Ganesha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
मुदाकरात्त मोदकं सदा विमुक्ति साधकम् । कलाधरावतंसकं विलासिलोक रक्षकम् । अनायकैक नायकं विनाशितेभ दैत्यकम् । नताशुभाशु नाशकं नमामि तं विनायकम् ॥ 1 ॥
नतेतराति भीकरं नवोदितार्क भास्वरम् । नमत्सुरारि निर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् । महेश्वरं तमाश्रये परात्परं निरंतरम् ॥ 2 ॥
समस्त लोक शंकरं निरस्त दैत्य कुंजरम् । दरेतरोदरं वरं वरेभ वक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं यशस्करम् । मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ 3 ॥
अकिंचनार्ति मार्जनं चिरंतनोक्ति भाजनम् । पुरारि पूर्व नंदनं सुरारि गर्व चर्वणम् । प्रपंच नाश भीषणं धनंजयादि भूषणम् । कपोल दानवारणं भजे पुराण वारणम् ॥ 4 ॥
नितांत कांति दंत कांति मंत कांति कात्मजम् । अचिंत्य रूपमंत हीन मंतराय कृंतनम् । हृदंतरे निरंतरं वसंतमेव योगिनाम् । तमेकदंतमेव तं विचिंतयामि संततम् ॥ 5 ॥
महागणेश पंचरत्नमादरेण योऽन्वहम् । प्रजल्पति प्रभातके हृदि स्मरण् गणेश्वरम् । अरोगतामदोषतां सुसाहितीं सुपुत्रताम् । समाहितायु रष्टभूति मभ्युपैति सोऽचिरात् ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts