Ashtottara Sata Namavali · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्रुतीनामुत्तरं भागं वेगवत्याश्च दक्षिणम् । कामादधिवसन् जीयात् कश्चिदद्भुत केसरी ॥ 1 ॥
तपनेंद्वग्निनयनः तापानपचिनोतु नः । तापनीयरहस्यानां सारः कामासिका हरिः ॥ 2 ॥
आकंठमादिपुरुषं कंठीरवमुपरि कुंठितारातिम् । वेगोपकंठसंगात् विमुक्तवैकुंठबहुमतिमुपासे ॥ 3 ॥
बंधुमखिलस्य जंतोः बंधुरपर्यंकबंधरमणीयम् । विषमविलोचनमीडे वेगवतीपुलिनकेलिनरसिंहम् ॥ 4 ॥
स्वस्थानेषु मरुद्गणान् नियमयन् स्वाधीनसर्वेंद्रियः पर्यंकस्थिरधारणा प्रकटितप्रत्यङ्मुखावस्थितिः । प्रायेण प्रणिपेदुषः प्रभुरसौ योगं निजं शिक्षयन् कामानातनुतादशेषजगतां कामासिका केसरी ॥ 5 ॥
विकस्वरनखस्वरुक्षतहिरण्यवक्षःस्थली- -निरर्गलविनिर्गलद्रुधिरसिंधुसंध्यायिताः । अवंतु मदनासिकामनुजपंचवक्त्रस्य मां अहंप्रथमिकामिथः प्रकटिताहवा बाहवः ॥ 6 ॥
सटापटलभीषणे सरभसाट्टहासोद्भटे स्फुरत् क्रुधिपरिस्फुट भ्रुकुटिकेऽपि वक्त्रे कृते । कृपाकपटकेसरिन् दनुजडिंभदत्तस्तना सरोजसदृशा दृशा व्यतिविषज्य ते व्यज्यते ॥ 7 ॥
त्वयि रक्षति रक्षकैः किमन्यै- -स्त्वयि चारक्षति रक्षकैः किमन्यैः । इति निश्चितधीः श्रयामि नित्यं नृहरे वेगवतीतटाश्रयं त्वाम् ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
इत्थं स्तुतः सकृदिहाष्टभिरेष पद्यैः श्रीवेंकटेशरचितैस्त्रिदशेंद्रवंद्यः । दुर्दांतघोरदुरितद्विरदेंद्रभेदी कामासिकानरहरिर्वितनोतु कामान् ॥ 9 ॥
इति श्रीवेदांतदेशिककृतं कामासिकाष्टकम् ।
Browse Related Categories: