Samskritam Songs · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
शुद्धोसि बुद्धोसि निरंजनोऽसि संसारमाया परिवर्जितोऽसि । संसारस्वप्नं त्यज मोहनिद्रां मदालसोल्लापमुवाच पुत्रम् ॥ 1 ॥
शुद्धोऽसि रे तात न तेऽस्ति नाम कृतं हि तत्कल्पनयाधुनैव । पंचात्मकं देह-मिदं न तेऽस्ति नैवास्य त्वं रोदिषि कस्य हेतो ॥ 2 ॥
न वै भवान् रोदिति विक्ष्वजन्मा शब्धोयमायाध्य महीश सूनूम् । विकल्प्यमानो विविधैर्गुणैस्ते गुणाश्च भौताः सकलेंदियेषु ॥ 3 ॥
भूतानि भूतैः परिदुर्बलानि वृद्धिं समायांति यथेह पुंसः । अन्नांबुपानादिभिरेव तस्मात् न तेस्ति वृद्धिर् न च तेस्ति हानिः ॥ 4 ॥
त्वं कंचुके शीर्यमाणे निजोस्मिन् तस्मिन् देहे मूढतां मा व्रजेथाः । शुभाशुभौः कर्मभिर्देहमेतत् मृदादिभिः कंचुकस्ते पिनद्धः ॥ 5 ॥
तातेति किंचित् तनयेति किंचित् अंबेति किंचिद्धयितेति किंचित् । ममेति किंचिन्न ममेति किंचित् त्वं भूतसंघं बहु म नयेथाः ॥ 6 ॥
सुखानि दुःखोपशमाय भोगान् सुखाय जानाति विमूढचेताः । तान्येव दुःखानि पुनः सुखानि जानाति विद्धन विमूढ चेताः ॥ 7 ॥
यानं चित्तौ तत्र गतश्च देहो देहोऽपिचान्यः पुरुषो निविष्ठः । ममत्वमुरोया न यथ तथास्मिन् देहेति मात्रं बत मूढरौष ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
Browse Related Categories: