Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
लीलालब्धस्थापितलुप्ताखिललोकां लोकातीतैर्योगिभिरंतश्चिरमृग्याम् । बालादित्यश्रेणिसमानद्युतिपुंजां गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 1 ॥
प्रत्याहारध्यानसमाधिस्थितिभाजां नित्यं चित्ते निर्वृतिकाष्ठां कलयंतीम् । सत्यज्ञानानंदमयीं तां तनुरूपां गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 2 ॥
चंद्रापीडानंदितमंदस्मितवक्त्रां चंद्रापीडालंकृतनीलालकभाराम् । इंद्रोपेंद्राद्यर्चितपादांबुजयुग्मां गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 3 ॥
आदिक्षांतामक्षरमूर्त्या विलसंतीं भूते भूते भूतकदंबप्रसवित्रीम् । शब्दब्रह्मानंदमयीं तां तटिदाभां गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 4 ॥
मूलाधारादुत्थितवीथ्या विधिरंध्रं सौरं चांद्रं व्याप्य विहारज्वलितांगीम् । येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 5 ॥
नित्यः शुद्धो निष्कल एको जगदीशः साक्षी यस्याः सर्गविधौ संहरणे च । विश्वत्राणक्रीडनलोलां शिवपत्नीं गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 6 ॥
यस्याः कुक्षौ लीनमखंडं जगदंडं भूयो भूयः प्रादुरभूदुत्थितमेव । पत्या सार्धं तां रजताद्रौ विहरंतीं गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 7 ॥
यस्यामोतं प्रोतमशेषं मणिमाला- -सूत्रे यद्वत्कापि चरं चाप्यचरं च । तामध्यात्मज्ञानपदव्या गमनीयां गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
नानाकारैः शक्तिकदंबैर्भुवनानि व्याप्य स्वैरं क्रीडति येयं स्वयमेका । कल्याणीं तां कल्पलतामानतिभाजां गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 9 ॥
आशापाशक्लेशविनाशं विदधानां पादांभोजध्यानपराणां पुरुषाणाम् । ईशामीशार्धांगहरां तामभिरामां गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 10 ॥
प्रातःकाले भावविशुद्धः प्रणिधाना- -द्भक्त्या नित्यं जल्पति गौरीदशकं यः । वाचां सिद्धिं संपदमग्र्यां शिवभक्तिं तस्यावश्यं पर्वतपुत्री विदधाति ॥ 11 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ गौरी दशकम् ।
Browse Related Categories: