Guru · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्रीगुरुभ्यो नमः । हरिः ओम् ।
ध्यानम् हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैर्जगत्कारणं विश्वोत्कीर्णमनेकदेहनिलयं स्वच्छंदमानंदकम् । आद्यंतैकमखंडचिद्घनरसं पूर्णं ह्यनंतं शुभं प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ॥
अथ प्रथमोऽध्यायः ॥
अचिंत्याव्यक्तरूपाय निर्गुणाय गणात्मने । समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥ 1 ॥
ऋषय ऊचुः । सूत सूत महाप्राज्ञ निगमागमपारग । गुरुस्वरूपमस्माकं ब्रूहि सर्वमलापहम् ॥ 2 ॥
यस्य श्रवणमात्रेण देही दुःखाद्विमुच्यते । येन मार्गेण मुनयः सर्वज्ञत्वं प्रपेदिरे ॥ 3 ॥
यत्प्राप्य न पुनर्याति नरः संसारबंधनम् । तथाविधं परं तत्त्वं वक्तव्यमधुना त्वया ॥ 4 ॥
गुह्याद्गुह्यतमं सारं गुरुगीता विशेषतः । त्वत्प्रसादाच्च श्रोतव्या तत्सर्वं ब्रूहि सूत नः ॥ 5 ॥
इति संप्रार्थितः सूतो मुनिसंघैर्मुहुर्मुहुः ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
कुतूहलेन महता प्रोवाच मधुरं वचः ॥ 6 ॥
सूत उवाच
श्रुणुध्वं मुनयः सर्वे श्रद्धया परया मुदा । वदामि भवरोगघ्नीं गीतां मातृस्वरूपिणीम् ॥ 7
पुरा कैलासशिखरे सिद्धगंधर्वसेविते । तत्र कल्पलतापुष्पमंदिरेऽत्यंतसुंदरे ॥ 8 ॥
व्याघ्राजिने समासीनं शुकादिमुनिवंदितम् । बोधयंतं परं तत्त्वं मध्ये मुनिगणे क्वचित् ॥ 9 ॥
प्रणम्रवदना शश्वन्नमस्कुर्वंतमादरात् । दृष्ट्वा विस्मयमापन्न पार्वती परिपृच्छति ॥ 10 ॥
पार्वत्युवाच
ॐ नमो देव देवेश परात्पर जगद्गुरो । त्वां नमस्कुर्वते भक्त्या सुरासुरनराः सदा ॥ 11
विधिविष्णुमहेंद्राद्यैर्वंद्यः खलु सदा भवान् । नमस्करोषि कस्मै त्वं नमस्काराश्रयः किल ॥ 12 ॥
दृष्ट्वैतत्कर्म विपुलमाश्चर्य प्रतिभाति मे । किमेतन्न विजानेऽहं कृपया वद मे प्रभो ॥ 13 ॥
भगवन् सर्वधर्मज्ञ व्रतानां व्रतनायकम् । ब्रूहि मे कृपया शंभो गुरुमाहात्म्यमुत्तमम् ॥ 14 ॥
केन मार्गेण भो स्वामिन् देही ब्रह्ममयो भवेत् । तत्कृपां कुरु मे स्वामिन् नमामि चरणौ तव ॥ 15 ॥
इति संप्रार्थितः शश्वन्महादेवो महेश्वरः । आनंदभरितः स्वांते पार्वतीमिदमब्रवीत् ॥ 16 ॥
श्री महादेव उवाच
न वक्तव्यमिदं देवि रहस्यातिरहस्यकम् । न कस्यापि पुरा प्रोक्तं त्वद्भक्त्यर्थं वदामि तत् ॥ 17
मम रूपाऽसि देवि त्वमतस्तत्कथयामि ते । लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ 18 ॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशंते महात्मनः ॥ 19 ॥
यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः । विकल्पं यस्तु कुर्वीत स नरो गुरुतल्पगः ॥ 20 ॥
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । गुरुब्रह्म विना नान्यः सत्यं सत्यं वरानने ॥ 21 ॥
वेदशास्त्रपुराणानि चेतिहासादिकानि च । मंत्रयंत्रादिविद्यानां मोहनोच्चाटनादिकम् ॥ 22 ॥
शैवशाक्तागमादीनि ह्यन्ये च बहवो मताः । अपभ्रंशाः समस्तानां जीवानां भ्रांतचेतसाम् ॥ 23 ॥
जपस्तपो व्रतं तीर्थं यज्ञो दानं तथैव च । गुरुतत्त्वमविज्ञाय सर्वं व्यर्थं भवेत्प्रिये ॥ 24 ॥
गुरुबुद्ध्यात्मनो नान्यत् सत्यं सत्यं वरानने । तल्लाभार्थं प्रयत्नस्तु कर्तव्यश्च मनीषिभिः ॥ 25 ॥
गूढाविद्या जगन्माया देहश्चाज्ञानसंभवः । विज्ञानं यत्प्रसादेन गुरुशब्देन कथ्यते ॥ 26 ॥
यदंघ्रिकमलद्वंद्वं द्वंद्वतापनिवारकम् । तारकं भवसिंधोश्च तं गुरुं प्रणमाम्यहम् ॥ 27 ॥
देही ब्रह्म भवेद्यस्मात् त्वत्कृपार्थं वदामि तत् । सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् ॥ 28 ॥
सर्वतीर्थावगाहस्य संप्राप्नोति फलं नरः । गुरोः पादोदकं पीत्वा शेषं शिरसि धारयन् ॥ 29 ॥
शोषणं पापपंकस्य दीपनं ज्ञानतेजसः । गुरोः पादोदकं सम्यक् संसारार्णवतारकम् ॥ 30 ॥
अज्ञानमूलहरणं जन्मकर्मनिवारकम् । ज्ञानवैराग्यसिद्ध्यर्थं गुरोः पादोदकं पिबेत् ॥ 31 ॥
गुरुपादोदकं पानं गुरोरुच्छिष्टभोजनम् । गुरुमूर्तेः सदा ध्यानं गुरोर्नाम सदा जपः ॥ 32 ॥
स्वदेशिकस्यैव च नामकीर्तनं भवेदनंतस्य शिवस्य कीर्तनम् । स्वदेशिकस्यैव च नामचिंतनं भवेदनंतस्य शिवस्य चिंतनम् ॥ 33 ॥
यत्पादांबुजरेणुर्वै कोऽपि संसारवारिधौ । सेतुबंधायते नाथं देशिकं तमुपास्महे ॥ 34 ॥
यदनुग्रहमात्रेण शोकमोहौ विनश्यतः । तस्मै श्रीदेशिकेंद्राय नमोऽस्तु परमात्मने ॥ 35 ॥
यस्मादनुग्रहं लब्ध्वा महदज्ञानमुत्सृजेत् । तस्मै श्रीदेशिकेंद्राय नमश्चाभीष्टसिद्धये ॥ 36 ॥
काशीक्षेत्रं निवासश्च जाह्नवी चरणोदकम् । गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्मनिश्चयः ॥ 37 ॥
गुरुसेवा गया प्रोक्ता देहः स्यादक्षयो वटः । तत्पादं विष्णुपादं स्यात् तत्र दत्तमनस्ततम् ॥ 38 ॥
गुरुमूर्तिं स्मरेन्नित्यं गुरोर्नाम सदा जपेत् । गुरोराज्ञां प्रकुर्वीत गुरोरन्यं न भावयेत् ॥ 39 ॥
गुरुवक्त्रे स्थितं ब्रह्म प्राप्यते तत्प्रसादतः । गुरोर्ध्यानं सदा कुर्यात् कुलस्त्री स्वपतिं यथा ॥ 40 ॥
स्वाश्रमं च स्वजातिं च स्वकीर्तिं पुष्टिवर्धनम् । एतत्सर्वं परित्यज्य गुरुमेव समाश्रयेत् ॥ 41 ॥
अनन्याश्चिंतयंतो ये सुलभं परमं सुखम् । तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु ॥ 42 ॥
गुरुवक्त्रे स्थिता विद्या गुरुभक्त्या च लभ्यते । त्रैलोक्ये स्फुटवक्तारो देवर्षिपितृमानवाः ॥ 43 ॥
गुकारश्चांधकारो हि रुकारस्तेज उच्यते । अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ 44 ॥
गुकारश्चांधकारस्तु रुकारस्तन्निरोधकृत् । अंधकारविनाशित्वाद्गुरुरित्यभिधीयते ॥
गुकारो भवरोगः स्यात् रुकारस्तन्निरोधकृत् । भवरोगहरत्वाच्च गुरुरित्यभिधीयते ॥ 45 ॥
गुकारश्च गुणातीतो रूपातीतो रुकारकः । गुणरूपविहीनत्वात् गुरुरित्यभिधीयते ॥ 46 ॥
गुकारः प्रथमो वर्णो मायादिगुणभासकः । रुकारोऽस्ति परं ब्रह्म मायाभ्रांतिविमोचकम् ॥ 47 ॥
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । हाहाहूहूगणैश्चैव गंधर्वाद्यैश्च पूजितम् ॥ 48 ॥
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । गुरोराराधनं कुर्यात् स्वजीवत्वं निवेदयेत् ॥ 49 ॥
आसनं शयनं वस्त्रं वाहनं भूषणादिकम् । साधकेन प्रदातव्यं गुरुसंतोषकारणम् ॥ 50 ॥
कर्मणा मनसा वाचा सर्वदाऽऽराधयेद्गुरुम् । दीर्घदंडं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ 51 ॥
शरीरमिंद्रियं प्राणमर्थस्वजनबांधवान् । आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ 52 ॥
गुरुरेको जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् । गुरोः परतरं नास्ति तस्मात्संपूजयेद्गुरुम् ॥ 53 ॥
सर्वश्रुतिशिरोरत्नविराजितपदांबुजम् । वेदांतार्थप्रवक्तारं तस्मात् संपूजयेद्गुरुम् ॥ 54 ॥
यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् । स एव सर्वसंपत्तिः तस्मात्संपूजयेद्गुरुम् ॥ 55 ॥
[पाठभेदः - कृमिकोटिभिराविष्टं दुर्गंधमलमूत्रकम् । श्लेष्मरक्तत्वचामांसैर्नद्धं चैतद्वरानने ॥ ] कृमिकोटिभिराविष्टं दुर्गंधकुलदूषितम् । अनित्यं दुःखनिलयं देहं विद्धि वरानने ॥ 56 ॥
संसारवृक्षमारूढाः पतंति नरकार्णवे । यस्तानुद्धरते सर्वान् तस्मै श्रीगुरवे नमः ॥ 57 ॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥ 58 ॥
अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ 59 ॥
अखंडमंडलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 60 ॥
स्थावरं जंगमं व्याप्तं यत्किंचित्सचराचरम् । त्वं पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 61 ॥
चिन्मयव्यापितं सर्वं त्रैलोक्यं सचराचरम् । असित्वं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 62 ॥
निमिषान्निमिषार्धाद्वा यद्वाक्याद्वै विमुच्यते । स्वात्मानं शिवमालोक्य तस्मै श्रीगुरवे नमः ॥ 63 ॥
चैतन्यं शाश्वतं शांतं व्योमातीतं निरंजनम् । नादबिंदुकलातीतं तस्मै श्रीगुरवे नमः ॥ 64 ॥
निर्गुणं निर्मलं शांतं जंगमं स्थिरमेव च । व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ॥ 65 ॥
स पिता स च मे माता स बंधुः स च देवता । संसारमोहनाशाय तस्मै श्रीगुरवे नमः ॥ 66 ॥
यत्सत्त्वेन जगत्सत्त्वं यत्प्रकाशेन भाति तत् । यदानंदेन नंदंति तस्मै श्रीगुरवे नमः ॥ 67 ॥
यस्मिन् स्थितमिदं सर्वं भाति यद्भानरूपतः । प्रियं पुत्रादि यत्प्रीत्या तस्मै श्रीगुरवे नमः ॥ 68 ॥
येनेदं दर्शितं तत्त्वं चित्तचैत्यादिकं तथा । जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नमः ॥ 69 ॥
यस्य ज्ञानमिदं विश्वं न दृश्यं भिन्नभेदतः । सदैकरूपरूपाय तस्मै श्रीगुरवे नमः ॥ 70 ॥
यस्य ज्ञातं मतं तस्य मतं यस्य न वेद सः । अनन्यभावभावाय तस्मै श्रीगुरवे नमः ॥ 71 ॥
यस्मै कारणरूपाय कार्यरूपेण भाति यत् । कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ॥ 72 ॥
नानारूपमिदं विश्वं न केनाप्यस्ति भिन्नता । कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ॥ 73 ॥
ज्ञानशक्तिसमारूढतत्त्वमालाविभूषिणे । भुक्तिमुक्तिप्रदात्रे च तस्मै श्रीगुरवे नमः ॥ 74 ॥
अनेकजन्मसंप्राप्तकर्मबंधविदाहिने । ज्ञानानलप्रभावेन तस्मै श्रीगुरवे नमः ॥ 75 ॥
शोषणं भवसिंधोश्च दीपनं क्षरसंपदाम् । गुरोः पादोदकं यस्य तस्मै श्रीगुरवे नमः ॥ 76 ॥
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः । न गुरोरधिकं ज्ञानं तस्मै श्रीगुरवे नमः ॥ 77 ॥
मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः । ममाऽऽत्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ 78 ॥
गुरुरादिरनादिश्च गुरुः परमदैवतम् । गुरुमंत्रसमो नास्ति तस्मै श्रीगुरवे नमः ॥ 79 ॥
एक एव परो बंधुर्विषमे समुपस्थिते । गुरुः सकलधर्मात्मा तस्मै श्रीगुरवे नमः ॥ 80 ॥
गुरुमध्ये स्थितं विश्वं विश्वमध्ये स्थितो गुरुः । गुरुर्विश्वं न चान्योऽस्ति तस्मै श्रीगुरवे नमः ॥ 81 ॥
भवारण्यप्रविष्टस्य दिङ्मोहभ्रांतचेतसः । येन संदर्शितः पंथाः तस्मै श्रीगुरवे नमः ॥ 82 ॥
तापत्रयाग्नितप्तानामशांतप्राणिनां मुदे । गुरुरेव परा गंगा तस्मै श्रीगुरवे नमः ॥ 83 ॥
[पाठभेदः - अज्ञानेनाहिना ग्रस्ताः प्राणिनस्तान् चिकित्सकः । विद्यास्वरूपो भगवांस्तस्मै श्रीगुरवे नमः ॥ ] अज्ञानसर्पदष्टानां प्राणिनां कश्चिकित्सकः । सम्यग्ज्ञानमहामंत्रवेदिनं सद्गुरु विना ॥ 84 ॥
हेतवे जगतामेव संसारार्णवसेतवे । प्रभवे सर्वविद्यानां शंभवे गुरवे नमः ॥ 85 ॥
ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् । मंत्रमूलं गुरोर्वाक्यं मुक्तिमूलं गुरोः कृपा ॥ 86 ॥
सप्तसागरपर्यंततीर्थस्नानफलं तु यत् । गुरोः पादोदबिंदोश्च सहस्रांशे न तत्फलम् ॥ 87 ॥
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । लब्ध्वा कुलगुरुं सम्यग्गुरुमेव समाश्रयेत् ॥ 88 ॥
मधुलुब्धो यथा भृंगः पुष्पात्पुष्पांतरं व्रजेत् । ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वंतरं व्रजेत् ॥ 89 ॥
वंदे गुरुपदद्वंद्वं वाङ्मनातीतगोचरम् । श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम् ॥ 90 ॥
गुकारं च गुणातीतं रूकारं रूपवर्जितम् । गुणातीतमरूपं च यो दद्यात्स गुरुः स्मृतः ॥ 91 ॥
अत्रिनेत्रः शिवः साक्षात् द्विबाहुश्च हरिः स्मृतः । योऽचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये ॥ 92 ॥
अयं मयांजलिर्बद्धो दयासागरसिद्धये । यदनुग्रहतो जंतुश्चित्रसंसारमुक्तिभाक् ॥ 93 ॥
श्रीगुरोः परमं रूपं विवेकचक्षुरग्रतः । मंदभाग्या न पश्यंति अंधाः सूर्योदयं यथा ॥ 94 ॥
कुलानां कुलकोटीनां तारकस्तत्र तत्क्षणात् । अतस्तं सद्गुरुं ज्ञात्वा त्रिकालमभिवादयेत् ॥ 95 ॥
श्रीनाथचरणद्वंद्वं यस्यां दिशि विराजते । तस्यां दिशि नमस्कुर्यात् भक्त्या प्रतिदिनं प्रिये ॥ 96 ॥
साष्टांगप्रणिपातेन स्तुवन्नित्यं गुरुं भजेत् । भजनात् स्थैर्यमाप्नोति स्वस्वरूपमयो भवेत् ॥ 97 ॥
दोर्भ्यां पद्भ्यां च जानुभ्यामुरसा शिरसा दृशा । मनसा वचसा चेति प्रणामोऽष्टांग उच्यते ॥ 98 ॥
तस्यै दिशे सततमंजलिरेष नित्यं प्रक्षिप्यतां मुखरितैर्मधुरैः प्रसूनैः । जागर्ति यत्र भगवान् गुरुचक्रवर्ती विश्वस्थितिप्रलयनाटकनित्यसाक्षी ॥ 99 ॥
अभ्यस्तैः किमु दीर्घकालविमलैर्व्याधिप्रदैर्दुष्करैः प्राणायामशतैरनेककरणैर्दुःखात्मकैर्दुर्जयैः । यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात् प्राप्तुं तत्सहजस्वभावमनिशं सेवेत चैकं गुरुम् ॥ 100 ॥
ज्ञानं विना मुक्तिपदं लभ्यते गुरुभक्तितः । गुरोस्समानतो नान्यत् साधनं गुरुमार्गिणाम् ॥ 101 ॥
यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः । मनसा वचसा चैव सत्यमाराधयेद्गुरुम् ॥ 102 ॥
गुरोः कृपाप्रसादेन ब्रह्मविष्णुमहेश्वराः । सामर्थ्यमभजन् सर्वे सृष्टिस्थित्यंतकर्मणि ॥ 103 ॥
देवकिन्नरगंधर्वाः पितृयक्षास्तु तुंबुरः । मुनयोऽपि न जानंति गुरुशुश्रूषणे विधिम् ॥ 104 ॥
तार्किकाश्छांदसाश्चैव दैवज्ञाः कर्मठाः प्रिये । लौकिकास्ते न जानंति गुरुतत्त्वं निराकुलम् ॥ 105 ॥
महाहंकारगर्वेण ततोविद्याबलेन च । भ्रमंति चास्मिन् संसारे घटीयंत्रं यथा पुनः ॥ 106 ॥
यज्ञिनोऽपि न मुक्ताः स्युः न मुक्ता योगिनस्तथा । तापसा अपि नो मुक्ता गुरुतत्त्वात्पराङ्मुखाः ॥ 107 ॥
न मुक्तास्तु च गंधर्वाः पितृयक्षास्तु चारणाः । ऋषयः सिद्धदेवाद्या गुरुसेवापराङ्मुखाः ॥ 108 ॥
इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे श्री गुरुगीतायां प्रथमोऽध्यायः ॥
Browse Related Categories: