Hanuma · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्रीरघुराजपदाब्जनिकेतन पंकजलोचन मंगलराशे चंडमहाभुजदंड सुरारिविखंडनपंडित पाहि दयालो । पातकिनं च समुद्धर मां महतां हि सतामपि मानमुदारं त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम् ॥ 1 ॥
संसृतितापमहानलदग्धतनूरुहमर्मतनोरतिवेलं पुत्रधनस्वजनात्मगृहादिषु सक्तमतेरतिकिल्बिषमूर्तेः । केनचिदप्यमलेन पुराकृतपुण्यसुपुंजलवेन विभो वै त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम् ॥ 2 ॥
संसृतिकूपमनल्पमघोरनिदाघनिदानमजस्रमशेषं प्राप्य सुदुःखसहस्रभुजंगविषैकसमाकुलसर्वतनोर्मे । घोरमहाकृपणापदमेव गतस्य हरे पतितस्य भवाब्धौ त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम् ॥ 3 ॥
संसृतिसिंधुविशालकरालमहाबलकालझषग्रसनार्तं व्यग्रसमग्रधियं कृपणं च महामदनक्रसुचक्रहृतासुम् । कालमहारसनोर्मिनिपीडितमुद्धर दीनमनन्यगतिं मां त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम् ॥ 4 ॥
संसृतिघोरमहागहने चरतो मणिरंजितपुण्यसुमूर्तेः मन्मथभीकरघोरमहोग्रमृगप्रवरार्दितगात्रसुसंधेः । मत्सरतापविशेषनिपीडितबाह्यमतेश्च कथं चिदमेयं त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम् ॥ 5 ॥
संसृतिवृक्षमनेकशताघनिदानमनंतविकर्मसुशाखं दुःखफलं करणादिपलाशमनंगसुपुष्पमचिंत्यसुमूलम् । तं ह्यधिरुह्य हरे पतितं शरणागतमेव विमोचय मूढं त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम् ॥ 6 ॥
संसृतिपन्नगवक्त्रभयंकरदंष्ट्रमहाविषदग्धशरीरं प्राणविनिर्गमभीतिसमाकुलमंदमनाथमतीव विषण्णम् । मोहमहाकुहरे पतितं दययोद्धर मामजितेंद्रियकामं त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम् ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
इंद्रियनामकचोरगणैर्हृततत्त्वविवेकमहाधनराशिं संसृतिजालनिपातितमेव महाबलिभिश्च विखंडितकायम् । त्वत्पदपद्ममनुत्तममाश्रितमाशु कपीश्वर पाहि कृपालो त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम् ॥ 8 ॥
ब्रह्ममरुद्गणरुद्रमहेंद्रकिरीटसुकोटिलसत्पदपीठं दाशरथिं जपति क्षितिमंडल एष निधाय सदैव हृदब्जे । तस्य हनूमत एव शिवंकरमष्टकमेतदनिष्टहरं वै यः सततं हि पठेत्स नरो लभतेऽच्युतरामपदाब्जनिवासम् ॥ 9 ॥
इति श्री मधुसूदनाश्रम शिष्याऽच्युतविरचितं श्रीमद्दनुमदष्टकम् ।
Browse Related Categories: