जाना᳚-म्प्र॒जाना᳚-ङ्गोपी॒थाय॑ । 12) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 13) गो॒पी॒थाय॒ न न गो॑पी॒थाय॑ गोपी॒थाय॒ न । 14) न पु॒रा पु॒रा न न पु॒रा । 15) पु॒रा दक्षि॑णाभ्यो॒ दक्षि॑णाभ्यः पु॒रा पु॒रा दक्षि॑णाभ्यः । 16) दक्षि॑णाभ्यो॒ नेतो॒-र्नेतो॒-र्दक्षि॑णाभ्यो॒ दक्षि॑णाभ्यो॒ नेतोः᳚ । 17) नेतोः᳚ कृष्णविषा॒णा-ङ्कृ॑ष्णविषा॒णा-न्नेतो॒-र्नेतोः᳚ कृष्णविषा॒णाम् । 18) कृ॒ष्ण॒वि॒षा॒णा मवाव॑ कृष्णविषा॒णा-ङ्कृ॑ष्णविषा॒णा मव॑ । 18) कृ॒ष्ण॒वि॒षा॒णामिति॑ कृष्ण - वि॒षा॒णाम् । 19) अव॑ चृतेच् चृते॒ दवाव॑ चृतेत् । 20) चृ॒ते॒-द्य-द्यच् चृ॑तेच् चृते॒-द्यत् । 21) य-त्पु॒रा पु॒रा य-द्य-त्पु॒रा । 22) पु॒रा दक्षि॑णाभ्यो॒ दक्षि॑णाभ्यः पु॒रा पु॒रा दक्षि॑णाभ्यः । 23) दक्षि॑णाभ्यो॒ नेतो॒-र्नेतो॒-र्दक्षि॑णाभ्यो॒ दक्षि॑णाभ्यो॒ नेतोः᳚ । 24) नेतोः᳚ कृष्णविषा॒णा-ङ्कृ॑ष्णविषा॒णा-न्नेतो॒-र्नेतोः᳚ कृष्णविषा॒णाम् । 25) कृ॒ष्ण॒वि॒षा॒णा म॑वचृ॒ते द॑वचृ॒ते-त्कृ॑ष्णविषा॒णा-ङ्कृ॑ष्णविषा॒णा म॑वचृ॒तेत् । 25) कृ॒ष्ण॒वि॒षा॒णामिति॑ कृष्ण - वि॒षा॒णाम् । 26) अ॒व॒चृ॒ते-द्योनि॒-र्योनि॑ रवचृ॒ते द॑वचृ॒ते-द्योनिः॑ । 26) अ॒व॒चृ॒तेदित्य॑व - चृ॒तेत् । 27) योनिः॑ प्र॒जाना᳚-म्प्र॒जानां॒-योँनि॒-र्योनिः॑ प्र॒जाना᳚म् । 28) प्र॒जाना᳚-म्परा॒पातु॑का परा॒पातु॑का प्र॒जाना᳚-म्प्र॒जाना᳚-म्परा॒पातु॑का । 28) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 29) प॒रा॒पातु॑का स्या-थ्स्या-त्परा॒पातु॑का परा॒पातु॑का स्यात् । 29) प॒रा॒पातु॒केति॑ परा - पातु॑का । 30) स्या॒-न्नी॒तासु॑ नी॒तासु॑ स्या-थ्स्या-न्नी॒तासु॑ । 31) नी॒तासु॒ दक्षि॑णासु॒ दक्षि॑णासु नी॒तासु॑ नी॒तासु॒ दक्षि॑णासु । 32) दक्षि॑णासु॒ चात्वा॑ले॒ चात्वा॑ले॒ दक्षि॑णासु॒ दक्षि॑णासु॒ चात्वा॑ले । 33) चात्वा॑ले कृष्णविषा॒णा-ङ्कृ॑ष्णविषा॒णा-ञ्चात्वा॑ले॒ चात्वा॑ले कृष्णविषा॒णाम् । 34) कृ॒ष्ण॒वि॒षा॒णा-म्प्र प्र कृ॑ष्णविषा॒णा-ङ्कृ॑ष्णविषा॒णा-म्प्र । 34) कृ॒ष्ण॒वि॒षा॒णामिति॑ कृष्ण - वि॒षा॒णाम् । 35) प्रास्य॑ त्यस्यति॒ प्र प्रास्य॑ति । 36) अ॒स्य॒ति॒ योनि॒-र्योनि॑ रस्य त्यस्यति॒ योनिः॑ । 37) योनि॒-र्वै वै योनि॒-र्योनि॒-र्वै । 38) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 39) य॒ज्ञस्य॒ चात्वा॑ल॒-ञ्चात्वा॑लं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ चात्वा॑लम् । 40) चात्वा॑लं॒-योँनि॒-र्योनि॒ श्चात्वा॑ल॒-ञ्चात्वा॑लं॒-योँनिः॑ । 41) योनिः॑ कृष्णविषा॒णा कृ॑ष्णविषा॒णा योनि॒-र्योनिः॑ कृष्णविषा॒णा । 42) कृ॒ष्ण॒वि॒षा॒णा योनौ॒ योनौ॑ कृष्णविषा॒णा कृ॑ष्णविषा॒णा योनौ᳚ । 42) कृ॒ष्ण॒वि॒षा॒णेति॑ कृष्ण - वि॒षा॒णा । 43) योना॑ वे॒वैव योनौ॒ योना॑ वे॒व । 44) ए॒व योनिं॒-योँनि॑ मे॒वैव योनि᳚म् । 45) योनि॑-न्दधाति दधाति॒ योनिं॒-योँनि॑-न्दधाति । 46) द॒धा॒ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ दधाति दधाति य॒ज्ञस्य॑ । 47) य॒ज्ञस्य॑ सयोनि॒त्वाय॑ सयोनि॒त्वाय॑ य॒ज्ञस्य॑ य॒ज्ञस्य॑ सयोनि॒त्वाय॑ । 48) स॒यो॒नि॒त्वायेति॑ सयोनि - त्वाय॑ । ॥ 24 ॥ (48/61) ॥ अ. 3 ॥
1) वाग् वै वै वाग् वाग् वै । 2) वै दे॒वेभ्यो॑ दे॒वेभ्यो॒ वै वै दे॒वेभ्यः॑ । 3) दे॒वेभ्यो ऽपाप॑ दे॒वेभ्यो॑ दे॒वेभ्यो ऽप॑ । 4) अपा᳚क्राम दक्राम॒ दपापा᳚ क्रामत् । 5) अ॒क्रा॒म॒-द्य॒ज्ञाय॑ य॒ज्ञाया᳚ क्राम दक्राम-द्य॒ज्ञाय॑ । 6) य॒ज्ञाया ति॑ष्ठमा॒ना ऽति॑ष्ठमाना य॒ज्ञाय॑ य॒ज्ञाया ति॑ष्ठमाना । 7) अति॑ष्ठमाना॒ सा सा ऽति॑ष्ठमा॒ना ऽति॑ष्ठमाना॒ सा । 8) सा वन॒स्पती॒न्॒. वन॒स्पती॒-न्थ्सा सा वन॒स्पतीन्॑ । 9) वन॒स्पती॒-न्प्र प्र वण॒स्पती॒न्॒. वन॒स्पती॒-न्प्र । 10) प्रावि॑श दविश॒-त्प्र प्रावि॑शत् । 11) अ॒वि॒श॒-थ्सा सा ऽवि॑श दविश॒-थ्सा । 12) सैषैषा सा सैषा । 13) ए॒षा वाग् वागे॒ षैषा वाक् । 14) वाग् वन॒स्पति॑षु॒ वन॒स्पति॑षु॒ वाग् वाग् वन॒स्पति॑षु । 15) वन॒स्पति॑षु वदति वदति॒ वन॒स्पति॑षु॒ वन॒स्पति॑षु वदति । 16) व॒द॒ति॒ या या व॑दति वदति॒ या । 17) या दु॑न्दु॒भौ दु॑न्दु॒भौ या या दु॑न्दु॒भौ । 18) दु॒न्दु॒भौ या या दु॑न्दु॒भौ दु॑न्दु॒भौ या । 19) या तूण॑वे॒ तूण॑वे॒ या या तूण॑वे । 20) तूण॑वे॒ या या तूण॑वे॒ तूण॑वे॒ या । 21) या वीणा॑यां॒-वीँणा॑यां॒-याँ या वीणा॑याम् । 22) वीणा॑यां॒-यँ-द्य-द्वीणा॑यां॒-वीँणा॑यां॒-यँत् । 23) य-द्दी᳚क्षितद॒ण्ड-न्दी᳚क्षितद॒ण्डं-यँ-द्य-द्दी᳚क्षितद॒ण्डम् । 24) दी॒क्षि॒त॒द॒ण्ड-म्प्र॒यच्छ॑ति प्र॒यच्छ॑ति दीक्षितद॒ण्ड-न्दी᳚क्षितद॒ण्ड-म्प्र॒यच्छ॑ति । 24) दी॒क्षि॒त॒द॒ण्डमिति॑ दीक्षित - द॒ण्डम् । 25) प्र॒यच्छ॑ति॒ वाचं॒-वाँच॑-म्प्र॒यच्छ॑ति प्र॒यच्छ॑ति॒ वाच᳚म् । 25) प्र॒यच्छ॒तीति॑ प्र - यच्छ॑ति । 26) वाच॑ मे॒वैव वाचं॒-वाँच॑ मे॒व । 27) ए॒वावा वै॒वै वाव॑ । 28) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 29) रु॒न्ध॒ औदु॑म्बर॒ औदु॑म्बरो रुन्धे रुन्ध॒ औदु॑म्बरः । 30) औदु॑म्बरो भवति भव॒ त्यौदु॑म्बर॒ औदु॑म्बरो भवति । 31) भ॒व॒ त्यू-र्गूर्ग् भ॑वति भव॒ त्यूर्क् । 32) ऊर्ग् वै वा ऊ-र्गूर्ग् वै । 33) वा उ॑दु॒म्बर॑ उदु॒म्बरो॒ वै वा उ॑दु॒म्बरः॑ । 34) उ॒दु॒म्बर॒ ऊर्ज॒ मूर्ज॑ मुदु॒म्बर॑ उदु॒म्बर॒ ऊर्ज᳚म् । 35) ऊर्ज॑ मे॒वै वोर्ज॒ मूर्ज॑ मे॒व । 36) ए॒वावा वै॒वै वाव॑ । 37) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 38) रु॒न्धे॒ मुखे॑न॒ मुखे॑न रुन्धे रुन्धे॒ मुखे॑न । 39) मुखे॑न॒ सम्मि॑त॒-स्सम्मि॑तो॒ मुखे॑न॒ मुखे॑न॒ सम्मि॑तः । 40) सम्मि॑तो भवति भवति॒ सम्मि॑त॒-स्सम्मि॑तो भवति । 40) सम्मि॑त॒ इति॒ सं - मि॒तः॒ । 41) भ॒व॒ति॒ मु॒ख॒तो मु॑ख॒तो भ॑वति भवति मुख॒तः । 42) मु॒ख॒त ए॒वैव मु॑ख॒तो मु॑ख॒त ए॒व । 43) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 44) अ॒स्मा॒ ऊर्ज॒ मूर्ज॑ मस्मा अस्मा॒ ऊर्ज᳚म् । 45) ऊर्ज॑-न्दधाति दधा॒ त्यूर्ज॒ मूर्ज॑-न्दधाति । 46) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् । 47) तस्मा᳚-न्मुख॒तो मु॑ख॒त स्तस्मा॒-त्तस्मा᳚-न्मुख॒तः । 48) मु॒ख॒त ऊ॒र्जोर्जा मु॑ख॒तो मु॑ख॒त ऊ॒र्जा । 49) ऊ॒र्जा भु॑ञ्जते भुञ्जत ऊ॒र्जोर्जा भु॑ञ्जते । 50) भु॒ञ्ज॒ते॒ क्री॒ते क्री॒ते भु॑ञ्जते भुञ्जते क्री॒ते । ॥ 25 ॥ (50/53)
1) क्री॒ते सोमे॒ सोमे᳚ क्री॒ते क्री॒ते सोमे᳚ । 2) सोमे॑ मैत्रावरु॒णाय॑ मैत्रावरु॒णाय॒ सोमे॒ सोमे॑ मैत्रावरु॒णाय॑ । 3) मै॒त्रा॒व॒रु॒णाय॑ द॒ण्ड-न्द॒ण्ड-म्मै᳚त्रावरु॒णाय॑ मैत्रावरु॒णाय॑ द॒ण्डम् । 3) मै॒त्रा॒व॒रु॒णायेति॑ मैत्रा - व॒रु॒णाय॑ । 4) द॒ण्ड-म्प्र प्र द॒ण्ड-न्द॒ण्ड-म्प्र । 5) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति । 6) य॒च्छ॒ति॒ मै॒त्रा॒व॒रु॒णो मै᳚त्रावरु॒णो य॑च्छति यच्छति मैत्रावरु॒णः । 7) मै॒त्रा॒व॒रु॒णो हि हि मै᳚त्रावरु॒णो मै᳚त्रावरु॒णो हि । 7) मै॒त्रा॒व॒रु॒ण इति॑ मैत्रा - व॒रु॒णः । 8) हि पु॒रस्ता᳚-त्पु॒रस्ता॒ द्धि हि पु॒रस्ता᳚त् । 9) पु॒रस्ता॑ दृ॒त्विग्भ्य॑ ऋ॒त्विग्भ्यः॑ पु॒रस्ता᳚-त्पु॒रस्ता॑ दृ॒त्विग्भ्यः॑ । 10) ऋ॒त्विग्भ्यो॒ वाचं॒-वाँच॑ मृ॒त्विग्भ्य॑ ऋ॒त्विग्भ्यो॒ वाच᳚म् । 10) ऋ॒त्विग्भ्य॒ इत्यृ॒त्विक् - भ्यः॒ । 11) वाचं॑-विँ॒भज॑ति वि॒भज॑ति॒ वाचं॒-वाँचं॑-विँ॒भज॑ति । 12) वि॒भज॑ति॒ ता-न्तां-विँ॒भज॑ति वि॒भज॑ति॒ ताम् । 12) वि॒भज॒तीति॑ वि - भज॑ति । 13) ता मृ॒त्विज॑ ऋ॒त्विज॒ स्ता-न्ता मृ॒त्विजः॑ । 14) ऋ॒त्विजो॒ यज॑माने॒ यज॑मान ऋ॒त्विज॑ ऋ॒त्विजो॒ यज॑माने । 15) यज॑माने॒ प्रति॒ प्रति॒ यज॑माने॒ यज॑माने॒ प्रति॑ । 16) प्रति॑ ष्ठापयन्ति स्थापयन्ति॒ प्रति॒ प्रति॑ ष्ठापयन्ति । 17) स्था॒प॒य॒न्ति॒ स्वाहा॒ स्वाहा᳚ स्थापयन्ति स्थापयन्ति॒ स्वाहा᳚ । 18) स्वाहा॑ य॒ज्ञं-यँ॒ज्ञग्ग् स्वाहा॒ स्वाहा॑ य॒ज्ञम् । 19) य॒ज्ञ-म्मन॑सा॒ मन॑सा य॒ज्ञं-यँ॒ज्ञ-म्मन॑सा । 20) मन॒से तीति॒ मन॑सा॒ मन॒ सेति॑ । 21) इत्या॑हा॒हे तीत्या॑ह । 22) आ॒ह॒ मन॑सा॒ मन॑सा ऽऽहाह॒ मन॑सा । 23) मन॑सा॒ हि हि मन॑सा॒ मन॑सा॒ हि । 24) हि पुरु॑षः॒ पुरु॑षो॒ हि हि पुरु॑षः । 25) पुरु॑षो य॒ज्ञं-यँ॒ज्ञ-म्पुरु॑षः॒ पुरु॑षो य॒ज्ञम् । 26) य॒ज्ञ म॑भि॒गच्छ॑ त्यभि॒गच्छ॑ति य॒ज्ञं-यँ॒ज्ञ म॑भि॒गच्छ॑ति । 27) अ॒भि॒गच्छ॑ति॒ स्वाहा॒ स्वाहा॑ ऽभि॒गच्छ॑ त्यभि॒गच्छ॑ति॒ स्वाहा᳚ । 27) अ॒भि॒गच्छ॒तीत्य॑भि - गच्छ॑ति । 28) स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॒ग्॒ स्वाहा॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या᳚म् । 29) द्यावा॑पृथि॒वीभ्या॒ मितीति॒ द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॒ मिति॑ । 29) द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा᳚ - पृ॒थि॒वीभ्या᳚म् । 30) इत्या॑हा॒हे तीत्या॑ह । 31) आ॒ह॒ द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒व्यो रा॑हाह॒ द्यावा॑पृथि॒व्योः । 32) द्यावा॑पृथि॒व्योर्-हि हि द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒व्योर्-हि । 32) द्यावा॑पृथि॒व्योरिति॒ द्यावा᳚ - पृ॒थि॒व्योः । 33) हि य॒ज्ञो य॒ज्ञो हि हि य॒ज्ञः । 34) य॒ज्ञ-स्स्वाहा॒ स्वाहा॑ य॒ज्ञो य॒ज्ञ-स्स्वाहा᳚ । 35) स्वाहो॒ रोरु॒रो-स्स्वाहा॒ स्वाहो॒रोः । 36) उ॒रो र॒न्तरि॑क्षा द॒न्तरि॑क्षा दु॒रो रु॒रो र॒न्तरि॑क्षात् । 37) अ॒न्तरि॑क्षा॒दि तीत्य॒न्तरि॑क्षा द॒न्तरि॑क्षा॒ दिति॑ । 38) इत्या॑हा॒हे तीत्या॑ह । 39) आ॒हा॒ न्तरि॑क्षे॒ ऽन्तरि॑क्ष आहाहा॒ न्तरि॑क्षे । 40) अ॒न्तरि॑क्षे॒ हि ह्य॑न्तरि॑क्षे॒ ऽन्तरि॑क्षे॒ हि । 41) हि य॒ज्ञो य॒ज्ञो हि हि य॒ज्ञः । 42) य॒ज्ञ-स्स्वाहा॒ स्वाहा॑ य॒ज्ञो य॒ज्ञ-स्स्वाहा᳚ । 43) स्वाहा॑ य॒ज्ञं-यँ॒ज्ञग्ग् स्वाहा॒ स्वाहा॑ य॒ज्ञम् । 44) य॒ज्ञं-वाँता॒-द्वाता᳚-द्य॒ज्ञं-यँ॒ज्ञं-वाँता᳚त् । 45) वाता॒दा वाता॒-द्वाता॒दा । 46) आ र॑भे रभ॒ आ र॑भे । 47) र॒भ॒ इतीति॑ रभे रभ॒ इति॑ । 48) इत्या॑हा॒हे तीत्या॑ह । 49) आ॒हा॒य म॒य मा॑हा हा॒यम् । 50) अ॒यं-वाँव वावाय म॒यं-वाँव । ॥ 26 ॥ (50/57)
1) वाव यो यो वाव वाव यः । 2) यः पव॑ते॒ पव॑ते॒ यो यः पव॑ते । 3) पव॑ते॒ स स पव॑ते॒ पव॑ते॒ सः । 4) स य॒ज्ञो य॒ज्ञ-स्स स य॒ज्ञः । 5) य॒ज्ञ स्त-न्तं-यँ॒ज्ञो य॒ज्ञ स्तम् । 6) त मे॒वैव त-न्त मे॒व । 7) ए॒व सा॒क्षा-थ्सा॒क्षा दे॒वैव सा॒क्षात् । 8) सा॒क्षादा सा॒क्षा-थ्सा॒क्षादा । 8) सा॒क्षादिति॑ स - अ॒क्षात् । 9) आ र॑भते रभत॒ आ र॑भते । 10) र॒भ॒ते॒ मु॒ष्टी मु॒ष्टी र॑भते रभते मु॒ष्टी । 11) मु॒ष्टी क॑रोति करोति मु॒ष्टी मु॒ष्टी क॑रोति । 11) मु॒ष्टी इति॑ मु॒ष्टी । 12) क॒रो॒ति॒ वाचं॒-वाँच॑-ङ्करोति करोति॒ वाच᳚म् । 13) वाचं॑-यँच्छति यच्छति॒ वाचं॒-वाँचं॑-यँच्छति । 14) य॒च्छ॒ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ यच्छति यच्छति य॒ज्ञस्य॑ । 15) य॒ज्ञस्य॒ धृत्यै॒ धृत्यै॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ धृत्यै᳚ । 16) धृत्या॒ अदी᳚क्षि॒ष्टा दी᳚क्षिष्ट॒ धृत्यै॒ धृत्या॒ अदी᳚क्षिष्ट । 17) अदी᳚क्षिष्टा॒य म॒य मदी᳚क्षि॒ष्टा दी᳚क्षिष्टा॒यम् । 18) अ॒य-म्ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो॑ ऽय म॒य-म्ब्रा᳚ह्म॒णः । 19) ब्रा॒ह्म॒ण इतीति॑ ब्राह्म॒णो ब्रा᳚ह्म॒ण इति॑ । 20) इति॒ त्रि स्त्रिरि तीति॒ त्रिः । 21) त्रि रु॑पा॒ग्ं॒शू॑ पा॒ग्ं॒शु त्रि स्त्रि रु॑पा॒ग्ं॒शु । 22) उ॒पा॒ग्॒ श्वा॑हा होपा॒ग्ं॒शू॑ पा॒ग्॒श्वा॑ह । 22) उ॒पा॒ग्॒श्वित्यु॑प - अ॒ग्ं॒शु । 23) आ॒ह॒ दे॒वेभ्यो॑ दे॒वेभ्य॑ आहाह दे॒वेभ्यः॑ । 24) दे॒वेभ्य॑ ए॒वैव दे॒वेभ्यो॑ दे॒वेभ्य॑ ए॒व । 25) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 26) ए॒न॒-म्प्र प्रैन॑ मेन॒-म्प्र । 27) प्राहा॑ह॒ प्र प्राह॑ । 28) आ॒ह॒ त्रि स्त्रि रा॑हाह॒ त्रिः । 29) त्रि रु॒च्चै रु॒च्चै स्त्रि स्त्रि रु॒च्चैः । 30) उ॒च्चै रु॒भये᳚भ्य उ॒भये᳚भ्य उ॒च्चै रु॒च्चै रु॒भये᳚भ्यः । 31) उ॒भये᳚भ्य ए॒वैवो भये᳚भ्य उ॒भये᳚भ्य ए॒व । 32) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 33) ए॒न॒-न्दे॒व॒म॒नु॒ष्येभ्यो॑ देवमनु॒ष्येभ्य॑ एन मेन-न्देवमनु॒ष्येभ्यः॑ । 34) दे॒व॒म॒नु॒ष्येभ्यः॒ प्र प्र दे॑वमनु॒ष्येभ्यो॑ देवमनु॒ष्येभ्यः॒ प्र । 34) दे॒व॒म॒नु॒ष्येभ्य॒ इति॑ देव - म॒नु॒ष्येभ्यः॑ । 35) प्राहा॑ह॒ प्र प्राह॑ । 36) आ॒ह॒ न नाहा॑ह॒ न । 37) न पु॒रा पु॒रा न न पु॒रा । 38) पु॒रा नक्ष॑त्रेभ्यो॒ नक्ष॑त्रेभ्यः पु॒रा पु॒रा नक्ष॑त्रेभ्यः । 39) नक्ष॑त्रेभ्यो॒ वाचं॒-वाँच॒-न्नक्ष॑त्रेभ्यो॒ नक्ष॑त्रेभ्यो॒ वाच᳚म् । 40) वाचं॒-विँ वि वाचं॒-वाँचं॒-विँ । 41) वि सृ॑जे-थ्सृजे॒-द्वि वि सृ॑जेत् । 42) सृ॒जे॒-द्य-द्य-थ्सृ॑जे-थ्सृजे॒-द्यत् । 43) य-त्पु॒रा पु॒रा य-द्य-त्पु॒रा । 44) पु॒रा नक्ष॑त्रेभ्यो॒ नक्ष॑त्रेभ्यः पु॒रा पु॒रा नक्ष॑त्रेभ्यः । 45) नक्ष॑त्रेभ्यो॒ वाचं॒-वाँच॒-न्नक्ष॑त्रेभ्यो॒ नक्ष॑त्रेभ्यो॒ वाच᳚म् । 46) वाचं॑-विँसृ॒जे-द्वि॑सृ॒जे-द्वाचं॒-वाँचं॑-विँसृ॒जेत् । 47) वि॒सृ॒जे-द्य॒ज्ञं-यँ॒ज्ञं-विँ॑सृ॒जे-द्वि॑सृ॒जे-द्य॒ज्ञम् । 47) वि॒सृ॒जेदिति॑ वि - सृ॒जेत् । 48) य॒ज्ञं-विँ वि य॒ज्ञं-यँ॒ज्ञं-विँ । 49) वि च्छि॑न्द्याच् छिन्द्या-द्वि वि च्छि॑न्द्यात् । 50) छि॒न्द्या॒ दुदि॑ते॒षू दि॑तेषु छिन्द्याच् छिन्द्या॒ दुदि॑तेषु । ॥ 27 ॥ (50/55)
1) उदि॑तेषु॒ नक्ष॑त्रेषु॒ नक्ष॑त्रे॒षू दि॑ते॒षू दि॑तेषु॒ नक्ष॑त्रेषु । 1) उदि॑ते॒ष्वित्युत् - इ॒ते॒षु॒ । 2) नक्ष॑त्रेषु व्र॒तं-व्रँ॒त-न्नक्ष॑त्रेषु॒ नक्ष॑त्रेषु व्र॒तम् । 3) व्र॒त-ङ्कृ॑णुत कृणुत व्र॒तं-व्रँ॒त-ङ्कृ॑णुत । 4) कृ॒णु॒ते तीति॑ कृणुत कृणु॒तेति॑ । 5) इति॒ वाचं॒-वाँच॒ मितीति॒ वाच᳚म् । 6) वाचं॒-विँ वि वाचं॒-वाँचं॒-विँ । 7) वि सृ॑जति सृजति॒ वि वि सृ॑जति । 8) सृ॒ज॒ति॒ य॒ज्ञव्र॑तो य॒ज्ञव्र॑त-स्सृजति सृजति य॒ज्ञव्र॑तः । 9) य॒ज्ञव्र॑तो॒ वै वै य॒ज्ञव्र॑तो य॒ज्ञव्र॑तो॒ वै । 9) य॒ज्ञव्र॑त॒ इति॑ य॒ज्ञ - व्र॒तः॒ । 10) वै दी᳚क्षि॒तो दी᳚क्षि॒तो वै वै दी᳚क्षि॒तः । 11) दी॒क्षि॒तो य॒ज्ञं-यँ॒ज्ञ-न्दी᳚क्षि॒तो दी᳚क्षि॒तो य॒ज्ञम् । 12) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 13) ए॒वाभ्या᳚(1॒)भ्ये॑ वैवाभि । 14) अ॒भि वाचं॒-वाँच॑ म॒भ्य॑भि वाच᳚म् । 15) वाचं॒-विँ वि वाचं॒-वाँचं॒-विँ । 16) वि सृ॑जति सृजति॒ वि वि सृ॑जति । 17) सृ॒ज॒ति॒ यदि॒ यदि॑ सृजति सृजति॒ यदि॑ । 18) यदि॑ विसृ॒जे-द्वि॑सृ॒जे-द्यदि॒ यदि॑ विसृ॒जेत् । 19) वि॒सृ॒जे-द्वै᳚ष्ण॒वीं-वैँ᳚ष्ण॒वीं-विँ॑सृ॒जे-द्वि॑सृ॒जे-द्वै᳚ष्ण॒वीम् । 19) वि॒सृ॒जेदिति॑ वि - सृ॒जेत् । 20) वै॒ष्ण॒वी मृच॒ मृचं॑-वैँष्ण॒वीं-वैँ᳚ष्ण॒वी मृच᳚म् । 21) ऋच॒ मन्वन् वृच॒ मृच॒ मनु॑ । 22) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् । 23) ब्रू॒या॒-द्य॒ज्ञो य॒ज्ञो ब्रू॑या-द्ब्रूया-द्य॒ज्ञः । 24) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै । 25) वै विष्णु॒-र्विष्णु॒-र्वै वै विष्णुः॑ । 26) विष्णु॑-र्य॒ज्ञेन॑ य॒ज्ञेन॒ विष्णु॒-र्विष्णु॑-र्य॒ज्ञेन॑ । 27) य॒ज्ञेनै॒ वैव य॒ज्ञेन॑ य॒ज्ञेनै॒व । 28) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् । 29) य॒ज्ञग्ं सग्ं सं-यँ॒ज्ञं-यँ॒ज्ञग्ं सम् । 30) स-न्त॑नोति तनोति॒ सग्ं स-न्त॑नोति । 31) त॒नो॒ति॒ दैवी॒-न्दैवी᳚-न्तनोति तनोति॒ दैवी᳚म् । 32) दैवी॒-न्धिय॒-न्धिय॒-न्दैवी॒-न्दैवी॒-न्धिय᳚म् । 33) धिय॑-म्मनामहे मनामहे॒ धिय॒-न्धिय॑-म्मनामहे । 34) म॒ना॒म॒ह॒ इतीति॑ मनामहे मनामह॒ इति॑ । 35) इत्या॑हा॒हे तीत्या॑ह । 36) आ॒ह॒ य॒ज्ञं-यँ॒ज्ञ मा॑हाह य॒ज्ञम् । 37) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 38) ए॒व त-त्तदे॒ वैव तत् । 39) त-न्म्र॑दयति म्रदयति॒ त-त्त-न्म्र॑दयति । 40) म्र॒द॒य॒ति॒ सु॒पा॒रा सु॑पा॒रा म्र॑दयति म्रदयति सुपा॒रा । 41) सु॒पा॒रा नो॑ न-स्सुपा॒रा सु॑पा॒रा नः॑ । 41) सु॒पा॒रेति॑ सु - पा॒रा । 42) नो॒ अ॒स॒ द॒स॒-न्नो॒ नो॒ अ॒स॒त् । 43) अ॒स॒-द्वशे॒ वशे॑ ऽस दस॒-द्वशे᳚ । 44) वश॒ इतीति॒ वशे॒ वश॒ इति॑ । 45) इत्या॑हा॒हे तीत्या॑ह । 46) आ॒ह॒ व्यु॑ष्टिं॒-व्युँ॑ष्टि माहाह॒ व्यु॑ष्टिम् । 47) व्यु॑ष्टि मे॒वैव व्यु॑ष्टिं॒-व्युँ॑ष्टि मे॒व । 47) व्यु॑ष्टि॒मिति॒ वि - उ॒ष्टि॒म् । 48) ए॒वावा वै॒वै वाव॑ । 49) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 50) रु॒न्धे॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ रुन्धे रुन्धे ब्रह्मवा॒दिनः॑ । ॥ 28 ॥ (50/55)
1) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 1) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 2) व॒द॒न्ति॒ हो॒त॒व्यग्ं॑ होत॒व्यं॑-वँदन्ति वदन्ति होत॒व्य᳚म् । 3) हो॒त॒व्य॑-न्दीक्षि॒तस्य॑ दीक्षि॒तस्य॑ होत॒व्यग्ं॑ होत॒व्य॑-न्दीक्षि॒तस्य॑ । 4) दी॒क्षि॒तस्य॑ गृ॒हा(3)इ गृ॒हा(3)इ दी᳚क्षि॒तस्य॑ दीक्षि॒तस्य॑ गृ॒हा(3)इ । 5) गृ॒हा(3)इ न न गृ॒हा(3)इ गृ॒हा(3)इ न । 6) न हो॑त॒व्या(3)ं हो॑त॒व्या(3)-न्न न हो॑त॒व्या(3)म् । 7) हो॒त॒व्या(3) मितीति॑ होत॒व्या(3)ं हो॑त॒व्या(3) मिति॑ । 8) इति॑ ह॒विर्-ह॒विरि तीति॑ ह॒विः । 9) ह॒वि-र्वै वै ह॒विर्-ह॒वि-र्वै । 10) वै दी᳚क्षि॒तो दी᳚क्षि॒तो वै वै दी᳚क्षि॒तः । 11) दी॒क्षि॒तो य-द्य-द्दी᳚क्षि॒तो दी᳚क्षि॒तो यत् । 12) यज् जु॑हु॒याज् जु॑हु॒या-द्य-द्यज् जु॑हु॒यात् । 13) जु॒हु॒या-द्यज॑मानस्य॒ यज॑मानस्य जुहु॒याज् जु॑हु॒या-द्यज॑मानस्य । 14) यज॑मानस्या व॒दाया॑ व॒दाय॒ यज॑मानस्य॒ यज॑मानस्या व॒दाय॑ । 15) अ॒व॒दाय॑ जुहुयाज् जुहुया दव॒दाया॑ व॒दाय॑ जुहुयात् । 15) अ॒व॒दायेत्य॑व - दाय॑ । 16) जु॒हु॒या॒-द्य-द्यज् जु॑हुयाज् जुहुया॒-द्यत् । 17) य-न्न न य-द्य-न्न । 18) न जु॑हु॒याज् जु॑हु॒या-न्न न जु॑हु॒यात् । 19) जु॒हु॒या-द्य॑ज्ञप॒रु-र्य॑ज्ञप॒रु-र्जु॑हु॒याज् जु॑हु॒या-द्य॑ज्ञप॒रुः । 20) य॒ज्ञ॒प॒रु र॒न्त र॒न्त-र्य॑ज्ञप॒रु-र्य॑ज्ञप॒रु र॒न्तः । 20) य॒ज्ञ॒प॒रुरिति॑ यज्ञ - प॒रुः । 21) अ॒न्त रि॑यादिया द॒न्त र॒न्त रि॑यात् । 22) इ॒या॒-द्ये य इ॑यादिया॒-द्ये । 23) ये दे॒वा दे॒वा ये ये दे॒वाः । 24) दे॒वा मनो॑जाता॒ मनो॑जाता दे॒वा दे॒वा मनो॑जाताः । 25) मनो॑जाता मनो॒युजो॑ मनो॒युजो॒ मनो॑जाता॒ मनो॑जाता मनो॒युजः॑ । 25) मनो॑जाता॒ इति॒ मनः॑ - जा॒ताः॒ । 26) म॒नो॒युज॒ इतीति॑ मनो॒युजो॑ मनो॒युज॒ इति॑ । 26) म॒नो॒युज॒ इति॑ मनः - युजः॑ । 27) इत्या॑हा॒हे तीत्या॑ह । 28) आ॒ह॒ प्रा॒णाः प्रा॒णा आ॑हाह प्रा॒णाः । 29) प्रा॒णा वै वै प्रा॒णाः प्रा॒णा वै । 29) प्रा॒णा इति॑ प्र - अ॒नाः । 30) वै दे॒वा दे॒वा वै वै दे॒वाः । 31) दे॒वा मनो॑जाता॒ मनो॑जाता दे॒वा दे॒वा मनो॑जाताः । 32) मनो॑जाता मनो॒युजो॑ मनो॒युजो॒ मनो॑जाता॒ मनो॑जाता मनो॒युजः॑ । 32) मनो॑जाता॒ इति॒ मनः॑ - जा॒ताः॒ । 33) म॒नो॒युज॒ स्तेषु॒ तेषु॑ मनो॒युजो॑ मनो॒युज॒ स्तेषु॑ । 33) म॒नो॒युज॒ इति॑ मनः - युजः॑ । 34) तेष्वे॒ वैव तेषु॒ तेष्वे॒व । 35) ए॒व प॒रोक्ष॑-म्प॒रोक्ष॑ मे॒वैव प॒रोक्ष᳚म् । 36) प॒रोक्ष॑-ञ्जुहोति जुहोति प॒रोक्ष॑-म्प॒रोक्ष॑-ञ्जुहोति । 36) प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् । 37) जु॒हो॒ति॒ त-त्तज् जु॑होति जुहोति॒ तत् । 38) त-न्न न त-त्त-न्न । 39) नेवे॑व॒ न नेव॑ । 40) इ॒व॒ हु॒तग्ं हु॒त मि॑वेव हु॒तम् । 41) हु॒त-न्न न हु॒तग्ं हु॒त-न्न । 42) नेवे॑व॒ न नेव॑ । 43) इ॒वाहु॑त॒ महु॑त मिवे॒ वाहु॑तम् । 44) अहु॑तग्ग् स्व॒पन्तग्ग्॑ स्व॒पन्त॒ महु॑त॒ महु॑तग्ग् स्व॒पन्त᳚म् । 45) स्व॒पन्तं॒-वैँ वै स्व॒पन्तग्ग्॑ स्व॒पन्तं॒-वैँ । 46) वै दी᳚क्षि॒त-न्दी᳚क्षि॒तं-वैँ वै दी᳚क्षि॒तम् । 47) दी॒क्षि॒तग्ं रक्षाग्ं॑सि॒ रक्षाग्ं॑सि दीक्षि॒त-न्दी᳚क्षि॒तग्ं रक्षाग्ं॑सि । 48) रक्षाग्ं॑सि जिघाग्ंसन्ति जिघाग्ंसन्ति॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि जिघाग्ंसन्ति । 49) जि॒घा॒ग्ं॒स॒ न्त्य॒ग्नि र॒ग्नि-र्जि॑घाग्ंसन्ति जिघाग्ंस न्त्य॒ग्निः । 50) अ॒ग्निः खलु॒ खल्व॒ग्नि र॒ग्निः खलु॑ । ॥ 29 ॥ (50/59)
1) खलु॒ वै वै खलु॒ खलु॒ वै । 2) वै र॑क्षो॒हा र॑क्षो॒हा वै वै र॑क्षो॒हा । 3) र॒क्षो॒हा ऽग्ने॒ अग्ने॑ रक्षो॒हा र॑क्षो॒हा ऽग्ने᳚ । 3) र॒क्षो॒हेति॑ रक्षः - हा । 4) अग्ने॒ त्व-न्त्व मग्ने ऽग्ने॒ त्वम् । 5) त्वग्ं सु सु त्व-न्त्वग्ं सु । 6) सु जा॑गृहि जागृहि॒ सु सु जा॑गृहि । 7) जा॒गृ॒हि॒ व॒यं-वँ॒य-ञ्जा॑गृहि जागृहि व॒यम् । 8) व॒यग्ं सु सु व॒यं-वँ॒यग्ं सु । 9) सु म॑न्दिषीमहि मन्दिषीमहि॒ सु सु म॑न्दिषीमहि । 10) म॒न्दि॒षी॒म॒ हीतीति॑ मन्दिषीमहि मन्दिषीम॒ हीति॑ । 11) इत्या॑हा॒हे तीत्या॑ह । 12) आ॒हा॒ग्नि म॒ग्नि मा॑हा हा॒ग्निम् । 13) अ॒ग्नि मे॒वै वाग्नि म॒ग्नि मे॒व । 14) ए॒वाधि॒पा म॑धि॒पा मे॒वै वाधि॒पाम् । 15) अ॒धि॒पा-ङ्कृ॒त्वा कृ॒त्वा ऽधि॒पा म॑धि॒पा-ङ्कृ॒त्वा । 15) अ॒धि॒पामित्य॑धि - पाम् । 16) कृ॒त्वा स्व॑पिति स्वपिति कृ॒त्वा कृ॒त्वा स्व॑पिति । 17) स्व॒पि॒ति॒ रक्ष॑सा॒ग्ं॒ रक्ष॑साग् स्वपिति स्वपिति॒ रक्ष॑साम् । 18) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै । 19) अप॑हत्या अव्र॒त्य म॑व्र॒त्य मप॑हत्या॒ अप॑हत्या अव्र॒त्यम् । 19) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । 20) अ॒व्र॒त्य मि॑वे वाव्र॒त्य म॑व्र॒त्य मि॑व । 21) इ॒व॒ वै वा इ॑वेव॒ वै । 22) वा ए॒ष ए॒ष वै वा ए॒षः । 23) ए॒ष क॑रोति करो त्ये॒ष ए॒ष क॑रोति । 24) क॒रो॒ति॒ यो यः क॑रोति करोति॒ यः । 25) यो दी᳚क्षि॒तो दी᳚क्षि॒तो यो यो दी᳚क्षि॒तः । 26) दी॒क्षि॒त-स्स्वपि॑ति॒ स्वपि॑ति दीक्षि॒तो दी᳚क्षि॒त-स्स्वपि॑ति । 27) स्वपि॑ति॒ त्व-न्त्वग्ग् स्वपि॑ति॒ स्वपि॑ति॒ त्वम् । 28) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने । 29) अ॒ग्ने॒ व्र॒त॒पा व्र॑त॒पा अ॑ग्ने अग्ने व्रत॒पाः । 30) व्र॒त॒पा अ॑स्यसि व्रत॒पा व्र॑त॒पा अ॑सि । 30) व्र॒त॒पा इति॑ व्रत - पाः । 31) अ॒सीती त्य॑स्य॒ सीति॑ । 32) इत्या॑हा॒हे तीत्या॑ह । 33) आ॒हा॒ग्नि र॒ग्नि रा॑हा हा॒ग्निः । 34) अ॒ग्नि-र्वै वा अ॒ग्नि र॒ग्नि-र्वै । 35) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 36) दे॒वानां᳚-व्रँ॒तप॑ति-र्व्र॒तप॑ति-र्दे॒वाना᳚-न्दे॒वानां᳚-व्रँ॒तप॑तिः । 37) व्र॒तप॑ति॒-स्स स व्र॒तप॑ति-र्व्र॒तप॑ति॒-स्सः । 37) व्र॒तप॑ति॒रिति॑ व्र॒त - प॒तिः॒ । 38) स ए॒वैव स स ए॒व । 39) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 40) ए॒नं॒-व्रँ॒तं-व्रँ॒त मे॑न मेनं-व्रँ॒तम् । 41) व्र॒त मा व्र॒तं-व्रँ॒त मा । 42) आ ल॑म्भयति लम्भय॒ त्या ल॑म्भयति । 43) ल॒म्भ॒य॒ति॒ दे॒वो दे॒वो ल॑म्भयति लम्भयति दे॒वः । 44) दे॒व आ दे॒वो दे॒व आ । 45) आ मर्त्ये॑षु॒ मर्त्ये॒ष्वा मर्त्ये॑षु । 46) मर्त्ये॒ष्वा मर्त्ये॑षु॒ मर्त्ये॒ष्वा । 47) एती त्येति॑ । 48) इत्या॑हा॒हे तीत्या॑ह । 49) आ॒ह॒ दे॒वो दे॒व आ॑हाह दे॒वः । 50) दे॒वो हि हि दे॒वो दे॒वो हि । ॥ 30 ॥ (50/55)
1) ह्ये॑ष ए॒ष हि ह्ये॑षः । 2) ए॒ष स-न्थ्स-न्ने॒ष ए॒ष सन्न् । 3) स-न्मर्त्ये॑षु॒ मर्त्ये॑षु॒ स-न्थ्स-न्मर्त्ये॑षु । 4) मर्त्ये॑षु॒ त्व-न्त्व-म्मर्त्ये॑षु॒ मर्त्ये॑षु॒ त्वम् । 5) त्वं-यँ॒ज्ञेषु॑ य॒ज्ञेषु॒ त्व-न्त्वं-यँ॒ज्ञेषु॑ । 6) य॒ज्ञे ष्वीड्य॒ ईड्यो॑ य॒ज्ञेषु॑ य॒ज्ञे ष्वीड्यः॑ । 7) ईड्य॒ इतीतीड्य॒ ईड्य॒ इति॑ । 8) इत्या॑हा॒हे तीत्या॑ह । 9) आ॒है॒त मे॒त मा॑हा है॒तम् । 10) ए॒तग्ं हि ह्ये॑त मे॒तग्ं हि । 11) हि य॒ज्ञेषु॑ य॒ज्ञेषु॒ हि हि य॒ज्ञेषु॑ । 12) य॒ज्ञेष्वी ड॑त॒ ईड॑ते य॒ज्ञेषु॑ य॒ज्ञेष्वी ड॑ते । 13) ईड॒ते ऽपापे ड॑त॒ ईड॒ते ऽप॑ । 14) अप॒ वै वा अपाप॒ वै । 15) वै दी᳚क्षि॒ता-द्दी᳚क्षि॒ता-द्वै वै दी᳚क्षि॒तात् । 16) दी॒क्षि॒ता-थ्सु॑षु॒पुष॑-स्सुषु॒पुषो॑ दीक्षि॒ता-द्दी᳚क्षि॒ता-थ्सु॑षु॒पुषः॑ । 17) सु॒षु॒पुष॑ इन्द्रि॒य मि॑न्द्रि॒यग्ं सु॑षु॒पुष॑-स्सुषु॒पुष॑ इन्द्रि॒यम् । 18) इ॒न्द्रि॒य-न्दे॒वता॑ दे॒वता॑ इन्द्रि॒य मि॑न्द्रि॒य-न्दे॒वताः᳚ । 19) दे॒वताः᳚ क्रामन्ति क्रामन्ति दे॒वता॑ दे॒वताः᳚ क्रामन्ति । 20) क्रा॒म॒न्ति॒ विश्वे॒ विश्वे᳚ क्रामन्ति क्रामन्ति॒ विश्वे᳚ । 21) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः । 22) दे॒वा अ॒भ्य॑भि दे॒वा दे॒वा अ॒भि । 23) अ॒भि मा-म्मा म॒भ्य॑भि माम् । 24) मा मा मा-म्मा मा । 25) आ ऽव॑वृत्र-न्नववृत्र॒न्ना ऽव॑वृत्रन्न् । 26) अ॒व॒वृ॒त्र॒-न्निती त्य॑ववृत्र-न्नववृत्र॒न्निति॑ । 27) इत्या॑हा॒हे तीत्या॑ह । 28) आ॒हे॒न्द्रि॒ये णे᳚न्द्रि॒येणा॑ हाहेन्द्रि॒येण॑ । 29) इ॒न्द्रि॒ये णै॒वै वेन्द्रि॒ये णे᳚न्द्रि॒ये णै॒व । 30) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 31) ए॒न॒-न्दे॒वता॑भि-र्दे॒वता॑भि रेन मेन-न्दे॒वता॑भिः । 32) दे॒वता॑भि॒-स्सग्ं स-न्दे॒वता॑भि-र्दे॒वता॑भि॒-स्सम् । 33) स-न्न॑यति नयति॒ सग्ं स-न्न॑यति । 34) न॒य॒ति॒ य-द्य-न्न॑यति नयति॒ यत् । 35) यदे॒त दे॒त-द्य-द्यदे॒तत् । 36) ए॒त-द्यजु॒-र्यजु॑ रे॒त दे॒त-द्यजुः॑ । 37) यजु॒-र्न न यजु॒-र्यजु॒-र्न । 38) न ब्रू॒या-द्ब्रू॒या-न्न न ब्रू॒यात् । 39) ब्रू॒या-द्याव॑तो॒ याव॑तो ब्रू॒या-द्ब्रू॒या-द्याव॑तः । 40) याव॑त ए॒वैव याव॑तो॒ याव॑त ए॒व । 41) ए॒व प॒शू-न्प॒शूने॒ वैव प॒शून् । 42) प॒शून॒ भ्य॑भि प॒शू-न्प॒शून॒भि । 43) अ॒भि दीक्षे॑त॒ दीक्षे॑ता॒ भ्य॑भि दीक्षे॑त । 44) दीक्षे॑त॒ ताव॑न्त॒ स्ताव॑न्तो॒ दीक्षे॑त॒ दीक्षे॑त॒ ताव॑न्तः । 45) ताव॑न्तो ऽस्यास्य॒ ताव॑न्त॒ स्ताव॑न्तो ऽस्य । 46) अ॒स्य॒ प॒शवः॑ प॒शवो᳚ ऽस्यास्य प॒शवः॑ । 47) प॒शव॑-स्स्यु-स्स्युः प॒शवः॑ प॒शव॑-स्स्युः । 48) स्यू॒ रास्व॒ रास्व॑ स्यु-स्स्यू॒ रास्व॑ । 49) रास्वे य॒दिय॒-द्रास्व॒ रास्वे य॑त् । 50) इय॑-थ्सोम सो॒मे य॒दिय॑-थ्सोम । ॥ 31 ॥ (50/50)
1) सो॒मा सो॑म सो॒मा । 2) आ भूयो॒ भूय॒ आ भूयः॑ । 3) भूयो॑ भर भर॒ भूयो॒ भूयो॑ भर । 4) भ॒रे तीति॑ भर भ॒रेति॑ । 5) इत्या॑हा॒हे तीत्या॑ह । 6) आ॒हा प॑रिमिता॒न प॑रिमिताना हा॒हा प॑रिमितान् । 7) अप॑रिमिताने॒ वैवा प॑रिमिता॒न प॑रिमिताने॒व । 7) अप॑रिमिता॒नित्यप॑रि - मि॒ता॒न् । 8) ए॒व प॒शू-न्प॒शूने॒ वैव प॒शून् । 9) प॒शून वाव॑ प॒शू-न्प॒शूनव॑ । 10) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 11) रु॒न्धे॒ च॒न्द्र-ञ्च॒न्द्रग्ं रु॑न्धे रुन्धे च॒न्द्रम् । 12) च॒न्द्र म॑स्यसि च॒न्द्र-ञ्च॒न्द्र म॑सि । 13) अ॒सि॒ मम॒ ममा᳚ स्यसि॒ मम॑ । 14) मम॒ भोगा॑य॒ भोगा॑य॒ मम॒ मम॒ भोगा॑य । 15) भोगा॑य भव भव॒ भोगा॑य॒ भोगा॑य भव । 16) भ॒वे तीति॑ भव भ॒वेति॑ । 17) इत्या॑हा॒हे तीत्या॑ह । 18) आ॒ह॒ य॒था॒दे॒व॒तं-यँ॑थादेव॒त मा॑हाह यथादेव॒तम् । 19) य॒था॒दे॒व॒त मे॒वैव य॑थादेव॒तं-यँ॑थादेव॒त मे॒व । 19) य॒था॒दे॒व॒तमिति॑ यथा - दे॒व॒तम् । 20) ए॒वैना॑ एना ए॒वै वैनाः᳚ । 21) ए॒नाः॒ प्रति॒ प्रत्ये॑ना एनाः॒ प्रति॑ । 22) प्रति॑ गृह्णाति गृह्णाति॒ प्रति॒ प्रति॑ गृह्णाति । 23) गृ॒ह्णा॒ति॒ वा॒यवे॑ वा॒यवे॑ गृह्णाति गृह्णाति वा॒यवे᳚ । 24) वा॒यवे᳚ त्वा त्वा वा॒यवे॑ वा॒यवे᳚ त्वा । 25) त्वा॒ वरु॑णाय॒ वरु॑णाय त्वा त्वा॒ वरु॑णाय । 26) वरु॑णाय त्वा त्वा॒ वरु॑णाय॒ वरु॑णाय त्वा । 27) त्वेतीति॑ त्वा॒ त्वेति॑ । 28) इति॒ य-द्यदितीति॒ यत् । 29) यदे॒व मे॒वं-यँ-द्यदे॒वम् । 30) ए॒व मे॒ता ए॒ता ए॒व मे॒व मे॒ताः । 31) ए॒ता न नैता ए॒ता न । 32) नानु॑दि॒शे द॑नुदि॒शे-न्न नानु॑दि॒शेत् । 33) अ॒नु॒दि॒शे दय॑थादेवत॒ मय॑थादेवत मनुदि॒शे द॑नुदि॒शे दय॑थादेवतम् । 33) अ॒नु॒दि॒शेदित्य॑नु - दि॒शेत् । 34) अय॑थादेवत॒-न्दक्षि॑णा॒ दक्षि॑णा॒ अय॑थादेवत॒ मय॑थादेवत॒-न्दक्षि॑णाः । 34) अय॑थादेवत॒मित्यय॑था - दे॒व॒त॒म् । 35) दक्षि॑णा गमये-द्गमये॒-द्दक्षि॑णा॒ दक्षि॑णा गमयेत् । 36) ग॒म॒ये॒दा ग॑मये-द्गमये॒दा । 37) आ दे॒वता᳚भ्यो दे॒वता᳚भ्य॒ आ दे॒वता᳚भ्यः । 38) दे॒वता᳚भ्यो वृश्च्येत वृश्च्येत दे॒वता᳚भ्यो दे॒वता᳚भ्यो वृश्च्येत । 39) वृ॒श्च्ये॒त॒ य-द्य-द्वृ॑श्च्येत वृश्च्येत॒ यत् । 40) यदे॒व मे॒वं-यँ-द्यदे॒वम् । 41) ए॒व मे॒ता ए॒ता ए॒व मे॒व मे॒ताः । 42) ए॒ता अ॑नुदि॒श त्य॑नुदि॒श त्ये॒ता ए॒ता अ॑नुदि॒शति॑ । 43) अ॒नु॒दि॒शति॑ यथादेव॒तं-यँ॑थादेव॒त म॑नुदि॒श त्य॑नुदि॒शति॑ यथादेव॒तम् । 43) अ॒नु॒दि॒शतीत्य॑नु - दि॒शति॑ । 44) य॒था॒दे॒व॒त मे॒वैव य॑थादेव॒तं-यँ॑थादेव॒त मे॒व । 44) य॒था॒दे॒व॒तमिति॑ यथा - दे॒व॒तम् । 45) ए॒व दक्षि॑णा॒ दक्षि॑णा ए॒वैव दक्षि॑णाः । 46) दक्षि॑णा गमयति गमयति॒ दक्षि॑णा॒ दक्षि॑णा गमयति । 47) ग॒म॒य॒ति॒ न न ग॑मयति गमयति॒ न । 48) न दे॒वता᳚भ्यो दे॒वता᳚भ्यो॒ न न दे॒वता᳚भ्यः । 49) दे॒वता᳚भ्य॒ आ दे॒वता᳚भ्यो दे॒वता᳚भ्य॒ आ । 50) आ वृ॑श्च्यते वृश्च्यत॒ आ वृ॑श्च्यते । ॥ 32 ॥ (50/56)
1) वृ॒श्च्य॒ते॒ देवी॒-र्देवी᳚-र्वृश्च्यते वृश्च्यते॒ देवीः᳚ । 2) देवी॑ राप आपो॒ देवी॒-र्देवी॑ रापः । 3) आ॒पो॒ अ॒पा॒ म॒पा॒ मा॒प॒ आ॒पो॒ अ॒पा॒म् । 4) अ॒पा॒-न्न॒पा॒-न्न॒पा॒ द॒पा॒ म॒पा॒-न्न॒पा॒त् । 5) न॒पा॒ दितीति॑ नपा-न्नपा॒ दिति॑ । 6) इत्या॑हा॒हे तीत्या॑ह । 7) आ॒ह॒ य-द्यदा॑हाह॒ यत् । 8) य-द्वो॑ वो॒ य-द्य-द्वः॑ । 9) वो॒ मेद्ध्य॒-म्मेद्ध्यं॑-वोँ वो॒ मेद्ध्य᳚म् । 10) मेद्ध्यं॑-यँ॒ज्ञियं॑-यँ॒ज्ञिय॒-म्मेद्ध्य॒-म्मेद्ध्यं॑-यँ॒ज्ञिय᳚म् । 11) य॒ज्ञिय॒ग्ं॒ सदे॑व॒ग्ं॒ सदे॑वं-यँ॒ज्ञियं॑-यँ॒ज्ञिय॒ग्ं॒ सदे॑वम् । 12) सदे॑व॒-न्त-त्त-थ्सदे॑व॒ग्ं॒ सदे॑व॒-न्तत् । 12) सदे॑व॒मिति॒ स - दे॒व॒म् । 13) त-द्वो॑ व॒ स्त-त्त-द्वः॑ । 14) वो॒ मा मा वो॑ वो॒ मा । 15) मा ऽवाव॒ मा मा ऽव॑ । 16) अव॑ क्रमिष-ङ्क्रमिष॒ मवाव॑ क्रमिषम् । 17) क्र॒मि॒ष॒ मितीति॑ क्रमिष-ङ्क्रमिष॒ मिति॑ । 18) इति॒ वाव वावे तीति॒ वाव । 19) वावै तदे॒त-द्वाव वावैतत् । 20) ए॒त दा॑हाहै॒ तदे॒त दा॑ह । 21) आ॒हा च्छि॑न्न॒ मच्छि॑न्न माहा॒हा च्छि॑न्नम् । 22) अच्छि॑न्न॒-न्तन्तु॒-न्तन्तु॒ मच्छि॑न्न॒ मच्छि॑न्न॒-न्तन्तु᳚म् । 23) तन्तु॑-म्पृथि॒व्याः पृ॑थि॒व्या स्तन्तु॒-न्तन्तु॑-म्पृथि॒व्याः । 24) पृ॒थि॒व्या अन्वनु॑ पृथि॒व्याः पृ॑थि॒व्या अनु॑ । 25) अनु॑ गेष-ङ्गेष॒ मन्वनु॑ गेषम् । 26) गे॒ष॒ मितीति॑ गेष-ङ्गेष॒ मिति॑ । 27) इत्या॑हा॒हे तीत्या॑ह । 28) आ॒ह॒ सेतु॒ग्ं॒ सेतु॑ माहाह॒ सेतु᳚म् । 29) सेतु॑ मे॒वैव सेतु॒ग्ं॒ सेतु॑ मे॒व । 30) ए॒व कृ॒त्वा कृ॒त्वै वैव कृ॒त्वा । 31) कृ॒त्वा ऽत्यति॑ कृ॒त्वा कृ॒त्वा ऽति॑ । 32) अत्ये᳚त्ये॒ त्यत्य त्ये॑ति । 33) ए॒तीत्ये॑ति । ॥ 33 ॥ (33/34) ॥ अ. 4 ॥
1) दे॒वा वै वै दे॒वा दे॒वा वै । 2) वै दे॑व॒यज॑न-न्देव॒यज॑नं॒-वैँ वै दे॑व॒यज॑नम् । 3) दे॒व॒यज॑न मद्ध्यव॒साया᳚ द्ध्यव॒साय॑ देव॒यज॑न-न्देव॒यज॑न मद्ध्यव॒साय॑ । 3) दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । 4) अ॒द्ध्य॒व॒साय॒ दिशो॒ दिशो᳚ ऽद्ध्यव॒साया᳚ द्ध्यव॒साय॒ दिशः॑ । 4) अ॒द्ध्य॒व॒सायेत्य॑धि - अ॒व॒साय॑ । 5) दिशो॒ न न दिशो॒ दिशो॒ न । 6) न प्र प्र ण न प्र । 7) प्राजा॑न-न्नजान॒-न्प्र प्राजा॑नन्न् । 8) अ॒जा॒न॒-न्ते ते॑ ऽजान-न्नजान॒-न्ते । 9) ते᳚(1॒) ऽन्यो᳚ ऽन्यस्ते ते᳚ ऽन्यः । 10) अ॒न्यो᳚ ऽन्य म॒न्य म॒न्यो᳚(1॒) ऽन्यो᳚ ऽन्यम् । 11) अ॒न्य मुपो पा॒न्य म॒न्य मुप॑ । 12) उपा॑धाव-न्नधाव॒-न्नुपोपा॑ धावन्न् । 13) अ॒धा॒व॒-न्त्वया॒ त्वया॑ ऽधाव-न्नधाव॒-न्त्वया᳚ । 14) त्वया॒ प्र प्र त्वया॒ त्वया॒ प्र । 15) प्र जा॑नाम जानाम॒ प्र प्र जा॑नाम । 16) जा॒ना॒म॒ त्वया॒ त्वया॑ जानाम जानाम॒ त्वया᳚ । 17) त्वये तीति॒ त्वया॒ त्वयेति॑ । 18) इति॒ ते त इतीति॒ ते । 19) ते ऽदि॑त्या॒ मदि॑त्या॒-न्ते ते ऽदि॑त्याम् । 20) अदि॑त्या॒ग्ं॒ सग्ं स मदि॑त्या॒ मदि॑त्या॒ग्ं॒ सम् । 21) स म॑द्ध्रयन्ता द्ध्रयन्त॒ सग्ं स म॑द्ध्रयन्त । 22) अ॒द्ध्र॒य॒न्त॒ त्वया॒ त्वया᳚ ऽद्ध्रयन्ता द्ध्रयन्त॒ त्वया᳚ । 23) त्वया॒ प्र प्र त्वया॒ त्वया॒ प्र । 24) प्र जा॑नाम जानाम॒ प्र प्र जा॑नाम । 25) जा॒ना॒मे तीति॑ जानाम जाना॒मेति॑ । 26) इति॒ सा सेतीति॒ सा । 27) सा ऽब्र॑वी दब्रवी॒-थ्सा सा ऽब्र॑वीत् । 28) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् । 29) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै । 30) वृ॒णै॒ मत्प्रा॑यणा॒ मत्प्रा॑यणा वृणै वृणै॒ मत्प्रा॑यणाः । 31) मत्प्रा॑यणा ए॒वैव मत्प्रा॑यणा॒ मत्प्रा॑यणा ए॒व । 31) मत्प्रा॑यणा॒ इति॒ मत् - प्रा॒य॒णाः॒ । 32) ए॒व वो॑ व ए॒वैव वः॑ । 33) वो॒ य॒ज्ञा य॒ज्ञा वो॑ वो य॒ज्ञाः । 34) य॒ज्ञा मदु॑दयना॒ मदु॑दयना य॒ज्ञा य॒ज्ञा मदु॑दयनाः । 35) मदु॑दयना अस-न्नस॒-न्मदु॑दयना॒ मदु॑दयना असन्न् । 35) मदु॑दयना॒ इति॒ मत् - उ॒द॒य॒नाः॒ । 36) अ॒स॒-न्निती त्य॑स-न्नस॒-न्निति॑ । 37) इति॒ तस्मा॒-त्तस्मा॒दि तीति॒ तस्मा᳚त् । 38) तस्मा॑ दादि॒त्य आ॑दि॒त्य स्तस्मा॒-त्तस्मा॑ दादि॒त्यः । 39) आ॒दि॒त्यः प्रा॑य॒णीयः॑ प्राय॒णीय॑ आदि॒त्य आ॑दि॒त्यः प्रा॑य॒णीयः॑ । 40) प्रा॒य॒णीयो॑ य॒ज्ञानां᳚-यँ॒ज्ञाना᳚-म्प्राय॒णीयः॑ प्राय॒णीयो॑ य॒ज्ञाना᳚म् । 40) प्रा॒य॒णीय॒ इति॑ प्र - अ॒य॒नीयः॑ । 41) य॒ज्ञाना॑ मादि॒त्य आ॑दि॒त्यो य॒ज्ञानां᳚-यँ॒ज्ञाना॑ मादि॒त्यः । 42) आ॒दि॒त्य उ॑दय॒नीय॑ उदय॒नीय॑ आदि॒त्य आ॑दि॒त्य उ॑दय॒नीयः॑ । 43) उ॒द॒य॒नीयः॒ पञ्च॒ पञ्चो॑ दय॒नीय॑ उदय॒नीयः॒ पञ्च॑ । 43) उ॒द॒य॒नीय॒ इत्यु॑त् - अ॒य॒नीयः॑ । 44) पञ्च॑ दे॒वता॑ दे॒वताः॒ पञ्च॒ पञ्च॑ दे॒वताः᳚ । 45) दे॒वता॑ यजति यजति दे॒वता॑ दे॒वता॑ यजति । 46) य॒ज॒ति॒ पञ्च॒ पञ्च॑ यजति यजति॒ पञ्च॑ । 47) पञ्च॒ दिशो॒ दिशः॒ पञ्च॒ पञ्च॒ दिशः॑ । 48) दिशो॑ दि॒शा-न्दि॒शा-न्दिशो॒ दिशो॑ दि॒शाम् । 49) दि॒शा-म्प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै दि॒शा-न्दि॒शा-म्प्रज्ञा᳚त्यै । 50) प्रज्ञा᳚त्या॒ अथो॒ अथो॒ प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्या॒ अथो᳚ । 50) प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ । ॥ 34 ॥ (50/57)
1) अथो॒ पञ्चा᳚क्षरा॒ पञ्चा᳚क्ष॒रा ऽथो॒ अथो॒ पञ्चा᳚क्षरा । 1) अथो॒ इत्यथो᳚ । 2) पञ्चा᳚क्षरा प॒ङ्क्तिः प॒ङ्क्तिः पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा प॒ङ्क्तिः । 2) पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । 3) प॒ङ्क्तिः पाङ्क्तः॒ पाङ्क्तः॑ प॒ङ्क्तिः प॒ङ्क्तिः पाङ्क्तः॑ । 4) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः । 5) य॒ज्ञो य॒ज्ञं-यँ॒ज्ञं-यँ॒ज्ञो य॒ज्ञो य॒ज्ञम् । 6) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 7) ए॒वावा वै॒वै वाव॑ । 8) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 9) रु॒न्धे॒ पथ्या॒-म्पथ्याग्ं॑ रुन्धे रुन्धे॒ पथ्या᳚म् । 10) पथ्याग्॑ स्व॒स्तिग्ग् स्व॒स्ति-म्पथ्या॒-म्पथ्याग्॑ स्व॒स्तिम् । 11) स्व॒स्ति म॑यज-न्नयज-न्थ्स्व॒स्तिग्ग् स्व॒स्ति म॑यजन्न् । 12) अ॒य॒ज॒-न्प्राची॒-म्प्राची॑ मयज-न्नयज॒-न्प्राची᳚म् । 13) प्राची॑ मे॒वैव प्राची॒-म्प्राची॑ मे॒व । 14) ए॒व तया॒ तयै॒ वैव तया᳚ । 15) तया॒ दिश॒-न्दिश॒-न्तया॒ तया॒ दिश᳚म् । 16) दिश॒-म्प्र प्र दिश॒-न्दिश॒-म्प्र । 17) प्राजा॑न-न्नजान॒-न्प्र प्राजा॑नन्न् । 18) अ॒जा॒न॒-न्न॒ग्निना॒ ऽग्निना॑ ऽजान-न्नजान-न्न॒ग्निना᳚ । 19) अ॒ग्निना॑ दक्षि॒णा द॑क्षि॒णा ऽग्निना॒ ऽग्निना॑ दक्षि॒णा । 20) द॒क्षि॒णा सोमे॑न॒ सोमे॑न दक्षि॒णा द॑क्षि॒णा सोमे॑न । 21) सोमे॑न प्र॒तीची᳚-म्प्र॒तीची॒ग्ं॒ सोमे॑न॒ सोमे॑न प्र॒तीची᳚म् । 22) प्र॒तीचीग्ं॑ सवि॒त्रा स॑वि॒त्रा प्र॒तीची᳚-म्प्र॒तीचीग्ं॑ सवि॒त्रा । 23) स॒वि॒त्रो दी॑ची॒ मुदी॑चीग्ं सवि॒त्रा स॑वि॒त्रो दी॑चीम् । 24) उदी॑ची॒ मदि॒त्या ऽदि॒त्यो दी॑ची॒ मुदी॑ची॒ मदि॑त्या । 25) अदि॑त्यो॒ र्ध्वा मू॒र्ध्वा मदि॒त्या ऽदि॑त्यो॒ र्ध्वाम् । 26) ऊ॒र्ध्वा-म्पथ्या॒-म्पथ्या॑ मू॒र्ध्वा मू॒र्ध्वा-म्पथ्या᳚म् । 27) पथ्याग्॑ स्व॒स्तिग्ग् स्व॒स्ति-म्पथ्या॒-म्पथ्याग्॑ स्व॒स्तिम् । 28) स्व॒स्तिं-यँ॑जति यजति स्व॒स्तिग्ग् स्व॒स्तिं-यँ॑जति । 29) य॒ज॒ति॒ प्राची॒-म्प्राचीं᳚-यँजति यजति॒ प्राची᳚म् । 30) प्राची॑ मे॒वैव प्राची॒-म्प्राची॑ मे॒व । 31) ए॒व तया॒ तयै॒ वैव तया᳚ । 32) तया॒ दिश॒-न्दिश॒-न्तया॒ तया॒ दिश᳚म् । 33) दिश॒-म्प्र प्र दिश॒-न्दिश॒-म्प्र । 34) प्र जा॑नाति जानाति॒ प्र प्र जा॑नाति । 35) जा॒ना॒ति॒ पथ्या॒-म्पथ्या᳚-ञ्जानाति जानाति॒ पथ्या᳚म् । 36) पथ्याग्॑ स्व॒स्तिग्ग् स्व॒स्ति-म्पथ्या॒-म्पथ्याग्॑ स्व॒स्तिम् । 37) स्व॒स्ति मि॒ष्ट्वे ष्ट्वा स्व॒स्तिग्ग् स्व॒स्ति मि॒ष्ट्वा । 38) इ॒ष्ट्वा ऽग्नीषोमा॑ व॒ग्नीषोमा॑ वि॒ष्ट्वे ष्ट्वा ऽग्नीषोमौ᳚ । 39) अ॒ग्नीषोमौ॑ यजति यजत्य॒ ग्नीषोमा॑ व॒ग्नीषोमौ॑ यजति । 39) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । 40) य॒ज॒ति॒ चक्षु॑षी॒ चक्षु॑षी यजति यजति॒ चक्षु॑षी । 41) चक्षु॑षी॒ वै वै चक्षु॑षी॒ चक्षु॑षी॒ वै । 41) चक्षु॑षी॒ इति॒ चक्षु॑षी । 42) वा ए॒ते ए॒ते वै वा ए॒ते । 43) ए॒ते य॒ज्ञस्य॑ य॒ज्ञस् यै॒ते ए॒ते य॒ज्ञस्य॑ । 43) ए॒ते इत्ये॒ते । 44) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् । 45) यद॒ग्नीषोमा॑ व॒ग्नीषोमौ॒ य-द्यद॒ग्नीषोमौ᳚ । 46) अ॒ग्नीषोमौ॒ ताभ्या॒-न्ताभ्या॑ म॒ग्नीषोमा॑ व॒ग्नीषोमौ॒ ताभ्या᳚म् । 46) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । 47) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व । 48) ए॒वान् वन् वे॒वै वानु॑ । 49) अनु॑ पश्यति पश्य॒ त्यन् वनु॑ पश्यति । 50) प॒श्य॒ त्य॒ग्नीषोमा॑ व॒ग्नीषोमौ॑ पश्यति पश्य त्य॒ग्नीषोमौ᳚ । ॥ 35 ॥ (50/56)
1) अ॒ग्नीषोमा॑ वि॒ष्ट्वे ष्ट्वा ऽग्नीषोमा॑ व॒ग्नीषोमा॑ वि॒ष्ट्वा । 1) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । 2) इ॒ष्ट्वा स॑वि॒तारग्ं॑ सवि॒तार॑ मि॒ष्ट्वे ष्ट्वा स॑वि॒तार᳚म् । 3) स॒वि॒तारं॑-यँजति यजति सवि॒तारग्ं॑ सवि॒तारं॑-यँजति । 4) य॒ज॒ति॒ स॒वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूतो यजति यजति सवि॒तृप्र॑सूतः । 5) स॒वि॒तृप्र॑सूत ए॒वैव स॑वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत ए॒व । 5) स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ । 6) ए॒वान् वन् वे॒वै वानु॑ । 7) अनु॑ पश्यति पश्य॒ त्यन् वनु॑ पश्यति । 8) प॒श्य॒ति॒ स॒वि॒तारग्ं॑ सवि॒तार॑-म्पश्यति पश्यति सवि॒तार᳚म् । 9) स॒वि॒तार॑ मि॒ष्ट्वेष्ट्वा स॑वि॒तारग्ं॑ सवि॒तार॑ मि॒ष्ट्वा । 10) इ॒ष्ट्वा ऽदि॑ति॒ मदि॑ति मि॒ष्ट्वे ष्ट्वा ऽदि॑तिम् । 11) अदि॑तिं-यँजति यज॒ त्यदि॑ति॒ मदि॑तिं-यँजति । 12) य॒ज॒ ती॒य मि॒यं-यँ॑जति यज ती॒यम् । 13) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ । 14) वा अदि॑ति॒ रदि॑ति॒-र्वै वा अदि॑तिः । 15) अदि॑ति र॒स्या म॒स्या मदि॑ति॒ रदि॑ति र॒स्याम् । 16) अ॒स्या मे॒वै वास्या म॒स्या मे॒व । 17) ए॒व प्र॑ति॒ष्ठाय॑ प्रति॒ष्ठायै॒ वैव प्र॑ति॒ष्ठाय॑ । 18) प्र॒ति॒ष्ठा यान् वनु॑ प्रति॒ष्ठाय॑ प्रति॒ष्ठा यानु॑ । 18) प्र॒ति॒ष्ठायेति॑ प्रति - स्थाय॑ । 19) अनु॑ पश्यति पश्य॒ त्यन् वनु॑ पश्यति । 20) प॒श्य॒ त्यदि॑ति॒ मदि॑ति-म्पश्यति पश्य॒ त्यदि॑तिम् । 21) अदि॑ति मि॒ष्ट्वे ष्ट्वा ऽदि॑ति॒ मदि॑ति मि॒ष्ट्वा । 22) इ॒ष्ट्वा मा॑रु॒ती-म्मा॑रु॒ती मि॒ष्ट्वे ष्ट्वा मा॑रु॒तीम् । 23) मा॒रु॒ती मृच॒ मृच॑-म्मारु॒ती-म्मा॑रु॒ती मृच᳚म् । 24) ऋच॒ मन् वन् वृच॒ मृच॒ मनु॑ । 25) अन्वा॑हा॒ हान् वन् वा॑ह । 26) आ॒ह॒ म॒रुतो॑ म॒रुत॑ आहाह म॒रुतः॑ । 27) म॒रुतो॒ वै वै म॒रुतो॑ म॒रुतो॒ वै । 28) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 29) दे॒वानां॒-विँशो॒ विशो॑ दे॒वाना᳚-न्दे॒वानां॒-विँशः॑ । 30) विशो॑ देववि॒श-न्दे॑ववि॒शं-विँशो॒ विशो॑ देववि॒शम् । 31) दे॒व॒वि॒श-ङ्खलु॒ खलु॑ देववि॒श-न्दे॑ववि॒श-ङ्खलु॑ । 31) दे॒व॒वि॒शमिति॑ देव - वि॒शम् । 32) खलु॒ वै वै खलु॒ खलु॒ वै । 33) वै कल्प॑मान॒-ङ्कल्प॑मानं॒-वैँ वै कल्प॑मानम् । 34) कल्प॑मान-म्मनुष्यवि॒श-म्म॑नुष्यवि॒श-ङ्कल्प॑मान॒-ङ्कल्प॑मान-म्मनुष्यवि॒शम् । 35) म॒नु॒ष्य॒वि॒श मन् वनु॑ मनुष्यवि॒श-म्म॑नुष्यवि॒श मनु॑ । 35) म॒नु॒ष्य॒वि॒शमिति॑ मनुष्य - वि॒शम् । 36) अनु॑ कल्पते कल्प॒ते ऽन्वनु॑ कल्पते । 37) क॒ल्प॒ते॒ य-द्य-त्क॑ल्पते कल्पते॒ यत् । 38) य-न्मा॑रु॒ती-म्मा॑रु॒तीं-यँ-द्य-न्मा॑रु॒तीम् । 39) मा॒रु॒ती मृच॒ मृच॑-म्मारु॒ती-म्मा॑रु॒ती मृच᳚म् । 40) ऋच॑ म॒न् वा हा॒न् वाह र्च॒ मृच॑ म॒न् वाह॑ । 41) अ॒न्वाह॑ वि॒शां-विँ॒शा म॒न् वा हा॒न् वाह॑ वि॒शाम् । 41) अ॒न्वाहेत्य॑नु - आह॑ । 42) वि॒शा-ङ्क्लृप्त्यै॒ क्लृप्त्यै॑ वि॒शां-विँ॒शा-ङ्क्लृप्त्यै᳚ । 43) क्लृप्त्यै᳚ ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनः॒ क्लृप्त्यै॒ क्लृप्त्यै᳚ ब्रह्मवा॒दिनः॑ । 44) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 44) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 45) व॒द॒न्ति॒ प्र॒या॒जव॑-त्प्रया॒जव॑-द्वदन्ति वदन्ति प्रया॒जव॑त् । 46) प्र॒या॒जव॑ दननूया॒ज म॑ननूया॒ज-म्प्र॑या॒जव॑-त्प्रया॒जव॑ दननूया॒जम् । 46) प्र॒या॒जव॒दिति॑ प्रया॒ज - व॒त् । 47) अ॒न॒नू॒या॒ज-म्प्रा॑य॒णीय॑-म्प्राय॒णीय॑ मननूया॒ज म॑ननूया॒ज-म्प्रा॑य॒णीय᳚म् । 47) अ॒न॒नू॒या॒जमित्य॑ननु - या॒जम् । 48) प्रा॒य॒णीय॑-ङ्का॒र्य॑-ङ्का॒र्य॑-म्प्राय॒णीय॑-म्प्राय॒णीय॑-ङ्का॒र्य᳚म् । 48) प्रा॒य॒णीय॒मिति॑ प्र - अ॒य॒नीय᳚म् । 49) का॒र्य॑ मनूया॒जव॑ दनूया॒जव॑-त्का॒र्य॑-ङ्का॒र्य॑ मनूया॒जव॑त् । 50) अ॒नू॒या॒जव॑ दप्रया॒ज म॑प्रया॒ज म॑नूया॒जव॑ दनूया॒जव॑ दप्रया॒जम् । 50) अ॒नू॒या॒जव॒दित्य॑नूया॒ज - व॒त् । ॥ 36 ॥ (50/61)
1) अ॒प्र॒या॒ज मु॑दय॒नीय॑ मुदय॒नीय॑ मप्रया॒ज म॑प्रया॒ज मु॑दय॒नीय᳚म् । 1) अ॒प्र॒या॒जमित्य॑प्र - या॒जम् । 2) उ॒द॒य॒नीय॒ मिती त्यु॑दय॒नीय॑ मुदय॒नीय॒ मिति॑ । 2) उ॒द॒य॒नीय॒मित्यु॑त् - अ॒य॒नीय᳚म् । 3) इती॒म इ॒म इतीती॒मे । 4) इ॒मे वै वा इ॒म इ॒मे वै । 5) वै प्र॑या॒जाः प्र॑या॒जा वै वै प्र॑या॒जाः । 6) प्र॒या॒जा अ॒मी अ॒मी प्र॑या॒जाः प्र॑या॒जा अ॒मी । 6) प्र॒या॒जा इति॑ प्र - या॒जाः । 7) अ॒मी अ॑नूया॒जा अ॑नूया॒जा अ॒मी अ॒मी अ॑नूया॒जाः । 7) अ॒मी इत्य॒मी । 8) अ॒नू॒या॒जा-स्सा सा ऽनू॑या॒जा अ॑नूया॒जा-स्सा । 8) अ॒नू॒या॒जा इत्य॑नु - या॒जाः । 9) सैवैव सा सैव । 10) ए॒व सा सैवैव सा । 11) सा य॒ज्ञस्य॑ य॒ज्ञस्य॒ सा सा य॒ज्ञस्य॑ । 12) य॒ज्ञस्य॒ सन्त॑ति॒-स्सन्त॑ति-र्य॒ज्ञस्य॑ य॒ज्ञस्य॒ सन्त॑तिः । 13) सन्त॑ति॒ स्त-त्त-थ्सन्त॑ति॒-स्सन्त॑ति॒ स्तत् । 13) सन्त॑ति॒रिति॒ सं - त॒तिः॒ । 14) त-त्तथा॒ तथा॒ त-त्त-त्तथा᳚ । 15) तथा॒ न न तथा॒ तथा॒ न । 16) न का॒र्य॑-ङ्का॒र्य॑-न्न न का॒र्य᳚म् । 17) का॒र्य॑ मा॒त्मा ऽऽत्मा का॒र्य॑-ङ्का॒र्य॑ मा॒त्मा । 18) आ॒त्मा वै वा आ॒त्मा ऽऽत्मा वै । 19) वै प्र॑या॒जाः प्र॑या॒जा वै वै प्र॑या॒जाः । 20) प्र॒या॒जाः प्र॒जा प्र॒जा प्र॑या॒जाः प्र॑या॒जाः प्र॒जा । 20) प्र॒या॒जा इति॑ प्र - या॒जाः । 21) प्र॒जा ऽनू॑या॒जा अ॑नूया॒जाः प्र॒जा प्र॒जा ऽनू॑या॒जाः । 21) प्र॒जेति॑ प्र - जा । 22) अ॒नू॒या॒जा य-द्यद॑नूया॒जा अ॑नूया॒जा यत् । 22) अ॒नू॒या॒जा इत्य॑नु - या॒जाः । 23) य-त्प्र॑या॒जा-न्प्र॑या॒जान्. य-द्य-त्प्र॑या॒जान् । 24) प्र॒या॒जा न॑न्तरि॒या द॑न्तरि॒या-त्प्र॑या॒जा-न्प्र॑या॒जा न॑न्तरि॒यात् । 24) प्र॒या॒जानिति॑ प्र - या॒जान् । 25) अ॒न्त॒रि॒या दा॒त्मान॑ मा॒त्मान॑ मन्तरि॒या द॑न्तरि॒या दा॒त्मान᳚म् । 25) अ॒न्त॒रि॒यादित्य॑न्तः - इ॒यात् । 26) आ॒त्मान॑ म॒न्त र॒न्त रा॒त्मान॑ मा॒त्मान॑ म॒न्तः । 27) अ॒न्त रि॑या दिया द॒न्त र॒न्त रि॑यात् । 28) इ॒या॒-द्य-द्यदि॑या दिया॒-द्यत् । 29) यद॑नूया॒जा न॑नूया॒जान्. य-द्यद॑नूया॒जान् । 30) अ॒नू॒या॒जा न॑न्तरि॒या द॑न्तरि॒या द॑नूया॒जा न॑नूया॒जा न॑न्तरि॒यात् । 30) अ॒नू॒या॒जानित्य॑नु - या॒जान् । 31) अ॒न्त॒रि॒या-त्प्र॒जा-म्प्र॒जा म॑न्तरि॒या द॑न्तरि॒या-त्प्र॒जाम् । 31) अ॒न्त॒रि॒यादित्य॑न्तः - इ॒यात् । 32) प्र॒जा म॒न्त र॒न्तः प्र॒जा-म्प्र॒जा म॒न्तः । 32) प्र॒जामिति॑ प्र - जाम् । 33) अ॒न्त रि॑या दिया द॒न्त र॒न्त रि॑यात् । 34) इ॒या॒-द्यतो॒ यत॑ इया दिया॒-द्यतः॑ । 35) यतः॒ खलु॒ खलु॒ यतो॒ यतः॒ खलु॑ । 36) खलु॒ वै वै खलु॒ खलु॒ वै । 37) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 38) य॒ज्ञस्य॒ वित॑तस्य॒ वित॑तस्य य॒ज्ञस्य॑ य॒ज्ञस्य॒ वित॑तस्य । 39) वित॑तस्य॒ न न वित॑तस्य॒ वित॑तस्य॒ न । 39) वित॑त॒स्येति॒ वि - त॒त॒स्य॒ । 40) न क्रि॒यते᳚ क्रि॒यते॒ न न क्रि॒यते᳚ । 41) क्रि॒यते॒ त-त्त-त्क्रि॒यते᳚ क्रि॒यते॒ तत् । 42) तदन् वनु॒ त-त्तदनु॑ । 43) अनु॑ य॒ज्ञो य॒ज्ञो ऽन्वनु॑ य॒ज्ञः । 44) य॒ज्ञः परा॒ परा॑ य॒ज्ञो य॒ज्ञः परा᳚ । 45) परा॑ भवति भवति॒ परा॒ परा॑ भवति । 46) भ॒व॒ति॒ य॒ज्ञं-यँ॒ज्ञ-म्भ॑वति भवति य॒ज्ञम् । 47) य॒ज्ञ-म्प॑रा॒भव॑न्त-म्परा॒भव॑न्तं-यँ॒ज्ञं-यँ॒ज्ञ-म्प॑रा॒भव॑न्तम् । 48) प॒रा॒भव॑न्तं॒-यँज॑मानो॒ यज॑मानः परा॒भव॑न्त-म्परा॒भव॑न्तं॒-यँज॑मानः । 48) प॒रा॒भव॑न्त॒मिति॑ परा - भव॑न्तम् । 49) यज॑मा॒नो ऽन्वनु॒ यज॑मानो॒ यज॑मा॒नो ऽनु॑ । 50) अनु॒ परा॒ परा ऽन्वनु॒ परा᳚ । ॥ 37 ॥ (50/66)
1) परा॑ भवति भवति॒ परा॒ परा॑ भवति । 2) भ॒व॒ति॒ प्र॒या॒जव॑-त्प्रया॒जव॑-द्भवति भवति प्रया॒जव॑त् । 3) प्र॒या॒जव॑ दे॒वैव प्र॑या॒जव॑-त्प्रया॒जव॑ दे॒व । 3) प्र॒या॒जव॒दिति॑ प्रया॒ज - व॒त् । 4) ए॒वानू॑या॒जव॑ दनूया॒जव॑ दे॒वै वानू॑या॒जव॑त् । 5) अ॒नू॒या॒जव॑-त्प्राय॒णीय॑-म्प्राय॒णीय॑ मनूया॒जव॑ दनूया॒जव॑-त्प्राय॒णीय᳚म् । 5) अ॒नू॒या॒जव॒दित्य॑नूया॒ज - व॒त् । 6) प्रा॒य॒णीय॑-ङ्का॒र्य॑-ङ्का॒र्य॑-म्प्राय॒णीय॑-म्प्राय॒णीय॑-ङ्का॒र्य᳚म् । 6) प्रा॒य॒णीय॒मिति॑ प्र - अ॒य॒नीय᳚म् । 7) का॒र्य॑-म्प्रया॒जव॑-त्प्रया॒जव॑-त्का॒र्य॑-ङ्का॒र्य॑-म्प्रया॒जव॑त् । 8) प्र॒या॒जव॑ दनूया॒जव॑ दनूया॒जव॑-त्प्रया॒जव॑-त्प्रया॒जव॑ दनूया॒जव॑त् । 8) प्र॒या॒जव॒दिति॑ प्रया॒ज - व॒त् । 9) अ॒नू॒या॒जव॑ दुदय॒नीय॑ मुदय॒नीय॑ मनूया॒जव॑ दनूया॒जव॑ दुदय॒नीय᳚म् । 9) अ॒नू॒या॒जव॒दित्य॑नूया॒ज - व॒त् । 10) उ॒द॒य॒नीय॒-न्न नोद॑य॒नीय॑ मुदय॒नीय॒-न्न । 10) उ॒द॒य॒नीय॒मित्यु॑त् - अ॒य॒नीय᳚म् । 11) नात्मान॑ मा॒त्मान॒-न्न नात्मान᳚म् । 12) आ॒त्मान॑ मन्त॒रे त्य॑न्त॒रे त्या॒त्मान॑ मा॒त्मान॑ मन्त॒रेति॑ । 13) अ॒न्त॒रेति॒ न नान्त॒रे त्य॑न्त॒रेति॒ न । 13) अ॒न्त॒रेतीत्य॑न्तः - एति॑ । 14) न प्र॒जा-म्प्र॒जा-न्न न प्र॒जाम् । 15) प्र॒जा-न्न न प्र॒जा-म्प्र॒जा-न्न । 15) प्र॒जामिति॑ प्र - जाम् । 16) न य॒ज्ञो य॒ज्ञो न न य॒ज्ञः । 17) य॒ज्ञः प॑रा॒भव॑ति परा॒भव॑ति य॒ज्ञो य॒ज्ञः प॑रा॒भव॑ति । 18) प॒रा॒भव॑ति॒ न न प॑रा॒भव॑ति परा॒भव॑ति॒ न । 18) प॒रा॒भव॒तीति॑ परा - भव॑ति । 19) न यज॑मानो॒ यज॑मानो॒ न न यज॑मानः । 20) यज॑मानः प्राय॒णीय॑स्य प्राय॒णीय॑स्य॒ यज॑मानो॒ यज॑मानः प्राय॒णीय॑स्य । 21) प्रा॒य॒णीय॑स्य निष्का॒से नि॑ष्का॒से प्रा॑य॒णीय॑स्य प्राय॒णीय॑स्य निष्का॒से । 21) प्रा॒य॒णीय॒स्येति॑ प्र - अ॒य॒नीय॑स्य । 22) नि॒ष्का॒स उ॑दय॒नीय॑ मुदय॒नीय॑-न्निष्का॒से नि॑ष्का॒स उ॑दय॒नीय᳚म् । 23) उ॒द॒य॒नीय॑ म॒भ्या᳚(1॒)भ्यु॑दय॒नीय॑ मुदय॒नीय॑ म॒भि । 23) उ॒द॒य॒नीय॒मित्यु॑त् - अ॒य॒नीय᳚म् । 24) अ॒भि नि-र्णिर॒ भ्य॑भि निः । 25) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 26) व॒प॒ति॒ सा सा व॑पति वपति॒ सा । 27) सैवैव सा सैव । 28) ए॒व सा सैवैव सा । 29) सा य॒ज्ञस्य॑ य॒ज्ञस्य॒ सा सा य॒ज्ञस्य॑ । 30) य॒ज्ञस्य॒ सन्त॑ति॒-स्सन्त॑ति-र्य॒ज्ञस्य॑ य॒ज्ञस्य॒ सन्त॑तिः । 31) सन्त॑ति॒-र्या या-स्सन्त॑ति॒-स्सन्त॑ति॒-र्याः । 31) सन्त॑ति॒रिति॒ सं - त॒तिः॒ । 32) याः प्रा॑य॒णीय॑स्य प्राय॒णीय॑स्य॒ या याः प्रा॑य॒णीय॑स्य । 33) प्रा॒य॒णीय॑स्य या॒ज्या॑ या॒ज्याः᳚ प्राय॒णीय॑स्य प्राय॒णीय॑स्य या॒ज्याः᳚ । 33) प्रा॒य॒णीय॒स्येति॑ प्र - अ॒य॒नीय॑स्य । 34) या॒ज्या॑ य-द्य-द्या॒ज्या॑ या॒ज्या॑ यत् । 35) य-त्ता स्ता य-द्य-त्ताः । 36) ता उ॑दय॒नीय॑ स्योदय॒नीय॑स्य॒ तास्ता उ॑दय॒नीय॑स्य । 37) उ॒द॒य॒नीय॑स्य या॒ज्या॑ या॒ज्या॑ उदय॒नीय॑ स्योदय॒नीय॑स्य या॒ज्याः᳚ । 37) उ॒द॒य॒नीय॒स्येत्यु॑त् - अ॒य॒नीय॑स्य । 38) या॒ज्याः᳚ कु॒र्या-त्कु॒र्या-द्या॒ज्या॑ या॒ज्याः᳚ कु॒र्यात् । 39) कु॒र्या-त्परा॒-म्परा᳚-ङ्कु॒र्या-त्कु॒र्या-त्परां॑ । 40) परां॑अ॒मु म॒मु-म्परा॒-म्परां॑अ॒मुम् । 41) अ॒मुम् ँलो॒कम् ँलो॒क म॒मु म॒मुम् ँलो॒कम् । 42) लो॒क मा लो॒कम् ँलो॒क मा । 43) आ रो॑हे-द्रोहे॒दा रो॑हेत् । 44) रो॒हे॒-त्प्र॒मायु॑कः प्र॒मायु॑को रोहे-द्रोहे-त्प्र॒मायु॑कः । 45) प्र॒मायु॑क-स्स्या-थ्स्या-त्प्र॒मायु॑कः प्र॒मायु॑क-स्स्यात् । 45) प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । 46) स्या॒-द्या या-स्स्या᳚-थ्स्या॒-द्याः । 47) याः प्रा॑य॒णीय॑स्य प्राय॒णीय॑स्य॒ या याः प्रा॑य॒णीय॑स्य । 48) प्रा॒य॒णीय॑स्य पुरोनुवा॒क्याः᳚ पुरोनुवा॒क्याः᳚ प्राय॒णीय॑स्य प्राय॒णीय॑स्य पुरोनुवा॒क्याः᳚ । 48) प्रा॒य॒णीय॒स्येति॑ प्र - अ॒य॒नीय॑स्य । 49) पु॒रो॒नु॒वा॒क्या᳚ स्ता स्ताः पु॑रोनुवा॒क्याः᳚ पुरोनुवा॒क्या᳚ स्ताः । 49) पु॒रो॒नु॒वा॒क्या॑ इति॑ पुरः - अ॒नु॒वा॒क्याः᳚ । 50) ता उ॑दय॒नीय॑ स्योदय॒नीय॑स्य॒ ता स्ता उ॑दय॒नीय॑स्य । 51) उ॒द॒य॒नीय॑स्य या॒ज्या॑ या॒ज्या॑ उदय॒नीय॑ स्योदय॒नीय॑स्य या॒ज्याः᳚ । 51) उ॒द॒य॒नीय॒स्येत्यु॑त् - अ॒य॒नीय॑स्य । 52) या॒ज्याः᳚ करोति करोति या॒ज्या॑ या॒ज्याः᳚ करोति । 53) क॒रो॒ त्य॒स्मि-न्न॒स्मिन् क॑रोति करो त्य॒स्मिन्न् । 54) अ॒स्मिन् ए॒वै वास्मि-न्न॒स्मि-न्ने॒व । 55) ए॒व लो॒के लो॒क ए॒वैव लो॒के । 56) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ । 57) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 58) ति॒ष्ठ॒तीति॑ तिष्ठति । ॥ 38 ॥ (58/76) ॥ अ. 5 ॥
1) क॒द्रू श्च॑ च क॒द्रूः क॒द्रू श्च॑ । 2) च॒ वै वै च॑ च॒ वै । 3) वै सु॑प॒र्णी सु॑प॒र्णी वै वै सु॑प॒र्णी । 4) सु॒प॒र्णी च॑ च सुप॒र्णी सु॑प॒र्णी च॑ । 4) सु॒प॒र्णीति॑ सु - प॒र्णी । 5) चा॒त्म॒रू॒पयो॑ रात्मरू॒पयो᳚ श्च चात्मरू॒पयोः᳚ । 6) आ॒त्म॒रू॒पयो॑ रस्पर्धेता मस्पर्धेता मात्मरू॒पयो॑ रात्मरू॒पयो॑ रस्पर्धेताम् । 6) आ॒त्म॒रू॒पयो॒रित्या᳚त्म - रू॒पयोः᳚ । 7) अ॒स्प॒र्धे॒ता॒ग्ं॒ सा सा ऽस्प॑र्धेता मस्पर्धेता॒ग्ं॒ सा । 8) सा क॒द्रूः क॒द्रू-स्सा सा क॒द्रूः । 9) क॒द्रू-स्सु॑प॒र्णीग्ं सु॑प॒र्णी-ङ्क॒द्रूः क॒द्रू-स्सु॑प॒र्णीम् । 10) सु॒प॒र्णी म॑जय दजय-थ्सुप॒र्णीग्ं सु॑प॒र्णी म॑जयत् । 10) सु॒प॒र्णीमिति॑ सु - प॒र्णीम् । 11) अ॒ज॒य॒-थ्सा सा ऽज॑य दजय॒-थ्सा । 12) सा ऽब्र॑वी दब्रवी॒-थ्सा सा ऽब्र॑वीत् । 13) अ॒ब्र॒वी॒-त्तृ॒तीय॑स्या-न्तृ॒तीय॑स्या मब्रवी दब्रवी-त्तृ॒तीय॑स्याम् । 14) तृ॒तीय॑स्या मि॒त इ॒त स्तृ॒तीय॑स्या-न्तृ॒तीय॑स्या मि॒तः । 15) इ॒तो दि॒वि दि॒वीत इ॒तो दि॒वि । 16) दि॒वि सोम॒-स्सोमो॑ दि॒वि दि॒वि सोमः॑ । 17) सोम॒ स्त-न्तग्ं सोम॒-स्सोम॒ स्तम् । 18) त मा त-न्त मा । 19) आ ह॑र ह॒रा ह॑र । 20) ह॒र॒ तेन॒ तेन॑ हर हर॒ तेन॑ । 21) तेना॒त्मान॑ मा॒त्मान॒-न्तेन॒ तेना॒त्मान᳚म् । 22) आ॒त्मान॒-न्नि-र्णिरा॒त्मान॑ मा॒त्मान॒-न्निः । 23) निष् क्री॑णीष्व क्रीणीष्व॒ नि-र्णिष् क्री॑णीष्व । 24) क्री॒णी॒ष्वे तीति॑ क्रीणीष्व क्रीणी॒ष्वेति॑ । 25) इती॒य मि॒य मिती ती॒यम् । 26) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ । 27) वै क॒द्रूः क॒द्रू-र्वै वै क॒द्रूः । 28) क॒द्रू र॒सा व॒सौ क॒द्रूः क॒द्रू र॒सौ । 29) अ॒सौ सु॑प॒र्णी सु॑प॒र्ण्य॑सा व॒सौ सु॑प॒र्णी । 30) सु॒प॒र्णी छन्दाग्ं॑सि॒ छन्दाग्ं॑सि सुप॒र्णी सु॑प॒र्णी छन्दाग्ं॑सि । 30) सु॒प॒र्णीति॑ सु - प॒र्णी । 31) छन्दाग्ं॑सि सौपर्णे॒या-स्सौ॑पर्णे॒या श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि सौपर्णे॒याः । 32) सौ॒प॒र्णे॒या-स्सा सा सौ॑पर्णे॒या-स्सौ॑पर्णे॒या-स्सा । 33) सा ऽब्र॑वी दब्रवी॒-थ्सा सा ऽब्र॑वीत् । 34) अ॒ब्र॒वी॒ द॒स्मा अ॒स्मा अ॑ब्रवी दब्रवी द॒स्मै । 35) अ॒स्मै वै वा अ॒स्मा अ॒स्मै वै । 36) वै पि॒तरौ॑ पि॒तरौ॒ वै वै पि॒तरौ᳚ । 37) पि॒तरौ॑ पु॒त्रा-न्पु॒त्रा-न्पि॒तरौ॑ पि॒तरौ॑ पु॒त्रान् । 38) पु॒त्रा-न्बि॑भृतो बिभृतः पु॒त्रा-न्पु॒त्रा-न्बि॑भृतः । 39) बि॒भृ॒त॒ स्तृ॒तीय॑स्या-न्तृ॒तीय॑स्या-म्बिभृतो बिभृत स्तृ॒तीय॑स्याम् । 40) तृ॒तीय॑स्या मि॒त इ॒त स्तृ॒तीय॑स्या-न्तृ॒तीय॑स्या मि॒तः । 41) इ॒तो दि॒वि दि॒वीत इ॒तो दि॒वि । 42) दि॒वि सोम॒-स्सोमो॑ दि॒वि दि॒वि सोमः॑ । 43) सोम॒ स्त-न्तग्ं सोम॒-स्सोम॒ स्तम् । 44) त मा त-न्त मा । 45) आ ह॑र ह॒रा ह॑र । 46) ह॒र॒ तेन॒ तेन॑ हर हर॒ तेन॑ । 47) तेना॒त्मान॑ मा॒त्मान॒-न्तेन॒ तेना॒त्मान᳚म् । 48) आ॒त्मान॒-न्नि-र्णिरा॒त्मान॑ मा॒त्मान॒-न्निः । 49) निष् क्री॑णीष्व क्रीणीष्व॒ नि-र्णिष् क्री॑णीष्व । 50) क्री॒णी॒ष्वे तीति॑ क्रीणीष्व क्रीणी॒ष्वेति॑ । ॥ 39 ॥ (50/54)
1) इति॑ मा॒ मेतीति॑ मा । 2) मा॒ क॒द्रूः क॒द्रू-र्मा॑ मा क॒द्रूः । 3) क॒द्रू र॑वोच दवोच-त्क॒द्रूः क॒द्रू र॑वोचत् । 4) अ॒वो॒च॒ दिती त्य॑वोच दवोच॒ दिति॑ । 5) इति॒ जग॑ती॒ जग॒ती तीति॒ जग॑ती । 6) जग॒ त्युदुज् जग॑ती॒ जग॒ त्युत् । 7) उद॑पत दपत॒ दुदु द॑पतत् । 8) अ॒प॒त॒च् चतु॑र्दशाक्षरा॒ चतु॑र्दशाक्षरा ऽपत दपत॒च् चतु॑र्दशाक्षरा । 9) चतु॑र्दशाक्षरा स॒ती स॒ती चतु॑र्दशाक्षरा॒ चतु॑र्दशाक्षरा स॒ती । 9) चतु॑र्दशाक्ष॒रेति॒ चतु॑र्दश - अ॒क्ष॒रा॒ । 10) स॒ती सा सा स॒ती स॒ती सा । 11) सा ऽप्रा॒प्या प्रा᳚प्य॒ सा सा ऽप्रा᳚प्य । 12) अप्रा᳚प्य॒ नि न्यप्रा॒प्या प्रा᳚प्य॒ नि । 12) अप्रा॒प्येत्यप्र॑ - आ॒प्य॒ । 13) न्य॑वर्तता वर्तत॒ नि न्य॑वर्तत । 14) अ॒व॒र्त॒त॒ तस्यै॒ तस्या॑ अवर्तता वर्तत॒ तस्यै᳚ । 15) तस्यै॒ द्वे द्वे तस्यै॒ तस्यै॒ द्वे । 16) द्वे अ॒क्षरे॑ अ॒क्षरे॒ द्वे द्वे अ॒क्षरे᳚ । 16) द्वे इति॒ द्वे । 17) अ॒क्षरे॑ अमीयेता ममीयेता म॒क्षरे॑ अ॒क्षरे॑ अमीयेताम् । 17) अ॒क्षरे॒ इत्य॒क्षरे᳚ । 18) अ॒मी॒ये॒ता॒ग्ं॒ सा सा ऽमी॑येता ममीयेता॒ग्ं॒ सा । 19) सा प॒शुभिः॑ प॒शुभि॒-स्सा सा प॒शुभिः॑ । 20) प॒शुभि॑ श्च च प॒शुभिः॑ प॒शुभि॑ श्च । 20) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 21) च॒ दी॒क्षया॑ दी॒क्षया॑ च च दी॒क्षया᳚ । 22) दी॒क्षया॑ च च दी॒क्षया॑ दी॒क्षया॑ च । 23) चा च॒ चा । 24) आ ऽग॑च्छ दगच्छ॒दा ऽग॑च्छत् । 25) अ॒ग॒च्छ॒-त्तस्मा॒-त्तस्मा॑ दगच्छ दगच्छ॒-त्तस्मा᳚त् । 26) तस्मा॒ज् जग॑ती॒ जग॑ती॒ तस्मा॒-त्तस्मा॒ज् जग॑ती । 27) जग॑ती॒ छन्द॑सा॒-ञ्छन्द॑सा॒-ञ्जग॑ती॒ जग॑ती॒ छन्द॑साम् । 28) छन्द॑सा-म्पश॒व्य॑तमा पश॒व्य॑तमा॒ छन्द॑सा॒-ञ्छन्द॑सा-म्पश॒व्य॑तमा । 29) प॒श॒व्य॑तमा॒ तस्मा॒-त्तस्मा᳚-त्पश॒व्य॑तमा पश॒व्य॑तमा॒ तस्मा᳚त् । 29) प॒श॒व्य॑त॒मेति॑ पश॒व्य॑ - त॒मा॒ । 30) तस्मा᳚-त्पशु॒मन्त॑-म्पशु॒मन्त॒-न्तस्मा॒-त्तस्मा᳚-त्पशु॒मन्त᳚म् । 31) प॒शु॒मन्त॑-न्दी॒क्षा दी॒क्षा प॑शु॒मन्त॑-म्पशु॒मन्त॑-न्दी॒क्षा । 31) प॒शु॒मन्त॒मिति॑ पशु - मन्त᳚म् । 32) दी॒क्षो पोप॑ दी॒क्षा दी॒क्षोप॑ । 33) उप॑ नमति नम॒ त्युपोप॑ नमति । 34) न॒म॒ति॒ त्रि॒ष्टु-क्त्रि॒ष्टु-न्न॑मति नमति त्रि॒ष्टुक् । 35) त्रि॒ष्टु गुदु-त्त्रि॒ष्टु-क्त्रि॒ष्टु गुत् । 36) उद॑पत दपत॒ दुदु द॑पतत् । 37) अ॒प॒त॒-त्त्रयो॑दशाक्षरा॒ त्रयो॑दशाक्षरा ऽपत दपत॒-त्त्रयो॑दशाक्षरा । 38) त्रयो॑दशाक्षरा स॒ती स॒ती त्रयो॑दशाक्षरा॒ त्रयो॑दशाक्षरा स॒ती । 38) त्रयो॑दशाक्ष॒रेति॒ त्रयो॑दश - अ॒क्ष॒रा॒ । 39) स॒ती सा सा स॒ती स॒ती सा । 40) सा ऽप्रा॒प्या प्रा᳚प्य॒ सा सा ऽप्रा᳚प्य । 41) अप्रा᳚प्य॒ नि न्यप्रा॒प्या प्रा᳚प्य॒ नि । 41) अप्रा॒प्येत्यप्र॑ - आ॒प्य॒ । 42) न्य॑वर्तता वर्तत॒ नि न्य॑वर्तत । 43) अ॒व॒र्त॒त॒ तस्यै॒ तस्या॑ अवर्तता वर्तत॒ तस्यै᳚ । 44) तस्यै॒ द्वे द्वे तस्यै॒ तस्यै॒ द्वे । 45) द्वे अ॒क्षरे॑ अ॒क्षरे॒ द्वे द्वे अ॒क्षरे᳚ । 45) द्वे इति॒ द्वे । 46) अ॒क्षरे॑ अमीयेता ममीयेता म॒क्षरे॑ अ॒क्षरे॑ अमीयेताम् । 46) अ॒क्षरे॒ इत्य॒क्षरे᳚ । 47) अ॒मी॒ये॒ता॒ग्ं॒ सा सा ऽमी॑येता ममीयेता॒ग्ं॒ सा । 48) सा दक्षि॑णाभि॒-र्दक्षि॑णाभि॒-स्सा सा दक्षि॑णाभिः । 49) दक्षि॑णाभि श्च च॒ दक्षि॑णाभि॒-र्दक्षि॑णाभि श्च । 50) च॒ तप॑सा॒ तप॑सा च च॒ तप॑सा । ॥ 40 ॥ (50/61)
1) तप॑सा च च॒ तप॑सा॒ तप॑सा च । 2) चा च॒ चा । 3) आ ऽग॑च्छ दगच्छ॒दा ऽग॑च्छत् । 4) अ॒ग॒च्छ॒-त्तस्मा॒-त्तस्मा॑ दगच्छ दगच्छ॒-त्तस्मा᳚त् । 5) तस्मा᳚-त्त्रि॒ष्टुभ॑ स्त्रि॒ष्टुभ॒ स्तस्मा॒-त्तस्मा᳚-त्त्रि॒ष्टुभः॑ । 6) त्रि॒ष्टुभो॑ लो॒के लो॒के त्रि॒ष्टुभ॑ स्त्रि॒ष्टुभो॑ लो॒के । 7) लो॒के माद्ध्य॑न्दिने॒ माद्ध्य॑न्दिने लो॒के लो॒के माद्ध्य॑न्दिने । 8) माद्ध्य॑न्दिने॒ सव॑ने॒ सव॑ने॒ माद्ध्य॑न्दिने॒ माद्ध्य॑न्दिने॒ सव॑ने । 9) सव॑ने॒ दक्षि॑णा॒ दक्षि॑णा॒-स्सव॑ने॒ सव॑ने॒ दक्षि॑णाः । 10) दक्षि॑णा नीयन्ते नीयन्ते॒ दक्षि॑णा॒ दक्षि॑णा नीयन्ते । 11) नी॒य॒न्त॒ ए॒त दे॒त-न्नी॑यन्ते नीयन्त ए॒तत् । 12) ए॒त-त्खलु॒ खल्वे॒त दे॒त-त्खलु॑ । 13) खलु॒ वाव वाव खलु॒ खलु॒ वाव । 14) वाव तप॒ स्तपो॒ वाव वाव तपः॑ । 15) तप॒ इतीति॒ तप॒ स्तप॒ इति॑ । 16) इत्या॑हु राहु॒रि तीत्या॑हुः । 17) आ॒हु॒-र्यो य आ॑हु राहु॒-र्यः । 18) य-स्स्वग्ग् स्वं-योँ य-स्स्वम् । 19) स्व-न्ददा॑ति॒ ददा॑ति॒ स्वग्ग् स्व-न्ददा॑ति । 20) ददा॒ती तीति॒ ददा॑ति॒ ददा॒तीति॑ । 21) इति॑ गाय॒त्री गा॑य॒त्री तीति॑ गाय॒त्री । 22) गा॒य॒ त्र्युदु-द्गा॑य॒त्री गा॑य॒ त्र्युत् । 23) उद॑पत दपत॒ दुदु द॑पतत् । 24) अ॒प॒त॒च् चतु॑रक्षरा॒ चतु॑रक्षरा ऽपत दपत॒च् चतु॑रक्षरा । 25) चतु॑रक्षरा स॒ती स॒ती चतु॑रक्षरा॒ चतु॑रक्षरा स॒ती । 25) चतु॑रक्ष॒रेति॒ चतुः॑ - अ॒क्ष॒रा॒ । 26) स॒त्य॑ जया॒ ऽजया॑ स॒ती स॒त्य॑ जया᳚ । 27) अ॒जया॒ ज्योति॑षा॒ ज्योति॑षा॒ ऽजया॒ ऽजया॒ ज्योति॑षा । 28) ज्योति॑षा॒ त-न्त-ञ्ज्योति॑षा॒ ज्योति॑षा॒ तम् । 29) त म॑स्या अस्यै॒ त-न्त म॑स्यै । 30) अ॒स्या॒ अ॒जा ऽजा ऽस्या॑ अस्या अ॒जा । 31) अ॒जा ऽभ्या᳚(1॒)भ्य॑जा ऽजा ऽभि । 32) अ॒भ्य॑ रुन्धा रुन्धा॒ भ्या᳚(1॒)भ्य॑ रुन्ध । 33) अ॒रु॒न्ध॒ त-त्तद॑रुन्धा रुन्ध॒ तत् । 34) तद॒जाया॑ अ॒जाया॒ स्त-त्तद॒जायाः᳚ । 35) अ॒जाया॑ अज॒त्व म॑ज॒त्व म॒जाया॑ अ॒जाया॑ अज॒त्वम् । 36) अ॒ज॒त्वग्ं सा सा ऽज॒त्व म॑ज॒त्वग्ं सा । 36) अ॒ज॒त्वमित्य॑ज - त्वम् । 37) सा सोम॒ग्ं॒ सोम॒ग्ं॒ सा सा सोम᳚म् । 38) सोम॑-ञ्च च॒ सोम॒ग्ं॒ सोम॑-ञ्च । 39) चा च॒ चा । 40) आ ऽह॑र॒ दह॑र॒दा ऽह॑रत् । 41) अह॑रच् च॒त्वारि॑ च॒त्वा र्यह॑र॒ दह॑रच् च॒त्वारि॑ । 42) च॒त्वारि॑ च च च॒त्वारि॑ च॒त्वारि॑ च । 43) चा॒क्षरा᳚ ण्य॒क्षरा॑णि च चा॒क्षरा॑णि । 44) अ॒क्षरा॑णि॒ सा सा ऽक्षरा᳚ ण्य॒क्षरा॑णि॒ सा । 45) सा ऽष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा॒ सा सा ऽष्टाक्ष॑रा । 46) अ॒ष्टाक्ष॑रा॒ सग्ं स म॒ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा॒ सम् । 46) अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ । 47) स म॑पद्यता पद्यत॒ सग्ं स म॑पद्यत । 48) अ॒प॒द्य॒त॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ ऽपद्यता पद्यत ब्रह्मवा॒दिनः॑ । 49) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 49) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 50) व॒द॒न्ति॒ कस्मा॒-त्कस्मा᳚-द्वदन्ति वदन्ति॒ कस्मा᳚त् । ॥ 41 ॥ (50/54)
1) कस्मा᳚-थ्स॒त्या-थ्स॒त्या-त्कस्मा॒-त्कस्मा᳚-थ्स॒त्यात् । 2) स॒त्या-द्गा॑य॒त्री गा॑य॒त्री स॒त्या-थ्स॒त्या-द्गा॑य॒त्री । 3) गा॒य॒त्री कनि॑ष्ठा॒ कनि॑ष्ठा गाय॒त्री गा॑य॒त्री कनि॑ष्ठा । 4) कनि॑ष्ठा॒ छन्द॑सा॒-ञ्छन्द॑सा॒-ङ्कनि॑ष्ठा॒ कनि॑ष्ठा॒ छन्द॑साम् । 5) छन्द॑साग्ं स॒ती स॒ती छन्द॑सा॒-ञ्छन्द॑साग्ं स॒ती । 6) स॒ती य॑ज्ञमु॒खं-यँ॑ज्ञमु॒खग्ं स॒ती स॒ती य॑ज्ञमु॒खम् । 7) य॒ज्ञ॒मु॒ख-म्परि॒ परि॑ यज्ञमु॒खं-यँ॑ज्ञमु॒ख-म्परि॑ । 7) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 8) परी॑याये याय॒ परि॒ परी॑याय । 9) इ॒या॒ये तीती॑ याये या॒येति॑ । 10) इति॒ य-द्यदितीति॒ यत् । 11) यदे॒ वैव य-द्यदे॒व । 12) ए॒वादो॑ ऽद ए॒वै वादः । 13) अ॒द-स्सोम॒ग्ं॒ सोम॑ म॒दो॑ ऽद-स्सोम᳚म् । 14) सोम॒ मा सोम॒ग्ं॒ सोम॒ मा । 15) आ ऽह॑र॒ दह॑र॒दा ऽह॑रत् । 16) अह॑र॒-त्तस्मा॒-त्तस्मा॒ दह॑र॒ दह॑र॒-त्तस्मा᳚त् । 17) तस्मा᳚-द्यज्ञमु॒खं-यँ॑ज्ञमु॒ख-न्तस्मा॒-त्तस्मा᳚-द्यज्ञमु॒खम् । 18) य॒ज्ञ॒मु॒ख-म्परि॒ परि॑ यज्ञमु॒खं-यँ॑ज्ञमु॒ख-म्परि॑ । 18) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 19) पर्यै॑ दै॒-त्परि॒ पर्यै᳚त् । 20) ऐ॒-त्तस्मा॒-त्तस्मा॑ दैदै॒-त्तस्मा᳚त् । 21) तस्मा᳚-त्तेज॒स्विनी॑तमा तेज॒स्विनी॑तमा॒ तस्मा॒-त्तस्मा᳚-त्तेज॒स्विनी॑तमा । 22) ते॒ज॒स्विनी॑तमा प॒द्भ्या-म्प॒द्भ्या-न्ते॑ज॒स्विनी॑तमा तेज॒स्विनी॑तमा प॒द्भ्याम् । 22) ते॒ज॒स्विनी॑त॒मेति॑ तेज॒स्विनी᳚ - त॒मा॒ । 23) प॒द्भ्या-न्द्वे द्वे प॒द्भ्या-म्प॒द्भ्या-न्द्वे । 23) प॒द्भ्यामिति॑ पत् - भ्याम् । 24) द्वे सव॑ने॒ सव॑ने॒ द्वे द्वे सव॑ने । 24) द्वे इति॒ द्वे । 25) सव॑ने स॒मगृ॑ह्णा-थ्स॒मगृ॑ह्णा॒-थ्सव॑ने॒ सव॑ने स॒मगृ॑ह्णात् । 25) सव॑ने॒ इति॒ सव॑ने । 26) स॒मगृ॑ह्णा॒-न्मुखे॑न॒ मुखे॑न स॒मगृ॑ह्णा-थ्स॒मगृ॑ह्णा॒-न्मुखे॑न । 26) स॒मगृ॑ह्णा॒दिति॑ सं - अगृ॑ह्णात् । 27) मुखे॒ नैक॒ मेक॒-म्मुखे॑न॒ मुखे॒ नैक᳚म् । 28) एकं॒-यँ-द्यदेक॒ मेकं॒-यँत् । 29) य-न्मुखे॑न॒ मुखे॑न॒ य-द्य-न्मुखे॑न । 30) मुखे॑न स॒मगृ॑ह्णा-थ्स॒मगृ॑ह्णा॒-न्मुखे॑न॒ मुखे॑न स॒मगृ॑ह्णात् । 31) स॒मगृ॑ह्णा॒-त्त-त्त-थ्स॒मगृ॑ह्णा-थ्स॒मगृ॑ह्णा॒-त्तत् । 31) स॒मगृ॑ह्णा॒दिति॑ सं - अगृ॑ह्णात् । 32) तद॑धय दधय॒-त्त-त्तद॑धयत् । 33) अ॒ध॒य॒-त्तस्मा॒-त्तस्मा॑ दधय दधय॒-त्तस्मा᳚त् । 34) तस्मा॒-द्द्वे द्वे तस्मा॒-त्तस्मा॒-द्द्वे । 35) द्वे सव॑ने॒ सव॑ने॒ द्वे द्वे सव॑ने । 35) द्वे इति॒ द्वे । 36) सव॑ने शु॒क्रव॑ती शु॒क्रव॑ती॒ सव॑ने॒ सव॑ने शु॒क्रव॑ती । 36) सव॑ने॒ इति॒ सव॑ने । 37) शु॒क्रव॑ती प्रातस्सव॒न-म्प्रा॑तस्सव॒नग्ं शु॒क्रव॑ती शु॒क्रव॑ती प्रातस्सव॒नम् । 37) शु॒क्रव॑ती॒ इति॑ शु॒क्र - व॒ती॒ । 38) प्रा॒त॒स्स॒व॒न-ञ्च॑ च प्रातस्सव॒न-म्प्रा॑तस्सव॒न-ञ्च॑ । 38) प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् । 39) च॒ माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन-ञ्च च॒ माद्ध्य॑न्दिनम् । 40) माद्ध्य॑न्दिन-ञ्च च॒ माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन-ञ्च । 41) च॒ तस्मा॒-त्तस्मा᳚च् च च॒ तस्मा᳚त् । 42) तस्मा᳚-त्तृतीयसव॒ने तृ॑तीयसव॒ने तस्मा॒-त्तस्मा᳚-त्तृतीयसव॒ने । 43) तृ॒ती॒य॒स॒व॒न ऋ॑जी॒ष मृ॑जी॒ष-न्तृ॑तीयसव॒ने तृ॑तीयसव॒न ऋ॑जी॒षम् । 43) तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने । 44) ऋ॒जी॒ष म॒भ्या᳚(1॒) भ्यृ॑जी॒ष मृ॑जी॒ष म॒भि । 45) अ॒भि षु॑न्वन्ति सुन्व-न्त्य॒भ्य॑भि षु॑न्वन्ति । 46) सु॒न्व॒न्ति॒ धी॒त-न्धी॒तग्ं सु॑न्वन्ति सुन्वन्ति धी॒तम् । 47) धी॒त मि॑वेव धी॒त-न्धी॒त मि॑व । 48) इ॒व॒ हि हीवे॑व॒ हि । 49) हि मन्य॑न्ते॒ मन्य॑न्ते॒ हि हि मन्य॑न्ते । 50) मन्य॑न्त आ॒शिर॑ मा॒शिर॒-म्मन्य॑न्ते॒ मन्य॑न्त आ॒शिर᳚म् । ॥ 42 ॥ (50/63)
1) आ॒शिर॒ मवावा॒ शिर॑ मा॒शिर॒ मव॑ । 2) अव॑ नयति नय॒ त्यवाव॑ नयति । 3) न॒य॒ति॒ स॒शु॒क्र॒त्वाय॑ सशुक्र॒त्वाय॑ नयति नयति सशुक्र॒त्वाय॑ । 4) स॒शु॒क्र॒त्वा याथो॒ अथो॑ सशुक्र॒त्वाय॑ सशुक्र॒त्वा याथो᳚ । 4) स॒शु॒क्र॒त्वायेति॑ सशुक्र - त्वाय॑ । 5) अथो॒ सग्ं स मथो॒ अथो॒ सम् । 5) अथो॒ इत्यथो᳚ । 6) स-म्भ॑रति भरति॒ सग्ं स-म्भ॑रति । 7) भ॒र॒ त्ये॒वैव भ॑रति भर त्ये॒व । 8) ए॒वैन॑ देन दे॒वै वैन॑त् । 9) ए॒न॒-त्त-न्त मे॑न देन॒-त्तम् । 10) तग्ं सोम॒ग्ं॒ सोम॒-न्त-न्तग्ं सोम᳚म् । 11) सोम॑ माह्रि॒यमा॑ण माह्रि॒यमा॑ण॒ग्ं॒ सोम॒ग्ं॒ सोम॑ माह्रि॒यमा॑णम् । 12) आ॒ह्रि॒यमा॑ण-ङ्गन्ध॒र्वो ग॑न्ध॒र्व आ᳚ह्रि॒यमा॑ण माह्रि॒यमा॑ण-ङ्गन्ध॒र्वः । 12) आ॒ह्रि॒यमा॑ण॒मित्या᳚ - ह्रि॒यमा॑णम् । 13) ग॒न्ध॒र्वो वि॒श्वाव॑सु-र्वि॒श्वाव॑सु-र्गन्ध॒र्वो ग॑न्ध॒र्वो वि॒श्वाव॑सुः । 14) वि॒श्वाव॑सुः॒ परि॒ परि॑ वि॒श्वाव॑सु-र्वि॒श्वाव॑सुः॒ परि॑ । 14) वि॒श्वाव॑सु॒रिति॑ वि॒श्व - व॒सुः॒ । 15) पर्य॑मुष्णा दमुष्णा॒-त्परि॒ पर्य॑मुष्णात् । 16) अ॒मु॒ष्णा॒-थ्स सो॑ ऽमुष्णा दमुष्णा॒-थ्सः । 17) स ति॒स्र स्ति॒स्र-स्स स ति॒स्रः । 18) ति॒स्रो रात्री॒ रात्री᳚ स्ति॒स्र स्ति॒स्रो रात्रीः᳚ । 19) रात्रीः॒ परि॑मुषितः॒ परि॑मुषितो॒ रात्री॒ रात्रीः॒ परि॑मुषितः । 20) परि॑मुषितो ऽवस दवस॒-त्परि॑मुषितः॒ परि॑मुषितो ऽवसत् । 20) परि॑मुषित॒ इति॒ परि॑ - मु॒षि॒तः॒ । 21) अ॒व॒स॒-त्तस्मा॒-त्तस्मा॑ दवस दवस॒-त्तस्मा᳚त् । 22) तस्मा᳚-त्ति॒स्र स्ति॒स्र स्तस्मा॒-त्तस्मा᳚-त्ति॒स्रः । 23) ति॒स्रो रात्री॒ रात्री᳚ स्ति॒स्र स्ति॒स्रो रात्रीः᳚ । 24) रात्रीः᳚ क्री॒तः क्री॒तो रात्री॒ रात्रीः᳚ क्री॒तः । 25) क्री॒त-स्सोम॒-स्सोमः॑ क्री॒तः क्री॒त-स्सोमः॑ । 26) सोमो॑ वसति वसति॒ सोम॒-स्सोमो॑ वसति । 27) व॒स॒ति॒ ते ते व॑सति वसति॒ ते । 28) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 29) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् । 30) अ॒ब्रु॒व॒-न्थ्स्त्रीका॑मा॒-स्स्त्रीका॑मा अब्रुव-न्नब्रुव॒-न्थ्स्त्रीका॑माः । 31) स्त्रीका॑मा॒ वै वै स्त्रीका॑मा॒-स्स्त्रीका॑मा॒ वै । 31) स्त्रीका॑मा॒ इति॒ स्त्री - का॒माः॒ । 32) वै ग॑न्ध॒र्वा ग॑न्ध॒र्वा वै वै ग॑न्ध॒र्वाः । 33) ग॒न्ध॒र्वा-स्स्त्रि॒या स्त्रि॒या ग॑न्ध॒र्वा ग॑न्ध॒र्वा-स्स्त्रि॒या । 34) स्त्रि॒या नि-र्णि-स्स्त्रि॒या स्त्रि॒या निः । 35) निष् क्री॑णाम क्रीणाम॒ नि-र्णिष् क्री॑णाम । 36) क्री॒णा॒मे तीति॑ क्रीणाम क्रीणा॒मेति॑ । 37) इति॒ ते त इतीति॒ ते । 38) ते वाचं॒-वाँच॒-न्ते ते वाच᳚म् । 39) वाच॒ग्ग्॒ स्त्रिय॒ग्ग्॒ स्त्रियं॒-वाँचं॒-वाँच॒ग्ग्॒ स्त्रिय᳚म् । 40) स्त्रिय॒ मेक॑हायनी॒ मेक॑हायनी॒ग्॒ स्त्रिय॒ग्ग्॒ स्त्रिय॒ मेक॑हायनीम् । 41) एक॑हायनी-ङ्कृ॒त्वा कृ॒त्वैक॑हायनी॒ मेक॑हायनी-ङ्कृ॒त्वा । 41) एक॑हायनी॒मित्येक॑ - हा॒य॒नी॒म् । 42) कृ॒त्वा तया॒ तया॑ कृ॒त्वा कृ॒त्वा तया᳚ । 43) तया॒ नि-र्णिष् टया॒ तया॒ निः । 44) निर॑क्रीण-न्नक्रीण॒-न्नि-र्णिर॑क्रीणन्न् । 45) अ॒क्री॒ण॒-न्थ्सा सा ऽक्री॑ण-न्नक्रीण॒-न्थ्सा । 46) सा रो॒हि-द्रो॒हि-थ्सा सा रो॒हित् । 47) रो॒हि-द्रू॒पग्ं रू॒पग्ं रो॒हि-द्रो॒हि-द्रू॒पम् । 48) रू॒प-ङ्कृ॒त्वा कृ॒त्वा रू॒पग्ं रू॒प-ङ्कृ॒त्वा । 49) कृ॒त्वा ग॑न्ध॒र्वेभ्यो॑ गन्ध॒र्वेभ्यः॑ कृ॒त्वा कृ॒त्वा ग॑न्ध॒र्वेभ्यः॑ । 50) ग॒न्ध॒र्वेभ्यो॑ ऽप॒क्रम्या॑ प॒क्रम्य॑ गन्ध॒र्वेभ्यो॑ गन्ध॒र्वेभ्यो॑ ऽप॒क्रम्य॑ । ॥ 43 ॥ (50/57)
1) अ॒प॒क्रम्या॑ तिष्ठदतिष्ठ दप॒क्रम्या॑ प॒क्रम्या॑ तिष्ठत् । 1) अ॒प॒क्रम्येत्य॑प - क्रम्य॑ । 2) अ॒ति॒ष्ठ॒-त्त-त्तद॑तिष्ठ दतिष्ठ॒-त्तत् । 3) त-द्रो॒हितो॑ रो॒हित॒ स्त-त्त-द्रो॒हितः॑ । 4) रो॒हितो॒ जन्म॒ जन्म॑ रो॒हितो॑ रो॒हितो॒ जन्म॑ । 5) जन्म॒ ते ते जन्म॒ जन्म॒ ते । 6) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 7) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् । 8) अ॒ब्रु॒व॒-न्नपापा᳚ ब्रुव-न्नब्रुव॒-न्नप॑ । 9) अप॑ यु॒ष्म-द्यु॒ष्म दपाप॑ यु॒ष्मत् । 10) यु॒ष्म दक्र॑मी॒ दक्र॑मी-द्यु॒ष्म-द्यु॒ष्म दक्र॑मीत् । 11) अक्र॑मी॒-न्न नाक्र॑मी॒ दक्र॑मी॒-न्न । 12) नास्मा न॒स्मा-न्न नास्मान् । 13) अ॒स्मा नु॒पाव॑र्तत उ॒पाव॑र्तते॒ ऽस्मा न॒स्मा नु॒पाव॑र्तते । 14) उ॒पाव॑र्तते॒ वि व्यु॑पाव॑र्तत उ॒पाव॑र्तते॒ वि । 14) उ॒पाव॑र्तत॒ इत्यु॑प - आव॑र्तते । 15) वि ह्व॑यामहै ह्वयामहै॒ वि वि ह्व॑यामहै । 16) ह्व॒या॒म॒हा॒ इतीति॑ ह्वयामहै ह्वयामहा॒ इति॑ । 17) इति॒ ब्रह्म॒ ब्रह्मे तीति॒ ब्रह्म॑ । 18) ब्रह्म॑ गन्ध॒र्वा ग॑न्ध॒र्वा ब्रह्म॒ ब्रह्म॑ गन्ध॒र्वाः । 19) ग॒न्ध॒र्वा अव॑द॒-न्नव॑द-न्गन्ध॒र्वा ग॑न्ध॒र्वा अव॑दन्न् । 20) अव॑द॒-न्नगा॑य॒-न्नगा॑य॒-न्नव॑द॒-न्नव॑द॒-न्नगा॑यन्न् । 21) अगा॑य-न्दे॒वा दे॒वा अगा॑य॒-न्नगा॑य-न्दे॒वाः । 22) दे॒वा-स्सा सा दे॒वा दे॒वा-स्सा । 23) सा दे॒वा-न्दे॒वा-न्थ्सा सा दे॒वान् । 24) दे॒वा-न्गाय॑तो॒ गाय॑तो दे॒वा-न्दे॒वा-न्गाय॑तः । 25) गाय॑त उ॒पाव॑र्ततो॒ पाव॑र्तत॒ गाय॑तो॒ गाय॑त उ॒पाव॑र्तत । 26) उ॒पाव॑र्तत॒ तस्मा॒-त्तस्मा॑ दु॒पाव॑र्ततो॒ पाव॑र्तत॒ तस्मा᳚त् । 26) उ॒पाव॑र्त॒तेत्यु॑प - आव॑र्तत । 27) तस्मा॒-द्गाय॑न्त॒-ङ्गाय॑न्त॒-न्तस्मा॒-त्तस्मा॒-द्गाय॑न्तम् । 28) गाय॑न्त॒ग्ग्॒ स्त्रिय॒-स्स्त्रियो॒ गाय॑न्त॒-ङ्गाय॑न्त॒ग्ग्॒ स्त्रियः॑ । 29) स्त्रियः॑ कामयन्ते कामयन्ते॒ स्त्रिय॒-स्स्त्रियः॑ कामयन्ते । 30) का॒म॒य॒न्ते॒ कामु॑काः॒ कामु॑काः कामयन्ते कामयन्ते॒ कामु॑काः । 31) कामु॑का एन मेन॒-ङ्कामु॑काः॒ कामु॑का एनम् । 32) ए॒न॒ग्ग्॒ स्त्रिय॒-स्स्त्रिय॑ एन मेन॒ग्ग्॒ स्त्रियः॑ । 33) स्त्रियो॑ भवन्ति भवन्ति॒ स्त्रिय॒-स्स्त्रियो॑ भवन्ति । 34) भ॒व॒न्ति॒ यो यो भ॑वन्ति भवन्ति॒ यः । 35) य ए॒व मे॒वं-योँ य ए॒वम् । 36) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 37) वेदाथो॒ अथो॒ वेद॒ वेदाथो᳚ । 38) अथो॒ यो यो ऽथो॒ अथो॒ यः । 38) अथो॒ इत्यथो᳚ । 39) य ए॒व मे॒वं-योँ य ए॒वम् । 40) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 41) वि॒द्वा नप्यपि॑ वि॒द्वान्. वि॒द्वा नपि॑ । 42) अपि॒ जन्ये॑षु॒ जन्ये॒ ष्वप्यपि॒ जन्ये॑षु । 43) जन्ये॑षु॒ भव॑ति॒ भव॑ति॒ जन्ये॑षु॒ जन्ये॑षु॒ भव॑ति । 44) भव॑ति॒ तेभ्य॒ स्तेभ्यो॒ भव॑ति॒ भव॑ति॒ तेभ्यः॑ । 45) तेभ्य॑ ए॒वैव तेभ्य॒ स्तेभ्य॑ ए॒व । 46) ए॒व द॑दति दद त्ये॒वैव द॑दति । 47) द॒द॒ त्यु॒तोत द॑दति दद त्यु॒त । 48) उ॒त य-द्यदु॒तोत यत् । 49) य-द्ब॒हुत॑या ब॒हुत॑या॒ य-द्य-द्ब॒हुत॑याः । 50) ब॒हुत॑या॒ भव॑न्ति॒ भव॑न्ति ब॒हुत॑या ब॒हुत॑या॒ भव॑न्ति । 50) ब॒हुत॑या॒ इति॑ ब॒हु - त॒याः॒ । ॥ 44 ॥ (50/55)
1) भव॒-न्त्येक॑हाय॒ न्यैक॑हायन्या॒ भव॑न्ति॒ भव॒-न्त्येक॑हायन्या । 2) एक॑हायन्या क्रीणाति क्रीणा॒त्ये क॑हाय॒ न्यैक॑हायन्या क्रीणाति । 2) एक॑हाय॒न्येत्येक॑ - हा॒य॒न्या॒ । 3) क्री॒णा॒ति॒ वा॒चा वा॒चा क्री॑णाति क्रीणाति वा॒चा । 4) वा॒चै वैव वा॒चा वा॒चैव । 5) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 6) ए॒न॒ग्ं॒ सर्व॑या॒ सर्व॑ यैन मेन॒ग्ं॒ सर्व॑या । 7) सर्व॑या क्रीणाति क्रीणाति॒ सर्व॑या॒ सर्व॑या क्रीणाति । 8) क्री॒णा॒ति॒ तस्मा॒-त्तस्मा᳚-त्क्रीणाति क्रीणाति॒ तस्मा᳚त् । 9) तस्मा॒ देक॑हायना॒ एक॑हायना॒ स्तस्मा॒-त्तस्मा॒ देक॑हायनाः । 10) एक॑हायना मनु॒ष्या॑ मनु॒ष्या॑ एक॑हायना॒ एक॑हायना मनु॒ष्याः᳚ । 10) एक॑हायना॒ इत्येक॑ - हा॒य॒नाः॒ । 11) म॒नु॒ष्या॑ वाचं॒-वाँच॑-म्मनु॒ष्या॑ मनु॒ष्या॑ वाच᳚म् । 12) वाचं॑-वँदन्ति वदन्ति॒ वाचं॒-वाँचं॑-वँदन्ति । 13) व॒द॒-न्त्यकू॑ट॒या ऽकू॑टया वदन्ति वद॒-न्त्यकू॑टया । 14) अकू॑ट॒या ऽक॑र्ण॒या ऽक॑र्ण॒या ऽकू॑ट॒या ऽकू॑ट॒या ऽक॑र्णया । 15) अक॑र्ण॒या ऽका॑ण॒या ऽका॑ण॒या ऽक॑र्ण॒या ऽक॑र्ण॒या ऽका॑णया । 16) अका॑ण॒या ऽश्लो॑ण॒या ऽश्लो॑ण॒या ऽका॑ण॒या ऽका॑ण॒या ऽश्लो॑णया । 17) अश्लो॑ण॒या ऽस॑प्तशफ॒या ऽस॑प्तशफ॒या ऽश्लो॑ण॒या ऽश्लो॑ण॒या ऽस॑प्तशफया । 18) अस॑प्तशफया क्रीणाति क्रीणा॒त्य स॑प्तशफ॒या ऽस॑प्तशफया क्रीणाति । 18) अस॑प्तशफ॒येत्यस॑प्त - श॒फ॒या॒ । 19) क्री॒णा॒ति॒ सर्व॑या॒ सर्व॑या क्रीणाति क्रीणाति॒ सर्व॑या । 20) सर्व॑ यै॒वैव सर्व॑या॒ सर्व॑यै॒व । 21) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 22) ए॒न॒-ङ्क्री॒णा॒ति॒ क्री॒णा॒ त्ये॒न॒ मे॒न॒-ङ्क्री॒णा॒ति॒ । 23) क्री॒णा॒ति॒ य-द्य-त्क्री॑णाति क्रीणाति॒ यत् । 24) यच्छ्वे॒तया᳚ श्वे॒तया॒ य-द्यच्छ्वे॒तया᳚ । 25) श्वे॒तया᳚ क्रीणी॒या-त्क्री॑णी॒या च्छ्वे॒तया᳚ श्वे॒तया᳚ क्रीणी॒यात् । 26) क्री॒णी॒या-द्दु॒श्चर्मा॑ दु॒श्चर्मा᳚ क्रीणी॒या-त्क्री॑णी॒या-द्दु॒श्चर्मा᳚ । 27) दु॒श्चर्मा॒ यज॑मानो॒ यज॑मानो दु॒श्चर्मा॑ दु॒श्चर्मा॒ यज॑मानः । 27) दु॒श्चर्मेति॑ दुः - चर्मा᳚ । 28) यज॑मान-स्स्या-थ्स्या॒-द्यज॑मानो॒ यज॑मान-स्स्यात् । 29) स्या॒-द्य-द्य-थ्स्या᳚-थ्स्या॒-द्यत् । 30) य-त्कृ॒ष्णया॑ कृ॒ष्णया॒ य-द्य-त्कृ॒ष्णया᳚ । 31) कृ॒ष्णया॑ ऽनु॒स्तर॑ण्य नु॒स्तर॑णी कृ॒ष्णया॑ कृ॒ष्णया॑ ऽनु॒स्तर॑णी । 32) अ॒नु॒स्तर॑णी स्या-थ्स्या दनु॒स्तर॑ ण्यनु॒स्तर॑णी स्यात् । 32) अ॒नु॒स्तर॒णीत्य॑नु - स्तर॑णी । 33) स्या॒-त्प्र॒मायु॑कः प्र॒मायु॑क-स्स्या-थ्स्या-त्प्र॒मायु॑कः । 34) प्र॒मायु॑को॒ यज॑मानो॒ यज॑मानः प्र॒मायु॑कः प्र॒मायु॑को॒ यज॑मानः । 34) प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । 35) यज॑मान-स्स्या-थ्स्या॒-द्यज॑मानो॒ यज॑मान-स्स्यात् । 36) स्या॒-द्य-द्य-थ्स्या᳚-थ्स्या॒-द्यत् । 37) य-द्द्वि॑रू॒पया᳚ द्विरू॒पया॒ य-द्य-द्द्वि॑रू॒पया᳚ । 38) द्वि॒रू॒पया॒ वार्त्र॑घ्नी॒ वार्त्र॑घ्नी द्विरू॒पया᳚ द्विरू॒पया॒ वार्त्र॑घ्नी । 38) द्वि॒रू॒पयेति॑ द्वि - रू॒पया᳚ । 39) वार्त्र॑घ्नी स्या-थ्स्या॒-द्वार्त्र॑घ्नी॒ वार्त्र॑घ्नी स्यात् । 39) वार्त्र॒घ्नीति॒ वार्त्र॑ - घ्नी॒ । 40) स्या॒-थ्स स स्या᳚-थ्स्या॒-थ्सः । 41) स वा॑ वा॒ स स वा᳚ । 42) वा॒ ऽन्य म॒न्यं-वाँ॑ वा॒ ऽन्यम् । 43) अ॒न्य-ञ्जि॑नी॒याज् जि॑नी॒या द॒न्य म॒न्य-ञ्जि॑नी॒यात् । 44) जि॒नी॒या-त्त-न्त-ञ्जि॑नी॒याज् जि॑नी॒या-त्तम् । 45) तं-वाँ॑ वा॒ त-न्तं-वाँ᳚ । 46) वा॒ ऽन्यो᳚ ऽन्यो वा॑ वा॒ ऽन्यः । 47) अ॒न्यो जि॑नीयाज् जिनीया द॒न्यो᳚ ऽन्यो जि॑नीयात् । 48) जि॒नी॒या॒ द॒रु॒णया॑ ऽरु॒णया॑ जिनीयाज् जिनीया दरु॒णया᳚ । 49) अ॒रु॒णया॑ पिङ्गा॒क्ष्या पि॑ङ्गा॒क्ष्या ऽरु॒णया॑ ऽरु॒णया॑ पिङ्गा॒क्ष्या । 50) पि॒ङ्गा॒क्ष्या क्री॑णाति क्रीणाति पिङ्गा॒क्ष्या पि॑ङ्गा॒क्ष्या क्री॑णाति । 50) पि॒ङ्गा॒क्ष्येति॑ पिङ्ग - अ॒क्ष्या । 51) क्री॒णा॒ त्ये॒त दे॒त-त्क्री॑णाति क्रीणा त्ये॒तत् । 52) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 53) वै सोम॑स्य॒ सोम॑स्य॒ वै वै सोम॑स्य । 54) सोम॑स्य रू॒पग्ं रू॒पग्ं सोम॑स्य॒ सोम॑स्य रू॒पम् । 55) रू॒पग्ग् स्वया॒ स्वया॑ रू॒पग्ं रू॒पग्ग् स्वया᳚ । 56) स्वयै॒ वैव स्वया॒ स्वयै॒व । 57) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 58) ए॒न॒-न्दे॒वत॑या दे॒वत॑ यैन मेन-न्दे॒वत॑या । 59) दे॒वत॑या क्रीणाति क्रीणाति दे॒वत॑या दे॒वत॑या क्रीणाति । 60) क्री॒णा॒तीति॑ क्रीणाति । ॥ 45 ॥ (60/69) ॥ अ. 6 ॥
1) तद्धिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्त-त्तद्धिर॑ण्यम् । 2) हिर॑ण्य मभव दभव॒ द्धिर॑ण्य॒ग्ं॒ हिर॑ण्य मभवत् । 3) अ॒भ॒व॒-त्तस्मा॒-त्तस्मा॑ दभव दभव॒-त्तस्मा᳚त् । 4) तस्मा॑ द॒द्भ्यो᳚ ऽद्भ्य स्तस्मा॒-त्तस्मा॑ द॒द्भ्यः । 5) अ॒द्भ्यो हिर॑ण्य॒ग्ं॒ हिर॑ण्य म॒द्भ्यो᳚ ऽद्भ्यो हिर॑ण्यम् । 5) अ॒द्भ्य इत्य॑त् - भ्यः । 6) हिर॑ण्य-म्पुनन्ति पुनन्ति॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य-म्पुनन्ति । 7) पु॒न॒न्ति॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनः॑ पुनन्ति पुनन्ति ब्रह्मवा॒दिनः॑ । 8) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 8) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 9) व॒द॒न्ति॒ कस्मा॒-त्कस्मा᳚-द्वदन्ति वदन्ति॒ कस्मा᳚त् । 10) कस्मा᳚-थ्स॒त्या-थ्स॒त्या-त्कस्मा॒-त्कस्मा᳚-थ्स॒त्यात् । 11) स॒त्या द॑न॒स्थिके॑ना न॒स्थिके॑न स॒त्या-थ्स॒त्या द॑न॒स्थिके॑न । 12) अ॒न॒स्थिके॑न प्र॒जाः प्र॒जा अ॑न॒स्थिके॑ना न॒स्थिके॑न प्र॒जाः । 13) प्र॒जाः प्र॒वीय॑न्ते प्र॒वीय॑न्ते प्र॒जाः प्र॒जाः प्र॒वीय॑न्ते । 13) प्र॒जा इति॑ प्र - जाः । 14) प्र॒वीय॑न्ते ऽस्थ॒न्वती॑ रस्थ॒न्वतीः᳚ प्र॒वीय॑न्ते प्र॒वीय॑न्ते ऽस्थ॒न्वतीः᳚ । 14) प्र॒वीय॑न्त॒ इति॑ प्र - वीय॑न्ते । 15) अ॒स्थ॒न्वती᳚-र्जायन्ते जायन्ते ऽस्थ॒न्वती॑ रस्थ॒न्वती᳚-र्जायन्ते । 15) अ॒स्थ॒न्वती॒रित्य॑स्थन्न् - वतीः᳚ । 16) जा॒य॒न्त॒ इतीति॑ जायन्ते जायन्त॒ इति॑ । 17) इति॒ य-द्यदितीति॒ यत् । 18) यद्धिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-यँ-द्यद्धिर॑ण्यम् । 19) हिर॑ण्य-ङ्घृ॒ते घृ॒ते हिर॑ण्य॒ग्ं॒ हिर॑ण्य-ङ्घृ॒ते । 20) घृ॒ते॑ ऽव॒धाया ॑व॒धाय॑ घृ॒ते घृ॒ते॑ ऽव॒धाय॑ । 21) अ॒व॒धाय॑ जु॒होति॑ जु॒हो त्य॑व॒धाया॑ व॒धाय॑ जु॒होति॑ । 21) अ॒व॒धायेत्य॑व - धाय॑ । 22) जु॒होति॒ तस्मा॒-त्तस्मा᳚ज् जु॒होति॑ जु॒होति॒ तस्मा᳚त् । 23) तस्मा॑ दन॒स्थिके॑ना न॒स्थिके॑न॒ तस्मा॒-त्तस्मा॑ दन॒स्थिके॑न । 24) अ॒न॒स्थिके॑न प्र॒जाः प्र॒जा अ॑न॒स्थिके॑ना न॒स्थिके॑न प्र॒जाः । 25) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र । 25) प्र॒जा इति॑ प्र - जाः । 26) प्र वी॑यन्ते वीयन्ते॒ प्र प्र वी॑यन्ते । 27) वी॒य॒न्ते॒ ऽस्थ॒न्वती॑ रस्थ॒न्वती᳚-र्वीयन्ते वीयन्ते ऽस्थ॒न्वतीः᳚ । 28) अ॒स्थ॒न्वती᳚-र्जायन्ते जायन्ते ऽस्थ॒न्वती॑ रस्थ॒न्वती᳚-र्जायन्ते । 28) अ॒स्थ॒न्वती॒रित्य॑स्थन्न् - वतीः᳚ । 29) जा॒य॒न्त॒ ए॒त दे॒तज् जा॑यन्ते जायन्त ए॒तत् । 30) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 31) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः । 32) अ॒ग्नेः प्रि॒य-म्प्रि॒य म॒ग्ने र॒ग्नेः प्रि॒यम् । 33) प्रि॒य-न्धाम॒ धाम॑ प्रि॒य-म्प्रि॒य-न्धाम॑ । 34) धाम॒ य-द्य-द्धाम॒ धाम॒ यत् । 35) य-द्घृ॒त-ङ्घृ॒तं-यँ-द्य-द्घृ॒तम् । 36) घृ॒त-न्तेज॒ स्तेजो॑ घृ॒त-ङ्घृ॒त-न्तेजः॑ । 37) तेजो॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्तेज॒ स्तेजो॒ हिर॑ण्यम् । 38) हिर॑ण्य मि॒य मि॒यग्ं हिर॑ण्य॒ग्ं॒ हिर॑ण्य मि॒यम् । 39) इ॒य-न्ते॑ त इ॒य मि॒य-न्ते᳚ । 40) ते॒ शु॒क्र॒ शु॒क्र॒ ते॒ ते॒ शु॒क्र॒ । 41) शु॒क्र॒ त॒नू स्त॒नू-श्शु॑क्र शुक्र त॒नूः । 42) त॒नू रि॒द मि॒द-न्त॒नू स्त॒नू रि॒दम् । 43) इ॒दं-वँर्चो॒ वर्च॑ इ॒द मि॒दं-वँर्चः॑ । 44) वर्च॒ इतीति॒ वर्चो॒ वर्च॒ इति॑ । 45) इत्या॑हा॒हे तीत्या॑ह । 46) आ॒ह॒ सते॑जस॒ग्ं॒ सते॑जस माहाह॒ सते॑जसम् । 47) सते॑जस मे॒वैव सते॑जस॒ग्ं॒ सते॑जस मे॒व । 47) सते॑जस॒मिति॒ स - ते॒ज॒स॒म् । 48) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 49) ए॒न॒ग्ं॒ सत॑नु॒ग्ं॒ सत॑नु मेन मेन॒ग्ं॒ सत॑नुम् । 50) सत॑नु-ङ्करोति करोति॒ सत॑नु॒ग्ं॒ सत॑नु-ङ्करोति । 50) सत॑नु॒मिति॒ स - त॒नु॒म् । ॥ 46 ॥ (50/60)
1) क॒रो॒ त्यथो॒ अथो॑ करोति करो॒ त्यथो᳚ । 2) अथो॒ सग्ं स मथो॒ अथो॒ सम् । 2) अथो॒ इत्यथो᳚ । 3) स-म्भ॑रति भरति॒ सग्ं स-म्भ॑रति । 4) भ॒र॒ त्ये॒वैव भ॑रति भर त्ये॒व । 5) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 6) ए॒नं॒-यँ-द्यदे॑न मेनं॒-यँत् । 7) यदब॑द्ध॒ मब॑द्धं॒-यँ-द्यदब॑द्धम् । 8) अब॑द्ध मवद॒द्ध्या द॑वद॒द्ध्या दब॑द्ध॒ मब॑द्ध मवद॒द्ध्यात् । 9) अ॒व॒द॒द्ध्या-द्गर्भा॒ गर्भा॑ अवद॒द्ध्या द॑वद॒द्ध्या-द्गर्भाः᳚ । 9) अ॒व॒द॒द्ध्यादित्य॑व - द॒द्ध्यात् । 10) गर्भाः᳚ प्र॒जाना᳚-म्प्र॒जाना॒-ङ्गर्भा॒ गर्भाः᳚ प्र॒जाना᳚म् । 11) प्र॒जाना᳚-म्परा॒पातु॑काः परा॒पातु॑काः प्र॒जाना᳚-म्प्र॒जाना᳚-म्परा॒पातु॑काः । 11) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 12) प॒रा॒पातु॑का-स्स्यु-स्स्युः परा॒पातु॑काः परा॒पातु॑का-स्स्युः । 12) प॒रा॒पातु॑का॒ इति॑ परा - पातु॑काः । 13) स्यु॒-र्ब॒द्ध-म्ब॒द्धग्ग् स्यु॑-स्स्यु-र्ब॒द्धम् । 14) ब॒द्ध मवाव॑ ब॒द्ध-म्ब॒द्ध मव॑ । 15) अव॑ दधाति दधा॒ त्यवाव॑ दधाति । 16) द॒धा॒ति॒ गर्भा॑णा॒-ङ्गर्भा॑णा-न्दधाति दधाति॒ गर्भा॑णाम् । 17) गर्भा॑णा॒-न्धृत्यै॒ धृत्यै॒ गर्भा॑णा॒-ङ्गर्भा॑णा॒-न्धृत्यै᳚ । 18) धृत्यै॑ निष्ट॒र्क्य॑-न्निष्ट॒र्क्य॑-न्धृत्यै॒ धृत्यै॑ निष्ट॒र्क्य᳚म् । 19) नि॒ष्ट॒र्क्य॑-म्बद्ध्नाति बद्ध्नाति निष्ट॒र्क्य॑-न्निष्ट॒र्क्य॑-म्बद्ध्नाति । 20) ब॒द्ध्ना॒ति॒ प्र॒जाना᳚-म्प्र॒जाना᳚-म्बद्ध्नाति बद्ध्नाति प्र॒जाना᳚म् । 21) प्र॒जाना᳚-म्प्र॒जन॑नाय प्र॒जन॑नाय प्र॒जाना᳚-म्प्र॒जाना᳚-म्प्र॒जन॑नाय । 21) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 22) प्र॒जन॑नाय॒ वाग् वा-क्प्र॒जन॑नाय प्र॒जन॑नाय॒ वाक् । 22) प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । 23) वाग् वै वै वाग् वाग् वै । 24) वा ए॒षैषा वै वा ए॒षा । 25) ए॒षा य-द्यदे॒षैषा यत् । 26) य-थ्सो॑म॒क्रय॑णी सोम॒क्रय॑णी॒ य-द्य-थ्सो॑म॒क्रय॑णी । 27) सो॒म॒क्रय॑णी॒ जू-र्जू-स्सो॑म॒क्रय॑णी सोम॒क्रय॑णी॒ जूः । 27) सो॒म॒क्रय॒णीति॑ सोम - क्रय॑णी । 28) जूर॑ स्यसि॒ जू-र्जूर॑सि । 29) अ॒सीती त्य॑स्य॒ सीति॑ । 30) इत्या॑हा॒हे तीत्या॑ह । 31) आ॒ह॒ य-द्यदा॑ हाह॒ यत् । 32) यद्धि हि य-द्यद्धि । 33) हि मन॑सा॒ मन॑सा॒ हि हि मन॑सा । 34) मन॑सा॒ जव॑ते॒ जव॑ते॒ मन॑सा॒ मन॑सा॒ जव॑ते । 35) जव॑ते॒ त-त्तज् जव॑ते॒ जव॑ते॒ तत् । 36) त-द्वा॒चा वा॒चा त-त्त-द्वा॒चा । 37) वा॒चा वद॑ति॒ वद॑ति वा॒चा वा॒चा वद॑ति । 38) वद॑ति धृ॒ता धृ॒ता वद॑ति॒ वद॑ति धृ॒ता । 39) धृ॒ता मन॑सा॒ मन॑सा धृ॒ता धृ॒ता मन॑सा । 40) मन॒से तीति॒ मन॑सा॒ मन॒ सेति॑ । 41) इत्या॑हा॒हे तीत्या॑ह । 42) आ॒ह॒ मन॑सा॒ मन॑सा ऽऽहाह॒ मन॑सा । 43) मन॑सा॒ हि हि मन॑सा॒ मन॑सा॒ हि । 44) हि वाग् वाग् घि हि वाक् । 45) वाग् धृ॒ता धृ॒ता वाग् वाग् धृ॒ता । 46) धृ॒ता जुष्टा॒ जुष्टा॑ धृ॒ता धृ॒ता जुष्टा᳚ । 47) जुष्टा॒ विष्ण॑वे॒ विष्ण॑वे॒ जुष्टा॒ जुष्टा॒ विष्ण॑वे । 48) विष्ण॑व॒ इतीति॒ विष्ण॑वे॒ विष्ण॑व॒ इति॑ । 49) इत्या॑हा॒हे तीत्या॑ह । 50) आ॒ह॒ य॒ज्ञो य॒ज्ञ आ॑हाह य॒ज्ञः । ॥ 47 ॥ (50/57)
1) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै । 2) वै विष्णु॒-र्विष्णु॒-र्वै वै विष्णुः॑ । 3) विष्णु॑-र्य॒ज्ञाय॑ य॒ज्ञाय॒ विष्णु॒-र्विष्णु॑-र्य॒ज्ञाय॑ । 4) य॒ज्ञायै॒ वैव य॒ज्ञाय॑ य॒ज्ञायै॒व । 5) ए॒वैना॑ मेना मे॒वै वैना᳚म् । 6) ए॒ना॒-ञ्जुष्टा॒-ञ्जुष्टा॑ मेना मेना॒-ञ्जुष्टा᳚म् । 7) जुष्टा᳚-ङ्करोति करोति॒ जुष्टा॒-ञ्जुष्टा᳚-ङ्करोति । 8) क॒रो॒ति॒ तस्या॒ स्तस्याः᳚ करोति करोति॒ तस्याः᳚ । 9) तस्या᳚ स्ते ते॒ तस्या॒ स्तस्या᳚ स्ते । 10) ते॒ स॒त्यस॑वस-स्स॒त्यस॑वस स्ते ते स॒त्यस॑वसः । 11) स॒त्यस॑वसः प्रस॒वे प्र॑स॒वे स॒त्यस॑वस-स्स॒त्यस॑वसः प्रस॒वे । 11) स॒त्यस॑वस॒ इति॑ स॒त्य - स॒व॒सः॒ । 12) प्र॒स॒व इतीति॑ प्रस॒वे प्र॑स॒व इति॑ । 12) प्र॒स॒व इति॑ प्र - स॒वे । 13) इत्या॑हा॒हे तीत्या॑ह । 14) आ॒ह॒ स॒वि॒तृप्र॑सूताग्ं सवि॒तृप्र॑सूता माहाह सवि॒तृप्र॑सूताम् । 15) स॒वि॒तृप्र॑सूता मे॒वैव स॑वि॒तृप्र॑सूताग्ं सवि॒तृप्र॑सूता मे॒व । 15) स॒वि॒तृप्र॑सूता॒मिति॑ सवि॒तृ - प्र॒सू॒ता॒म् । 16) ए॒व वाचं॒-वाँच॑ मे॒वैव वाच᳚म् । 17) वाच॒ मवाव॒ वाचं॒-वाँच॒ मव॑ । 18) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 19) रु॒न्धे॒ काण्डे॑काण्डे॒ काण्डे॑काण्डे रुन्धे रुन्धे॒ काण्डे॑काण्डे । 20) काण्डे॑काण्डे॒ वै वै काण्डे॑काण्डे॒ काण्डे॑काण्डे॒ वै । 20) काण्डे॑काण्ड॒ इति॒ काण्डे᳚ - का॒ण्डे॒ । 21) वै क्रि॒यमा॑णे क्रि॒यमा॑णे॒ वै वै क्रि॒यमा॑णे । 22) क्रि॒यमा॑णे य॒ज्ञं-यँ॒ज्ञ-ङ्क्रि॒यमा॑णे क्रि॒यमा॑णे य॒ज्ञम् । 23) य॒ज्ञग्ं रक्षाग्ं॑सि॒ रक्षाग्ं॑सि य॒ज्ञं-यँ॒ज्ञग्ं रक्षाग्ं॑सि । 24) रक्षाग्ं॑सि जिघाग्ंसन्ति जिघाग्ंसन्ति॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि जिघाग्ंसन्ति । 25) जि॒घा॒ग्ं॒स॒-न्त्ये॒ष ए॒ष जि॑घाग्ंसन्ति जिघाग्ंस-न्त्ये॒षः । 26) ए॒ष खलु॒ खल्वे॒ष ए॒ष खलु॑ । 27) खलु॒ वै वै खलु॒ खलु॒ वै । 28) वा अर॑क्षोह॒तो ऽर॑क्षोहतो॒ वै वा अर॑क्षोहतः । 29) अर॑क्षोहतः॒ पन्थाः॒ पन्था॒ अर॑क्षोह॒तो ऽर॑क्षोहतः॒ पन्थाः᳚ । 29) अर॑क्षोहत॒ इत्यर॑क्षः - ह॒तः॒ । 30) पन्था॒ यो यः पन्थाः॒ पन्था॒ यः । 31) यो᳚ ऽग्ने र॒ग्ने-र्यो यो᳚ ऽग्नेः । 32) अ॒ग्ने श्च॑ चा॒ग्ने र॒ग्ने श्च॑ । 33) च॒ सूर्य॑स्य॒ सूर्य॑स्य च च॒ सूर्य॑स्य । 34) सूर्य॑स्य च च॒ सूर्य॑स्य॒ सूर्य॑स्य च । 35) च॒ सूर्य॑स्य॒ सूर्य॑स्य च च॒ सूर्य॑स्य । 36) सूर्य॑स्य॒ चक्षु॒ श्चक्षु॒-स्सूर्य॑स्य॒ सूर्य॑स्य॒ चक्षुः॑ । 37) चक्षु॒रा चक्षु॒ श्चक्षु॒रा । 38) आ ऽरु॑ह मरुह॒ मा ऽरु॑हम् । 39) अ॒रु॒ह॒ म॒ग्ने र॒ग्ने र॑रुह मरुह म॒ग्नेः । 40) अ॒ग्ने र॒क्ष्णो᳚(1॒) ऽक्ष्णो᳚ ऽग्ने र॒ग्ने र॒क्ष्णः । 41) अ॒क्ष्णः क॒नीनि॑का-ङ्क॒नीनि॑का म॒क्ष्णो᳚ ऽक्ष्णः क॒नीनि॑काम् । 42) क॒नीनि॑का॒ मितीति॑ क॒नीनि॑का-ङ्क॒नीनि॑का॒ मिति॑ । 43) इत्या॑हा॒हे तीत्या॑ह । 44) आ॒ह॒ यो य आ॑हाह॒ यः । 45) य ए॒वैव यो य ए॒व । 46) ए॒वा र॑क्षोह॒तो ऽर॑क्षोहत ए॒वैवा र॑क्षोहतः । 47) अर॑क्षोहतः॒ पन्थाः॒ पन्था॒ अर॑क्षोह॒तो ऽर॑क्षोहतः॒ पन्थाः᳚ । 47) अर॑क्षोहत॒ इत्यर॑क्षः - ह॒तः॒ । 48) पन्था॒ स्त-न्त-म्पन्थाः॒ पन्था॒ स्तम् । 49) तग्ं स॒मारो॑हति स॒मारो॑हति॒ त-न्तग्ं स॒मारो॑हति । 50) स॒मारो॑हति॒ वाग् वा-ख्स॒मारो॑हति स॒मारो॑हति॒ वाक् । 50) स॒मारो॑ह॒तीति॑ सं - आरो॑हति । ॥ 48 ॥ (50/57)
1) वाग् वै वै वाग् वाग् वै । 2) वा ए॒षैषा वै वा ए॒षा । 3) ए॒षा य-द्यदे॒ षैषा यत् । 4) य-थ्सो॑म॒क्रय॑णी सोम॒क्रय॑णी॒ य-द्य-थ्सो॑म॒क्रय॑णी । 5) सो॒म॒क्रय॑णी॒ चिच् चि-थ्सो॑म॒क्रय॑णी सोम॒क्रय॑णी॒ चित् । 5) सो॒म॒क्रय॒णीति॑ सोम - क्रय॑णी । 6) चिद॑ स्यसि॒ चिच् चिद॑सि । 7) अ॒सि॒ म॒ना म॒ना ऽस्य॑सि म॒ना । 8) म॒ना ऽस्य॑सि म॒ना म॒ना ऽसि॑ । 9) अ॒सीती त्य॑स्य॒ सीति॑ । 10) इत्या॑हा॒हे तीत्या॑ह । 11) आ॒ह॒ शास्ति॒ शास्त्या॑ हाह॒ शास्ति॑ । 12) शास्त्ये॒ वैव शास्ति॒ शास्त्ये॒व । 13) ए॒वैना॑ मेना मे॒वै वैना᳚म् । 14) ए॒ना॒ मे॒त दे॒त दे॑ना मेना मे॒तत् । 15) ए॒त-त्तस्मा॒-त्तस्मा॑ दे॒त दे॒त-त्तस्मा᳚त् । 16) तस्मा᳚ च्छि॒ष्टा-श्शि॒ष्टा स्तस्मा॒-त्तस्मा᳚ च्छि॒ष्टाः । 17) शि॒ष्टाः प्र॒जाः प्र॒जा-श्शि॒ष्टा-श्शि॒ष्टाः प्र॒जाः । 18) प्र॒जा जा॑यन्ते जायन्ते प्र॒जाः प्र॒जा जा॑यन्ते । 18) प्र॒जा इति॑ प्र - जाः । 19) जा॒य॒न्ते॒ चिच् चिज् जा॑यन्ते जायन्ते॒ चित् । 20) चिद॑ स्यसि॒ चिच् चिद॑सि । 21) अ॒सीती त्य॑स्य॒ सीति॑ । 22) इत्या॑हा॒हे तीत्या॑ह । 23) आ॒ह॒ य-द्यदा॑ हाह॒ यत् । 24) यद्धि हि य-द्यद्धि । 25) हि मन॑सा॒ मन॑सा॒ हि हि मन॑सा । 26) मन॑सा चे॒तय॑ते चे॒तय॑ते॒ मन॑सा॒ मन॑सा चे॒तय॑ते । 27) चे॒तय॑ते॒ त-त्तच् चे॒तय॑ते चे॒तय॑ते॒ तत् । 28) त-द्वा॒चा वा॒चा त-त्त-द्वा॒चा । 29) वा॒चा वद॑ति॒ वद॑ति वा॒चा वा॒चा वद॑ति । 30) वद॑ति म॒ना म॒ना वद॑ति॒ वद॑ति म॒ना । 31) म॒ना ऽस्य॑सि म॒ना म॒ना ऽसि॑ । 32) अ॒सीती त्य॑स्य॒ सीति॑ । 33) इत्या॑हा॒हे तीत्या॑ह । 34) आ॒ह॒ य-द्यदा॑ हाह॒ यत् । 35) यद्धि हि य-द्यद्धि । 36) हि मन॑सा॒ मन॑सा॒ हि हि मन॑सा । 37) मन॑सा ऽभि॒गच्छ॑ त्यभि॒गच्छ॑ति॒ मन॑सा॒ मन॑सा ऽभि॒गच्छ॑ति । 38) अ॒भि॒गच्छ॑ति॒ त-त्तद॑भि॒गच्छ॑ त्यभि॒गच्छ॑ति॒ तत् । 38) अ॒भि॒गच्छ॒तीत्य॑भि - गच्छ॑ति । 39) त-त्क॒रोति॑ क॒रोति॒ त-त्त-त्क॒रोति॑ । 40) क॒रोति॒ धी-र्धीः क॒रोति॑ क॒रोति॒ धीः । 41) धीर॑ स्यसि॒ धी-र्धीर॑सि । 42) अ॒सीती त्य॑स्य॒ सीति॑ । 43) इत्या॑हा॒हे तीत्या॑ह । 44) आ॒ह॒ य-द्यदा॑ हाह॒ यत् । 45) यद्धि हि य-द्यद्धि । 46) हि मन॑सा॒ मन॑सा॒ हि हि मन॑सा । 47) मन॑सा॒ ध्याय॑ति॒ ध्याय॑ति॒ मन॑सा॒ मन॑सा॒ ध्याय॑ति । 48) ध्याय॑ति॒ त-त्त-द्ध्याय॑ति॒ ध्याय॑ति॒ तत् । 49) त-द्वा॒चा वा॒चा त-त्त-द्वा॒चा । 50) वा॒चा वद॑ति॒ वद॑ति वा॒चा वा॒चा वद॑ति । ॥ 49 ॥ (50/53)
1) वद॑ति॒ दक्षि॑णा॒ दक्षि॑णा॒ वद॑ति॒ वद॑ति॒ दक्षि॑णा । 2) दक्षि॑णा ऽस्यसि॒ दक्षि॑णा॒ दक्षि॑णा ऽसि । 3) अ॒सीती त्य॑स्य॒ सीति॑ । 4) इत्या॑हा॒हे तीत्या॑ह । 5) आ॒ह॒ दक्षि॑णा॒ दक्षि॑णा ऽऽहाह॒ दक्षि॑णा । 6) दक्षि॑णा॒ हि हि दक्षि॑णा॒ दक्षि॑णा॒ हि । 7) ह्ये॑षैषा हि ह्ये॑षा । 8) ए॒षा य॒ज्ञिया॑ य॒ज्ञियै॒ षैषा य॒ज्ञिया᳚ । 9) य॒ज्ञिया᳚ ऽस्यसि य॒ज्ञिया॑ य॒ज्ञिया॑ ऽसि । 10) अ॒सीती त्य॑स्य॒ सीति॑ । 11) इत्या॑हा॒हे तीत्या॑ह । 12) आ॒ह॒ य॒ज्ञियां᳚-यँ॒ज्ञिया॑ माहाह य॒ज्ञिया᳚म् । 13) य॒ज्ञिया॑ मे॒वैव य॒ज्ञियां᳚-यँ॒ज्ञिया॑ मे॒व । 14) ए॒वैना॑ मेना मे॒वै वैना᳚म् । 15) ए॒ना॒-ङ्क॒रो॒ति॒ क॒रो॒ त्ये॒ना॒ मे॒ना॒-ङ्क॒रो॒ति॒ । 16) क॒रो॒ति॒ क्ष॒त्रिया᳚ क्ष॒त्रिया॑ करोति करोति क्ष॒त्रिया᳚ । 17) क्ष॒त्रिया᳚ ऽस्यसि क्ष॒त्रिया᳚ क्ष॒त्रिया॑ ऽसि । 18) अ॒सीती त्य॑स्य॒ सीति॑ । 19) इत्या॑हा॒हे तीत्या॑ह । 20) आ॒ह॒ क्ष॒त्रिया᳚ क्ष॒त्रिया॑ ऽऽहाह क्ष॒त्रिया᳚ । 21) क्ष॒त्रिया॒ हि हि क्ष॒त्रिया᳚ क्ष॒त्रिया॒ हि । 22) ह्ये॑षैषा हि ह्ये॑षा । 23) ए॒षा ऽदि॑ति॒ रदि॑ति रे॒षैषा ऽदि॑तिः । 24) अदि॑ति रस्य॒स्य दि॑ति॒ रदि॑ति रसि । 25) अ॒स्यु॒ भ॒यत॑श्शी-र्ष्ण्युभ॒यत॑श्शी-र्ष्ण्यस्य स्युभ॒यत॑श्शीर्ष्णी । 26) उ॒भ॒यत॑श्शी॒र्ष्णीती त्यु॑भ॒यत॑श्शी-र्ष्ण्युभ॒यत॑श्शी॒र्ष्णीति॑ । 26) उ॒भ॒यत॑श्शी॒र्ष्णीत्यु॑भ॒यतः॑ - शी॒र्ष्णी॒ । 27) इत्या॑हा॒हे तीत्या॑ह । 28) आ॒ह॒ य-द्यदा॑ हाह॒ यत् । 29) यदे॒ वैव य-द्यदे॒व । 30) ए॒वादि॒त्य आ॑दि॒त्य ए॒वै वादि॒त्यः । 31) आ॒दि॒त्यः प्रा॑य॒णीयः॑ प्राय॒णीय॑ आदि॒त्य आ॑दि॒त्यः प्रा॑य॒णीयः॑ । 32) प्रा॒य॒णीयो॑ य॒ज्ञानां᳚-यँ॒ज्ञाना᳚-म्प्राय॒णीयः॑ प्राय॒णीयो॑ य॒ज्ञाना᳚म् । 32) प्रा॒य॒णीय॒ इति॑ प्र - अ॒य॒नीयः॑ । 33) य॒ज्ञाना॑ मादि॒त्य आ॑दि॒त्यो य॒ज्ञानां᳚-यँ॒ज्ञाना॑ मादि॒त्यः । 34) आ॒दि॒त्य उ॑दय॒नीय॑ उदय॒नीय॑ आदि॒त्य आ॑दि॒त्य उ॑दय॒नीयः॑ । 35) उ॒द॒य॒नीय॒ स्तस्मा॒-त्तस्मा॑ दुदय॒नीय॑ उदय॒नीय॒ स्तस्मा᳚त् । 35) उ॒द॒य॒नीय॒ इत्यु॑त् - अ॒य॒नीयः॑ । 36) तस्मा॑ दे॒व मे॒व-न्तस्मा॒-त्तस्मा॑ दे॒वम् । 37) ए॒व मा॑हा है॒व मे॒व मा॑ह । 38) आ॒ह॒ य-द्यदा॑ हाह॒ यत् । 39) यदब॒द्धा ऽब॑द्धा॒ य-द्यदब॑द्धा । 40) अब॑द्धा॒ स्या-थ्स्या दब॒द्धा ऽब॑द्धा॒ स्यात् । 41) स्या दय॒ता ऽय॑ता॒ स्या-थ्स्या दय॑ता । 42) अय॑ता स्या-थ्स्या॒ दय॒ता ऽय॑ता स्यात् । 43) स्या॒-द्य-द्य-थ्स्या᳚-थ्स्या॒-द्यत् । 44) य-त्प॑दिब॒द्धा प॑दिब॒द्धा य-द्य-त्प॑दिब॒द्धा । 45) प॒दि॒ब॒द्धा ऽनु॒स्तर॑ण्य नु॒स्तर॑णी पदिब॒द्धा प॑दिब॒द्धा ऽनु॒स्तर॑णी । 45) प॒दि॒ब॒द्धेति॑ पदि - ब॒द्धा । 46) अ॒नु॒स्तर॑णी स्या-थ्स्या दनु॒स्तर॑ ण्यनु॒स्तर॑णी स्यात् । 46) अ॒नु॒स्तर॒णीत्य॑नु - स्तर॑णी । 47) स्या॒-त्प्र॒मायु॑कः प्र॒मायु॑क-स्स्या-थ्स्या-त्प्र॒मायु॑कः । 48) प्र॒मायु॑को॒ यज॑मानो॒ यज॑मानः प्र॒मायु॑कः प्र॒मायु॑को॒ यज॑मानः । 48) प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । 49) यज॑मान-स्स्या-थ्स्या॒-द्यज॑मानो॒ यज॑मान-स्स्यात् । 50) स्या॒-द्य-द्य-थ्स्या᳚-थ्स्या॒-द्यत् । ॥ 50 ॥ (50/56)
1) य-त्क॑र्णगृही॒ता क॑र्णगृही॒ता य-द्य-त्क॑र्णगृही॒ता । 2) क॒र्ण॒गृ॒ही॒ता वार्त्र॑घ्नी॒ वार्त्र॑घ्नी कर्णगृही॒ता क॑र्णगृही॒ता वार्त्र॑घ्नी । 2) क॒र्ण॒गृ॒ही॒तेति॑ कर्ण - गृ॒ही॒ता । 3) वार्त्र॑घ्नी स्या-थ्स्या॒-द्वार्त्र॑घ्नी॒ वार्त्र॑घ्नी स्यात् । 3) वार्त्र॒घ्नीति॒ वार्त्र॑ - घ्नी॒ । 4) स्या॒-थ्स स स्या᳚-थ्स्या॒-थ्सः । 5) स वा॑ वा॒ स स वा᳚ । 6) वा॒ ऽन्य म॒न्यं-वाँ॑ वा॒ ऽन्यम् । 7) अ॒न्य-ञ्जि॑नी॒याज् जि॑नी॒या द॒न्य म॒न्य-ञ्जि॑नी॒यात् । 8) जि॒नी॒या-त्त-न्त-ञ्जि॑नी॒याज् जि॑नी॒या-त्तम् । 9) तं-वाँ॑ वा॒ त-न्तं-वाँ᳚ । 10) वा॒ ऽन्यो᳚ ऽन्यो वा॑ वा॒ ऽन्यः । 11) अ॒न्यो जि॑नीयाज् जिनीया द॒न्यो᳚ ऽन्यो जि॑नीयात् । 12) जि॒नी॒या॒-न्मि॒त्रो मि॒त्रो जि॑नीयाज् जिनीया-न्मि॒त्रः । 13) मि॒त्र स्त्वा᳚ त्वा मि॒त्रो मि॒त्र स्त्वा᳚ । 14) त्वा॒ प॒दि प॒दि त्वा᳚ त्वा प॒दि । 15) प॒दि ब॑द्ध्नातु बद्ध्नातु प॒दि प॒दि ब॑द्ध्नातु । 16) ब॒द्ध्ना॒ त्वितीति॑ बद्ध्नातु बद्ध्ना॒ त्विति॑ । 17) इत्या॑हा॒हे तीत्या॑ह । 18) आ॒ह॒ मि॒त्रो मि॒त्र आ॑हाह मि॒त्रः । 19) मि॒त्रो वै वै मि॒त्रो मि॒त्रो वै । 20) वै शि॒व-श्शि॒वो वै वै शि॒वः । 21) शि॒वो दे॒वाना᳚-न्दे॒वानाग्ं॑ शि॒व-श्शि॒वो दे॒वाना᳚म् । 22) दे॒वाना॒-न्तेन॒ तेन॑ दे॒वाना᳚-न्दे॒वाना॒-न्तेन॑ । 23) तेनै॒ वैव तेन॒ तेनै॒व । 24) ए॒वैना॑ मेना मे॒वै वैना᳚म् । 25) ए॒ना॒-म्प॒दि प॒द्ये॑ना मेना-म्प॒दि । 26) प॒दि ब॑द्ध्नाति बद्ध्नाति प॒दि प॒दि ब॑द्ध्नाति । 27) ब॒द्ध्ना॒ति॒ पू॒षा पू॒षा ब॑द्ध्नाति बद्ध्नाति पू॒षा । 28) पू॒षा ऽद्ध्व॒नो ऽद्ध्व॑नः पू॒षा पू॒षा ऽद्ध्व॑नः । 29) अद्ध्व॑नः पातु पा॒त्व द्ध्व॒नो ऽद्ध्व॑नः पातु । 30) पा॒त्वि तीति॑ पातु पा॒त्विति॑ । 31) इत्या॑हा॒हे तीत्या॑ह । 32) आ॒हे॒य मि॒य मा॑हा हे॒यम् । 33) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ । 34) वै पू॒षा पू॒षा वै वै पू॒षा । 35) पू॒षेमा मि॒मा-म्पू॒षा पू॒षेमाम् । 36) इ॒मा मे॒वैवे मा मि॒मा मे॒व । 37) ए॒वास्या॑ अस्या ए॒वै वास्याः᳚ । 38) अ॒स्या॒ अ॒धि॒पा म॑धि॒पा म॑स्या अस्या अधि॒पाम् । 39) अ॒धि॒पा म॑क रक रधि॒पा म॑धि॒पा म॑कः । 39) अ॒धि॒पामित्य॑धि - पाम् । 40) अ॒क॒-स्सम॑ष्ट्यै॒ सम॑ष्ट्या अक रक॒-स्सम॑ष्ट्यै । 41) सम॑ष्ट्या॒ इन्द्रा॒ येन्द्रा॑य॒ सम॑ष्ट्यै॒ सम॑ष्ट्या॒ इन्द्रा॑य । 41) सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ । 42) इन्द्रा॒या द्ध्य॑क्षा॒या द्ध्य॑क्षा॒ येन्द्रा॒ येन्द्रा॒या द्ध्य॑क्षाय । 43) अद्ध्य॑क्षा॒ये तीत्य द्ध्य॑क्षा॒या द्ध्य॑क्षा॒येति॑ । 43) अद्ध्य॑क्षा॒येत्यधि॑ - अ॒क्षा॒य॒ । 44) इत्या॑हा॒हे तीत्या॑ह । 45) आ॒हेन्द्र॒ मिन्द्र॑ माहा॒ हेन्द्र᳚म् । 46) इन्द्र॑ मे॒वैवेन्द्र॒ मिन्द्र॑ मे॒व । 47) ए॒वास्या॑ अस्या ए॒वै वास्याः᳚ । 48) अ॒स्या॒ अद्ध्य॑क्ष॒ मद्ध्य॑क्ष मस्या अस्या॒ अद्ध्य॑क्षम् । 49) अद्ध्य॑क्ष-ङ्करोति करो॒ त्यद्ध्य॑क्ष॒ मद्ध्य॑क्ष-ङ्करोति । 49) अद्ध्य॑क्ष॒मित्यधि॑ - अ॒क्ष॒म् । 50) क॒रो॒ त्यन्वनु॑ करोति करो॒ त्यनु॑ । ॥ 51 ॥ (50/56)
1) अनु॑ त्वा त्वा॒ ऽन्वनु॑ त्वा । 2) त्वा॒ मा॒ता मा॒ता त्वा᳚ त्वा मा॒ता । 3) मा॒ता म॑न्यता-म्मन्यता-म्मा॒ता मा॒ता म॑न्यताम् । 4) म॒न्य॒ता॒ मन्वनु॑ मन्यता-म्मन्यता॒ मनु॑ । 5) अनु॑ पि॒ता पि॒ता ऽन्वनु॑ पि॒ता । 6) पि॒तेतीति॑ पि॒ता पि॒तेति॑ । 7) इत्या॑हा॒हे तीत्या॑ह । 8) आ॒हा नु॑मत॒या ऽनु॑मतया ऽऽहा॒हा नु॑मतया । 9) अनु॑मत यै॒वै वानु॑मत॒या ऽनु॑मत यै॒व । 9) अनु॑मत॒येत्यनु॑ - म॒त॒या॒ । 10) ए॒वैन॑ यैन यै॒वै वैन॑या । 11) ए॒न॒या॒ क्री॒णा॒ति॒ क्री॒णा॒ त्ये॒न॒ यै॒न॒या॒ क्री॒णा॒ति॒ । 12) क्री॒णा॒ति॒ सा सा क्री॑णाति क्रीणाति॒ सा । 13) सा दे॑वि देवि॒ सा सा दे॑वि । 14) दे॒वि॒ दे॒व-न्दे॒व-न्दे॑वि देवि दे॒वम् । 15) दे॒व मच्छा च्छ॑ दे॒व-न्दे॒व मच्छ॑ । 16) अच्छे॑ ही॒ह्य च्छा च्छे॑हि । 17) इ॒ही तीती॑ही॒ हीति॑ । 18) इत्या॑हा॒हे तीत्या॑ह । 19) आ॒ह॒ दे॒वी दे॒व्या॑ हाह दे॒वी । 20) दे॒वी हि हि दे॒वी दे॒वी हि । 21) ह्ये॑षैषा हि ह्ये॑षा । 22) ए॒षा दे॒वो दे॒व ए॒षैषा दे॒वः । 23) दे॒व-स्सोम॒-स्सोमो॑ दे॒वो दे॒व-स्सोमः॑ । 24) सोम॒ इन्द्रा॒ येन्द्रा॑य॒ सोम॒-स्सोम॒ इन्द्रा॑य । 25) इन्द्रा॑य॒ सोम॒ग्ं॒ सोम॒ मिन्द्रा॒ येन्द्रा॑य॒ सोम᳚म् । 26) सोम॒ मितीति॒ सोम॒ग्ं॒ सोम॒ मिति॑ । 27) इत्या॑हा॒हे तीत्या॑ह । 28) आ॒हेन्द्रा॒ येन्द्रा॑या हा॒हेन्द्रा॑य । 29) इन्द्रा॑य॒ हि हीन्द्रा॒ येन्द्रा॑य॒ हि । 30) हि सोम॒-स्सोमो॒ हि हि सोमः॑ । 31) सोम॑ आह्रि॒यत॑ आह्रि॒यते॒ सोम॒-स्सोम॑ आह्रि॒यते᳚ । 32) आ॒ह्रि॒यते॒ य-द्यदा᳚ह्रि॒यत॑ आह्रि॒यते॒ यत् । 32) आ॒ह्रि॒यत॒ इत्या᳚ - ह्रि॒यते᳚ । 33) यदे॒त दे॒त-द्य-द्यदे॒तत् । 34) ए॒त-द्यजु॒-र्यजु॑ रे॒त दे॒त-द्यजुः॑ । 35) यजु॒-र्न न यजु॒-र्यजु॒-र्न । 36) न ब्रू॒या-द्ब्रू॒या-न्न न ब्रू॒यात् । 37) ब्रू॒या-त्परा॑ची॒ परा॑ची ब्रू॒या-द्ब्रू॒या-त्परा॑ची । 38) परा᳚च्ये॒ वैव परा॑ची॒ परा᳚ च्ये॒व । 39) ए॒व सो॑म॒क्रय॑णी सोम॒क्रय॑ण्ये॒ वैव सो॑म॒क्रय॑णी । 40) सो॒म॒क्रय॑णीया दिया-थ्सोम॒क्रय॑णी सोम॒क्रय॑ णीयात् । 40) सो॒म॒क्रय॒णीति॑ सोम - क्रय॑णी । 41) इ॒या॒-द्रु॒द्रो रु॒द्र इ॑या दिया-द्रु॒द्रः । 42) रु॒द्र स्त्वा᳚ त्वा रु॒द्रो रु॒द्र स्त्वा᳚ । 43) त्वा ऽऽत्वा॒ त्वा । 44) आ व॑र्तयतु वर्तय॒त्वा व॑र्तयतु । 45) व॒र्त॒य॒त्वि तीति॑ वर्तयतु वर्तय॒ त्विति॑ । 46) इत्या॑हा॒हे तीत्या॑ह । 47) आ॒ह॒ रु॒द्रो रु॒द्र आ॑हाह रु॒द्रः । 48) रु॒द्रो वै वै रु॒द्रो रु॒द्रो वै । 49) वै क्रू॒रः क्रू॒रो वै वै क्रू॒रः । 50) क्रू॒रो दे॒वाना᳚-न्दे॒वाना᳚-ङ्क्रू॒रः क्रू॒रो दे॒वाना᳚म् । ॥ 52 ॥ (50/53)
1) दे॒वाना॒-न्त-न्त-न्दे॒वाना᳚-न्दे॒वाना॒-न्तम् । 2) त मे॒वैव त-न्त मे॒व । 3) ए॒वास्या॑ अस्या ए॒वै वास्यै᳚ । 4) अ॒स्यै॒ प॒रस्ता᳚-त्प॒रस्ता॑ दस्या अस्यै प॒रस्ता᳚त् । 5) प॒रस्ता᳚-द्दधाति दधाति प॒रस्ता᳚-त्प॒रस्ता᳚-द्दधाति । 6) द॒धा॒त्या वृ॑त्त्या॒ आवृ॑त्त्यै दधाति दधा॒त्या वृ॑त्त्यै । 7) आवृ॑त्त्यै क्रू॒र-ङ्क्रू॒र मावृ॑त्त्या॒ आवृ॑त्त्यै क्रू॒रम् । 7) आवृ॑त्त्या॒ इत्या - वृ॒त्त्यै॒ । 8) क्रू॒र मि॑वेव क्रू॒र-ङ्क्रू॒र मि॑व । 9) इ॒व॒ वै वा इ॑वे व॒ वै । 10) वा ए॒त दे॒त-द्वै वा ए॒तत् । 11) ए॒त-त्क॑रोति करो त्ये॒त दे॒त-त्क॑रोति । 12) क॒रो॒ति॒ य-द्य-त्क॑रोति करोति॒ यत् । 13) य-द्रु॒द्रस्य॑ रु॒द्रस्य॒ य-द्य-द्रु॒द्रस्य॑ । 14) रु॒द्रस्य॑ की॒र्तय॑ति की॒र्तय॑ति रु॒द्रस्य॑ रु॒द्रस्य॑ की॒र्तय॑ति । 15) की॒र्तय॑ति मि॒त्रस्य॑ मि॒त्रस्य॑ की॒र्तय॑ति की॒र्तय॑ति मि॒त्रस्य॑ । 16) मि॒त्रस्य॑ प॒था प॒था मि॒त्रस्य॑ मि॒त्रस्य॑ प॒था । 17) प॒थेतीति॑ प॒था प॒थेति॑ । 18) इत्या॑हा॒हे तीत्या॑ह । 19) आ॒ह॒ शान्त्यै॒ शान्त्या॑ आहाह॒ शान्त्यै᳚ । 20) शान्त्यै॑ वा॒चा वा॒चा शान्त्यै॒ शान्त्यै॑ वा॒चा । 21) वा॒चा वै वै वा॒चा वा॒चा वै । 22) वा ए॒ष ए॒ष वै वा ए॒षः । 23) ए॒ष वि व्ये॑ष ए॒ष वि । 24) वि क्री॑णीते क्रीणीते॒ वि वि क्री॑णीते । 25) क्री॒णी॒ते॒ यो यः क्री॑णीते क्रीणीते॒ यः । 26) य-स्सो॑म॒क्रय॑ण्या सोम॒क्रय॑ण्या॒ यो य-स्सो॑म॒क्रय॑ण्या । 27) सो॒म॒क्रय॑ण्या स्व॒स्ति स्व॒स्ति सो॑म॒क्रय॑ण्या सोम॒क्रय॑ण्या स्व॒स्ति । 27) सो॒म॒क्रय॒ण्येति॑ सोम - क्रय॑ण्या । 28) स्व॒स्ति सोम॑सखा॒ सोम॑सखा स्व॒स्ति स्व॒स्ति सोम॑सखा । 29) सोम॑सखा॒ पुनः॒ पुन॒-स्सोम॑सखा॒ सोम॑सखा॒ पुनः॑ । 29) सोम॑स॒खेति॒ सोम॑ - स॒खा॒ । 30) पुन॒ रा पुनः॒ पुन॒ रा । 31) एही॒ ह्ये हि॑ । 32) इ॒हि॒ स॒ह स॒हे ही॑हि स॒ह । 33) स॒ह र॒य्या र॒य्या स॒ह स॒ह र॒य्या । 34) र॒य्येतीति॑ र॒य्या र॒य्येति॑ । 35) इत्या॑हा॒हे तीत्या॑ह । 36) आ॒ह॒ वा॒चा वा॒चा ऽऽहा॑ह वा॒चा । 37) वा॒चैवैव वा॒चा वा॒चैव । 38) ए॒व वि॒क्रीय॑ वि॒क्री यै॒वैव वि॒क्रीय॑ । 39) वि॒क्रीय॒ पुनः॒ पुन॑-र्वि॒क्रीय॑ वि॒क्रीय॒ पुनः॑ । 39) वि॒क्रीयेति॑ वि - क्रीय॑ । 40) पुन॑ रा॒त्म-न्ना॒त्म-न्पुनः॒ पुन॑ रा॒त्मन्न् । 41) आ॒त्मन्. वाचं॒-वाँच॑ मा॒त्म-न्ना॒त्मन्. वाच᳚म् । 42) वाच॑-न्धत्ते धत्ते॒ वाचं॒-वाँच॑-न्धत्ते । 43) ध॒त्ते ऽनु॑पदासु॒का ऽनु॑पदासुका धत्ते ध॒त्ते ऽनु॑पदासुका । 44) अनु॑पदासुका ऽस्या॒स्या नु॑पदासु॒का ऽनु॑पदासुका ऽस्य । 44) अनु॑पदासु॒केत्यनु॑प - दा॒सु॒का॒ । 45) अ॒स्य॒ वाग् वाग॑ स्यास्य॒ वाक् । 46) वाग् भ॑वति भवति॒ वाग् वाग् भ॑वति । 47) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः । 48) य ए॒व मे॒वं-योँ य ए॒वम् । 49) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 50) वेदेति॒ वेद॑ । ॥ 53 ॥ (50/55) ॥ अ. 7 ॥
1) षट् प॒दानि॑ प॒दानि॒ ष-ट्थ्षट् प॒दानि॑ । 2) प॒दा न्यन् वनु॑ प॒दानि॑ प॒दा न्यनु॑ । 3) अनु॒ नि न्यन् वनु॒ नि । 4) नि क्रा॑मति क्रामति॒ नि नि क्रा॑मति । 5) क्रा॒म॒ति॒ ष॒ड॒हग्ं ष॑ड॒ह-ङ्क्रा॑मति क्रामति षड॒हम् । 6) ष॒ड॒हं-वाँग् वा-ख्ष॑ड॒हग्ं ष॑ड॒हं-वाँक् । 6) ष॒ड॒हमिति॑ षट् - अ॒हम् । 7) वा-न्न न वाग् वा-न्न । 8) नात्यति॒ न नाति॑ । 9) अति॑ वदति वद॒ त्य त्यति॑ वदति । 10) व॒द॒ त्यु॒तोत व॑दति वद त्यु॒त । 11) उ॒त सं॑वँथ्स॒रस्य॑ संवँथ्स॒र स्यो॒तोत सं॑वँथ्स॒रस्य॑ । 12) सं॒वँ॒थ्स॒रस्याय॒ने ऽय॑ने संवँथ्स॒रस्य॑ संवँथ्स॒रस्याय॑ने । 12) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । 13) अय॑ने॒ याव॑ती॒ याव॒ त्यय॒ने ऽय॑ने॒ याव॑ती । 14) याव॑ त्ये॒वैव याव॑ती॒ याव॑ त्ये॒व । 15) ए॒व वाग् वागे॒ वैव वाक् । 16) वा-क्ता-न्तां-वाँग् वा-क्ताम् । 17) ता मवाव॒ ता-न्ता मव॑ । 18) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 19) रु॒न्धे॒ स॒प्त॒मे स॑प्त॒मे रु॑न्धे रुन्धे सप्त॒मे । 20) स॒प्त॒मे प॒दे प॒दे स॑प्त॒मे स॑प्त॒मे प॒दे । 21) प॒दे जु॑होति जुहोति प॒दे प॒दे जु॑होति । 22) जु॒हो॒ति॒ स॒प्तप॑दा स॒प्तप॑दा जुहोति जुहोति स॒प्तप॑दा । 23) स॒प्तप॑दा॒ शक्व॑री॒ शक्व॑री स॒प्तप॑दा स॒प्तप॑दा॒ शक्व॑री । 23) स॒प्तप॒देति॑ स॒प्त - प॒दा॒ । 24) शक्व॑री प॒शवः॑ प॒शव॒-श्शक्व॑री॒ शक्व॑री प॒शवः॑ । 25) प॒शव॒-श्शक्व॑री॒ शक्व॑री प॒शवः॑ प॒शव॒-श्शक्व॑री । 26) शक्व॑री प॒शू-न्प॒शू-ञ्छक्व॑री॒ शक्व॑री प॒शून् । 27) प॒शूने॒वैव प॒शू-न्प॒शूने॒व । 28) ए॒वावा वै॒वै वाव॑ । 29) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 30) रु॒न्धे॒ स॒प्त स॒प्त रु॑न्धे रुन्धे स॒प्त । 31) स॒प्त ग्रा॒म्या ग्रा॒म्या-स्स॒प्त स॒प्त ग्रा॒म्याः । 32) ग्रा॒म्याः प॒शवः॑ प॒शवो᳚ ग्रा॒म्या ग्रा॒म्याः प॒शवः॑ । 33) प॒शव॑-स्स॒प्त स॒प्त प॒शवः॑ प॒शव॑-स्स॒प्त । 34) स॒प्तार॒ण्या आ॑र॒ण्या-स्स॒प्त स॒प्तार॒ण्याः । 35) आ॒र॒ण्या-स्स॒प्त स॒प्ता र॒ण्या आ॑र॒ण्या-स्स॒प्त । 36) स॒प्त छन्दाग्ं॑सि॒ छन्दाग्ं॑सि स॒प्त स॒प्त छन्दाग्ं॑सि । 37) छन्दाग्॑ स्यु॒भय॑ स्यो॒भय॑स्य॒ छन्दाग्ं॑सि॒ छन्दाग्॑ स्यु॒भय॑स्य । 38) उ॒भय॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या उ॒भय॑स्यो॒ भय॒स्या व॑रुद्ध्यै । 39) अव॑रुद्ध्यै॒ वस्वी॒ वस्व्यव॑रुद्ध्या॒ अव॑रुद्ध्यै॒ वस्वी᳚ । 39) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । 40) वस्व्य॑ स्यसि॒ वस्वी॒ वस्व्य॑सि । 41) अ॒सि॒ रु॒द्रा रु॒द्रा ऽस्य॑सि रु॒द्रा । 42) रु॒द्रा ऽस्य॑सि रु॒द्रा रु॒द्रा ऽसि॑ । 43) अ॒सीती त्य॑स्य॒ सीति॑ । 44) इत्या॑हा॒हे तीत्या॑ह । 45) आ॒ह॒ रू॒पग्ं रू॒प मा॑हाह रू॒पम् । 46) रू॒प मे॒वैव रू॒पग्ं रू॒प मे॒व । 47) ए॒वास्या॑ अस्या ए॒वै वास्याः᳚ । 48) अ॒स्या॒ ए॒त दे॒तद॑स्या अस्या ए॒तत् । 49) ए॒त-न्म॑हि॒मान॑-म्महि॒मान॑ मे॒त दे॒त-न्म॑हि॒मान᳚म् । 50) म॒हि॒मानं॒-व्याँच॑ष्टे॒ व्याच॑ष्टे महि॒मान॑-म्महि॒मानं॒-व्याँच॑ष्टे । ॥ 54 ॥ (50/54)
1) व्याच॑ष्टे॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्व्याच॑ष्टे॒ व्याच॑ष्टे॒ बृह॒स्पतिः॑ । 1) व्याच॑ष्ट॒ इति॑ वि - आच॑ष्टे । 2) बृह॒स्पति॑ स्त्वा त्वा॒ बृह॒स्पति॒-र्बृह॒स्पति॑ स्त्वा । 3) त्वा॒ सु॒म्ने सु॒म्ने त्वा᳚ त्वा सु॒म्ने । 4) सु॒म्ने र॑ण्वतु रण्वतु सु॒म्ने सु॒म्ने र॑ण्वतु । 5) र॒ण्व॒त्वि तीति॑ रण्वतु रण्व॒ त्विति॑ । 6) इत्या॑हा॒हे तीत्या॑ह । 7) आ॒ह॒ ब्रह्म॒ ब्रह्मा॑हाह॒ ब्रह्म॑ । 8) ब्रह्म॒ वै वै ब्रह्म॒ ब्रह्म॒ वै । 9) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 10) दे॒वाना॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वाना᳚-न्दे॒वाना॒-म्बृह॒स्पतिः॑ । 11) बृह॒स्पति॒-र्ब्रह्म॑णा॒ ब्रह्म॑णा॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्ब्रह्म॑णा । 12) ब्रह्म॑ णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व । 13) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 14) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् । 15) प॒शून वाव॑ प॒शू-न्प॒शू नव॑ । 16) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 17) रु॒न्धे॒ रु॒द्रो रु॒द्रो रु॑न्धे रुन्धे रु॒द्रः । 18) रु॒द्रो वसु॑भि॒-र्वसु॑भी रु॒द्रो रु॒द्रो वसु॑भिः । 19) वसु॑भि॒रा वसु॑भि॒-र्वसु॑भि॒रा । 19) वसु॑भि॒रिति॒ वसु॑ - भिः॒ । 20) आ चि॑केतु चिके॒त्वा चि॑केतु । 21) चि॒के॒ त्वितीति॑ चिकेतु चिके॒ त्विति॑ । 22) इत्या॑हा॒हे तीत्या॑ह । 23) आ॒हावृ॑त्त्या॒ आवृ॑त्त्या आहा॒ हावृ॑त्त्यै । 24) आवृ॑त्त्यै पृथि॒व्याः पृ॑थि॒व्या आवृ॑त्त्या॒ आवृ॑त्त्यै पृथि॒व्याः । 24) आवृ॑त्त्या॒ इत्या - वृ॒त्त्यै॒ । 25) पृ॒थि॒व्या स्त्वा᳚ त्वा पृथि॒व्याः पृ॑थि॒व्या स्त्वा᳚ । 26) त्वा॒ मू॒र्ध-न्मू॒र्ध-न्त्वा᳚ त्वा मू॒र्धन्न् । 27) मू॒र्धन्ना मू॒र्ध-न्मू॒र्धन्ना । 28) आ जि॑घर्मि जिघ॒र्म्या जि॑घर्मि । 29) जि॒घ॒र्मि॒ दे॒व॒यज॑ने देव॒यज॑ने जिघर्मि जिघर्मि देव॒यज॑ने । 30) दे॒व॒यज॑न॒ इतीति॑ देव॒यज॑ने देव॒यज॑न॒ इति॑ । 30) दे॒व॒यज॑न॒ इति॑ देव - यज॑ने । 31) इत्या॑हा॒हे तीत्या॑ह । 32) आ॒ह॒ पृ॒थि॒व्याः पृ॑थि॒व्या आ॑हाह पृथि॒व्याः । 33) पृ॒थि॒व्या हि हि पृ॑थि॒व्याः पृ॑थि॒व्या हि । 34) ह्ये॑ष ए॒ष हि ह्ये॑षः । 35) ए॒ष मू॒र्धा मू॒र्धैष ए॒ष मू॒र्धा । 36) मू॒र्धा य-द्य-न्मू॒र्धा मू॒र्धा यत् । 37) य-द्दे॑व॒यज॑न-न्देव॒यज॑नं॒-यँ-द्य-द्दे॑व॒यज॑नम् । 38) दे॒व॒यज॑न॒ मिडा॑या॒ इडा॑या देव॒यज॑न-न्देव॒यज॑न॒ मिडा॑याः । 38) दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । 39) इडा॑याः प॒दे प॒द इडा॑या॒ इडा॑याः प॒दे । 40) प॒द इतीति॑ प॒दे प॒द इति॑ । 41) इत्या॑हा॒हे तीत्या॑ह । 42) आ॒हे डा॑या॒ इडा॑या आहा॒हे डा॑यै । 43) इडा॑यै॒ हि हीडा॑या॒ इडा॑यै॒ हि । 44) ह्ये॑त दे॒तद्धि ह्ये॑तत् । 45) ए॒त-त्प॒द-म्प॒द मे॒त दे॒त-त्प॒दम् । 46) प॒दं-यँ-द्य-त्प॒द-म्प॒दं-यँत् । 47) य-थ्सो॑म॒क्रय॑ण्यै सोम॒क्रय॑ण्यै॒ य-द्य-थ्सो॑म॒क्रय॑ण्यै । 48) सो॒म॒क्रय॑ण्यै घृ॒तव॑ति घृ॒तव॑ति सोम॒क्रय॑ण्यै सोम॒क्रय॑ण्यै घृ॒तव॑ति । 48) सो॒म॒क्रय॑ण्या॒ इति॑ सोम - क्रय॑ण्यै । 49) घृ॒तव॑ति॒ स्वाहा॒ स्वाहा॑ घृ॒तव॑ति घृ॒तव॑ति॒ स्वाहा᳚ । 49) घृ॒तव॒तीति॑ घृ॒त - व॒ति॒ । 50) स्वाहे तीति॒ स्वाहा॒ स्वाहेति॑ । ॥ 55 ॥ (50/57)
1) इत्या॑हा॒हे तीत्या॑ह । 2) आ॒ह॒ य-द्यदा॑ हाह॒ यत् । 3) यदे॒वैव य-द्यदे॒व । 4) ए॒वास्या॑ अस्या ए॒वै वास्यै᳚ । 5) अ॒स्यै॒ प॒दा-त्प॒दा द॑स्या अस्यै प॒दात् । 6) प॒दा-द्घृ॒त-ङ्घृ॒त-म्प॒दा-त्प॒दा-द्घृ॒तम् । 7) घृ॒त मपी᳚ड्य॒ तापी᳚ड्यत घृ॒त-ङ्घृ॒त मपी᳚ड्यत । 8) अपी᳚ड्यत॒ तस्मा॒-त्तस्मा॒ दपी᳚ड्य॒ तापी᳚ड्यत॒ तस्मा᳚त् । 9) तस्मा॑ दे॒व मे॒व-न्तस्मा॒-त्तस्मा॑ दे॒वम् । 10) ए॒व मा॑हा है॒व मे॒व मा॑ह । 11) आ॒ह॒ य-द्यदा॑हाह॒ यत् । 12) यद॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्य-द्यद॑द्ध्व॒र्युः । 13) अ॒द्ध्व॒र्यु र॑न॒ग्ना व॑न॒ग्ना व॑द्ध्व॒र्यु र॑द्ध्व॒र्यु र॑न॒ग्नौ । 14) अ॒न॒ग्ना वाहु॑ति॒ माहु॑ति मन॒ग्ना व॑न॒ग्ना वाहु॑तिम् । 15) आहु॑ति-ञ्जुहु॒याज् जु॑हु॒या दाहु॑ति॒ माहु॑ति-ञ्जुहु॒यात् । 15) आहु॑ति॒मित्या - हु॒ति॒म् । 16) जु॒हु॒या द॒न्धो᳚ ऽन्धो जु॑हु॒याज् जु॑हु॒या द॒न्धः । 17) अ॒न्धो᳚ ऽद्ध्व॒र्यु र॑द्ध्व॒र्यु र॒न्धो᳚(1॒) ऽन्धो᳚ ऽद्ध्व॒र्युः । 18) अ॒द्ध्व॒र्यु-स्स्या᳚-थ्स्यादद्ध्व॒र्यु र॑द्ध्व॒र्यु-स्स्या᳚त् । 19) स्या॒-द्रक्षाग्ं॑सि॒ रक्षाग्ं॑सि स्या-थ्स्या॒-द्रक्षाग्ं॑सि । 20) रक्षाग्ं॑सि य॒ज्ञं-यँ॒ज्ञग्ं रक्षाग्ं॑सि॒ रक्षाग्ं॑सि य॒ज्ञम् । 21) य॒ज्ञग्ं ह॑न्युर्-हन्यु-र्य॒ज्ञं-यँ॒ज्ञग्ं ह॑न्युः । 22) ह॒न्यु॒र्॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्यग्ं हन्युर्-हन्यु॒र्॒ हिर॑ण्यम् । 23) हिर॑ण्य मु॒पा स्यो॒पास्य॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य मु॒पास्य॑ । 24) उ॒पास्य॑ जुहोति जुहो त्यु॒पा स्यो॒पास्य॑ जुहोति । 24) उ॒पास्येत्यु॑प - अस्य॑ । 25) जु॒हो॒ त्य॒ग्नि॒व त्य॑ग्नि॒वति॑ जुहोति जुहो त्यग्नि॒वति॑ । 26) अ॒ग्नि॒व त्ये॒वै वाग्नि॒व त्य॑ग्नि॒व त्ये॒व । 26) अ॒ग्नि॒वतीत्य॑ग्नि - वति॑ । 27) ए॒व जु॑होति जुहो त्ये॒वैव जु॑होति । 28) जु॒हो॒ति॒ न न जु॑होति जुहोति॒ न । 29) नान्धो᳚ ऽन्धो न नान्धः । 30) अ॒न्धो᳚ ऽद्ध्व॒र्यु र॑द्ध्व॒र्यु र॒न्धो᳚(1॒) ऽन्धो᳚ ऽद्ध्व॒र्युः । 31) अ॒द्ध्व॒र्यु-र्भव॑ति॒ भव॑ त्यद्ध्व॒र्यु र॑द्ध्व॒र्यु-र्भव॑ति । 32) भव॑ति॒ न न भव॑ति॒ भव॑ति॒ न । 33) न य॒ज्ञं-यँ॒ज्ञन्न न य॒ज्ञम् । 34) य॒ज्ञग्ं रक्षाग्ं॑सि॒ रक्षाग्ं॑सि य॒ज्ञं-यँ॒ज्ञग्ं रक्षाग्ं॑सि । 35) रक्षाग्ं॑सि घ्नन्ति घ्नन्ति॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि घ्नन्ति । 36) घ्न॒न्ति॒ काण्डे॑काण्डे॒ काण्डे॑काण्डे घ्नन्ति घ्नन्ति॒ काण्डे॑काण्डे । 37) काण्डे॑काण्डे॒ वै वै काण्डे॑काण्डे॒ काण्डे॑काण्डे॒ वै । 37) काण्डे॑काण्ड॒ इति॒ काण्डे᳚ - का॒ण्डे॒ । 38) वै क्रि॒यमा॑णे क्रि॒यमा॑णे॒ वै वै क्रि॒यमा॑णे । 39) क्रि॒यमा॑णे य॒ज्ञं-यँ॒ज्ञ-ङ्क्रि॒यमा॑णे क्रि॒यमा॑णे य॒ज्ञम् । 40) य॒ज्ञग्ं रक्षाग्ं॑सि॒ रक्षाग्ं॑सि य॒ज्ञं-यँ॒ज्ञग्ं रक्षाग्ं॑सि । 41) रक्षाग्ं॑सि जिघाग्ंसन्ति जिघाग्ंसन्ति॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि जिघाग्ंसन्ति । 42) जि॒घा॒ग्ं॒स॒न्ति॒ परि॑लिखित॒-म्परि॑लिखित-ञ्जिघाग्ंसन्ति जिघाग्ंसन्ति॒ परि॑लिखितम् । 43) परि॑लिखित॒ग्ं॒ रक्षो॒ रक्षः॒ परि॑लिखित॒-म्परि॑लिखित॒ग्ं॒ रक्षः॑ । 43) परि॑लिखित॒मिति॒ परि॑ - लि॒खि॒त॒म् । 44) रक्षः॒ परि॑लिखिताः॒ परि॑लिखिता॒ रक्षो॒ रक्षः॒ परि॑लिखिताः । 45) परि॑लिखिता॒ अरा॑त॒यो ऽरा॑तयः॒ परि॑लिखिताः॒ परि॑लिखिता॒ अरा॑तयः । 45) परि॑लिखिता॒ इति॒ परि॑ - लि॒खि॒ताः॒ । 46) अरा॑तय॒ इतीत्य रा॑त॒यो ऽरा॑तय॒ इति॑ । 47) इत्या॑हा॒हे तीत्या॑ह । 48) आ॒ह॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा माहाह॒ रक्ष॑साम् । 49) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै । 50) अप॑हत्या इ॒द मि॒द मप॑हत्या॒ अप॑हत्या इ॒दम् । 50) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । ॥ 56 ॥ (50/57)
1) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् । 2) अ॒हग्ं रक्ष॑सो॒ रक्ष॑सो॒ ऽह म॒हग्ं रक्ष॑सः । 3) रक्ष॑सो ग्री॒वा ग्री॒वा रक्ष॑सो॒ रक्ष॑सो ग्री॒वाः । 4) ग्री॒वा अप्यपि॑ ग्री॒वा ग्री॒वा अपि॑ । 5) अपि॑ कृन्तामि कृन्ता॒ म्यप्यपि॑ कृन्तामि । 6) कृ॒न्ता॒मि॒ यो यः कृ॑न्तामि कृन्तामि॒ यः । 7) यो᳚ ऽस्मान॒ स्मान्. यो यो᳚ ऽस्मान् । 8) अ॒स्मा-न्द्वेष्टि॒ द्वेष्ट्य॒स्मा न॒स्मा-न्द्वेष्टि॑ । 9) द्वेष्टि॒ यं-यँ-न्द्वेष्टि॒ द्वेष्टि॒ यम् । 10) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ । 11) च॒ व॒यं-वँ॒य-ञ्च॑ च व॒यम् । 12) व॒य-न्द्वि॒ष्मो द्वि॒ष्मो व॒यं-वँ॒य-न्द्वि॒ष्मः । 13) द्वि॒ष्म इतीति॑ द्वि॒ष्मो द्वि॒ष्म इति॑ । 14) इत्या॑हा॒हे तीत्या॑ह । 15) आ॒ह॒ द्वौ द्वा वा॑हाह॒ द्वौ । 16) द्वौ वाव वाव द्वौ द्वौ वाव । 17) वाव पुरु॑षौ॒ पुरु॑षौ॒ वाव वाव पुरु॑षौ । 18) पुरु॑षौ॒ यं-यँ-म्पुरु॑षौ॒ पुरु॑षौ॒ यम् । 19) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ । 20) चै॒वैव च॑ चै॒व । 21) ए॒व द्वेष्टि॒ द्वेष्ट्ये॒ वैव द्वेष्टि॑ । 22) द्वेष्टि॒ यो यो द्वेष्टि॒ द्वेष्टि॒ यः । 23) यश्च॑ च॒ यो यश्च॑ । 24) चै॒न॒ मे॒न॒-ञ्च॒ चै॒न॒म् । 25) ए॒न॒-न्द्वेष्टि॒ द्वेष्ट्ये॑न मेन॒-न्द्वेष्टि॑ । 26) द्वेष्टि॒ तयो॒ स्तयो॒-र्द्वेष्टि॒ द्वेष्टि॒ तयोः᳚ । 27) तयो॑ रे॒वैव तयो॒ स्तयो॑ रे॒व । 28) ए॒वा न॑न्तराय॒ मन॑न्तराय मे॒वै वान॑न्तरायम् । 29) अन॑न्तराय-ङ्ग्री॒वा ग्री॒वा अन॑न्तराय॒ मन॑न्तराय-ङ्ग्री॒वाः । 29) अन॑न्तराय॒मित्यन॑न्तः - आ॒य॒म् । 30) ग्री॒वाः कृ॑न्तति कृन्तति ग्री॒वा ग्री॒वाः कृ॑न्तति । 31) कृ॒न्त॒ति॒ प॒शवः॑ प॒शवः॑ कृन्तति कृन्तति प॒शवः॑ । 32) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 33) वै सो॑म॒क्रय॑ण्यै सोम॒क्रय॑ण्यै॒ वै वै सो॑म॒क्रय॑ण्यै । 34) सो॒म॒क्रय॑ण्यै प॒द-म्प॒दग्ं सो॑म॒क्रय॑ण्यै सोम॒क्रय॑ण्यै प॒दम् । 34) सो॒म॒क्रय॑ण्या॒ इति॑ सोम - क्रय॑ण्यै । 35) प॒दं-याँ॑वत्त्मू॒तं-याँ॑वत्त्मू॒त-म्प॒द-म्प॒दं-याँ॑वत्त्मू॒तम् । 36) या॒व॒त्त्मू॒तग्ं सग्ं सं-याँ॑वत्त्मू॒तं-याँ॑वत्त्मू॒तग्ं सम् । 36) या॒व॒त्त्मू॒तमिति॑ यावत् - त्मू॒तम् । 37) सं-वँ॑पति वपति॒ सग्ं सं-वँ॑पति । 38) व॒प॒ति॒ प॒शू-न्प॒शून्. व॑पति वपति प॒शून् । 39) प॒शूने॒ वैव प॒शू-न्प॒शूने॒व । 40) ए॒वावा वै॒वै वाव॑ । 41) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 42) रु॒न्धे॒ ऽस्मे अ॒स्मे रु॑न्धे रुन्धे॒ ऽस्मे । 43) अ॒स्मे रायो॒ रायो॒ ऽस्मे अ॒स्मे रायः॑ । 43) अ॒स्मे इत्य॒स्मे । 44) राय॒ इतीति॒ रायो॒ राय॒ इति॑ । 45) इति॒ सग्ं स मितीति॒ सम् । 46) सं-वँ॑पति वपति॒ सग्ं सं-वँ॑पति । 47) व॒प॒ त्या॒त्मान॑ मा॒त्मानं॑-वँपति वप त्या॒त्मान᳚म् । 48) आ॒त्मान॑ मे॒वै वात्मान॑ मा॒त्मान॑ मे॒व । 49) ए॒वाद्ध्व॒र्यु र॑द्ध्व॒र्यु रे॒वै वाद्ध्व॒र्युः । 50) अ॒द्ध्व॒र्युः प॒शुभ्यः॑ प॒शुभ्यो᳚ ऽद्ध्व॒र्यु र॑द्ध्व॒र्युः प॒शुभ्यः॑ । ॥ 57 ॥ (50/54)
1) प॒शुभ्यो॒ न न प॒शुभ्यः॑ प॒शुभ्यो॒ न । 1) प॒शुभ्य॒ इति॑ प॒शु - भ्यः॒ । 2) नान्त र॒न्त-र्न नान्तः । 3) अ॒न्त रे᳚त्ये त्य॒न्त र॒न्त रे॑ति । 4) ए॒ति॒ त्वे त्वे ए᳚त्येति॒ त्वे । 5) त्वे रायो॒ राय॒ स्त्वे त्वे रायः॑ । 5) त्वे इति॒ त्वे । 6) राय॒ इतीति॒ रायो॒ राय॒ इति॑ । 7) इति॒ यज॑मानाय॒ यज॑माना॒ये तीति॒ यज॑मानाय । 8) यज॑मानाय॒ प्र प्र यज॑मानाय॒ यज॑मानाय॒ प्र । 9) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति । 10) य॒च्छ॒ति॒ यज॑माने॒ यज॑माने यच्छति यच्छति॒ यज॑माने । 11) यज॑मान ए॒वैव यज॑माने॒ यज॑मान ए॒व । 12) ए॒व र॒यिग्ं र॒यि मे॒वैव र॒यिम् । 13) र॒यि-न्द॑धाति दधाति र॒यिग्ं र॒यि-न्द॑धाति । 14) द॒धा॒ति॒ तोते॒ तोते॑ दधाति दधाति॒ तोते᳚ । 15) तोते॒ रायो॒ राय॒ स्तोते॒ तोते॒ रायः॑ । 16) राय॒ इतीति॒ रायो॒ राय॒ इति॑ । 17) इति॒ पत्नि॑यै॒ पत्नि॑या॒ इतीति॒ पत्नि॑यै । 18) पत्नि॑या अ॒र्धो᳚ ऽर्धः पत्नि॑यै॒ पत्नि॑या अ॒र्धः । 19) अ॒र्धो वै वा अ॒र्धो᳚ ऽर्धो वै । 20) वा ए॒ष ए॒ष वै वा ए॒षः । 21) ए॒ष आ॒त्मन॑ आ॒त्मन॑ ए॒ष ए॒ष आ॒त्मनः॑ । 22) आ॒त्मनो॒ य-द्यदा॒त्मन॑ आ॒त्मनो॒ यत् । 23) य-त्पत्नी॒ पत्नी॒ य-द्य-त्पत्नी᳚ । 24) पत्नी॒ यथा॒ यथा॒ पत्नी॒ पत्नी॒ यथा᳚ । 25) यथा॑ गृ॒हेषु॑ गृ॒हेषु॒ यथा॒ यथा॑ गृ॒हेषु॑ । 26) गृ॒हेषु॑ निध॒त्ते नि॑ध॒त्ते गृ॒हेषु॑ गृ॒हेषु॑ निध॒त्ते । 27) नि॒ध॒त्ते ता॒दृ-क्ता॒दृ-न्नि॑ध॒त्ते नि॑ध॒त्ते ता॒दृक् । 27) नि॒ध॒त्त इति॑ नि - ध॒त्ते । 28) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 29) ए॒व त-त्तदे॒ वैव तत् । 30) त-त्त्वष्टी॑मती॒ त्वष्टी॑मती॒ त-त्त-त्त्वष्टी॑मती । 31) त्वष्टी॑मती ते ते॒ त्वष्टी॑मती॒ त्वष्टी॑मती ते । 32) ते॒ स॒पे॒य॒ स॒पे॒य॒ ते॒ ते॒ स॒पे॒य॒ । 33) स॒पे॒ये तीति॑ सपेय सपे॒ये ति॑ । 34) इत्या॑हा॒हे तीत्या॑ह । 35) आ॒ह॒ त्वष्टा॒ त्वष्टा॑ ऽऽहाह॒ त्वष्टा᳚ । 36) त्वष्टा॒ वै वै त्वष्टा॒ त्वष्टा॒ वै । 37) वै प॑शू॒ना-म्प॑शू॒नां-वैँ वै प॑शू॒नाम् । 38) प॒शू॒ना-म्मि॑थु॒नाना᳚-म्मिथु॒नाना᳚-म्पशू॒ना-म्प॑शू॒ना-म्मि॑थु॒नाना᳚म् । 39) मि॒थु॒नानाग्ं॑ रूप॒कृ-द्रू॑प॒कृ-न्मि॑थु॒नाना᳚-म्मिथु॒नानाग्ं॑ रूप॒कृत् । 40) रू॒प॒कृ-द्रू॒पग्ं रू॒पग्ं रू॑प॒कृ-द्रू॑प॒कृ-द्रू॒पम् । 40) रू॒प॒कृदिति॑ रूप - कृत् । 41) रू॒प मे॒वैव रू॒पग्ं रू॒प मे॒व । 42) ए॒व प॒शुषु॑ प॒शुष्वे॒ वैव प॒शुषु॑ । 43) प॒शुषु॑ दधाति दधाति प॒शुषु॑ प॒शुषु॑ दधाति । 44) द॒धा॒ त्य॒स्मा अ॒स्मै द॑धाति दधा त्य॒स्मै । 45) अ॒स्मै वै वा अ॒स्मा अ॒स्मै वै । 46) वै लो॒काय॑ लो॒काय॒ वै वै लो॒काय॑ । 47) लो॒काय॒ गार्ह॑पत्यो॒ गार्ह॑पत्यो लो॒काय॑ लो॒काय॒ गार्ह॑पत्यः । 48) गार्ह॑पत्य॒ आ गार्ह॑पत्यो॒ गार्ह॑पत्य॒ आ । 48) गार्ह॑पत्य॒ इति॒ गार्ह॑ - प॒त्यः॒ । 49) आ धी॑यते धीयत॒ आ धी॑यते । 50) धी॒य॒ते॒ ऽमुष्मा॑ अ॒मुष्मै॑ धीयते धीयते॒ ऽमुष्मै᳚ । 51) अ॒मुष्मा॑ आहव॒नीय॑ आहव॒नीयो॒ ऽमुष्मा॑ अ॒मुष्मा॑ आहव॒नीयः॑ । 52) आ॒ह॒व॒नीयो॒ य-द्यदा॑हव॒नीय॑ आहव॒नीयो॒ यत् । 52) आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ । 53) य-द्गार्ह॑पत्ये॒ गार्ह॑पत्ये॒ य-द्य-द्गार्ह॑पत्ये । 54) गार्ह॑पत्य उप॒वपे॑ दुप॒वपे॒-द्गार्ह॑पत्ये॒ गार्ह॑पत्य उप॒वपे᳚त् । 54) गार्ह॑पत्य॒ इति॒ गार्ह॑ - प॒त्ये॒ । 55) उ॒प॒वपे॑ द॒स्मि-न्न॒स्मि-न्नु॑प॒वपे॑ दुप॒वपे॑ द॒स्मिन्न् । 55) उ॒प॒वपे॒दित्यु॑प - वपे᳚त् । 56) अ॒स्मिन् ँलो॒के लो॒के᳚ ऽस्मि-न्न॒स्मिन् ँलो॒के । 57) लो॒के प॑शु॒मा-न्प॑शु॒मान् ँलो॒के लो॒के प॑शु॒मान् । 58) प॒शु॒मा-न्थ्स्या᳚-थ्स्या-त्पशु॒मा-न्प॑शु॒मा-न्थ्स्या᳚त् । 58) प॒शु॒मानिति॑ पशु - मान् । 59) स्या॒-द्य-द्य-थ्स्या᳚-थ्स्या॒-द्यत् । 60) यदा॑हव॒नीय॑ आहव॒नीये॒ य-द्यदा॑हव॒नीये᳚ । 61) आ॒ह॒व॒नीये॒ ऽमुष्मि॑-न्न॒मुष्मि॑-न्नाहव॒नीय॑ आहव॒नीये॒ ऽमुष्मिन्न्॑ । 61) आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीये᳚ । 62) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 63) लो॒के प॑शु॒मा-न्प॑शु॒मान् ँलो॒के लो॒के प॑शु॒मान् । 64) प॒शु॒मा-न्थ्स्या᳚-थ्स्या-त्पशु॒मा-न्प॑शु॒मा-न्थ्स्या᳚त् । 64) प॒शु॒मानिति॑ पशु - मान् । 65) स्या॒ दु॒भयो॑ रु॒भयो᳚-स्स्या-थ्स्या दु॒भयोः᳚ । 66) उ॒भयो॒ रुपोपो॒ भयो॑ रु॒भयो॒ रुप॑ । 67) उप॑ वपति वप॒ त्युपोप॑ वपति । 68) व॒प॒ त्यु॒भयो॑ रु॒भयो᳚-र्वपति वप त्यु॒भयोः᳚ । 69) उ॒भयो॑ रे॒वै वोभयो॑ रु॒भयो॑ रे॒व । 70) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 71) ए॒न॒म् ँलो॒कयो᳚-र्लो॒कयो॑ रेन मेनम् ँलो॒कयोः᳚ । 72) लो॒कयोः᳚ पशु॒मन्त॑-म्पशु॒मन्त॑म् ँलो॒कयो᳚-र्लो॒कयोः᳚ पशु॒मन्त᳚म् । 73) प॒शु॒मन्त॑-ङ्करोति करोति पशु॒मन्त॑-म्पशु॒मन्त॑-ङ्करोति । 73) प॒शु॒मन्त॒मिति॑ पशु - मन्त᳚म् । 74) क॒रो॒तीति॑ करोति । ॥ 58 ॥ (74/86) ॥ अ. 8 ॥
1) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 1) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 2) व॒द॒न्ति॒ वि॒चित्यो॑ वि॒चित्यो॑ वदन्ति वदन्ति वि॒चित्यः॑ । 3) वि॒चित्य॒-स्सोमा(3)-स्सोमा(3) वि॒चित्यो॑ वि॒चित्य॒-स्सोमा(3)ः । 3) वि॒चित्य॒ इति॑ वि - चित्यः॑ । 4) सोमा(3) न न सोमा(3)-स्सोमा(3) न । 5) न वि॒चित्या(3) वि॒चित्या(3) न न वि॒चित्या(3)ः । 6) वि॒चित्या(3) इतीति॑ वि॒चित्या(3) वि॒चित्या(3) इति॑ । 6) वि॒चित्या(3) इति॑ वि - चित्या(3)ः । 7) इति॒ सोम॒-स्सोम॒ इतीति॒ सोमः॑ । 8) सोमो॒ वै वै सोम॒-स्सोमो॒ वै । 9) वा ओष॑धीना॒ मोष॑धीनां॒-वैँ वा ओष॑धीनाम् । 10) ओष॑धीना॒ग्ं॒ राजा॒ राजौ ष॑धीना॒ मोष॑धीना॒ग्ं॒ राजा᳚ । 11) राजा॒ तस्मि॒ग्ग्॒स् तस्मि॒-न्राजा॒ राजा॒ तस्मिन्न्॑ । 12) तस्मि॒न्॒. य-द्य-त्तस्मि॒ग्ग्॒स् तस्मि॒न्॒. यत् । 13) यदाप॑न्न॒ माप॑न्नं॒-यँ-द्यदाप॑न्नम् । 14) आप॑न्न-ङ्ग्रसि॒त-ङ्ग्र॑सि॒त माप॑न्न॒ माप॑न्न-ङ्ग्रसि॒तम् । 14) आप॑न्न॒मित्या - प॒न्न॒म् । 15) ग्र॒सि॒त मे॒वैव ग्र॑सि॒त-ङ्ग्र॑सि॒त मे॒व । 16) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 17) अ॒स्य॒ त-त्तद॑ स्यास्य॒ तत् । 18) त-द्य-द्य-त्त-त्त-द्यत् । 19) य-द्वि॑चिनु॒या-द्वि॑चिनु॒या-द्य-द्य-द्वि॑चिनु॒यात् । 20) वि॒चि॒नु॒या-द्यथा॒ यथा॑ विचिनु॒या-द्वि॑चिनु॒या-द्यथा᳚ । 20) वि॒चि॒नु॒यादिति॑ वि - चि॒नु॒यात् । 21) यथा॒ ऽऽस्या॑ दा॒स्या᳚-द्यथा॒ यथा॒ ऽऽस्या᳚त् । 22) आ॒स्या᳚-द्ग्रसि॒त-ङ्ग्र॑सि॒त मा॒स्या॑ दा॒स्या᳚-द्ग्रसि॒तम् । 23) ग्र॒सि॒त-न्नि॑ष्खि॒दति॑ निष्खि॒दति॑ ग्रसि॒त-ङ्ग्र॑सि॒त-न्नि॑ष्खि॒दति॑ । 24) नि॒ष्खि॒दति॑ ता॒दृ-क्ता॒दृ-न्नि॑ष्खि॒दति॑ निष्खि॒दति॑ ता॒दृक् । 24) नि॒ष्खि॒दतीति॑ निः - खि॒दति॑ । 25) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 26) ए॒व त-त्तदे॒ वैव तत् । 27) त-द्य-द्य-त्त-त्त-द्यत् । 28) य-न्न न य-द्य-न्न । 29) न वि॑चिनु॒या-द्वि॑चिनु॒या-न्न न वि॑चिनु॒यात् । 30) वि॒चि॒नु॒या-द्यथा॒ यथा॑ विचिनु॒या-द्वि॑चिनु॒या-द्यथा᳚ । 30) वि॒चि॒नु॒यादिति॑ वि - चि॒नु॒यात् । 31) यथा॒ ऽक्ष-न्न॒क्षन्. यथा॒ यथा॒ ऽक्षन्न् । 32) अ॒क्ष-न्नाप॑न्न॒ माप॑न्न म॒क्ष-न्न॒क्ष-न्नाप॑न्नम् । 33) आप॑न्नं-विँ॒धाव॑ति वि॒धाव॒ त्याप॑न्न॒ माप॑न्नं-विँ॒धाव॑ति । 33) आप॑न्न॒मित्या - प॒न्न॒म् । 34) वि॒धाव॑ति ता॒दृ-क्ता॒दृग् वि॒धाव॑ति वि॒धाव॑ति ता॒दृक् । 34) वि॒धाव॒तीति॑ वि - धाव॑ति । 35) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 36) ए॒व त-त्तदे॒ वैव तत् । 37) त-त्क्षोधु॑कः॒, क्षोधु॑क॒ स्त-त्त-त्क्षोधु॑कः । 38) क्षोधु॑को ऽद्ध्व॒र्यु र॑द्ध्व॒र्युः, क्षोधु॑कः॒, क्षोधु॑को ऽद्ध्व॒र्युः । 39) अ॒द्ध्व॒र्यु-स्स्या-थ्स्या द॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-स्स्यात् । 40) स्या-त्क्षोधु॑कः॒, क्षोधु॑क॒-स्स्या-थ्स्या-त्क्षोधु॑कः । 41) क्षोधु॑को॒ यज॑मानो॒ यज॑मानः॒, क्षोधु॑कः॒, क्षोधु॑को॒ यज॑मानः । 42) यज॑मान॒-स्सोम॑विक्रयि॒-न्थ्सोम॑विक्रयि॒न्॒. यज॑मानो॒ यज॑मान॒-स्सोम॑विक्रयिन्न् । 43) सोम॑विक्रयि॒-न्थ्सोम॒ग्ं॒ सोम॒ग्ं॒ सोम॑विक्रयि॒-न्थ्सोम॑विक्रयि॒-न्थ्सोम᳚म् । 43) सोम॑विक्रयि॒न्निति॒ सोम॑ - वि॒क्र॒यि॒न्न् । 44) सोमग्ं॑ शोधय शोधय॒ सोम॒ग्ं॒ सोमग्ं॑ शोधय । 45) शो॒ध॒ये तीति॑ शोधय शोध॒येति॑ । 46) इत्ये॒वैवे तीत्ये॒व । 47) ए॒व ब्रू॑या-द्ब्रूया दे॒वैव ब्रू॑यात् । 48) ब्रू॒या॒-द्यदि॒ यदि॑ ब्रूया-द्ब्रूया॒-द्यदि॑ । 49) यदीत॑र॒ मित॑रं॒-यँदि॒ यदीत॑रम् । 50) इत॑रं॒-यँदि॒ यदीत॑र॒ मित॑रं॒-यँदि॑ । ॥ 59 ॥ (50/60)
1) यदीत॑र॒ मित॑रं॒-यँदि॒ यदीत॑रम् । 2) इत॑र मु॒भये॑ नो॒भये॒ने त॑र॒ मित॑र मु॒भये॑न । 3) उ॒भये॑ नै॒वै वोभये॑ नो॒भये॑ नै॒व । 4) ए॒व सो॑मविक्र॒यिणग्ं॑ सोमविक्र॒यिण॑ मे॒वैव सो॑मविक्र॒यिण᳚म् । 5) सो॒म॒वि॒क्र॒यिण॑ मर्पय त्यर्पयति सोमविक्र॒यिणग्ं॑ सोमविक्र॒यिण॑ मर्पयति । 5) सो॒म॒वि॒क्र॒यिण॒मिति॑ सोम - वि॒क्र॒यिण᳚म् । 6) अ॒र्प॒य॒ति॒ तस्मा॒-त्तस्मा॑ दर्पय त्यर्पयति॒ तस्मा᳚त् । 7) तस्मा᳚-थ्सोमविक्र॒यी सो॑मविक्र॒यी तस्मा॒-त्तस्मा᳚-थ्सोमविक्र॒यी । 8) सो॒म॒वि॒क्र॒यी क्षोधु॑कः॒, क्षोधु॑क-स्सोमविक्र॒यी सो॑मविक्र॒यी क्षोधु॑कः । 8) सो॒म॒वि॒क्र॒यीति॑ सोम - वि॒क्र॒यी । 9) क्षोधु॑को ऽरु॒णो॑ ऽरु॒णः, क्षोधु॑कः॒, क्षोधु॑को ऽरु॒णः । 10) अ॒रु॒णो ह॑ हारु॒णो॑ ऽरु॒णो ह॑ । 11) ह॒ स्म॒ स्म॒ ह॒ ह॒ स्म॒ । 12) स्मा॒हा॒ह॒ स्म॒ स्मा॒ह॒ । 13) आ॒हौप॑वेशि॒ रौप॑वेशि राहा॒ हौप॑वेशिः । 14) औप॑वेशि-स्सोम॒क्रय॑णे सोम॒क्रय॑ण॒ औप॑वेशि॒ रौप॑वेशि-स्सोम॒क्रय॑णे । 14) औप॑वेशि॒रित्यौप॑ - वे॒शिः॒ । 15) सो॒म॒क्रय॑ण ए॒वैव सो॑म॒क्रय॑णे सोम॒क्रय॑ण ए॒व । 15) सो॒म॒क्रय॑ण॒ इति॑ सोम - क्रय॑णे । 16) ए॒वाह म॒ह मे॒वै वाहम् । 17) अ॒ह-न्तृ॑तीयसव॒न-न्तृ॑तीयसव॒न म॒ह म॒ह-न्तृ॑तीयसव॒नम् । 18) तृ॒ती॒य॒स॒व॒न मवाव॑ तृतीयसव॒न-न्तृ॑तीयसव॒न मव॑ । 18) तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् । 19) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 20) रु॒न्ध॒ इतीति॑ रुन्धे रुन्ध॒ इति॑ । 21) इति॑ पशू॒ना-म्प॑शू॒ना मितीति॑ पशू॒नाम् । 22) प॒शू॒ना-ञ्चर्म॒ग्ग्॒ श्चर्म॑-न्पशू॒ना-म्प॑शू॒ना-ञ्चर्मन्न्॑ । 23) चर्म॑-न्मिमीते मिमीते॒ चर्म॒ग्ग्॒ श्चर्म॑-न्मिमीते । 24) मि॒मी॒ते॒ प॒शू-न्प॒शू-न्मि॑मीते मिमीते प॒शून् । 25) प॒शूने॒ वैव प॒शू-न्प॒शूने॒व । 26) ए॒वावा वै॒वै वाव॑ । 27) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 28) रु॒न्धे॒ प॒शवः॑ प॒शवो॑ रुन्धे रुन्धे प॒शवः॑ । 29) प॒शवो॒ हि हि प॒शवः॑ प॒शवो॒ हि । 30) हि तृ॒तीय॑-न्तृ॒तीय॒ग्ं॒ हि हि तृ॒तीय᳚म् । 31) तृ॒तीय॒ग्ं॒ सव॑न॒ग्ं॒ सव॑न-न्तृ॒तीय॑-न्तृ॒तीय॒ग्ं॒ सव॑नम् । 32) सव॑नं॒-यंँ यग्ं सव॑न॒ग्ं॒ सव॑नं॒-यँम् । 33) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 34) का॒मये॑ता प॒शुर॑ प॒शुः का॒मये॑त का॒मये॑ता प॒शुः । 35) अ॒प॒शु-स्स्या᳚-थ्स्या दप॒शु र॑प॒शु-स्स्या᳚त् । 36) स्या॒ दितीति॑ स्या-थ्स्या॒ दिति॑ । 37) इत्यृ॑क्ष॒त ऋ॑क्ष॒त इतीत्यृ॑क्ष॒तः । 38) ऋ॒क्ष॒त स्तस्य॒ तस्य॑ र्क्ष॒त ऋ॑क्ष॒त स्तस्य॑ । 39) तस्य॑ मिमीत मिमीत॒ तस्य॒ तस्य॑ मिमीत । 40) मि॒मी॒त॒ र्क्ष मृ॒क्ष-म्मि॑मीत मिमीत॒ र्क्षम् । 41) ऋ॒क्षं-वैँ वा ऋ॒क्ष मृ॒क्षं-वैँ । 42) वा अ॑पश॒व्य म॑पश॒व्यं-वैँ वा अ॑पश॒व्यम् । 43) अ॒प॒श॒व्य म॑प॒शु र॑प॒शु र॑पश॒व्य म॑पश॒व्य म॑प॒शुः । 44) अ॒प॒शु रे॒वैवा प॒शु र॑प॒शु रे॒व । 45) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 46) भ॒व॒ति॒ यं-यँ-म्भ॑वति भवति॒ यम् । 47) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 48) का॒मये॑त पशु॒मा-न्प॑शु॒मान् का॒मये॑त का॒मये॑त पशु॒मान् । 49) प॒शु॒मा-न्थ्स्या᳚-थ्स्या-त्पशु॒मा-न्प॑शु॒मा-न्थ्स्या᳚त् । 49) प॒शु॒मानिति॑ पशु - मान् । 50) स्या॒दि तीति॑ स्या-थ्स्या॒ दिति॑ । ॥ 60 ॥ (50/56)
1) इति॑ लोम॒तो लो॑म॒त इतीति॑ लोम॒तः । 2) लो॒म॒त स्तस्य॒ तस्य॑ लोम॒तो लो॑म॒त स्तस्य॑ । 3) तस्य॑ मिमीत मिमीत॒ तस्य॒ तस्य॑ मिमीत । 4) मि॒मी॒तै॒त दे॒त-न्मि॑मीत मिमी तै॒तत् । 5) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 6) वै प॑शू॒ना-म्प॑शू॒नां-वैँ वै प॑शू॒नाम् । 7) प॒शू॒नाग्ं रू॒पग्ं रू॒प-म्प॑शू॒ना-म्प॑शू॒नाग्ं रू॒पम् । 8) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ । 9) रू॒पे णै॒वैव रू॒पेण॑ रू॒पे णै॒व । 10) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 11) अ॒स्मै॒ प॒शू-न्प॒शून॑स्मा अस्मै प॒शून् । 12) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ । 13) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 14) रु॒न्धे॒ प॒शु॒मा-न्प॑शु॒मा-न्रु॑न्धे रुन्धे पशु॒मान् । 15) प॒शु॒मा ने॒वैव प॑शु॒मा-न्प॑शु॒माने॒व । 15) प॒शु॒मानिति॑ पशु - मान् । 16) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 17) भ॒व॒ त्य॒पा म॒पा-म्भ॑वति भव त्य॒पाम् । 18) अ॒पा मन्ते ऽन्ते॒ ऽपा म॒पा मन्ते᳚ । 19) अन्ते᳚ क्रीणाति क्रीणा॒ त्यन्ते ऽन्ते᳚ क्रीणाति । 20) क्री॒णा॒ति॒ सर॑स॒ग्ं॒ सर॑स-ङ्क्रीणाति क्रीणाति॒ सर॑सम् । 21) सर॑स मे॒वैव सर॑स॒ग्ं॒ सर॑स मे॒व । 21) सर॑स॒मिति॒ स - र॒स॒म् । 22) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 23) ए॒न॒-ङ्क्री॒णा॒ति॒ क्री॒णा॒ त्ये॒न॒ मे॒न॒-ङ्क्री॒णा॒ति॒ । 24) क्री॒णा॒ त्य॒मात्यो॒ ऽमात्यः॑ क्रीणाति क्रीणा त्य॒मात्यः॑ । 25) अ॒मात्यो᳚ ऽस्यस्य॒ मात्यो॒ ऽमात्यो॑ ऽसि । 26) अ॒सीती त्य॑स्य॒ सीति॑ । 27) इत्या॑हा॒हे तीत्या॑ह । 28) आ॒हा॒मा ऽमा ऽऽहा॑ हा॒मा । 29) अ॒मैवै वामा ऽमैव । 30) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 31) ए॒न॒-ङ्कु॒रु॒ते॒ कु॒रु॒त॒ ए॒न॒ मे॒न॒-ङ्कु॒रु॒ते॒ । 32) कु॒रु॒ते॒ शु॒क्र-श्शु॒क्रः कु॑रुते कुरुते शु॒क्रः । 33) शु॒क्र स्ते॑ ते शु॒क्र-श्शु॒क्र स्ते᳚ । 34) ते॒ ग्रहो॒ ग्रह॑ स्ते ते॒ ग्रहः॑ । 35) ग्रह॒ इतीति॒ ग्रहो॒ ग्रह॒ इति॑ । 36) इत्या॑हा॒हे तीत्या॑ह । 37) आ॒ह॒ शु॒क्र-श्शु॒क्र आ॑हाह शु॒क्रः । 38) शु॒क्रो हि हि शु॒क्र-श्शु॒क्रो हि । 39) ह्य॑ स्यास्य॒ हि ह्य॑स्य । 40) अ॒स्य॒ ग्रहो॒ ग्रहो᳚ ऽस्यास्य॒ ग्रहः॑ । 41) ग्रहो ऽन॒सा ऽन॑सा॒ ग्रहो॒ ग्रहो ऽन॑सा । 42) अन॒सा ऽच्छाच्छा न॒सा ऽन॒सा ऽच्छ॑ । 43) अच्छ॑ याति या॒त्य च्छाच्छ॑ याति । 44) या॒ति॒ म॒हि॒मान॑-म्महि॒मानं॑-याँति याति महि॒मान᳚म् । 45) म॒हि॒मान॑ मे॒वैव म॑हि॒मान॑-म्महि॒मान॑ मे॒व । 46) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 47) अ॒स्या च्छा च्छा᳚ स्या॒स्या च्छ॑ । 48) अच्छ॑ याति या॒त्य च्छाच्छ॑ याति । 49) या॒त्यन॒सा ऽन॑सा याति या॒त्यन॑सा । 50) अन॒सा ऽच्छाच्छा न॒सा ऽन॒सा ऽच्छ॑ । ॥ 61 ॥ (50/52)
1) अच्छ॑ याति या॒त्य च्छाच्छ॑ याति । 2) या॒ति॒ तस्मा॒-त्तस्मा᳚-द्याति याति॒ तस्मा᳚त् । 3) तस्मा॑ दनोवा॒ह्य॑ मनोवा॒ह्य॑-न्तस्मा॒-त्तस्मा॑ दनोवा॒ह्य᳚म् । 4) अ॒नो॒वा॒ह्यग्ं॑ स॒मे स॒मे॑ ऽनोवा॒ह्य॑ मनोवा॒ह्यग्ं॑ स॒मे । 4) अ॒नो॒वा॒ह्य॑मित्य॑नः - वा॒ह्य᳚म् । 5) स॒मे जीव॑न॒-ञ्जीव॑नग्ं स॒मे स॒मे जीव॑नम् । 6) जीव॑नं॒-यँत्र॒ यत्र॒ जीव॑न॒-ञ्जीव॑नं॒-यँत्र॑ । 7) यत्र॒ खलु॒ खलु॒ यत्र॒ यत्र॒ खलु॑ । 8) खलु॒ वै वै खलु॒ खलु॒ वै । 9) वा ए॒त मे॒तं-वैँ वा ए॒तम् । 10) ए॒तग्ं शी॒र्ष्णा शी॒र्ष्णैत मे॒तग्ं शी॒र्ष्णा । 11) शी॒र्ष्णा हर॑न्ति॒ हर॑न्ति शी॒र्ष्णा शी॒र्ष्णा हर॑न्ति । 12) हर॑न्ति॒ तस्मा॒-त्तस्मा॒ द्धर॑न्ति॒ हर॑न्ति॒ तस्मा᳚त् । 13) तस्मा᳚ च्छीर्षहा॒र्यग्ं॑ शीर्षहा॒र्य॑-न्तस्मा॒-त्तस्मा᳚ च्छीर्षहा॒र्य᳚म् । 14) शी॒र्॒ष॒हा॒र्य॑-ङ्गि॒रौ गि॒रौ शी॑र्षहा॒र्यग्ं॑ शीर्षहा॒र्य॑-ङ्गि॒रौ । 14) शी॒र्॒ष॒हा॒र्य॑मिति॑ शीर्ष - हा॒र्य᳚म् । 15) गि॒रौ जीव॑न॒-ञ्जीव॑न-ङ्गि॒रौ गि॒रौ जीव॑नम् । 16) जीव॑न म॒भ्य॑भि जीव॑न॒-ञ्जीव॑न म॒भि । 17) अ॒भि त्य-न्त्य म॒भ्य॑भि त्यम् । 18) त्य-न्दे॒व-न्दे॒व-न्त्य-न्त्य-न्दे॒वम् । 19) दे॒वग्ं स॑वि॒तारग्ं॑ सवि॒तार॑-न्दे॒व-न्दे॒वग्ं स॑वि॒तार᳚म् । 20) स॒वि॒तार॒ मितीति॑ सवि॒तारग्ं॑ सवि॒तार॒ मिति॑ । 21) इत्यति॑च्छन्द॒सा ऽति॑च्छन्द॒सेती त्यति॑च्छन्दसा । 22) अति॑च्छन्दस॒ र्च र्चा ऽति॑च्छन्द॒सा ऽति॑च्छन्दस॒ र्चा । 22) अति॑च्छन्द॒सेत्यति॑ - छ॒न्द॒सा॒ । 23) ऋ॒चा मि॑मीत मिमीत॒ र्च र्चा मि॑मीत । 24) मि॒मी॒ता ति॑च्छन्दा॒ अति॑च्छन्दा मिमीत मिमी॒ता ति॑च्छन्दाः । 25) अति॑च्छन्दा॒ वै वा अति॑च्छन्दा॒ अति॑च्छन्दा॒ वै । 25) अति॑च्छन्दा॒ इत्यति॑ - छ॒न्दाः॒ । 26) वै सर्वा॑णि॒ सर्वा॑णि॒ वै वै सर्वा॑णि । 27) सर्वा॑णि॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ सर्वा॑णि॒ सर्वा॑णि॒ छन्दाग्ं॑सि । 28) छन्दाग्ं॑सि॒ सर्वे॑भि॒-स्सर्वे॑भि॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ सर्वे॑भिः । 29) सर्वे॑भि रे॒वैव सर्वे॑भि॒-स्सर्वे॑भि रे॒व । 30) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 31) ए॒न॒-ञ्छन्दो॑भि॒ श्छन्दो॑भि रेन मेन॒-ञ्छन्दो॑भिः । 32) छन्दो॑भि-र्मिमीते मिमीते॒ छन्दो॑भि॒ श्छन्दो॑भि-र्मिमीते । 32) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 33) मि॒मी॒ते॒ वर्ष्म॒ वर्ष्म॑ मिमीते मिमीते॒ वर्ष्म॑ । 34) वर्ष्म॒ वै वै वर्ष्म॒ वर्ष्म॒ वै । 35) वा ए॒षैषा वै वा ए॒षा । 36) ए॒षा छन्द॑सा॒-ञ्छन्द॑सा मे॒षैषा छन्द॑साम् । 37) छन्द॑सां॒-यँ-द्यच् छन्द॑सा॒-ञ्छन्द॑सां॒-यँत् । 38) यदति॑च्छन्दा॒ अति॑च्छन्दा॒ य-द्यदति॑च्छन्दाः । 39) अति॑च्छन्दा॒ य-द्यदति॑च्छन्दा॒ अति॑च्छन्दा॒ यत् । 39) अति॑च्छन्दा॒ इत्यति॑ - छ॒न्दाः॒ । 40) यदति॑च्छन्द॒सा ऽति॑च्छन्दसा॒ य-द्यदति॑च्छन्दसा । 41) अति॑च्छन्दस॒ र्च र्चा ऽति॑च्छन्द॒सा ऽति॑च्छन्दस॒ र्चा । 41) अति॑च्छन्द॒सेत्यति॑ - छ॒न्द॒सा॒ । 42) ऋ॒चा मिमी॑ते॒ मिमी॑त ऋ॒च र्चा मिमी॑ते । 43) मिमी॑ते॒ वर्ष्म॒ वर्ष्म॒ मिमी॑ते॒ मिमी॑ते॒ वर्ष्म॑ । 44) वर्ष्मै॒ वैव वर्ष्म॒ वर्ष्मै॒व । 45) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 46) ए॒न॒ग्ं॒ स॒मा॒नानाग्ं॑ समा॒नाना॑ मेन मेनग्ं समा॒नाना᳚म् । 47) स॒मा॒नाना᳚-ङ्करोति करोति समा॒नानाग्ं॑ समा॒नाना᳚-ङ्करोति । 48) क॒रो॒ त्येक॑यैक॒ यैक॑यैकया करोति करो॒ त्येक॑यैकया । 49) एक॑यैक यो॒थ्सर्ग॑ मु॒थ्सर्ग॒ मेक॑यैक॒ यैक॑यैक यो॒थ्सर्ग᳚म् । 49) एक॑यैक॒येत्येक॑या - ए॒क॒या॒ । 50) उ॒थ्सर्ग॑-म्मिमीते मिमीत उ॒थ्सर्ग॑ मु॒थ्सर्ग॑-म्मिमीते । 50) उ॒थ्सर्ग॒मित्यु॑त् - सर्ग᳚म् । ॥ 62 ॥ (50/59)
1) मि॒मी॒ते ऽया॑तयाम्नियायातयाम्नि॒या ऽया॑तयाम्नियायातयाम्निया मिमीते मिमी॒ते ऽया॑तयाम्नियायातयाम्निया । 2) अया॑तयाम्नियायातयाम्नि यै॒वैवा या॑तयाम्नियायातयाम्नि॒या ऽया॑तयाम्नियायातयाम्नि यै॒व । 2) अया॑तयाम्नियायातयाम्नि॒येत्यया॑तयाम्निया - अ॒या॒त॒या॒म्नि॒या॒ । 3) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 4) ए॒न॒-म्मि॒मी॒ते॒ मि॒मी॒त॒ ए॒न॒ मे॒न॒-म्मि॒मी॒ते॒ । 5) मि॒मी॒ते॒ तस्मा॒-त्तस्मा᳚-न्मिमीते मिमीते॒ तस्मा᳚त् । 6) तस्मा॒-न्नाना॑वीर्या॒ नाना॑वीर्या॒ स्तस्मा॒-त्तस्मा॒-न्नाना॑वीर्याः । 7) नाना॑वीर्या अ॒ङ्गुल॑यो॒ ऽङ्गुल॑यो॒ नाना॑वीर्या॒ नाना॑वीर्या अ॒ङ्गुल॑यः । 7) नाना॑वीर्या॒ इति॒ नाना᳚ - वी॒र्याः॒ । 8) अ॒ङ्गुल॑य॒-स्सर्वा॑सु॒ सर्वा᳚ स्व॒ङ्गुल॑यो॒ ऽङ्गुल॑य॒-स्सर्वा॑सु । 9) सर्वा᳚ स्वङ्गु॒ष्ठ म॑ङ्गु॒ष्ठग्ं सर्वा॑सु॒ सर्वा᳚ स्वङ्गु॒ष्ठम् । 10) अ॒ङ्गु॒ष्ठ मुपोपा᳚ङ्गु॒ष्ठ म॑ङ्गु॒ष्ठ मुप॑ । 11) उप॒ नि न्युपोप॒ नि । 12) नि गृ॑ह्णाति गृह्णाति॒ नि नि गृ॑ह्णाति । 13) गृ॒ह्णा॒ति॒ तस्मा॒-त्तस्मा᳚-द्गृह्णाति गृह्णाति॒ तस्मा᳚त् । 14) तस्मा᳚-थ्स॒माव॑द्वीर्य-स्स॒माव॑द्वीर्य॒ स्तस्मा॒-त्तस्मा᳚-थ्स॒माव॑द्वीर्यः । 15) स॒माव॑द्वीर्यो॒ ऽन्याभि॑ र॒न्याभि॑-स्स॒माव॑द्वीर्य-स्स॒माव॑द्वीर्यो॒ ऽन्याभिः॑ । 15) स॒माव॑द्वीर्य॒ इति॑ स॒माव॑त् - वी॒र्यः॒ । 16) अ॒न्याभि॑ र॒ङ्गुलि॑भि र॒ङ्गुलि॑भि र॒न्याभि॑ र॒न्याभि॑ र॒ङ्गुलि॑भिः । 17) अ॒ङ्गुलि॑भि॒ स्तस्मा॒-त्तस्मा॑ द॒ङ्गुलि॑भि र॒ङ्गुलि॑भि॒ स्तस्मा᳚त् । 17) अ॒ङ्गुलि॑भि॒रित्य॒ङ्गुलि॑ - भिः॒ । 18) तस्मा॒-थ्सर्वा॒-स्सर्वा॒ स्तस्मा॒-त्तस्मा॒-थ्सर्वाः᳚ । 19) सर्वा॒ अन्वनु॒ सर्वा॒-स्सर्वा॒ अनु॑ । 20) अनु॒ सग्ं स मन्वनु॒ सम् । 21) स-ञ्च॑रति चरति॒ सग्ं स-ञ्च॑रति । 22) च॒र॒ति॒ य-द्यच् च॑रति चरति॒ यत् । 23) य-थ्स॒ह स॒ह य-द्य-थ्स॒ह । 24) स॒ह सर्वा॑भि॒-स्सर्वा॑भि-स्स॒ह स॒ह सर्वा॑भिः । 25) सर्वा॑भि॒-र्मिमी॑त॒ मिमी॑त॒ सर्वा॑भि॒-स्सर्वा॑भि॒-र्मिमी॑त । 26) मिमी॑त॒ सग्ग्श्लि॑ष्टा॒-स्सग्ग्श्लि॑ष्टा॒ मिमी॑त॒ मिमी॑त॒ सग्ग्श्लि॑ष्टाः । 27) सग्ग्श्लि॑ष्टा अ॒ङ्गुल॑यो॒ ऽङ्गुल॑य॒-स्सग्ग्श्लि॑ष्टा॒-स्सग्ग्श्लि॑ष्टा अ॒ङ्गुल॑यः । 27) सग्ग्श्लि॑ष्टा॒ इति॒ सं - श्लि॒ष्टाः॒ । 28) अ॒ङ्गुल॑यो जायेरन् जायेर-न्न॒ङ्गुल॑यो॒ ऽङ्गुल॑यो जायेरन्न् । 29) जा॒ये॒र॒-न्नेक॑यैक॒ यैक॑यैकया जायेरन् जायेर॒-न्नेक॑यैकया । 30) एक॑यैक यो॒थ्सर्ग॑ मु॒थ्सर्ग॒ मेक॑यैक॒ यैक॑यैक यो॒थ्सर्ग᳚म् । 30) एक॑यैक॒येत्येक॑या - ए॒क॒या॒ । 31) उ॒थ्सर्ग॑-म्मिमीते मिमीत उ॒थ्सर्ग॑ मु॒थ्सर्ग॑-म्मिमीते । 31) उ॒थ्सर्ग॒मित्यु॑त् - सर्ग᳚म् । 32) मि॒मी॒ते॒ तस्मा॒-त्तस्मा᳚-न्मिमीते मिमीते॒ तस्मा᳚त् । 33) तस्मा॒-द्विभ॑क्ता॒ विभ॑क्ता॒ स्तस्मा॒-त्तस्मा॒-द्विभ॑क्ताः । 34) विभ॑क्ता जायन्ते जायन्ते॒ विभ॑क्ता॒ विभ॑क्ता जायन्ते । 34) विभ॑क्ता॒ इति॒ वि - भ॒क्ताः॒ । 35) जा॒य॒न्ते॒ पञ्च॒ पञ्च॑ जायन्ते जायन्ते॒ पञ्च॑ । 36) पञ्च॒ कृत्वः॒ कृत्वः॒ पञ्च॒ पञ्च॒ कृत्वः॑ । 37) कृत्वो॒ यजु॑षा॒ यजु॑षा॒ कृत्वः॒ कृत्वो॒ यजु॑षा । 38) यजु॑षा मिमीते मिमीते॒ यजु॑षा॒ यजु॑षा मिमीते । 39) मि॒मी॒ते॒ पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा मिमीते मिमीते॒ पञ्चा᳚क्षरा । 40) पञ्चा᳚क्षरा प॒ङ्क्तिः प॒ङ्क्तिः पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा प॒ङ्क्तिः । 40) पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । 41) प॒ङ्क्तिः पाङ्क्तः॒ पाङ्क्तः॑ प॒ङ्क्तिः प॒ङ्क्तिः पाङ्क्तः॑ । 42) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः । 43) य॒ज्ञो य॒ज्ञं-यँ॒ज्ञं-यँ॒ज्ञो य॒ज्ञो य॒ज्ञम् । 44) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 45) ए॒वावा वै॒वै वाव॑ । 46) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 47) रु॒न्धे॒ पञ्च॒ पञ्च॑ रुन्धे रुन्धे॒ पञ्च॑ । 48) पञ्च॒ कृत्वः॒ कृत्वः॒ पञ्च॒ पञ्च॒ कृत्वः॑ । 49) कृत्व॑ स्तू॒ष्णी-न्तू॒ष्णी-ङ्कृत्वः॒ कृत्व॑ स्तू॒ष्णीम् । 50) तू॒ष्णी-न्दश॒ दश॑ तू॒ष्णी-न्तू॒ष्णी-न्दश॑ । ॥ 63 ॥ (50/59)
1) दश॒ सग्ं स-न्दश॒ दश॒ सम् । 2) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते । 3) प॒द्य॒न्ते॒ दशा᳚क्षरा॒ दशा᳚क्षरा पद्यन्ते पद्यन्ते॒ दशा᳚क्षरा । 4) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् । 4) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । 5) वि॒रा डन्न॒ मन्नं॑-विँ॒रा-ड्वि॒रा डन्न᳚म् । 5) वि॒राडिति॑ वि - राट् । 6) अन्नं॑-विँ॒रा-ड्वि॒रा डन्न॒ मन्नं॑-विँ॒राट् । 7) वि॒रा-ड्वि॒राजा॑ वि॒राजा॑ वि॒रा-ड्वि॒रा-ड्वि॒राजा᳚ । 7) वि॒राडिति॑ वि - राट् । 8) वि॒राजै॒वैव वि॒राजा॑ वि॒राजै॒व । 8) वि॒राजेति॑ वि - राजा᳚ । 9) ए॒वान्नाद्य॑ म॒न्नाद्य॑ मे॒वै वान्नाद्य᳚म् । 10) अ॒न्नाद्य॒ मवावा॒ न्नाद्य॑ म॒न्नाद्य॒ मव॑ । 10) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 11) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 12) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् । 13) य-द्यजु॑षा॒ यजु॑षा॒ य-द्य-द्यजु॑षा । 14) यजु॑षा॒ मिमी॑ते॒ मिमी॑ते॒ यजु॑षा॒ यजु॑षा॒ मिमी॑ते । 15) मिमी॑ते भू॒त-म्भू॒त-म्मिमी॑ते॒ मिमी॑ते भू॒तम् । 16) भू॒त मे॒वैव भू॒त-म्भू॒त मे॒व । 17) ए॒वावा वै॒वै वाव॑ । 18) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 19) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् । 20) य-त्तू॒ष्णी-न्तू॒ष्णीं-यँ-द्य-त्तू॒ष्णीम् । 21) तू॒ष्णी-म्भ॑वि॒ष्य-द्भ॑वि॒ष्य-त्तू॒ष्णी-न्तू॒ष्णी-म्भ॑वि॒ष्यत् । 22) भ॒वि॒ष्य-द्य-द्य-द्भ॑वि॒ष्य-द्भ॑वि॒ष्य-द्यत् । 23) य-द्वै वै य-द्य-द्वै । 24) वै तावा॒-न्तावा॒न्॒. वै वै तावान्॑ । 25) तावा॑ ने॒वैव तावा॒-न्तावा॑ ने॒व । 26) ए॒व सोम॒-स्सोम॑ ए॒वैव सोमः॑ । 27) सोम॒-स्स्या-थ्स्या-थ्सोम॒-स्सोम॒-स्स्यात् । 28) स्या-द्याव॑न्तं॒-याँव॑न्त॒ग्ग्॒ स्या-थ्स्या-द्याव॑न्तम् । 29) याव॑न्त॒-म्मिमी॑ते॒ मिमी॑ते॒ याव॑न्तं॒-याँव॑न्त॒-म्मिमी॑ते । 30) मिमी॑ते॒ यज॑मानस्य॒ यज॑मानस्य॒ मिमी॑ते॒ मिमी॑ते॒ यज॑मानस्य । 31) यज॑मान स्यै॒वैव यज॑मानस्य॒ यज॑मान स्यै॒व । 32) ए॒व स्या᳚-थ्स्या दे॒वैव स्या᳚त् । 33) स्या॒-न्न न स्या᳚-थ्स्या॒-न्न । 34) नाप्यपि॒ न नापि॑ । 35) अपि॑ सद॒स्या॑नाग्ं सद॒स्या॑ना॒ मप्यपि॑ सद॒स्या॑नाम् । 36) स॒द॒स्या॑ना-म्प्र॒जाभ्यः॑ प्र॒जाभ्य॑-स्सद॒स्या॑नाग्ं सद॒स्या॑ना-म्प्र॒जाभ्यः॑ । 37) प्र॒जाभ्य॑ स्त्वा त्वा प्र॒जाभ्यः॑ प्र॒जाभ्य॑ स्त्वा । 37) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । 38) त्वेतीति॑ त्वा॒ त्वेति॑ । 39) इत्युपोपे तीत्युप॑ । 40) उप॒ सग्ं स मुपोप॒ सम् । 41) स मू॑ह त्यूहति॒ सग्ं स मू॑हति । 42) ऊ॒ह॒ति॒ स॒द॒स्या᳚-न्थ्सद॒स्या॑ नूह त्यूहति सद॒स्यान्॑ । 43) स॒द॒स्या॑ ने॒वैव स॑द॒स्या᳚-न्थ्सद॒स्या॑ ने॒व । 44) ए॒वा न्वाभ॑ज त्य॒न्वाभ॑ज त्ये॒वैवा न्वाभ॑जति । 45) अ॒न्वाभ॑जति॒ वास॑सा॒ वास॑सा॒ ऽन्वाभ॑ज त्य॒न्वाभ॑जति॒ वास॑सा । 45) अ॒न्वाभ॑ज॒तीत्य॑नु - आभ॑जति । 46) वास॒सो पोप॒ वास॑सा॒ वास॒ सोप॑ । 47) उप॑ नह्यति नह्य॒ त्युपोप॑ नह्यति । 48) न॒ह्य॒ति॒ स॒र्व॒दे॒व॒त्यग्ं॑ सर्वदेव॒त्य॑-न्नह्यति नह्यति सर्वदेव॒त्य᳚म् । 49) स॒र्व॒दे॒व॒त्यं॑-वैँ वै स॑र्वदेव॒त्यग्ं॑ सर्वदेव॒त्यं॑-वैँ । 49) स॒र्व॒दे॒व॒त्य॑मिति॑ सर्व - दे॒व॒त्य᳚म् । 50) वै वासो॒ वासो॒ वै वै वासः॑ । ॥ 64 ॥ (50/58)
1) वास॒-स्सर्वा॑भि॒-स्सर्वा॑भि॒-र्वासो॒ वास॒-स्सर्वा॑भिः । 2) सर्वा॑भिरे॒ वैव सर्वा॑भि॒-स्सर्वा॑भि रे॒व । 3) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 4) ए॒न॒-न्दे॒वता॑भि-र्दे॒वता॑भि रेन मेन-न्दे॒वता॑भिः । 5) दे॒वता॑भि॒-स्सग्ं स-न्दे॒वता॑भि-र्दे॒वता॑भि॒-स्सम् । 6) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति । 7) अ॒र्ध॒य॒ति॒ प॒शवः॑ प॒शवो᳚ ऽर्धय त्यर्धयति प॒शवः॑ । 8) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 9) वै सोम॒-स्सोमो॒ वै वै सोमः॑ । 10) सोमः॑ प्रा॒णाय॑ प्रा॒णाय॒ सोम॒-स्सोमः॑ प्रा॒णाय॑ । 11) प्रा॒णाय॑ त्वा त्वा प्रा॒णाय॑ प्रा॒णाय॑ त्वा । 11) प्रा॒णायेति॑ प्र - अ॒नाय॑ । 12) त्वेतीति॑ त्वा॒ त्वेति॑ । 13) इत्युपोपे तीत्युप॑ । 14) उप॑ नह्यति नह्य॒ त्युपोप॑ नह्यति । 15) न॒ह्य॒ति॒ प्रा॒ण-म्प्रा॒ण-न्न॑ह्यति नह्यति प्रा॒णम् । 16) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व । 16) प्रा॒णमिति॑ प्र - अ॒नम् । 17) ए॒व प॒शुषु॑ प॒शु ष्वे॒वैव प॒शुषु॑ । 18) प॒शुषु॑ दधाति दधाति प॒शुषु॑ प॒शुषु॑ दधाति । 19) द॒धा॒ति॒ व्या॒नाय॑ व्या॒नाय॑ दधाति दधाति व्या॒नाय॑ । 20) व्या॒नाय॑ त्वा त्वा व्या॒नाय॑ व्या॒नाय॑ त्वा । 20) व्या॒नायेति॑ वि - अ॒नाय॑ । 21) त्वेतीति॑ त्वा॒ त्वेति॑ । 22) इत्यन् वन् विती त्यनु॑ । 23) अनु॑ शृन्थति शृन्थ॒ त्यन् वनु॑ शृन्थति । 24) शृ॒न्थ॒ति॒ व्या॒नं-व्याँ॒नग्ं शृ॑न्थति शृन्थति व्या॒नम् । 25) व्या॒न मे॒वैव व्या॒नं-व्याँ॒न मे॒व । 25) व्या॒नमिति॑ वि - अ॒नम् । 26) ए॒व प॒शुषु॑ प॒शु ष्वे॒वैव प॒शुषु॑ । 27) प॒शुषु॑ दधाति दधाति प॒शुषु॑ प॒शुषु॑ दधाति । 28) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् । 29) तस्मा᳚-थ्स्व॒पन्तग्ग्॑ स्व॒पन्त॒-न्तस्मा॒-त्तस्मा᳚-थ्स्व॒पन्त᳚म् । 30) स्व॒पन्त॑-म्प्रा॒णाः प्रा॒णा-स्स्व॒पन्तग्ग्॑ स्व॒पन्त॑-म्प्रा॒णाः । 31) प्रा॒णा न न प्रा॒णाः प्रा॒णा न । 31) प्रा॒णा इति॑ प्र - अ॒नाः । 32) न ज॑हति जहति॒ न न ज॑हति । 33) ज॒ह॒तीति॑ जहति । ॥ 65 ॥ (33/38) ॥ अ. 9 ॥
1) य-त्क॒लया॑ क॒लया॒ य-द्य-त्क॒लया᳚ । 2) क॒लया॑ ते ते क॒लया॑ क॒लया॑ ते । 3) ते॒ श॒फेन॑ श॒फेन॑ ते ते श॒फेन॑ । 4) श॒फेन॑ ते ते श॒फेन॑ श॒फेन॑ ते । 5) ते॒ क्री॒णा॒नि॒ क्री॒णा॒नि॒ ते॒ ते॒ क्री॒णा॒नि॒ । 6) क्री॒णा॒नीतीति॑ क्रीणानि क्रीणा॒नीति॑ । 7) इति॒ पणे॑त॒ पणे॒ते तीति॒ पणे॑त । 8) पणे॒ता गो॑अर्घ॒ मगो॑अर्घ॒-म्पणे॑त॒ पणे॒ता गो॑अर्घम् । 9) अगो॑अर्घ॒ग्ं॒ सोम॒ग्ं॒ सोम॒ मगो॑अर्घ॒ मगो॑अर्घ॒ग्ं॒ सोम᳚म् । 9) अगो॑अर्घ॒मित्यगो᳚ - अ॒र्घ॒म् । 10) सोम॑-ङ्कु॒र्या-त्कु॒र्या-थ्सोम॒ग्ं॒ सोम॑-ङ्कु॒र्यात् । 11) कु॒र्या दगो॑अर्घ॒ मगो॑अर्घ-ङ्कु॒र्या-त्कु॒र्या दगो॑अर्घम् । 12) अगो॑अर्घं॒-यँज॑मानं॒-यँज॑मान॒ मगो॑अर्घ॒ मगो॑अर्घं॒-यँज॑मानम् । 12) अगो॑अर्घ॒मित्यगो᳚ - अ॒र्घ॒म् । 13) यज॑मान॒ मगो॑अर्घ॒ मगो॑अर्घं॒-यँज॑मानं॒-यँज॑मान॒ मगो॑अर्घम् । 14) अगो॑अर्घ मद्ध्व॒र्यु म॑द्ध्व॒र्यु मगो॑अर्घ॒ मगो॑अर्घ मद्ध्व॒र्युम् । 14) अगो॑अर्घ॒मित्यगो᳚ - अ॒र्घ॒म् । 15) अ॒द्ध्व॒र्यु-ङ्गो-र्गोर॑द्ध्व॒र्यु म॑द्ध्व॒र्यु-ङ्गोः । 16) गो स्तु तु गो-र्गो स्तु । 17) तु म॑हि॒मान॑-म्महि॒मान॒-न्तु तु म॑हि॒मान᳚म् । 18) म॒हि॒मान॒-न्न न म॑हि॒मान॑-म्महि॒मान॒-न्न । 19) नावाव॒ न नाव॑ । 20) अव॑ तिरे-त्तिरे॒ दवाव॑ तिरेत् । 21) ति॒रे॒-द्गवा॒ गवा॑ तिरे-त्तिरे॒-द्गवा᳚ । 22) गवा॑ ते ते॒ गवा॒ गवा॑ ते । 23) ते॒ क्री॒णा॒नि॒ क्री॒णा॒नि॒ ते॒ ते॒ क्री॒णा॒नि॒ । 24) क्री॒णा॒नी तीति॑ क्रीणानि क्रीणा॒नीति॑ । 25) इत्ये॒वैवे तीत्ये॒व । 26) ए॒व ब्रू॑या-द्ब्रूया दे॒वैव ब्रू॑यात् । 27) ब्रू॒या॒-द्गो॒अ॒र्घ-ङ्गो॑अ॒र्घ-म्ब्रू॑या-द्ब्रूया-द्गोअ॒र्घम् । 28) गो॒अ॒र्घ मे॒वैव गो॑अ॒र्घ-ङ्गो॑अ॒र्घ मे॒व । 28) गो॒अ॒र्घमिति॑ गो - अ॒र्घम् । 29) ए॒व सोम॒ग्ं॒ सोम॑ मे॒वैव सोम᳚म् । 30) सोम॑-ङ्क॒रोति॑ क॒रोति॒ सोम॒ग्ं॒ सोम॑-ङ्क॒रोति॑ । 31) क॒रोति॑ गोअ॒र्घ-ङ्गो॑अ॒र्घ-ङ्क॒रोति॑ क॒रोति॑ गोअ॒र्घम् । 32) गो॒अ॒र्घं-यँज॑मानं॒-यँज॑मान-ङ्गोअ॒र्घ-ङ्गो॑अ॒र्घं-यँज॑मानम् । 32) गो॒अ॒र्घमिति॑ गो - अ॒र्घम् । 33) यज॑मान-ङ्गोअ॒र्घ-ङ्गो॑अ॒र्घं-यँज॑मानं॒-यँज॑मान-ङ्गोअ॒र्घम् । 34) गो॒अ॒र्घ म॑द्ध्व॒र्यु म॑द्ध्व॒र्यु-ङ्गो॑अ॒र्घ-ङ्गो॑अ॒र्घ म॑द्ध्व॒र्युम् । 34) गो॒अ॒र्घमिति॑ गो - अ॒र्घम् । 35) अ॒द्ध्व॒र्यु-न्न नाद्ध्व॒र्यु म॑द्ध्व॒र्यु-न्न । 36) न गो-र्गो-र्न न गोः । 37) गो-र्म॑हि॒मान॑-म्महि॒मान॒-ङ्गो-र्गो-र्म॑हि॒मान᳚म् । 38) म॒हि॒मान॒ मवाव॑ महि॒मान॑-म्महि॒मान॒ मव॑ । 39) अव॑ तिरति तिर॒ त्यवाव॑ तिरति । 40) ति॒र॒ त्य॒जया॒ ऽजया॑ तिरति तिर त्य॒जया᳚ । 41) अ॒जया᳚ क्रीणाति क्रीणा त्य॒जया॒ ऽजया᳚ क्रीणाति । 42) क्री॒णा॒ति॒ सत॑पस॒ग्ं॒ सत॑पस-ङ्क्रीणाति क्रीणाति॒ सत॑पसम् । 43) सत॑पस मे॒वैव सत॑पस॒ग्ं॒ सत॑पस मे॒व । 43) सत॑पस॒मिति॒ स - त॒प॒स॒म् । 44) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 45) ए॒न॒-ङ्क्री॒णा॒ति॒ क्री॒णा॒ त्ये॒न॒ मे॒न॒-ङ्क्री॒णा॒ति॒ । 46) क्री॒णा॒ति॒ हिर॑ण्येन॒ हिर॑ण्येन क्रीणाति क्रीणाति॒ हिर॑ण्येन । 47) हिर॑ण्येन क्रीणाति क्रीणाति॒ हिर॑ण्येन॒ हिर॑ण्येन क्रीणाति । 48) क्री॒णा॒ति॒ सशु॑क्र॒ग्ं॒ सशु॑क्र-ङ्क्रीणाति क्रीणाति॒ सशु॑क्रम् । 49) सशु॑क्र मे॒वैव सशु॑क्र॒ग्ं॒ सशु॑क्र मे॒व । 49) सशु॑क्र॒मिति॒ स - शु॒क्र॒म् । 50) ए॒वैन॑ मेन मे॒वै वैन᳚म् । ॥ 66 ॥ (50/58)
1) ए॒न॒-ङ्क्री॒णा॒ति॒ क्री॒णा॒ त्ये॒न॒ मे॒न॒-ङ्क्री॒णा॒ति॒ । 2) क्री॒णा॒ति॒ धे॒न्वा धे॒न्वा क्री॑णाति क्रीणाति धे॒न्वा । 3) धे॒न्वा क्री॑णाति क्रीणाति धे॒न्वा धे॒न्वा क्री॑णाति । 4) क्री॒णा॒ति॒ साशि॑र॒ग्ं॒ साशि॑र-ङ्क्रीणाति क्रीणाति॒ साशि॑रम् । 5) साशि॑र मे॒वैव साशि॑र॒ग्ं॒ साशि॑र मे॒व । 5) साशि॑र॒मिति॒ स - आ॒शि॒र॒म् । 6) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 7) ए॒न॒-ङ्क्री॒णा॒ति॒ क्री॒णा॒ त्ये॒न॒ मे॒न॒-ङ्क्री॒णा॒ति॒ । 8) क्री॒णा॒ त्यृ॒ष॒भेण॑ र्ष॒भेण॑ क्रीणाति क्रीणा त्यृष॒भेण॑ । 9) ऋ॒ष॒भेण॑ क्रीणाति क्रीणा त्यृष॒भेण॑ र्ष॒भेण॑ क्रीणाति । 10) क्री॒णा॒ति॒ सेन्द्र॒ग्ं॒ सेन्द्र॑-ङ्क्रीणाति क्रीणाति॒ सेन्द्र᳚म् । 11) सेन्द्र॑ मे॒वैव सेन्द्र॒ग्ं॒ सेन्द्र॑ मे॒व । 11) सेन्द्र॒मिति॒ स - इ॒न्द्र॒म् । 12) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 13) ए॒न॒-ङ्क्री॒णा॒ति॒ क्री॒णा॒ त्ये॒न॒ मे॒न॒-ङ्क्री॒णा॒ति॒ । 14) क्री॒णा॒ त्य॒न॒डुहा॑ ऽन॒डुहा᳚ क्रीणाति क्रीणा त्यन॒डुहा᳚ । 15) अ॒न॒डुहा᳚ क्रीणाति क्रीणा त्यन॒डुहा॑ ऽन॒डुहा᳚ क्रीणाति । 16) क्री॒णा॒ति॒ वह्नि॒-र्वह्निः॑ क्रीणाति क्रीणाति॒ वह्निः॑ । 17) वह्नि॒-र्वै वै वह्नि॒-र्वह्नि॒-र्वै । 18) वा अ॑न॒ड्वा न॑न॒ड्वान्. वै वा अ॑न॒ड्वान् । 19) अ॒न॒ड्वान्. वह्नि॑ना॒ वह्नि॑ना ऽन॒ड्वा न॑न॒ड्वान्. वह्नि॑ना । 20) वह्नि॑ नै॒वैव वह्नि॑ना॒ वह्नि॑ नै॒व । 21) ए॒व वह्नि॒ वह्न्ये॒ वैव वह्नि॑ । 22) वह्नि॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ वह्नि॒ वह्नि॑ य॒ज्ञस्य॑ । 23) य॒ज्ञस्य॑ क्रीणाति क्रीणाति य॒ज्ञस्य॑ य॒ज्ञस्य॑ क्रीणाति । 24) क्री॒णा॒ति॒ मि॒थु॒नाभ्या᳚-म्मिथु॒नाभ्या᳚-ङ्क्रीणाति क्रीणाति मिथु॒नाभ्या᳚म् । 25) मि॒थु॒नाभ्या᳚-ङ्क्रीणाति क्रीणाति मिथु॒नाभ्या᳚-म्मिथु॒नाभ्या᳚-ङ्क्रीणाति । 26) क्री॒णा॒ति॒ मि॒थु॒नस्य॑ मिथु॒नस्य॑ क्रीणाति क्रीणाति मिथु॒नस्य॑ । 27) मि॒थु॒नस्या व॑रुद्ध्या॒ अव॑रुद्ध्यै मिथु॒नस्य॑ मिथु॒नस्या व॑रुद्ध्यै । 28) अव॑रुद्ध्यै॒ वास॑सा॒ वास॒सा ऽव॑रुद्ध्या॒ अव॑रुद्ध्यै॒ वास॑सा । 28) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । 29) वास॑सा क्रीणाति क्रीणाति॒ वास॑सा॒ वास॑सा क्रीणाति । 30) क्री॒णा॒ति॒ स॒र्व॒दे॒व॒त्यग्ं॑ सर्वदेव॒त्य॑-ङ्क्रीणाति क्रीणाति सर्वदेव॒त्य᳚म् । 31) स॒र्व॒दे॒व॒त्यं॑-वैँ वै स॑र्वदेव॒त्यग्ं॑ सर्वदेव॒त्यं॑-वैँ । 31) स॒र्व॒दे॒व॒त्य॑मिति॑ सर्व - दे॒व॒त्य᳚म् । 32) वै वासो॒ वासो॒ वै वै वासः॑ । 33) वास॒-स्सर्वा᳚भ्य॒-स्सर्वा᳚भ्यो॒ वासो॒ वास॒-स्सर्वा᳚भ्यः । 34) सर्वा᳚भ्य ए॒वैव सर्वा᳚भ्य॒-स्सर्वा᳚भ्य ए॒व । 35) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 36) ए॒न॒-न्दे॒वता᳚भ्यो दे॒वता᳚भ्य एन मेन-न्दे॒वता᳚भ्यः । 37) दे॒वता᳚भ्यः क्रीणाति क्रीणाति दे॒वता᳚भ्यो दे॒वता᳚भ्यः क्रीणाति । 38) क्री॒णा॒ति॒ दश॒ दश॑ क्रीणाति क्रीणाति॒ दश॑ । 39) दश॒ सग्ं स-न्दश॒ दश॒ सम् । 40) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते । 41) प॒द्य॒न्ते॒ दशा᳚क्षरा॒ दशा᳚क्षरा पद्यन्ते पद्यन्ते॒ दशा᳚क्षरा । 42) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् । 42) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । 43) वि॒रा डन्न॒ मन्नं॑-विँ॒रा-ड्वि॒रा डन्न᳚म् । 43) वि॒राडिति॑ वि - राट् । 44) अन्नं॑-विँ॒रा-ड्वि॒रा डन्न॒ मन्नं॑-विँ॒राट् । 45) वि॒रा-ड्वि॒राजा॑ वि॒राजा॑ वि॒रा-ड्वि॒रा-ड्वि॒राजा᳚ । 45) वि॒राडिति॑ वि - राट् । 46) वि॒रा जै॒वैव वि॒राजा॑ वि॒राजै॒व । 46) वि॒राजेति॑ वि - राजा᳚ । 47) ए॒वान्नाद्य॑ म॒न्नाद्य॑ मे॒वै वान्नाद्य᳚म् । 48) अ॒न्नाद्य॒ मवावा॒ न्नाद्य॑ म॒न्नाद्य॒ मव॑ । 48) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 49) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 50) रु॒न्धे॒ तप॑स॒ स्तप॑सो रुन्धे रुन्धे॒ तप॑सः । ॥ 67 ॥ (50/59)
1) तप॑स स्त॒नू स्त॒नू स्तप॑स॒ स्तप॑स स्त॒नूः । 2) त॒नू र॑स्यसि त॒नू स्त॒नू र॑सि । 3) अ॒सि॒ प्र॒जाप॑तेः प्र॒जाप॑ते रस्यसि प्र॒जाप॑तेः । 4) प्र॒जाप॑ते॒-र्वर्णो॒ वर्णः॑ प्र॒जाप॑तेः प्र॒जाप॑ते॒-र्वर्णः॑ । 4) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 5) वर्ण॒ इतीति॒ वर्णो॒ वर्ण॒ इति॑ । 6) इत्या॑हा॒हे तीत्या॑ह । 7) आ॒ह॒ प॒शुभ्यः॑ प॒शुभ्य॑ आहाह प॒शुभ्यः॑ । 8) प॒शुभ्य॑ ए॒वैव प॒शुभ्यः॑ प॒शुभ्य॑ ए॒व । 8) प॒शुभ्य॒ इति॑ प॒शु - भ्यः॒ । 9) ए॒व त-त्तदे॒ वैव तत् । 10) तद॑द्ध्व॒र्यु र॑द्ध्व॒र्यु स्त-त्तद॑द्ध्व॒र्युः । 11) अ॒द्ध्व॒र्यु-र्नि न्य॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्नि । 12) नि ह्नु॑ते ह्नुते॒ नि नि ह्नु॑ते । 13) ह्नु॒त॒ आ॒त्मन॑ आ॒त्मनो᳚ ह्नुते ह्नुत आ॒त्मनः॑ । 14) आ॒त्मनो ऽना᳚व्रस्का॒या ना᳚व्रस्काया॒ त्मन॑ आ॒त्मनो ऽना᳚व्रस्काय । 15) अना᳚व्रस्काय॒ गच्छ॑ति॒ गच्छ॒ त्यना᳚व्रस्का॒या ना᳚व्रस्काय॒ गच्छ॑ति । 15) अना᳚व्रस्का॒येत्यना᳚ - व्र॒स्का॒य॒ । 16) गच्छ॑ति॒ श्रिय॒ग्ग्॒ श्रिय॒-ङ्गच्छ॑ति॒ गच्छ॑ति॒ श्रिय᳚म् । 17) श्रिय॒-म्प्र प्र श्रिय॒ग्ग्॒ श्रिय॒-म्प्र । 18) प्र प॒शू-न्प॒शू-न्प्र प्र प॒शून् । 19) प॒शूना᳚प्नो त्याप्नोति प॒शू-न्प॒शूना᳚प्नोति । 20) आ॒प्नो॒ति॒ यो य आ᳚प्नो त्याप्नोति॒ यः । 21) य ए॒व मे॒वं-योँ य ए॒वम् । 22) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 23) वेद॑ शु॒क्रग्ं शु॒क्रं-वेँद॒ वेद॑ शु॒क्रम् । 24) शु॒क्र-न्ते॑ ते शु॒क्रग्ं शु॒क्र-न्ते᳚ । 25) ते॒ शु॒क्रेण॑ शु॒क्रेण॑ ते ते शु॒क्रेण॑ । 26) शु॒क्रेण॑ क्रीणामि क्रीणामि शु॒क्रेण॑ शु॒क्रेण॑ क्रीणामि । 27) क्री॒णा॒मी तीति॑ क्रीणामि क्रीणा॒मीति॑ । 28) इत्या॑हा॒हे तीत्या॑ह । 29) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः । 30) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व । 30) य॒था॒य॒जुरिति॑ यथा - य॒जुः । 31) ए॒वैत दे॒त दे॒वै वैतत् । 32) ए॒त-द्दे॒वा दे॒वा ए॒त दे॒त-द्दे॒वाः । 33) दे॒वा वै वै दे॒वा दे॒वा वै । 34) वै येन॒ येन॒ वै वै येन॑ । 35) येन॒ हिर॑ण्येन॒ हिर॑ण्येन॒ येन॒ येन॒ हिर॑ण्येन । 36) हिर॑ण्येन॒ सोम॒ग्ं॒ सोम॒ग्ं॒ हिर॑ण्येन॒ हिर॑ण्येन॒ सोम᳚म् । 37) सोम॒ मक्री॑ण॒-न्नक्री॑ण॒-न्थ्सोम॒ग्ं॒ सोम॒ मक्री॑णन्न् । 38) अक्री॑ण॒-न्त-त्तदक्री॑ण॒-न्नक्री॑ण॒-न्तत् । 39) तद॑भी॒षहा॑ ऽभी॒षहा॒ त-त्तद॑भी॒षहा᳚ । 40) अ॒भी॒षहा॒ पुनः॒ पुन॑ रभी॒षहा॑ ऽभी॒षहा॒ पुनः॑ । 40) अ॒भी॒षहेत्य॑भि - सहा᳚ । 41) पुन॒ रा पुनः॒ पुन॒ रा । 42) आ ऽद॑दता दद॒ता ऽद॑दत । 43) अ॒द॒द॒त॒ कः को॑ ऽददता ददत॒ कः । 44) को हि हि कः को हि । 45) हि तेज॑सा॒ तेज॑सा॒ हि हि तेज॑सा । 46) तेज॑सा विक्रे॒ष्यते॑ विक्रे॒ष्यते॒ तेज॑सा॒ तेज॑सा विक्रे॒ष्यते᳚ । 47) वि॒क्रे॒ष्यत॒ इतीति॑ विक्रे॒ष्यते॑ विक्रे॒ष्यत॒ इति॑ । 47) वि॒क्रे॒ष्यत॒ इति॑ वि - क्रे॒ष्यते᳚ । 48) इति॒ येन॒ येने तीति॒ येन॑ । 49) येन॒ हिर॑ण्येन॒ हिर॑ण्येन॒ येन॒ येन॒ हिर॑ण्येन । 50) हिर॑ण्येन॒ सोम॒ग्ं॒ सोम॒ग्ं॒ हिर॑ण्येन॒ हिर॑ण्येन॒ सोम᳚म् । ॥ 68 ॥ (50/56)
1) सोम॑-ङ्क्रीणी॒या-त्क्री॑णी॒या-थ्सोम॒ग्ं॒ सोम॑-ङ्क्रीणी॒यात् । 2) क्री॒णी॒या-त्त-त्त-त्क्री॑णी॒या-त्क्री॑णी॒या-त्तत् । 3) तद॑भी॒षहा॑ ऽभी॒षहा॒ त-त्तद॑भी॒षहा᳚ । 4) अ॒भी॒षहा॒ पुनः॒ पुन॑ रभी॒षहा॑ ऽभी॒षहा॒ पुनः॑ । 4) अ॒भी॒षहेत्य॑भि - सहा᳚ । 5) पुन॒ रा पुनः॒ पुन॒ रा । 6) आ द॑दीत ददी॒ता द॑दीत । 7) द॒दी॒त॒ तेज॒ स्तेजो॑ ददीत ददीत॒ तेजः॑ । 8) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व । 9) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् । 10) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 11) ध॒त्ते॒ ऽस्मे अ॒स्मे ध॑त्ते धत्ते॒ ऽस्मे । 12) अ॒स्मे ज्योति॒-र्ज्योति॑ र॒स्मे अ॒स्मे ज्योतिः॑ । 12) अ॒स्मे इत्य॒स्मे । 13) ज्योति॑-स्सोमविक्र॒यिणि॑ सोमविक्र॒यिणि॒ ज्योति॒-र्ज्योति॑-स्सोमविक्र॒यिणि॑ । 14) सो॒म॒वि॒क्र॒यिणि॒ तम॒ स्तम॑-स्सोमविक्र॒यिणि॑ सोमविक्र॒यिणि॒ तमः॑ । 14) सो॒म॒वि॒क्र॒यिणीति॑ सोम - वि॒क्र॒यिणि॑ । 15) तम॒ इतीति॒ तम॒ स्तम॒ इति॑ । 16) इत्या॑हा॒हे तीत्या॑ह । 17) आ॒ह॒ ज्योति॒-र्ज्योति॑ राहाह॒ ज्योतिः॑ । 18) ज्योति॑ रे॒वैव ज्योति॒-र्ज्योति॑ रे॒व । 19) ए॒व यज॑माने॒ यज॑मान ए॒वैव यज॑माने । 20) यज॑माने दधाति दधाति॒ यज॑माने॒ यज॑माने दधाति । 21) द॒धा॒ति॒ तम॑सा॒ तम॑सा दधाति दधाति॒ तम॑सा । 22) तम॑सा सोमविक्र॒यिणग्ं॑ सोमविक्र॒यिण॒-न्तम॑सा॒ तम॑सा सोमविक्र॒यिण᳚म् । 23) सो॒म॒वि॒क्र॒यिण॑ मर्पय त्यर्पयति सोमविक्र॒यिणग्ं॑ सोमविक्र॒यिण॑ मर्पयति । 23) सो॒म॒वि॒क्र॒यिण॒मिति॑ सोम - वि॒क्र॒यिण᳚म् । 24) अ॒र्प॒य॒ति॒ य-द्यद॑र्पय त्यर्पयति॒ यत् । 25) यदनु॑पग्र॒थ्या नु॑पग्रथ्य॒ य-द्यदनु॑पग्रथ्य । 26) अनु॑पग्रथ्य ह॒न्या द्ध॒न्या दनु॑पग्र॒थ्या नु॑पग्रथ्य ह॒न्यात् । 26) अनु॑पग्र॒थ्येत्यनु॑प - ग्र॒थ्य॒ । 27) ह॒न्या-द्द॑न्द॒शूका॑ दन्द॒शूका॑ ह॒न्या द्ध॒न्या-द्द॑न्द॒शूकाः᳚ । 28) द॒न्द॒शूका॒ स्ता-न्ता-न्द॑न्द॒शूका॑ दन्द॒शूका॒ स्ताम् । 29) ताग्ं समा॒ग्ं॒ समा॒-न्ता-न्ताग्ं समा᳚म् । 30) समाग्ं॑ स॒र्पा-स्स॒र्पा-स्समा॒ग्ं॒ समाग्ं॑ स॒र्पाः । 31) स॒र्पा-स्स्यु॑-स्स्यु-स्स॒र्पा-स्स॒र्पा-स्स्युः॑ । 32) स्यु॒ रि॒द मि॒दग्ग् स्यु॑-स्स्यु रि॒दम् । 33) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् । 34) अ॒हग्ं स॒र्पाणाग्ं॑ स॒र्पाणा॑ म॒ह म॒हग्ं स॒र्पाणा᳚म् । 35) स॒र्पाणा᳚-न्दन्द॒शूका॑ना-न्दन्द॒शूका॑नाग्ं स॒र्पाणाग्ं॑ स॒र्पाणा᳚-न्दन्द॒शूका॑नाम् । 36) द॒न्द॒शूका॑ना-ङ्ग्री॒वा ग्री॒वा द॑न्द॒शूका॑ना-न्दन्द॒शूका॑ना-ङ्ग्री॒वाः । 37) ग्री॒वा उपोप॑ ग्री॒वा ग्री॒वा उप॑ । 38) उप॑ ग्रथ्नामि ग्रथ्ना॒ म्युपोप॑ ग्रथ्नामि । 39) ग्र॒थ्ना॒मी तीति॑ ग्रथ्नामि ग्रथ्ना॒ मीति॑ । 40) इत्या॑हा॒हे तीत्या॑ह । 41) आ॒हा द॑न्दशूका॒ अद॑न्दशूका आहा॒हा द॑न्दशूकाः । 42) अद॑न्दशूका॒ स्ता-न्ता मद॑न्दशूका॒ अद॑न्दशूका॒ स्ताम् । 43) ताग्ं समा॒ग्ं॒ समा॒-न्ता-न्ताग्ं समा᳚म् । 44) समाग्ं॑ स॒र्पा-स्स॒र्पा-स्समा॒ग्ं॒ समाग्ं॑ स॒र्पाः । 45) स॒र्पा भ॑वन्ति भवन्ति स॒र्पा-स्स॒र्पा भ॑वन्ति । 46) भ॒व॒न्ति॒ तम॑सा॒ तम॑सा भवन्ति भवन्ति॒ तम॑सा । 47) तम॑सा सोमविक्र॒यिणग्ं॑ सोमविक्र॒यिण॒-न्तम॑सा॒ तम॑सा सोमविक्र॒यिण᳚म् । 48) सो॒म॒वि॒क्र॒यिणं॑-विँद्ध्यति विद्ध्यति सोमविक्र॒यिणग्ं॑ सोमविक्र॒यिणं॑-विँद्ध्यति । 48) सो॒म॒वि॒क्र॒यिण॒मिति॑ सोम - वि॒क्र॒यिण᳚म् । 49) वि॒द्ध्य॒ति॒ स्वान॒ स्वान॑ विद्ध्यति विद्ध्यति॒ स्वान॑ । 50) स्वान॒ भ्राज॒ भ्राज॒ स्वान॒ स्वान॒ भ्राज॑ । ॥ 69 ॥ (50/56)
1) भ्राजे तीति॒ भ्राज॒ भ्राजेति॑ । 2) इत्या॑हा॒हे तीत्या॑ह । 3) आ॒है॒त ए॒त आ॑हा है॒ते । 4) ए॒ते वै वा ए॒त ए॒ते वै । 5) वा अ॒मुष्मि॑-न्न॒मुष्मि॒न्॒. वै वा अ॒मुष्मिन्न्॑ । 6) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 7) लो॒के सोम॒ग्ं॒ सोम॑म् ँलो॒के लो॒के सोम᳚म् । 8) सोम॑ मरक्ष-न्नरक्ष॒-न्थ्सोम॒ग्ं॒ सोम॑ मरक्षन्न् । 9) अ॒र॒क्ष॒-न्तेभ्य॒ स्तेभ्यो॑ ऽरक्ष-न्नरक्ष॒-न्तेभ्यः॑ । 10) तेभ्यो ऽध्यधि॒ तेभ्य॒ स्तेभ्यो ऽधि॑ । 11) अधि॒ सोम॒ग्ं॒ सोम॒ मध्यधि॒ सोम᳚म् । 12) सोम॒ मा सोम॒ग्ं॒ सोम॒ मा । 13) आ ऽह॑र-न्नहर॒न्ना ऽह॑रन्न् । 14) अ॒ह॒र॒न्॒. य-द्यद॑हर-न्नहर॒न्॒. यत् । 15) यदे॒तेभ्य॑ ए॒तेभ्यो॒ य-द्यदे॒तेभ्यः॑ । 16) ए॒तेभ्य॑-स्सोम॒क्रय॑णा-न्थ्सोम॒क्रय॑णा ने॒तेभ्य॑ ए॒तेभ्य॑-स्सोम॒क्रय॑णान् । 17) सो॒म॒क्रय॑णा॒-न्न न सो॑म॒क्रय॑णा-न्थ्सोम॒क्रय॑णा॒-न्न । 17) सो॒म॒क्रय॑णा॒निति॑ सोम - क्रय॑णान् । 18) नानु॑दि॒शे द॑नुदि॒शे-न्न नानु॑दि॒शेत् । 19) अ॒नु॒दि॒शे दक्री॒तो ऽक्री॑तो ऽनुदि॒शे द॑नुदि॒शे दक्री॑तः । 19) अ॒नु॒दि॒शेदित्य॑नु - दि॒शेत् । 20) अक्री॑तो ऽस्या॒स्या क्री॒तो ऽक्री॑तो ऽस्य । 21) अ॒स्य॒ सोम॒-स्सोमो᳚ ऽस्यास्य॒ सोमः॑ । 22) सोम॑-स्स्या-थ्स्या॒-थ्सोम॒-स्सोम॑-स्स्यात् । 23) स्या॒-न्न न स्या᳚-थ्स्या॒-न्न । 24) नास्या᳚स्य॒ न नास्य॑ । 25) अ॒स्यै॒त ए॒ते᳚ ऽस्या स्यै॒ते । 26) ए॒ते॑ ऽमुष्मि॑-न्न॒मुष्मि॑-न्ने॒त ए॒ते॑ ऽमुष्मिन्न्॑ । 27) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 28) लो॒के सोम॒ग्ं॒ सोम॑म् ँलो॒के लो॒के सोम᳚म् । 29) सोमग्ं॑ रक्षेयू रक्षेयु॒-स्सोम॒ग्ं॒ सोमग्ं॑ रक्षेयुः । 30) र॒क्षे॒यु॒-र्य-द्य-द्र॑क्षेयू रक्षेयु॒-र्यत् । 31) यदे॒तेभ्य॑ ए॒तेभ्यो॒ य-द्यदे॒तेभ्यः॑ । 32) ए॒तेभ्य॑-स्सोम॒क्रय॑णा-न्थ्सोम॒क्रय॑णा ने॒तेभ्य॑ ए॒तेभ्य॑-स्सोम॒क्रय॑णान् । 33) सो॒म॒क्रय॑णा ननुदि॒श त्य॑नुदि॒शति॑ सोम॒क्रय॑णा-न्थ्सोम॒क्रय॑णा ननुदि॒शति॑ । 33) सो॒म॒क्रय॑णा॒निति॑ सोम - क्रय॑णान् । 34) अ॒नु॒दि॒शति॑ क्री॒तः क्री॒तो॑ ऽनुदि॒श त्य॑नुदि॒शति॑ क्री॒तः । 34) अ॒नु॒दि॒शतीत्य॑नु - दि॒शति॑ । 35) क्री॒तो᳚ ऽस्यास्य क्री॒तः क्री॒तो᳚ ऽस्य । 36) अ॒स्य॒ सोम॒-स्सोमो᳚ ऽस्यास्य॒ सोमः॑ । 37) सोमो॑ भवति भवति॒ सोम॒-स्सोमो॑ भवति । 38) भ॒व॒ त्ये॒त ए॒ते भ॑वति भव त्ये॒ते । 39) ए॒ते᳚ ऽस्या स्यै॒त ए॒ते᳚ ऽस्य । 40) अ॒स्या॒ मुष्मि॑-न्न॒मुष्मि॑-न्नस्या स्या॒ मुष्मिन्न्॑ । 41) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 42) लो॒के सोम॒ग्ं॒ सोम॑म् ँलो॒के लो॒के सोम᳚म् । 43) सोमग्ं॑ रक्षन्ति रक्षन्ति॒ सोम॒ग्ं॒ सोमग्ं॑ रक्षन्ति । 44) र॒क्ष॒न्तीति॑ रक्षन्ति । ॥ 70 ॥ (44/48) ॥ अ. 10 ॥
1) वा॒रु॒णो वै वै वा॑रु॒णो वा॑रु॒णो वै । 2) वै क्री॒तः क्री॒तो वै वै क्री॒तः । 3) क्री॒त-स्सोम॒-स्सोमः॑ क्री॒तः क्री॒त-स्सोमः॑ । 4) सोम॒ उप॑नद्ध॒ उप॑नद्ध॒-स्सोम॒-स्सोम॒ उप॑नद्धः । 5) उप॑नद्धो मि॒त्रो मि॒त्र उप॑नद्ध॒ उप॑नद्धो मि॒त्रः । 5) उप॑नद्ध॒ इत्युप॑ - न॒द्धः॒ । 6) मि॒त्रो नो॑ नो मि॒त्रो मि॒त्रो नः॑ । 7) न॒ आ नो॑ न॒ आ । 8) एही॒ ह्येहि॑ । 9) इ॒हि॒ सुमि॑त्रधा॒-स्सुमि॑त्रधा इहीहि॒ सुमि॑त्रधाः । 10) सुमि॑त्रधा॒ इतीति॒ सुमि॑त्रधा॒-स्सुमि॑त्रधा॒ इति॑ । 10) सुमि॑त्रधा॒ इति॒ सुमि॑त्र - धाः॒ । 11) इत्या॑हा॒हे तीत्या॑ह । 12) आ॒ह॒ शान्त्यै॒ शान्त्या॑ आहाह॒ शान्त्यै᳚ । 13) शान्त्या॒ इन्द्र॒ स्येन्द्र॑स्य॒ शान्त्यै॒ शान्त्या॒ इन्द्र॑स्य । 14) इन्द्र॑ स्यो॒रु मू॒रु मिन्द्र॒ स्येन्द्र॑ स्यो॒रुम् । 15) ऊ॒रु मोरु मू॒रु मा । 16) आ वि॑श वि॒शा वि॑श । 17) वि॒श॒ दक्षि॑ण॒-न्दक्षि॑णं-विँश विश॒ दक्षि॑णम् । 18) दक्षि॑ण॒ मितीति॒ दक्षि॑ण॒-न्दक्षि॑ण॒ मिति॑ । 19) इत्या॑हा॒हे तीत्या॑ह । 20) आ॒ह॒ दे॒वा दे॒वा आ॑हाह दे॒वाः । 21) दे॒वा वै वै दे॒वा दे॒वा वै । 22) वै यं-यंँ वै वै यम् । 23) यग्ं सोम॒ग्ं॒ सोमं॒-यंँ यग्ं सोम᳚म् । 24) सोम॒ मक्री॑ण॒-न्नक्री॑ण॒-न्थ्सोम॒ग्ं॒ सोम॒ मक्री॑णन्न् । 25) अक्री॑ण॒-न्त-न्त मक्री॑ण॒-न्नक्री॑ण॒-न्तम् । 26) त मिन्द्र॒ स्येन्द्र॑स्य॒ त-न्त मिन्द्र॑स्य । 27) इन्द्र॑ स्यो॒रा वू॒रा विन्द्र॒ स्येन्द्र॑ स्यो॒रौ । 28) ऊ॒रौ दक्षि॑णे॒ दक्षि॑ण ऊ॒रा वू॒रौ दक्षि॑णे । 29) दक्षि॑ण॒ आ दक्षि॑णे॒ दक्षि॑ण॒ आ । 30) आ ऽसा॑दय-न्नसादय॒न्ना ऽसा॑दयन्न् । 31) अ॒सा॒द॒य॒-न्ने॒ष ए॒षो॑ ऽसादय-न्नसादय-न्ने॒षः । 32) ए॒ष खलु॒ खल्वे॒ष ए॒ष खलु॑ । 33) खलु॒ वै वै खलु॒ खलु॒ वै । 34) वा ए॒तर्-ह्ये॒तर्हि॒ वै वा ए॒तर्हि॑ । 35) ए॒तर्हीन्द्र॒ इन्द्र॑ ए॒तर्-ह्ये॒तर्हीन्द्रः॑ । 36) इन्द्रो॒ यो य इन्द्र॒ इन्द्रो॒ यः । 37) यो यज॑ते॒ यज॑ते॒ यो यो यज॑ते । 38) यज॑ते॒ तस्मा॒-त्तस्मा॒-द्यज॑ते॒ यज॑ते॒ तस्मा᳚त् । 39) तस्मा॑ दे॒व मे॒व-न्तस्मा॒-त्तस्मा॑ दे॒वम् । 40) ए॒व मा॑हा है॒व मे॒व मा॑ह । 41) आ॒हो दुदा॑ हा॒होत् । 42) उदायु॒षा ऽऽयु॒षोदु दायु॑षा । 43) आयु॑षा स्वा॒युषा᳚ स्वा॒युषा ऽऽयु॒षा ऽऽयु॑षा स्वा॒युषा᳚ । 44) स्वा॒यु षेतीति॑ स्वा॒युषा᳚ स्वा॒यु षेति॑ । 44) स्वा॒युषेति॑ सु - आ॒युषा᳚ । 45) इत्या॑हा॒हे तीत्या॑ह । 46) आ॒ह॒ दे॒वता॑ दे॒वता॑ आहाह दे॒वताः᳚ । 47) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व । 48) ए॒वा न्वा॒रभ्या᳚ न्वा॒रभ्यै॒ वैवा न्वा॒रभ्य॑ । 49) अ॒न्वा॒रभ्यो दुद॑ न्वा॒रभ्या᳚ न्वा॒रभ्योत् । 49) अ॒न्वा॒रभ्येत्य॑नु - आ॒रभ्य॑ । 50) उ-त्ति॑ष्ठति तिष्ठ॒ त्युदु-त्ति॑ष्ठति । ॥ 71 ॥ (50/54)
1) ति॒ष्ठ॒ त्यु॒रू॑रु ति॑ष्ठति तिष्ठ त्यु॒रु । 2) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्षम् । 3) अ॒न्तरि॑क्ष॒ मन् वन् व॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मनु॑ । 4) अन् वि॑ ही॒ह्यन् वन् वि॑हि । 5) इ॒ही तीती॑ ही॒हीति॑ । 6) इत्या॑हा॒हे तीत्या॑ह । 7) आ॒हा॒ न्त॒रि॒क्ष॒दे॒व॒त्यो᳚ ऽन्तरिक्षदेव॒त्य॑ आहाहा न्तरिक्षदेव॒त्यः॑ । 8) अ॒न्त॒रि॒क्ष॒दे॒व॒त्यो॑ हि ह्य॑न्तरिक्षदेव॒त्यो᳚ ऽन्तरिक्षदेव॒त्यो॑ हि । 8) अ॒न्त॒रि॒क्ष॒दे॒व॒त्य॑ इत्य॑न्तरिक्ष - दे॒व॒त्यः॑ । 9) ह्ये॑तर्-ह्ये॒तर्हि॒ हि ह्ये॑तर्हि॑ । 10) ए॒तर्हि॒ सोम॒-स्सोम॑ ए॒तर्-ह्ये॒तर्हि॒ सोमः॑ । 11) सोमो ऽदि॑त्या॒ अदि॑त्या॒-स्सोम॒-स्सोमो ऽदि॑त्याः । 12) अदि॑त्या॒-स्सद॒-स्सदो ऽदि॑त्या॒ अदि॑त्या॒-स्सदः॑ । 13) सदो᳚ ऽस्यसि॒ सद॒-स्सदो॑ ऽसि । 14) अ॒स्यदि॑त्या॒ अदि॑त्या अस्य॒स्य दि॑त्याः । 15) अदि॑त्या॒-स्सद॒-स्सदो ऽदि॑त्या॒ अदि॑त्या॒-स्सदः॑ । 16) सद॒ आ सद॒-स्सद॒ आ । 17) आ सी॑द सी॒दा सी॑द । 18) सी॒दे तीति॑ सीद सी॒देति॑ । 19) इत्या॑हा॒हे तीत्या॑ह । 20) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः । 21) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व । 21) य॒था॒य॒जुरिति॑ यथा - य॒जुः । 22) ए॒वैत दे॒त दे॒वै वैतत् । 23) ए॒त-द्वि व्ये॑त दे॒त-द्वि । 24) वि वै वै वि वि वै । 25) वा ए॑न मेनं॒-वैँ वा ए॑नम् । 26) ए॒न॒ मे॒त दे॒त दे॑न मेन मे॒तत् । 27) ए॒त द॑र्धय त्यर्धय त्ये॒त दे॒त द॑र्धयति । 28) अ॒र्ध॒य॒ति॒ य-द्यद॑र्धय त्यर्धयति॒ यत् । 29) य-द्वा॑रु॒णं-वाँ॑रु॒णं-यँ-द्य-द्वा॑रु॒णम् । 30) वा॒रु॒णग्ं सन्त॒ग्ं॒ सन्तं॑-वाँरु॒णं-वाँ॑रु॒णग्ं सन्त᳚म् । 31) सन्त॑-म्मै॒त्र-म्मै॒त्रग्ं सन्त॒ग्ं॒ सन्त॑-म्मै॒त्रम् । 32) मै॒त्र-ङ्क॒रोति॑ क॒रोति॑ मै॒त्र-म्मै॒त्र-ङ्क॒रोति॑ । 33) क॒रोति॑ वारु॒ण्या वा॑रु॒ण्या क॒रोति॑ क॒रोति॑ वारु॒ण्या । 34) वा॒रु॒ण्य र्च र्चा वा॑रु॒ण्या वा॑रु॒ण्य र्चा । 35) ऋ॒चा ऽऽसा॑दयति सादयत्या॒ र्च र्चा ऽऽसा॑दयति । 36) आ सा॑दयति सादय॒त्या सा॑दयति । 37) सा॒द॒य॒ति॒ स्वया॒ स्वया॑ सादयति सादयति॒ स्वया᳚ । 38) स्वयै॒ वैव स्वया॒ स्वयै॒व । 39) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 40) ए॒न॒-न्दे॒वत॑या दे॒वत॑ यैन मेन-न्दे॒वत॑या । 41) दे॒वत॑या॒ सग्ं स-न्दे॒वत॑या दे॒वत॑या॒ सम् । 42) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति । 43) अ॒र्ध॒य॒ति॒ वास॑सा॒ वास॑सा ऽर्धय त्यर्धयति॒ वास॑सा । 44) वास॑सा प॒र्यान॑ह्यति प॒र्यान॑ह्यति॒ वास॑सा॒ वास॑सा प॒र्यान॑ह्यति । 45) प॒र्यान॑ह्यति सर्वदेव॒त्यग्ं॑ सर्वदेव॒त्य॑-म्प॒र्यान॑ह्यति प॒र्यान॑ह्यति सर्वदेव॒त्य᳚म् । 45) प॒र्यान॑ह्य॒तीति॑ परि - आन॑ह्यति । 46) स॒र्व॒दे॒व॒त्यं॑-वैँ वै स॑र्वदेव॒त्यग्ं॑ सर्वदेव॒त्यं॑-वैँ । 46) स॒र्व॒दे॒व॒त्य॑मिति॑ सर्व - दे॒व॒त्य᳚म् । 47) वै वासो॒ वासो॒ वै वै वासः॑ । 48) वास॒-स्सर्वा॑भि॒-स्सर्वा॑भि॒-र्वासो॒ वास॒-स्सर्वा॑भिः । 49) सर्वा॑भि रे॒वैव सर्वा॑भि॒-स्सर्वा॑भि रे॒व । 50) ए॒वैन॑ मेन मे॒वै वैन᳚म् । ॥ 72 ॥ (50/54)
1) ए॒न॒-न्दे॒वता॑भि-र्दे॒वता॑भि रेन मेन-न्दे॒वता॑भिः । 2) दे॒वता॑भि॒-स्सग्ं स-न्दे॒वता॑भि-र्दे॒वता॑भि॒-स्सम् । 3) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति । 4) अ॒र्ध॒य॒ त्यथो॒ अथो॑ अर्धय त्यर्धय॒ त्यथो᳚ । 5) अथो॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मथो॒ अथो॒ रक्ष॑साम् । 5) अथो॒ इत्यथो᳚ । 6) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै । 7) अप॑हत्यै॒ वने॑षु॒ वने॒ ष्वप॑हत्या॒ अप॑हत्यै॒ वने॑षु । 7) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । 8) वने॑षु॒ वि वि वने॑षु॒ वने॑षु॒ वि । 9) व्य॑न्तरि॑क्ष म॒न्तरि॑क्षं॒-विँ व्य॑न्तरि॑क्षम् । 10) अ॒न्तरि॑क्ष-न्ततान तताना॒ न्तरि॑क्ष म॒न्तरि॑क्ष-न्ततान । 11) त॒ता॒ने तीति॑ ततान तता॒नेति॑ । 12) इत्या॑हा॒हे तीत्या॑ह । 13) आ॒ह॒ वने॑षु॒ वने᳚ ष्वा हाह॒ वने॑षु । 14) वने॑षु॒ हि हि वने॑षु॒ वने॑षु॒ हि । 15) हि वि वि हि हि वि । 16) व्य॑न्तरि॑क्ष म॒न्तरि॑क्षं॒-विँ व्य॑न्तरि॑क्षम् । 17) अ॒न्तरि॑क्ष-न्त॒तान॑ त॒ताना॒ न्तरि॑क्ष म॒न्तरि॑क्ष-न्त॒तान॑ । 18) त॒तान॒ वाजं॒-वाँज॑-न्त॒तान॑ त॒तान॒ वाज᳚म् । 19) वाज॒ मर्व॒-थ्स्वर्व॑थ्सु॒ वाजं॒-वाँज॒ मर्व॑थ्सु । 20) अर्व॒ थ्स्विती त्यर्व॒-थ्स्वर्व॒ थ्स्विति॑ । 20) अर्व॒थ्स्वित्यर्व॑त् - सु॒ । 21) इत्या॑हा॒हे तीत्या॑ह । 22) आ॒ह॒ वाजं॒-वाँज॑ माहाह॒ वाज᳚म् । 23) वाज॒ग्ं॒ हि हि वाजं॒-वाँज॒ग्ं॒ हि । 24) ह्यर्व॒-थ्स्वर्व॑थ्सु॒ हि ह्यर्व॑थ्सु । 25) अर्व॑थ्सु॒ पयः॒ पयो ऽर्व॒-थ्स्वर्व॑थ्सु॒ पयः॑ । 25) अर्व॒थ्स्वित्यर्व॑त् - सु॒ । 26) पयो॑ अघ्नि॒या स्व॑घ्नि॒यासु॒ पयः॒ पयो॑ अघ्नि॒यासु॑ । 27) अ॒घ्नि॒या स्विती त्य॑घ्नि॒या स्व॑घ्नि॒या स्विति॑ । 28) इत्या॑हा॒हे तीत्या॑ह । 29) आ॒ह॒ पयः॒ पय॑ आहाह॒ पयः॑ । 30) पयो॒ हि हि पयः॒ पयो॒ हि । 31) ह्य॑ घ्नि॒या स्व॑घ्नि॒यासु॒ हि ह्य॑ घ्नि॒यासु॑ । 32) अ॒घ्नि॒यासु॑ हृ॒थ्सु हृ॒-थ्स्व॑घ्नि॒या स्व॑घ्नि॒यासु॑ हृ॒थ्सु । 33) हृ॒थ्सु क्रतु॒-ङ्क्रतुग्ं॑ हृ॒थ्सु हृ॒थ्सु क्रतु᳚म् । 33) हृ॒थ्स्विति॑ हृत् - सु । 34) क्रतु॒ मितीति॒ क्रतु॒-ङ्क्रतु॒ मिति॑ । 35) इत्या॑हा॒हे तीत्या॑ह । 36) आ॒ह॒ हृ॒थ्सु हृ॒थ्स्वा॑ हाह हृ॒थ्सु । 37) हृ॒थ्सु हि हि हृ॒थ्सु हृ॒थ्सु हि । 37) हृ॒थ्स्विति॑ हृत् - सु । 38) हि क्रतु॒-ङ्क्रतु॒ग्ं॒ हि हि क्रतु᳚म् । 39) क्रतुं॒-वँरु॑णो॒ वरु॑णः॒ क्रतु॒-ङ्क्रतुं॒-वँरु॑णः । 40) वरु॑णो वि॒क्षु वि॒क्षु वरु॑णो॒ वरु॑णो वि॒क्षु । 41) वि॒क्ष्व॑ग्नि म॒ग्निं-विँ॒क्षु वि॒क्ष्व॑ग्निम् । 42) अ॒ग्नि मिती त्य॒ग्नि म॒ग्नि मिति॑ । 43) इत्या॑हा॒हे तीत्या॑ह । 44) आ॒ह॒ वरु॑णो॒ वरु॑ण आहाह॒ वरु॑णः । 45) वरु॑णो॒ हि हि वरु॑णो॒ वरु॑णो॒ हि । 46) हि वि॒क्षु वि॒क्षु हि हि वि॒क्षु । 47) वि॒क्ष्व॑ग्नि म॒ग्निं-विँ॒क्षु वि॒क्ष्व॑ग्निम् । 48) अ॒ग्नि-न्दि॒वि दि॒व्य॑ग्नि म॒ग्नि-न्दि॒वि । 49) दि॒वि सूर्य॒ग्ं॒ सूर्य॑-न्दि॒वि दि॒वि सूर्य᳚म् । 50) सूर्य॒ मितीति॒ सूर्य॒ग्ं॒ सूर्य॒ मिति॑ । ॥ 73 ॥ (50/56)
1) इत्या॑हा॒हे तीत्या॑ह । 2) आ॒ह॒ दि॒वि दि॒व्या॑ हाह दि॒वि । 3) दि॒वि हि हि दि॒वि दि॒वि हि । 4) हि सूर्य॒ग्ं॒ सूर्य॒ग्ं॒ हि हि सूर्य᳚म् । 5) सूर्य॒ग्ं॒ सोम॒ग्ं॒ सोम॒ग्ं॒ सूर्य॒ग्ं॒ सूर्य॒ग्ं॒ सोम᳚म् । 6) सोम॒ मद्रा॒ वद्रौ॒ सोम॒ग्ं॒ सोम॒ मद्रौ᳚ । 7) अद्रा॒ विती त्यद्रा॒ वद्रा॒ विति॑ । 8) इत्या॑हा॒हे तीत्या॑ह । 9) आ॒ह॒ ग्रावा॑णो॒ ग्रावा॑ण आहाह॒ ग्रावा॑णः । 10) ग्रावा॑णो॒ वै वै ग्रावा॑णो॒ ग्रावा॑णो॒ वै । 11) वा अद्र॒यो ऽद्र॑यो॒ वै वा अद्र॑यः । 12) अद्र॑य॒ स्तेषु॒ तेष्वद्र॒यो ऽद्र॑य॒ स्तेषु॑ । 13) तेषु॒ वै वै तेषु॒ तेषु॒ वै । 14) वा ए॒ष ए॒ष वै वा ए॒षः । 15) ए॒ष सोम॒ग्ं॒ सोम॑ मे॒ष ए॒ष सोम᳚म् । 16) सोम॑-न्दधाति दधाति॒ सोम॒ग्ं॒ सोम॑-न्दधाति । 17) द॒धा॒ति॒ यो यो द॑धाति दधाति॒ यः । 18) यो यज॑ते॒ यज॑ते॒ यो यो यज॑ते । 19) यज॑ते॒ तस्मा॒-त्तस्मा॒-द्यज॑ते॒ यज॑ते॒ तस्मा᳚त् । 20) तस्मा॑ दे॒व मे॒व-न्तस्मा॒-त्तस्मा॑ दे॒वम् । 21) ए॒व मा॑हा है॒व मे॒व मा॑ह । 22) आ॒होदु दा॑हा॒ होत् । 23) उदु॑ वु॒वु दुदु॑ । 24) उ॒ त्य-न्त्य मु॑ वु॒ त्यम् । 25) त्य-ञ्जा॒तवे॑दस-ञ्जा॒तवे॑दस॒-न्त्य-न्त्य-ञ्जा॒तवे॑दसम् । 26) जा॒तवे॑दस॒ मितीति॑ जा॒तवे॑दस-ञ्जा॒तवे॑दस॒ मिति॑ । 26) जा॒तवे॑दस॒मिति॑ जा॒त - वे॒द॒स॒म् । 27) इति॑ सौ॒र्या सौ॒र्ये तीति॑ सौ॒र्या । 28) सौ॒र्य र्च र्चा सौ॒र्या सौ॒र्य र्चा । 29) ऋ॒चा कृ॑ष्णाजि॒न-ङ्कृ॑ष्णाजि॒न मृ॒च र्चा कृ॑ष्णाजि॒नम् । 30) कृ॒ष्णा॒जि॒न-म्प्र॒त्यान॑ह्यति प्र॒त्यान॑ह्यति कृष्णाजि॒न-ङ्कृ॑ष्णाजि॒न-म्प्र॒त्यान॑ह्यति । 30) कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । 31) प्र॒त्यान॑ह्यति॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा-म्प्र॒त्यान॑ह्यति प्र॒त्यान॑ह्यति॒ रक्ष॑साम् । 31) प्र॒त्यान॑ह्य॒तीति॑ प्रति - आन॑ह्यति । 32) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै । 33) अप॑हत्या॒ उस्रा॒ वुस्रा॒ वप॑हत्या॒ अप॑हत्या॒ उस्रौ᳚ । 33) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । 34) उस्रा॒ वोस्रा॒ वुस्रा॒ वा । 35) एत॑ मित॒ मेत᳚म् । 36) इ॒त॒-न्धू॒र्॒षा॒हौ॒ धू॒र्॒षा॒हा॒ वि॒त॒ मि॒त॒-न्धू॒र्॒षा॒हौ॒ । 37) धू॒र्॒षा॒हा॒ वितीति॑ धूर्षाहौ धूर्षाहा॒ विति॑ । 37) धू॒र्॒षा॒हा॒विति॑ धूः - सा॒हौ॒ । 38) इत्या॑हा॒हे तीत्या॑ह । 39) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः । 40) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व । 40) य॒था॒य॒जुरिति॑ यथा - य॒जुः । 41) ए॒वैत दे॒त दे॒वै वैतत् । 42) ए॒त-त्प्र प्रैत दे॒त-त्प्र । 43) प्र च्य॑वस्व च्यवस्व॒ प्र प्र च्य॑वस्व । 44) च्य॒व॒स्व॒ भु॒वो॒ भु॒व॒ श्च्य॒व॒स्व॒ च्य॒व॒स्व॒ भु॒वः॒ । 45) भु॒व॒ स्प॒ते॒ प॒ते॒ भु॒वो॒ भु॒व॒ स्प॒ते॒ । 46) प॒त॒ इतीति॑ पते पत॒ इति॑ । 47) इत्या॑हा॒हे तीत्या॑ह । 48) आ॒ह॒ भू॒ताना᳚-म्भू॒ताना॑ माहाह भू॒ताना᳚म् । 49) भू॒ताना॒ग्ं॒ हि हि भू॒ताना᳚-म्भू॒ताना॒ग्ं॒ हि । 50) ह्ये॑ष ए॒ष हि ह्ये॑षः । ॥ 74 ॥ (50/56)
1) ए॒ष पति॒ष् पति॑ रे॒ष ए॒ष पतिः॑ । 2) पति॒-र्विश्वा॑नि॒ विश्वा॑नि॒ पति॒ष् पति॒-र्विश्वा॑नि । 3) विश्वा᳚न्य॒ भ्य॑भि विश्वा॑नि॒ विश्वा᳚ न्य॒भि । 4) अ॒भि धामा॑नि॒ धामा᳚ न्य॒भ्य॑भि धामा॑नि । 5) धामा॒नी तीति॒ धामा॑नि॒ धामा॒ नीति॑ । 6) इत्या॑हा॒हे तीत्या॑ह । 7) आ॒ह॒ विश्वा॑नि॒ विश्वा᳚ न्याहाह॒ विश्वा॑नि । 8) विश्वा॑नि॒ हि हि विश्वा॑नि॒ विश्वा॑नि॒ हि । 9) ह्ये॑ष ए॒ष हि ह्ये॑षः । 10) ए॒षो᳚(1॒) ऽभ्या᳚(1॒)भ्ये॑ष ए॒षो॑ ऽभि । 11) अ॒भि धामा॑नि॒ धामा᳚ न्य॒भ्य॑भि धामा॑नि । 12) धामा॑नि प्र॒च्यव॑ते प्र॒च्यव॑ते॒ धामा॑नि॒ धामा॑नि प्र॒च्यव॑ते । 13) प्र॒च्यव॑ते॒ मा मा प्र॒च्यव॑ते प्र॒च्यव॑ते॒ मा । 13) प्र॒च्यव॑त॒ इति॑ प्र - च्यव॑ते । 14) मा त्वा᳚ त्वा॒ मा मा त्वा᳚ । 15) त्वा॒ प॒रि॒प॒री प॑रिप॒री त्वा᳚ त्वा परिप॒री । 16) प॒रि॒प॒री वि॑द-द्विद-त्परिप॒री प॑रिप॒री वि॑दत् । 16) प॒रि॒प॒रीति॑ परि - प॒री । 17) वि॒द॒ दितीति॑ विद-द्विद॒ दिति॑ । 18) इत्या॑हा॒हे तीत्या॑ह । 19) आ॒ह॒ य-द्यदा॑हाह॒ यत् । 20) यदे॒वैव य-द्यदे॒व । 21) ए॒वादो॑ ऽद ए॒वैवादः । 22) अ॒द-स्सोम॒ग्ं॒ सोम॑ म॒दो॑ ऽद-स्सोम᳚म् । 23) सोम॑ माह्रि॒यमा॑ण माह्रि॒यमा॑ण॒ग्ं॒ सोम॒ग्ं॒ सोम॑ माह्रि॒यमा॑णम् । 24) आ॒ह्रि॒यमा॑ण-ङ्गन्ध॒र्वो ग॑न्ध॒र्व आ᳚ह्रि॒यमा॑ण माह्रि॒यमा॑ण-ङ्गन्ध॒र्वः । 24) आ॒ह्रि॒यमा॑ण॒मित्या᳚ - ह्रि॒यमा॑णम् । 25) ग॒न्ध॒र्वो वि॒श्वाव॑सु-र्वि॒श्वाव॑सु-र्गन्ध॒र्वो ग॑न्ध॒र्वो वि॒श्वाव॑सुः । 26) वि॒श्वाव॑सुः प॒र्यमु॑ष्णा-त्प॒र्यमु॑ष्णा-द्वि॒श्वाव॑सु-र्वि॒श्वाव॑सुः प॒र्यमु॑ष्णात् । 26) वि॒श्वाव॑सु॒रिति॑ वि॒श्व - व॒सुः॒ । 27) प॒र्यमु॑ष्णा॒-त्तस्मा॒-त्तस्मा᳚-त्प॒र्यमु॑ष्णा-त्प॒र्यमु॑ष्णा॒-त्तस्मा᳚त् । 27) प॒र्यमु॑ष्णा॒दिति॑ परि - अमु॑ष्णात् । 28) तस्मा॑ दे॒व मे॒व-न्तस्मा॒-त्तस्मा॑ दे॒वम् । 29) ए॒व मा॑हा है॒व मे॒व मा॑ह । 30) आ॒हा प॑रिमोषा॒या प॑रिमोषाया हा॒हा प॑रिमोषाय । 31) अप॑रिमोषाय॒ यज॑मानस्य॒ यज॑मान॒स्या प॑रिमोषा॒या प॑रिमोषाय॒ यज॑मानस्य । 31) अप॑रिमोषा॒येत्यप॑रि - मो॒षा॒य॒ । 32) यज॑मानस्य स्व॒स्त्यय॑नी स्व॒स्त्यय॑नी॒ यज॑मानस्य॒ यज॑मानस्य स्व॒स्त्यय॑नी । 33) स्व॒स्त्यय॑ न्यस्यसि स्व॒स्त्यय॑नी स्व॒स्त्यय॑ न्यसि । 33) स्व॒स्त्यय॒नीति॑ स्वस्ति - अय॑नी । 34) अ॒सीती त्य॑स्य॒ सीति॑ । 35) इत्या॑हा॒हे तीत्या॑ह । 36) आ॒ह॒ यज॑मानस्य॒ यज॑मानस्या हाह॒ यज॑मानस्य । 37) यज॑मान स्यै॒वैव यज॑मानस्य॒ यज॑मान स्यै॒व । 38) ए॒वैष ए॒ष ए॒वै वैषः । 39) ए॒ष य॒ज्ञस्य॑ य॒ज्ञ स्यै॒ष ए॒ष य॒ज्ञस्य॑ । 40) य॒ज्ञस्या᳚ न्वार॒म्भो᳚ ऽन्वार॒म्भो य॒ज्ञस्य॑ य॒ज्ञस्या᳚ न्वार॒म्भः । 41) अ॒न्वा॒र॒म्भो ऽन॑वच्छित्त्या॒ अन॑वच्छित्त्या अन्वार॒म्भो᳚ ऽन्वार॒म्भो ऽन॑वच्छित्त्यै । 41) अ॒न्वा॒र॒म्भ इत्य॑नु - आ॒र॒म्भः । 42) अन॑वच्छित्त्यै॒ वरु॑णो॒ वरु॒णो ऽन॑वच्छित्त्या॒ अन॑वच्छित्त्यै॒ वरु॑णः । 42) अन॑वच्छित्त्या॒ इत्यन॑व - छि॒त्त्यै॒ । 43) वरु॑णो॒ वै वै वरु॑णो॒ वरु॑णो॒ वै । 44) वा ए॒ष ए॒ष वै वा ए॒षः । 45) ए॒ष यज॑मानं॒-यँज॑मान मे॒ष ए॒ष यज॑मानम् । 46) यज॑मान म॒भ्य॑भि यज॑मानं॒-यँज॑मान म॒भि । 47) अ॒भ्या ऽभ्य॑भ्या । 48) ऐत्ये॒ त्यैति॑ । 49) ए॒ति॒ य-द्यदे᳚ त्येति॒ यत् । 50) य-त्क्री॒तः क्री॒तो य-द्य-त्क्री॒तः । ॥ 75 ॥ (50/59)
1) क्री॒त-स्सोम॒-स्सोमः॑ क्री॒तः क्री॒त-स्सोमः॑ । 2) सोम॒ उप॑नद्ध॒ उप॑नद्ध॒-स्सोम॒-स्सोम॒ उप॑नद्धः । 3) उप॑नद्धो॒ नमो॒ नम॒ उप॑नद्ध॒ उप॑नद्धो॒ नमः॑ । 3) उप॑नद्ध॒ इत्युप॑ - न॒द्धः॒ । 4) नमो॑ मि॒त्रस्य॑ मि॒त्रस्य॒ नमो॒ नमो॑ मि॒त्रस्य॑ । 5) मि॒त्रस्य॒ वरु॑णस्य॒ वरु॑णस्य मि॒त्रस्य॑ मि॒त्रस्य॒ वरु॑णस्य । 6) वरु॑णस्य॒ चक्ष॑से॒ चक्ष॑से॒ वरु॑णस्य॒ वरु॑णस्य॒ चक्ष॑से । 7) चक्ष॑स॒ इतीति॒ चक्ष॑से॒ चक्ष॑स॒ इति॑ । 8) इत्या॑हा॒हे तीत्या॑ह । 9) आ॒ह॒ शान्त्यै॒ शान्त्या॑ आहाह॒ शान्त्यै᳚ । 10) शान्त्या॒ आ शान्त्यै॒ शान्त्या॒ आ । 11) आ सोम॒ग्ं॒ सोम॒ मा सोम᳚म् । 12) सोमं॒-वँह॑न्ति॒ वह॑न्ति॒ सोम॒ग्ं॒ सोमं॒-वँह॑न्ति । 13) वह॑-न्त्य॒ग्निना॒ ऽग्निना॒ वह॑न्ति॒ वह॑-न्त्य॒ग्निना᳚ । 14) अ॒ग्निना॒ प्रति॒ प्रत्य॒ग्निना॒ ऽग्निना॒ प्रति॑ । 15) प्रति॑ तिष्ठते तिष्ठते॒ प्रति॒ प्रति॑ तिष्ठते । 16) ति॒ष्ठ॒ते॒ तौ तौ ति॑ष्ठते तिष्ठते॒ तौ । 17) तौ स॒म्भव॑न्तौ स॒म्भव॑न्तौ॒ तौ तौ स॒म्भव॑न्तौ । 18) स॒म्भव॑न्तौ॒ यज॑मानं॒-यँज॑मानग्ं स॒म्भव॑न्तौ स॒म्भव॑न्तौ॒ यज॑मानम् । 18) स॒म्भव॑न्ता॒विति॑ सं - भव॑न्तौ । 19) यज॑मान म॒भ्य॑भि यज॑मानं॒-यँज॑मान म॒भि । 20) अ॒भि सग्ं स म॒भ्य॑भि सम् । 21) स-म्भ॑वतो भवत॒-स्सग्ं स-म्भ॑वतः । 22) भ॒व॒तः॒ पु॒रा पु॒रा भ॑वतो भवतः पु॒रा । 23) पु॒रा खलु॒ खलु॑ पु॒रा पु॒रा खलु॑ । 24) खलु॒ वाव वाव खलु॒ खलु॒ वाव । 25) वावैष ए॒ष वाव वावैषः । 26) ए॒ष मेधा॑य॒ मेधा॑ यै॒ष ए॒ष मेधा॑य । 27) मेधा॑ या॒त्मान॑ मा॒त्मान॒-म्मेधा॑य॒ मेधा॑ या॒त्मान᳚म् । 28) आ॒त्मान॑ मा॒रभ्या॒ रभ्या॒त्मान॑ मा॒त्मान॑ मा॒रभ्य॑ । 29) आ॒रभ्य॑ चरति चर त्या॒रभ्या॒ रभ्य॑ चरति । 29) आ॒रभ्येत्या᳚ - रभ्य॑ । 30) च॒र॒ति॒ यो यश्च॑रति चरति॒ यः । 31) यो दी᳚क्षि॒तो दी᳚क्षि॒तो यो यो दी᳚क्षि॒तः । 32) दी॒क्षि॒तो य-द्य-द्दी᳚क्षि॒तो दी᳚क्षि॒तो यत् । 33) यद॑ग्नीषो॒मीय॑ मग्नीषो॒मीयं॒-यँ-द्यद॑ग्नीषो॒मीय᳚म् । 34) अ॒ग्नी॒षो॒मीय॑-म्प॒शु-म्प॒शु म॑ग्नीषो॒मीय॑ मग्नीषो॒मीय॑-म्प॒शुम् । 34) अ॒ग्नी॒षो॒मीय॒मित्य॑ग्नी - सो॒मीय᳚म् । 35) प॒शु मा॒लभ॑त आ॒लभ॑ते प॒शु-म्प॒शु मा॒लभ॑ते । 36) आ॒लभ॑त आत्मनि॒ष्क्रय॑ण आत्मनि॒ष्क्रय॑ण आ॒लभ॑त आ॒लभ॑त आत्मनि॒ष्क्रय॑णः । 36) आ॒लभ॑त॒ इत्या᳚ - लभ॑ते । 37) आ॒त्म॒नि॒ष्क्रय॑ण ए॒वैवा त्म॑नि॒ष्क्रय॑ण आत्मनि॒ष्क्रय॑ण ए॒व । 37) आ॒त्म॒नि॒ष्क्रय॑ण॒ इत्या᳚त्म - नि॒ष्क्रय॑णः । 38) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 39) अ॒स्य॒ स सो᳚ ऽस्यास्य॒ सः । 40) स तस्मा॒-त्तस्मा॒-थ्स स तस्मा᳚त् । 41) तस्मा॒-त्तस्य॒ तस्य॒ तस्मा॒-त्तस्मा॒-त्तस्य॑ । 42) तस्य॒ न न तस्य॒ तस्य॒ न । 43) नाश्य॑ मा॒श्य॑न्न नाश्य᳚म् । 44) आ॒श्य॑-म्पुरुषनि॒ष्क्रय॑णः पुरुषनि॒ष्क्रय॑ण आ॒श्य॑ मा॒श्य॑-म्पुरुषनि॒ष्क्रय॑णः । 45) पु॒रु॒ष॒नि॒ष्क्रय॑ण इवेव पुरुषनि॒ष्क्रय॑णः पुरुषनि॒ष्क्रय॑ण इव । 45) पु॒रु॒ष॒नि॒ष्क्रय॑ण॒ इति॑ पुरुष - नि॒ष्क्रय॑णः । 46) इ॒व॒ हि हीवे॑व॒ हि । 47) ह्यथो॒ अथो॒ हि ह्यथो᳚ । 48) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 48) अथो॒ इत्यथो᳚ । 49) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः । 50) आ॒हु॒ र॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्या माहु राहु र॒ग्नीषोमा᳚भ्याम् । 51) अ॒ग्नीषोमा᳚भ्यां॒-वैँ वा अ॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्यां॒-वैँ । 51) अ॒ग्नीषोमा᳚भ्या॒मित्य॒ग्नी - सोमा᳚भ्याम् । 52) वा इन्द्र॒ इन्द्रो॒ वै वा इन्द्रः॑ । 53) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् । 54) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् । 55) अ॒ह॒-न्निती त्य॑ह-न्नह॒-न्निति॑ । 56) इति॒ य-द्यदितीति॒ यत् । 57) यद॑ग्नीषो॒मीय॑ मग्नीषो॒मीयं॒-यँ-द्यद॑ग्नीषो॒मीय᳚म् । 58) अ॒ग्नी॒षो॒मीय॑-म्प॒शु-म्प॒शु म॑ग्नीषो॒मीय॑ मग्नीषो॒मीय॑-म्प॒शुम् । 58) अ॒ग्नी॒षो॒मीय॒मित्य॑ग्नी - सो॒मीय᳚म् । 59) प॒शु मा॒लभ॑त आ॒लभ॑ते प॒शु-म्प॒शु मा॒लभ॑ते । 60) आ॒लभ॑ते॒ वार्त्र॑घ्नो॒ वार्त्र॑घ्न आ॒लभ॑त आ॒लभ॑ते॒ वार्त्र॑घ्नः । 60) आ॒लभ॑त॒ इत्या᳚ - लभ॑ते । 61) वार्त्र॑घ्न ए॒वैव वार्त्र॑घ्नो॒ वार्त्र॑घ्न ए॒व । 61) वार्त्र॑घ्न॒ इति॒ वार्त्र॑ - घ्नः॒ । 62) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 63) अ॒स्य॒ स सो᳚ ऽस्यास्य॒ सः । 64) स तस्मा॒-त्तस्मा॒-थ्स स तस्मा᳚त् । 65) तस्मा॑दू॒ तस्मा॒-त्तस्मा॑दु । 66) उ॒ वा॒श्य॑ मा॒श्य॑ मु वु वा॒श्य᳚म् । 67) आ॒श्यं॑-वाँरु॒ण्या वा॑रु॒ण्या ऽऽश्य॑ मा॒श्यं॑-वाँरु॒ण्या । 68) वा॒रु॒ण्य र्च र्चा वा॑रु॒ण्या वा॑रु॒ण्य र्चा । 69) ऋ॒चा परि॒ पर्यृ॒च र्चा परि॑ । 70) परि॑ चरति चरति॒ परि॒ परि॑ चरति । 71) च॒र॒ति॒ स्वया॒ स्वया॑ चरति चरति॒ स्वया᳚ । 72) स्वयै॒ वैव स्वया॒ स्वयै॒व । 73) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 74) ए॒न॒-न्दे॒वत॑या दे॒वत॑यैन मेन-न्दे॒वत॑या । 75) दे॒वत॑या॒ परि॒ परि॑ दे॒वत॑या दे॒वत॑या॒ परि॑ । 76) परि॑ चरति चरति॒ परि॒ परि॑ चरति । 77) च॒र॒तीति॑ चरति । ॥ 76 ॥ (77, 89)
॥ अ. 11 ॥
Browse Related Categories: