Ganesha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
स्मरामि देवदेवेशं वक्रतुंडं महाबलम् । षडक्षरं कृपासिंधुं नमामि ऋणमुक्तये ॥ 1 ॥
एकाक्षरं ह्येकदंतं एकं ब्रह्म सनातनम् । एकमेवाद्वितीयं च नमामि ऋणमुक्तये ॥ 2 ॥
महागणपतिं देवं महासत्त्वं महाबलम् । महाविघ्नहरं शंभोः नमामि ऋणमुक्तये ॥ 3 ॥
कृष्णांबरं कृष्णवर्णं कृष्णगंधानुलेपनम् । कृष्णसर्पोपवीतं च नमामि ऋणमुक्तये ॥ 4 ॥
रक्तांबरं रक्तवर्णं रक्तगंधानुलेपनम् । रक्तपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ 5 ॥
पीतांबरं पीतवर्णं पीतगंधानुलेपनम् । पीतपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ 6 ॥
धूम्रांबरं धूम्रवर्णं धूम्रगंधानुलेपनम् । होमधूमप्रियं देवं नमामि ऋणमुक्तये ॥ 7 ॥
फालनेत्रं फालचंद्रं पाशांकुशधरं विभुम् । चामरालंकृतं देवं नमामि ऋणमुक्तये ॥ 8 ॥
इदं त्वृणहरं स्तोत्रं संध्यायां यः पठेन्नरः । षण्मासाभ्यंतरेणैव ऋणमुक्तो भविष्यति ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
इति ऋणविमोचन महागणपति स्तोत्रम् ।
Browse Related Categories: