Guru · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अनंतसंसार-समुद्रतार- नौकायिताभ्यां गुरुभक्तिदाभ्याम् । वैराग्यसाम्राज्यद-पूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 1 ॥
कवित्ववाराशि-निशाकराभ्यां दौर्भाग्य-दावांबुद-मालिकाभ्याम् । दूरीकृतानम्र-विपत्तिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 2 ॥
नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः । मूकाश्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 3 ॥
नालीकनीकाश-पदाहृताभ्यां नानाविमोहादि-निवारिकाभ्याम् । नमज्जनाभीष्ट-ततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 4 ॥
नृपालिमौलि-व्रजरत्नकांति- सरिद्विराजज्झष-कन्यकाभ्याम् । नृपत्वदाभ्यां नतलोकपंक्तेः नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 5 ॥
पापांधकारार्क-परंपराभ्यां तापत्रयाहींद्र-खगेश्वराभ्याम् । जाड्याब्धि-संशोषण-वाडवाभ्याम् नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 6 ॥
शमादिषट्कप्रद-वैभवाभ्यां समाधिदान-व्रतदीक्षिताभ्याम् । रमाधवांघ्रि-स्थिरभक्तिदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 7 ॥
स्वार्चापराणा-मखिलेष्टदाभ्यां स्वाहासहायाक्ष-धुरंधराभ्याम् । स्वांताच्छभाव-प्रदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
कामादिसर्प-व्रजगारुडाभ्यां विवेकवैराग्य-निधिप्रदाभ्याम् । बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 9 ॥
Browse Related Categories: