Guru · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अथ द्वितीयोऽध्यायः ॥
ध्यानं श्रुणु महादेवि सर्वानंदप्रदायकम् । सर्वसौख्यकरं चैव भुक्तिमुक्तिप्रदायकम् ॥ 109 ॥
श्रीमत्परं ब्रह्म गुरुं स्मरामि श्रीमत्परं ब्रह्म गुरुं भजामि । श्रीमत्परं ब्रह्म गुरुं वदामि श्रीमत्परं ब्रह्म गुरुं नमामि ॥ 110 ॥
ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्तिं द्वंद्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ 111 ॥
हृदंबुजे कर्णिकमध्यसंस्थे सिंहासने संस्थितदिव्यमूर्तिम् । ध्यायेद्गुरुं चंद्रकलाप्रकाशं सच्चित्सुखाभीष्टवरं दधानम् ॥ 112 ॥
श्वेतांबरं श्वेतविलेपपुष्पं मुक्ताविभूषं मुदितं द्विनेत्रम् । वामांकपीठस्थितदिव्यशक्तिं मंदस्मितं पूर्णकृपानिधानम् ॥ 113 ॥
आनंदमानंदकरं प्रसन्नं ज्ञानस्वरूपं निजभावयुक्तम् । योगींद्रमीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामि ॥ 114 ॥
वंदे गुरूणां चरणारविंदं संदर्शितस्वात्मसुखावबोधे । जनस्य ये जांगलिकायमाने संसारहालाहलमोहशांत्यै ॥ 115 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
यस्मिन् सृष्टिस्थितिध्वंसनिग्रहानुग्रहात्मकम् । कृत्यं पंचविधं शश्वत् भासते तं गुरुं भजेत् ॥ 116 ॥
पादाब्जे सर्वसंसारदावकालानलं स्वके । ब्रह्मरंध्रे स्थितांभोजमध्यस्थं चंद्रमंडलम् ॥ 117 ॥
अकथादित्रिरेखाब्जे सहस्रदलमंडले । हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम् ॥ 118 ॥
नित्यं शुद्धं निराभासं निराकारं निरंजनम् । नित्यबोधं चिदानंदं गुरुं ब्रह्म नमाम्यहम् ॥ 119 ॥
सकलभुवनसृष्टिः कल्पिताशेषसृष्टिः निखिलनिगमदृष्टिः सत्पदार्थैकसृष्टिः । अतद्गणपरमेष्टिः सत्पदार्थैकदृष्टिः भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ॥ 120 ॥
सकलभुवनरंगस्थापनास्तंभयष्टिः सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः । सकलसमयसृष्टिस्सच्चिदानंददृष्टिः निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ॥ 121 ॥
न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम् । शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः ॥ 122 ॥
इदमेव शिवं इदमेव शिवं इदमेव शिवं इदमेव शिवम् । हरिशासनतो हरिशासनतो हरिशासनतो हरिशासनतः ॥ 123 ॥
विदितं विदितं विदितं विदितं विजनं विजनं विजनं विजनम् । विधिशासनतो विधिशासनतो विधिशासनतो विधिशासनतः ॥ 124 ॥
एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् । तदा गुरूपदेशेन मुक्तोऽहमिति भावयेत् ॥ 125 ॥
गुरूपदिष्टमार्गेण मनश्शुद्धिं तु कारयेत् । अनित्यं खंडयेत्सर्वं यत्किंचिदात्मगोचरम् ॥ 126 ॥
ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते । ज्ञानं ज्ञेयं समं कुर्यान्नान्यः पंथा द्वितीयकः ॥ 127 ॥
किमत्र बहुनोक्तेन शास्त्रकोटिशतैरपि । दुर्लभा चित्तविश्रांतिः विना गुरुकृपां पराम् ॥ 128 ॥
करुणाखड्गपातेन छित्वा पाशाष्टकं शिशोः । सम्यगानंदजनकः सद्गुरुः सोऽभिधीयते ॥ 129 ॥
एवं श्रुत्वा महादेवि गुरुनिंदां करोति यः । स याति नरकान् घोरान् यावच्चंद्रदिवाकरौ ॥ 130 ॥
यावत्कल्पांतको देहस्तावद्देवि गुरुं स्मरेत् । गुरुलोपो न कर्तव्यः स्वच्छंदो यदि वा भवेत् ॥ 131 ॥
हुंकारेण न वक्तव्यं प्राज्ञशिष्यैः कदाचन । गुरोरग्र न वक्तव्यमसत्यं तु कदाचन ॥ 132 ॥
गुरुं त्वंकृत्य हुंकृत्य गुरुसान्निध्यभाषणः । अरण्ये निर्जले देशे संभवेद् ब्रह्मराक्षसः ॥ 133 ॥
अद्वैतं भावयेन्नित्यं सर्वावस्थासु सर्वदा । कदाचिदपि नो कुर्यादद्वैतं गुरुसन्निधौ ॥ 134 ॥
दृश्यविस्मृतिपर्यंतं कुर्याद् गुरुपदार्चनम् । तादृशस्यैव कैवल्यं न च तद्व्यतिरेकिणः ॥ 135 ॥
अपि संपूर्णतत्त्वज्ञो गुरुत्यागी भवेद्यदा । भवत्येव हि तस्यांतकाले विक्षेपमुत्कटम् ॥ 136 ॥
गुरुकार्यं न लंघेत नापृष्ट्वा कार्यमाचरेत् । न ह्युत्तिष्ठेद्दिशेऽनत्वा गुरुसद्भावशोभितः ॥ 137 ॥
गुरौ सति स्वयं देवि परेषां तु कदाचन । उपदेशं न वै कुर्यात् तथा चेद्राक्षसो भवेत् ॥ 138 ॥
न गुरोराश्रमे कुर्यात् दुष्पानं परिसर्पणम् । दीक्षा व्याख्या प्रभुत्वादि गुरोराज्ञां न कारयेत् ॥ 139 ॥
नोपाश्रयं च पर्यकं न च पादप्रसारणम् । नांगभोगादिकं कुर्यान्न लीलामपरामपि ॥ 140 ॥
गुरूणां सदसद्वाऽपि यदुक्तं तन्न लंघयेत् । कुर्वन्नाज्ञां दिवा रात्रौ दासवन्निवसेद्गुरो ॥ 141 ॥
अदत्तं न गुरोर्द्रव्यमुपभुंजीत कर्हिचित् । दत्ते च रंकवद्ग्राह्यं प्राणोऽप्येतेन लभ्यते ॥ 142 ॥
पादुकासनशय्यादि गुरुणा यदभीष्टितम् । नमस्कुर्वीत तत्सर्वं पादाभ्यां न स्पृशेत् क्वचित् ॥ 143 ॥
गच्छतः पृष्ठतो गच्छेत् गुरुच्छायां न लंघयेत् । नोल्बणं धारयेद्वेषं नालंकारांस्ततोल्बणान् ॥ 144 ॥
गुरुनिंदाकरं दृष्ट्वा धावयेदथ वासयेत् । स्थानं वा तत्परित्याज्यं जिह्वाच्छेदाक्षमो यदि ॥ 145 ॥
नोच्छिष्टं कस्यचिद्देयं गुरोराज्ञां न च त्यजेत् । कृत्स्नमुच्छिष्टमादाय हविरिव भक्षयेत्स्वयम् ॥ 146 ॥
नाऽनृतं नाऽप्रियं चैव न गर्वं नाऽपि वा बहु । न नियोगपरं ब्रूयात् गुरोराज्ञां विभावयेत् ॥ 147 ॥
प्रभो देवकुलेशानां स्वामिन् राजन् कुलेश्वर । इति संबोधनैर्भीतो गुरुभावेन सर्वदा ॥ 148 ॥
मुनिभिः पन्नगैर्वापि सुरैर्वा शापितो यदि । कालमृत्युभयाद्वापि गुरुः संत्राति पार्वति ॥ 149 ॥
अशक्ता हि सुराद्याश्च ह्यशक्ताः मुनयस्तथा । गुरुशापोपपन्नस्य रक्षणाय च कुत्रचित् ॥ 150 ॥
मंत्रराजमिदं देवि गुरुरित्यक्षरद्वयम् । स्मृतिवेदपुराणानां सारमेव न संशयः ॥ 151 ॥
सत्कारमानपूजार्थं दंडकाषयधारणः । स सन्न्यासी न वक्तव्यः सन्न्यासी ज्ञानतत्परः ॥ 152 ॥
विजानंति महावाक्यं गुरोश्चरण सेवया । ते वै सन्न्यासिनः प्रोक्ता इतरे वेषधारिणः ॥ 153 ॥
[पाठभेदः – नित्यं ब्रह्म निराकारं निर्गुणं बोधयेत्परम् । भासयन् ब्रह्मभावं च दीपो दीपांतरं यथा ॥ ] नित्यं ब्रह्म निराकारं निर्गुणं सत्यचिद्धनम् । यः साक्षात्कुरुते लोके गुरुत्वं तस्य शोभते ॥ 154 ॥
गुरुप्रसादतः स्वात्मन्यात्मारामनिरीक्षणात् । समता मुक्तिमार्गेण स्वात्मज्ञानं प्रवर्तते ॥ 155 ॥
आब्रह्मस्तंबपर्यंतं परमात्मस्वरूपकम् । स्थावरं जंगमं चैव प्रणमामि जगन्मयम् ॥ 156 ॥
वंदेऽहं सच्चिदानंदं भावातीतं जगद्गुरुम् । नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितम् ॥ 157 ॥
परात्परतरं ध्यायेन्नित्यमानंदकारकम् । हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम् ॥ 158 ॥
स्फाटिके स्फाटिकं रूपं दर्पणे दर्पणो यथा । तथाऽऽत्मनि चिदाकारमानंदं सोऽहमित्युत ॥ 159 ॥
अंगुष्ठमात्रं पुरुषं ध्यायेच्च चिन्मयं हृदि । तत्र स्फुरति यो भावः शृणु तत्कथयामि ते ॥ 160 ॥
अजोऽहममरोऽहं च अनादिनिधनो ह्यहम् । अविकारश्चिदानंदो ह्यणीयान्महतो महान् ॥ 161 ॥
अपूर्वमपरं नित्यं स्वयंज्योतिर्निरामयम् । विरजं परमाकाशं ध्रुवमानंदमव्ययम् ॥ 162 ॥
अगोचरं तथाऽगम्यं नामरूपविवर्जितम् । निश्शब्दं तु विजानीयात्स्वभावाद्ब्रह्म पार्वति ॥ 163 ॥
यथा गंधस्वभावत्वं कर्पूरकुसुमादिषु । शीतोष्णत्वस्वभावत्वं तथा ब्रह्मणि शाश्वतम् ॥ 164 ॥
यथा निजस्वभावेन कुंडले कटकादयः । सुवर्णत्वेन तिष्ठंति तथाऽहं ब्रह्म शाश्वतम् ॥ 165 ॥
स्वयं तथाविधो भूत्वा स्थातव्यं यत्र कुत्र चित् । कीटो भृंग इव ध्यानाद्यथा भवति तादृशः ॥ 166 ॥
गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत् । पिंडे पदे तथा रूपे मुक्तास्ते नात्र संशयः ॥ 167 ॥
श्रीपार्वती उवाच
पिंडं किं तु महादेव पदं किं समुदाहृतम् । रूपातीतं च रूपं किं एतदाख्याहि शंकर ॥ 168
श्रीमहादेव उवाच
पिंडं कुंडलिनी शक्तिः पदं हंसमुदाहृतम् । रूपं बिंदुरिति ज्ञेयं रूपातीतं निरंजनम् ॥ 169
पिंडे मुक्ताः पदे मुक्ता रूपे मुक्ता वरानने । रूपातीते तु ये मुक्तास्ते मुक्ता नाऽत्र संशयः ॥ 170 ॥
गुरुर्ध्यानेनैव नित्यं देही ब्रह्ममयो भवेत् । स्थितश्च यत्र कुत्राऽपि मुक्तोऽसौ नाऽत्र संशयः ॥ 171 ॥
ज्ञानं वैराग्यमैश्वर्यं यशश्रीः स्वमुदाहृतम् । षड्गुणैश्वर्ययुक्तो हि भगवान् श्रीगुरुः प्रिये ॥ 172 ॥
गुरुश्शिवो गुरुर्देवो गुरुर्बंधुः शरीरिणाम् । गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते ॥ 173 ॥
एकाकी निस्स्पृहः शांतश्चिंताऽसूयादिवर्जितः । बाल्यभावेन यो भाति ब्रह्मज्ञानी स उच्यते ॥ 174 ॥
न सुखं वेदशास्त्रेषु न सुखं मंत्रयंत्रके । गुरोः प्रसादादन्यत्र सुखं नास्ति महीतले ॥ 175 ॥
चार्वाकवैष्णवमते सुखं प्राभाकरे न हि । गुरोः पादांतिके यद्वत्सुखं वेदांतसम्मतम् ॥ 176 ॥
न तत्सुखं सुरेंद्रस्य न सुखं चक्रवर्तिनाम् । यत्सुखं वीतरागस्य मुनेरेकांतवासिनः ॥ 177 ॥
नित्यं ब्रह्मरसं पीत्वा तृप्तो यः परमात्मनि । इंद्रं च मन्यते तुच्छं नृपाणां तत्र का कथा ॥ 178 ॥
यतः परमकैवल्यं गुरुमार्गेण वै भवेत् । गुरुभक्तिरतः कार्या सर्वदा मोक्षकांक्षिभिः ॥ 179 ॥
एक एवाऽद्वितीयोऽहं गुरुवाक्येन निश्चितः । एवमभ्यस्यता नित्यं न सेव्यं वै वनांतरम् ॥ 180 ॥
अभ्यासान्निमिषेणैव समाधिमधिगच्छति । आजन्मजनितं पापं तत्क्षणादेव नश्यति ॥ 181 ॥
किमावाहनमव्यक्ते व्यापके किं विसर्जनम् । अमूर्ते च कथं पूजा कथं ध्यानं निरामये ॥ 182 ॥
गुरुर्विष्णुः सत्त्वमयो राजसश्चतुराननः । तामसो रुद्ररूपेण सृजत्यवति हंति च ॥ 183 ॥
स्वयं ब्रह्ममयो भूत्वा तत्परं चावलोकयेत् । परात्परतरं नान्यत् सर्वगं तन्निरामयम् ॥ 184 ॥
तस्यावलोकनं प्राप्य सर्वसंगविवर्जितः । एकाकी निस्स्पृहः शांतः स्थातव्यं तत्प्रसादतः ॥ 185 ॥
लब्धं वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा । निष्कामेनैव भोक्तव्यं सदा संतुष्टमानसः ॥ 186 ॥
सर्वज्ञपदमित्याहुर्देही सर्वमयो भुवि । सदाऽऽनंदः सदा शांतो रमते यत्र कुत्र चित् ॥ 187 ॥
यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनः । मुक्तस्य लक्षणं देवि तवाऽग्रे कथितं मया ॥ 188 ॥
उपदेशस्त्वयं देवि गुरुमार्गेण मुक्तिदः । गुरुभक्तिः तथाऽत्यंता कर्तव्या वै मनीषिभिः ॥ 189 ॥
नित्ययुक्ताश्रयः सर्ववेदकृत्सर्ववेदकृत् । स्वपरज्ञानदाता च तं वंदे गुरुमीश्वरम् ॥ 190 ॥
यद्यप्यधीता निगमाः षडंगा आगमाः प्रिये । अध्यात्मादीनि शास्त्राणि ज्ञानं नास्ति गुरुं विना ॥ 191 ॥
शिवपूजारतो वाऽपि विष्णुपूजारतोऽथवा । गुरुतत्त्वविहीनश्चेत्तत्सर्वं व्यर्थमेव हि ॥ 192 ॥
शिवस्वरूपमज्ञात्वा शिवपूजा कृता यदि । सा पूजा नाममात्रं स्याच्चित्रदीप इव प्रिये ॥ 193 ॥
सर्वं स्यात्सफलं कर्म गुरुदीक्षाप्रभावतः । गुरुलाभात्सर्वलाभो गुरुहीनस्तु बालिशः ॥ 194 ॥
गुरुहीनः पशुः कीटः पतंगो वक्तुमर्हति । शिवरूपं स्वरूपं च न जानाति यतस्स्वयम् ॥ 195 ॥
तस्मात्सर्वप्रयत्नेन सर्वसंगविवर्जितः । विहाय शास्त्रजालानि गुरुमेव समाश्रयेत् ॥ 196 ॥
निरस्तसर्वसंदेहो एकीकृत्य सुदर्शनम् । रहस्यं यो दर्शयति भजामि गुरुमीश्वरम् ॥ 197 ॥
ज्ञानहीनो गुरुस्त्याज्यो मिथ्यावादी विडंबकः । स्वविश्रांतिं न जानाति परशांतिं करोति किम् ॥ 198 ॥
शिलायाः किं परं ज्ञानं शिलासंघप्रतारणे । स्वयं तर्तुं न जानाति परं निस्तारयेत् कथम् ॥ 199 ॥
न वंदनीयास्ते कष्टं दर्शनाद्भ्रांतिकारकाः । वर्जयेत्तान् गुरून् दूरे धीरस्य तु समाश्रयेत् ॥ 200 ॥
पाषंडिनः पापरताः नास्तिका भेदबुद्धयः । स्त्रीलंपटा दुराचाराः कृतघ्ना बकवृत्तयः ॥ 201 ॥
कर्मभ्रष्टाः क्षमानष्टा निंद्यतर्कैश्च वादिनः । कामिनः क्रोधिनश्चैव हिंस्राश्चंडाः शठास्तथा ॥ 202 ॥
ज्ञानलुप्ता न कर्तव्या महापापास्तथा प्रिये । एभ्यो भिन्नो गुरुः सेव्यः एकभक्त्या विचार्य च ॥ 203 ॥
शिष्यादन्यत्र देवेशि न वदेद्यस्य कस्यचित् । नराणां च फलप्राप्तौ भक्तिरेव हि कारणम् ॥ 204 ॥
गूढो दृढश्च प्रीतश्च मौनेन सुसमाहितः । सकृत्कामगतो वाऽपि पंचधा गुरुरीरितः ॥ 205 ॥
सर्वं गुरुमुखाल्लब्धं सफलं पापनाशनम् । यद्यदात्महितं वस्तु तत्तद्द्रव्यं न वंचयेत् ॥ 206 ॥
गुरुदेवार्पणं वस्तु तेन तुष्टोऽस्मि सुव्रते । श्रीगुरोः पादुकां मुद्रां मूलमंत्रं च गोपयेत् ॥ 207 ॥
नताऽस्मि ते नाथ पदारविंदं बुद्धींद्रियप्राणमनोवचोभिः । यच्चिंत्यते भावित आत्मयुक्तौ मुमुक्षिभिः कर्ममयोपशांतये ॥ 208 ॥
अनेन यद्भवेत्कार्यं तद्वदामि तव प्रिये । लोकोपकारकं देवि लौकिकं तु विवर्जयेत् ॥ 209 ॥
लौकिकाद्धर्मतो याति ज्ञानहीनो भवार्णवे । ज्ञानभावे च यत्सर्वं कर्म निष्कर्म शाम्यति ॥ 210 ॥
इमां तु भक्तिभावेन पठेद्वै शृणुयादपि । लिखित्वा यत्प्रदानेन तत्सर्वं फलमश्नुते ॥ 211 ॥
गुरुगीतामिमां देवि हृदि नित्यं विभावय । महाव्याधिगतैर्दुःखैः सर्वदा प्रजपेन्मुदा ॥ 212 ॥
गुरुगीताक्षरैकैकं मंत्रराजमिदं प्रिये । अन्ये च विविधाः मंत्राः कलां नार्हंति षोडशीम् ॥ 213 ॥
अनंत फलमाप्नोति गुरुगीता जपेन तु । सर्वपापहरा देवि सर्वदारिद्र्यनाशिनी ॥ 214 ॥
अकालमृत्युहरा चैव सर्वसंकटनाशिनी । यक्षराक्षसभूतादिचोरव्याघ्रविघातिनी ॥ 215 ॥
सर्वोपद्रवकुष्ठादिदुष्टदोषनिवारिणी । यत्फलं गुरुसान्निध्यात्तत्फलं पठनाद्भवेत् ॥ 216 ॥
महाव्याधिहरा सर्वविभूतेः सिद्धिदा भवेत् । अथवा मोहने वश्ये स्वयमेव जपेत्सदा ॥ 217 ॥
कुशदूर्वासने देवि ह्यासने शुभ्रकंबले । उपविश्य ततो देवि जपेदेकाग्रमानसः ॥ 218 ॥
शुक्लं सर्वत्र वै प्रोक्तं वश्ये रक्तासनं प्रिये । पद्मासने जपेन्नित्यं शांतिवश्यकरं परम् ॥ 219 ॥
वस्त्रासने च दारिद्र्यं पाषाणे रोगसंभवः । मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम् ॥ 220 ॥
कृष्णाजिने ज्ञानसिद्धिः मोक्षश्रीर्व्याघ्रचर्मणि । कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कंबले ॥ 221 ॥
आग्नेय्यां कर्षणं चैव वायव्यां शत्रुनाशनम् । नैरृत्यां दर्शनं चैव ईशान्यां ज्ञानमेव च ॥ 222 ॥
उदङ्मुखः शांतिजाप्ये वश्ये पूर्वमुखस्तथा । याम्ये तु मारणं प्रोक्तं पश्चिमे च धनागमः ॥ 223 ॥
मोहनं सर्वभूतानां बंधमोक्षकरं परम् । देवराजप्रियकरं राजानं वशमानयेत् ॥ 224 ॥
मुखस्तंभकरं चैव गुणानां च विवर्धनम् । दुष्कर्मनाशनं चैव तथा सत्कर्मसिद्धिदम् ॥ 225 ॥
असिद्धं साधयेत्कार्यं नवग्रहभयापहम् । दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम् ॥ 226 ॥
मोहशांतिकरं चैव बंधमोक्षकरं परम् । स्वरूपज्ञाननिलयं गीताशास्त्रमिदं शिवे ॥ 227 ॥
यं यं चिंतयते कामं तं तं प्राप्नोति निश्चयम् । नित्यं सौभाग्यदं पुण्यं तापत्रयकुलापहम् ॥ 228 ॥
सर्वशांतिकरं नित्यं तथा वंध्या सुपुत्रदम् । अवैधव्यकरं स्त्रीणां सौभाग्यस्य विवर्धनम् ॥ 229 ॥
आयुरारोग्यमैश्वर्यं पुत्रपौत्रविवर्धनम् । निष्कामजापी विधवा पठेन्मोक्षमवाप्नुयात् ॥ 230 ॥
अवैधव्यं सकामा तु लभते चान्यजन्मनि । सर्वदुःखमयं विघ्नं नाशयेत्तापहारकम् ॥ 231 ॥
सर्वपापप्रशमनं धर्मकामार्थमोक्षदम् । यं यं चिंतयते कामं तं तं प्राप्नोति निश्चितम् ॥ 232 ॥
काम्यानां कामधेनुर्वै कल्पते कल्पपादपः । चिंतामणिश्चिंतितस्य सर्वमंगलकारकम् ॥ 233 ॥
लिखित्वा पूजयेद्यस्तु मोक्षश्रियमवाप्नुयात् । गुरूभक्तिर्विशेषेण जायते हृदि सर्वदा ॥ 234 ॥
जपंति शाक्ताः सौराश्च गाणपत्याश्च वैष्णवाः । शैवाः पाशुपताः सर्वे सत्यं सत्यं न संशयः ॥ 235 ॥
इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे श्री गुरुगीतायां द्वितीयोऽध्यायः ॥
Browse Related Categories: