Hanuma · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
आंजनेयो महावीरो हनुमान्मारुतात्मजः । तत्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥ 1 ॥
अशोकवनिकाच्छेत्ता सर्वमायाविभंजनः । सर्वबंधविमोक्ता च रक्षोविध्वंसकारकः ॥ 2 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
परविद्यापरीहारः परशौर्यविनाशनः । परमंत्रनिराकर्ता परयंत्रप्रभेदकः ॥ 3 ॥
सर्वग्रहविनाशी च भीमसेनसहायकृत् । सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥ 4 ॥
पारिजातद्रुमूलस्थः सर्वमंत्रस्वरूपवान् । सर्वतंत्रस्वरूपी च सर्वयंत्रात्मकस्तथा ॥ 5 ॥
कपीश्वरो महाकायः सर्वरोगहरः प्रभुः । बलसिद्धिकरः सर्वविद्यासंपत्प्रदायकः ॥ 6 ॥
कपिसेनानायकश्च भविष्यच्चतुराननः । कुमारब्रह्मचारी च रत्नकुंडलदीप्तिमान् ॥ 7 ॥
संचलद्वालसन्नद्धलंबमानशिखोज्ज्वलः । गंधर्वविद्यातत्त्वज्ञो महाबलपराक्रमः ॥ 8 ॥
कारागृहविमोक्ता च शृंखलाबंधमोचकः । सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान् ॥ 9 ॥
वानरः केसरिसुतः सीताशोकनिवारकः । अंजनागर्भसंभूतो बालार्कसदृशाननः ॥ 10 ॥
विभीषणप्रियकरो दशग्रीवकुलांतकः । लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः ॥ 11 ॥
चिरंजीवी रामभक्तो दैत्यकार्यविघातकः । अक्षहंता कांचनाभः पंचवक्त्रो महातपाः ॥ 12 ॥
लंकिणीभंजनः श्रीमान् सिंहिकाप्राणभंजनः । गंधमादनशैलस्थो लंकापुरविदाहकः ॥ 13 ॥
सुग्रीवसचिवो धीरः शूरो दैत्यकुलांतकः । सुरार्चितो महातेजा रामचूडामणिप्रदः ॥ 14 ॥
कामरूपी पिंगलाक्षो वार्धिमैनाकपूजितः । कबलीकृतमार्तांडमंडलो विजितेंदिर्यः ॥ 15 ॥
रामसुग्रीवसंधाता महिरावणमर्दनः । स्फटिकाभो वागधीशो नवव्याकृतिपंडितः ॥ 16 ॥
चतुर्बाहुर्दीनबंधुर्महात्मा भक्तवत्सलः । संजीवननगाहर्ता शुचिर्वाग्मी दृढव्रतः ॥ 17 ॥
कालनेमिप्रमथनो हरिमर्कटमर्कटः । दांतः शांतः प्रसन्नात्मा शतकंठमदापहृत् ॥ 18 ॥
योगी रामकथालोलः सीतान्वेषणपंडितः । वज्रदंष्ट्रो वज्रनखो रुद्रवीर्यसमुद्भवः ॥ 19 ॥
इंद्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकः । पार्थध्वजाग्रसंवासी शरपंजरभेदकः ॥ 20 ॥
दशबाहुर्लोर्कपूज्यो जांबवत्प्रीतिवर्धनः । सीतासमेतश्रीरामपादसेवाधुरंधरः ॥ 21 ॥
इत्येवं श्रीहनुमतो नाम्नामष्टोत्तरं शतम् । यः पठेच्छृणुयान्नित्यं सर्वान्कामानवाप्नुयात् ॥ 22 ॥
Browse Related Categories: