Sri Mooka Pancha Shati · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
कारणपरचिद्रूपा कांचीपुरसीम्नि कामपीठगता । काचन विहरति करुणा काश्मीरस्तबककोमलांगलता ॥1॥
कंचन कांचीनिलयं करधृतकोदंडबाणसृणिपाशम् । कठिनस्तनभरनम्रं कैवल्यानंदकंदमवलंबे ॥2॥
चिंतितफलपरिपोषणचिंतामणिरेव कांचिनिलया मे । चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुखाधारा ॥3॥
कुटिलकचं कठिनकुचं कुंदस्मितकांति कुंकुमच्छायम् । कुरुते विहृतिं कांच्यां कुलपर्वतसार्वभौमसर्वस्वम् ॥4॥
पंचशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन । कांचीसीम्नि कुमारी काचन मोहयति कामजेतारम् ॥5॥
परया कांचीपुरया पर्वतपर्यायपीनकुचभरया । परतंत्रा वयमनया पंकजसब्रह्मचारिलोचनया ॥6॥
ऐश्वर्यमिंदुमौलेरैकत्म्यप्रकृति कांचिमध्यगतम् । ऐंदवकिशोरशेखरमैदंपर्यं चकास्ति निगमानाम् ॥7॥
श्रितकंपसीमानं शिथिलितपरमशिवधैर्यमहिमानम् । कलये पटलिमानं कंचन कंचुकितभुवनभूमानम् ॥8॥
आदृतकांचीनिलयमाद्यामारूढयौवनाटोपाम् । आगमवतंसकलिकामानंदाद्वैतकंदलीं वंदे ॥9॥
Offered for worship and study, not as prediction. Non-commercial.
तुंगाभिरामकुचभरशृंगारितमाश्रयामि कांचिगतम् । गंगाधरपरतंत्रं शृंगाराद्वैततंत्रसिद्धांतम् ॥10॥
कांचीरत्नविभूषां कामपि कंदर्पसूतिकापांगीम् । परमां कलामुपासे परशिववामांकपीठिकासीनाम् ॥11॥
कंपातीचराणां करुणाकोरकितदृष्टिपातानाम् । केलीवनं मनो मे केषांचिद्भवतु चिद्विलासानाम् ॥12॥
आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् । आरब्धयौवनोत्सवमाम्नायरहस्यमंतरवलंबे ॥13॥
अधिकांचि परमयोगिभिरादिमपरपीठसीम्नि दृश्येन । अनुबद्धं मम मानसमरुणिमसर्वस्वसंप्रदायेन ॥14॥
अंकितशंकरदेहामंकुरितोरोजकंकणाश्लेषैः । अधिकांचि नित्यतरुणीमद्राक्षं कांचिदद्भुतां बालाम् ॥15॥
मधुरधनुषा महीधरजनुषा नंदामि सुरभिबाणजुषा । चिद्वपुषा कांचिपुरे केलिजुषा बंधुजीवकांतिमुषा ॥16॥
मधुरस्मितेन रमते मांसलकुचभारमंदगमनेन । मध्येकांचि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥17॥
धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् । अंबुमयीमिंदुमयीमंबामनुकंपमादिमामीक्षे ॥18॥
लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकंपम् । पीनस्तनभरमीडे मीनध्वजतंत्रपरमतात्पर्यम् ॥19॥
श्वेता मंथरहसिते शाता मध्ये च वाड्भनोऽतीता । शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ॥20॥
पुरतः कदा न करवै पुरवैरिविमर्दपुलकितांगलताम् । पुनतीं कांचीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥21॥
पुण्या काऽपि पुरंध्री पुंखितकंदर्पसंपदा वपुषा । पुलिनचरी कंपायाः पुरमथनं पुलकनिचुलितं कुरुते ॥22॥
तनिमाद्वैतवलग्नं तरुणारुणसंप्रदायतनुलेखम् । तटसीमनि कंपायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥23॥
पौष्टिककर्मविपाकं पौष्पशरं सविधसीम्नि कंपायाः । अद्राक्षमात्तयौवनमभ्युदयं कंचिदर्धशशिमौलैः ॥24॥
संश्रितकांचीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे । संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ॥25॥
मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदंडम् । आदृतकांचीखेलनमादिममारुण्यभेदमाकलये ॥26॥
उररीकृतकांचिपुरीमुपनिषदरविंदकुहरमधुधाराम् । उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शंभोः ॥27॥
एणशिशुदीर्घलोचनमेनःपरिपंथि संततं भजताम् । एकाम्रनाथजीवितमेवंपददूरमेकमवलंबे ॥28॥
स्मयमानमुखं कांचीभयमानं कमपि देवताभेदम् । दयमानं वीक्ष्य मुहुर्वयमानंदामृतांबुधौ मग्नाः ॥29॥
कुतुकजुषि कांचिदेशे कुमुदतपोराशिपाकशेखरिते । कुरुते मनोविहारं कुलगिरिपरिबृढकुलैकमणिदीपे ॥30॥
वीक्षेमहि कांचिपुरे विपुलस्तनकलशगरिमपरवशितम् । विद्रुमसहचरदेहं विभ्रमसमवायसारसन्नाहम् ॥31॥
कुरुविंदगोत्रगात्रं कूलचरं कमपि नौमि कंपायाः । कूलंकषकुचकुंभं कुसुमायुधवीर्यसारसंरंभम् ॥32॥
कुडूमलितकुचकिशोरैः कुर्वाणैः कांचिदेशसौहार्दम् । कुंकुमशोणैर्निचितं कुशलपथं शंभुसुकृतसंभारैः ॥33॥
अंकितकचेन केनचिदंधंकरणौषधेन कमलानाम् । अंतःपुरेण शंभोरलंक्रिया काऽपि कल्प्यते कांच्याम् ॥34॥
ऊरीकरोमि संततमूष्मलफालेन ललितं पुंसा । उपकंपमुचितखेलनमुर्वीधरवंशसंपदुन्मेषम् ॥35॥
अंकुरितस्तनकोरकमंकालंकारमेकचूतपतेः । आलोकेमहि कोमलमागमसंलापसारयाथार्थ्यम् ॥36॥
पुंजितकरुणमुदंचितशिंजितमणिकांचि किमपि कांचिपुरे । मंजरितमृदुलहासं पिंजरतनुरुचि पिनाकिमूलधनम् ॥37॥
लोलहृदयोऽस्ति शंभोर्लोचनयुगलेन लेह्यमानायाम् । ललितपरमशिवायां लावण्यामृततरंगमालायाम् ॥38॥
मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः । मंडितकंपातीरैर्मंगलकंदैर्ममास्तु सारूप्यम् ॥39॥
वदनारविंदवक्षोवामांकतटीवशंवदीभूता । पूरुषत्रितये त्रेधा पुरंध्रिरूपा त्वमेव कामाक्षि ॥40॥
बाधाकरीं भवाब्धेराधाराद्यंबुजेषु विचरंतीम् । आधारीकृतकांची बोधामृतवीचिमेव विमृशामः ॥41॥
कलयाम्यंतः शशधरकलयाऽंकितमौलिममलचिद्वलयाम् । अलयामागमपीठीनिलयां वलयांकसुंदरीमंबाम् ॥42॥
शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे । सर्वाकृतये शोणिमगर्वायास्मै समर्प्यते हृदयम् ॥43॥
समया सांध्यमयूखैः समया बुद्धया सदैव शीलितया । उमया कांचीरतया न मया लभ्यते किं नु तादात्म्यम् ॥44॥
जंतोस्तव पदपूजनसंतोषतरंगितस्य कामाक्षि । वंधो यदि भवति पुनः सिंधोरंभस्सु बंभ्रमीति शिला ॥45॥
कुंडलि कुमारि कुटिले चंडि चराचरसवित्रि चामुंडे । गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥46॥
अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः । अनहंता त्वमहंता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥47॥
शिव शिव पश्यंति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः । विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिंबोष्ठम् ॥48॥
कामपरिपंथिकामिनि कामेश्वरि कामपीठमध्यगते । कामदुघा भव कमले कामकले कामकोटि कामाक्षि ॥49॥
मध्येहृदयं मध्येनिटिलं मध्येशिरोऽपि वास्तव्याम् । चंडकरशक्रकार्मुकचंद्रसमाभां नमामि कामाक्षीम् ॥50॥
अधिकांचि केलिलोलैरखिलागमयंत्रतंत्रमयैः । अतिशीतं मम मानसमसमशरद्रोहिजीवनोपायैः ॥51॥
नंदति मम हृदि काचन मंदिरयंती निरंतरं कांचीम् । इंदुरविमंडलकुचा बिंदुवियन्नादपरिणता तरुणी ॥52॥
शंपालतासवर्णं संपादयितुं भवज्वरचिकित्साम् । लिंपामि मनसि किंचन कंपातटरोहि सिद्धभैषज्यम् ॥53॥
अनुमितकुचकाठिन्यामधिवक्षःपीठमंगजन्मरिपोः । आनंददां भजे तामानंगब्रह्मतत्वबोधसिराम् ॥54॥
ऐक्षिषि पाशांकुशधरहस्तांतं विस्मयार्हवृत्तांतम् । अधिकांचि निगमवाचां सिद्धांतं शूलपाणिशुद्धांतम् ॥55॥
आहितविलासभंगीमाब्रह्मस्तंबशिल्पकल्पनया । आश्रितकांचीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥56॥
मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् । एको भवति स जंतुर्लोकोत्तरकीर्तिरेव कामाक्षि ॥57॥
पंचदशवर्णरूपं कंचन कांचीविहारधौरेयम् । पंचशरीयं शंभोर्वंचनवैदग्ध्यमूलमवलंबे ॥58॥
परिणतिमतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्नीम् । पंचाशदर्णकल्पितमदशिल्पां त्वां नमामि कामाक्षि ॥59॥
आदिक्षन्मम गुरुराडादिक्षांताक्षरात्मिकां विद्याम् । स्वादिष्ठचापदंडां नेदिष्ठामेव कामपीठगताम् ॥60॥
तुष्यामि हर्षितस्मरशासनया कांचिपुरकृतासनया । स्वासनया सकलजगद्भासनया कलितशंबरासनया ॥61॥
प्रेमवती कंपायां स्थेमवती यतिमनस्सु भूमवती । सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ॥62॥
कौतुकिना कंपायां कौसुमचापेन कीलितेनांतः । कुलदैवतेन महता कुड्मलमुद्रां धुनोतु नःप्रतिभा ॥63॥
यूना केनापि मिलद्देहा स्वाहासहायतिलकेन । सहकारमूलदेशे संविद्रूपा कुटुंबिनी रमते ॥64॥
कुसुमशरगर्वसंपत्कोशगृहं भाति कांचिदेशगतम् । स्थापितमस्मिन्कथमपि गोपितमंतर्मया मनोरत्नम् ॥65॥
दग्धषडध्वारण्यं दरदलितकुसुंभसंभृतारुण्यम् । कलये नवतारुण्यं कंपातटसीम्नि किमपि कारुण्यम् ॥66॥
अधिकांचि वर्धमानामतुलां करवाणि पारणामक्ष्णोः । आनंदपाकभेदामरुणिमपरिणामगर्वपल्लविताम् ॥67॥
बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् । एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ॥68॥
किं वा फलति ममान्यौर्बिंबाधरचुंबिमंदहासमुखी । संबाधकरी तमसामंबा जागर्ति मनसि कामाक्षी ॥69॥
मंचे सदाशिवमये परिशिवमयललितपौष्पपर्यंके । अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥70॥
रक्ष्योऽस्मि कामपीठीलासिकया घनकृपांबुराशिकया । श्रुतियुवतिकुंतलीमणिमालिकया तुहिनशैलबालिकया ॥71॥
लीये पुरहरजाये माये तव तरुणपल्लवच्छाये । चरणे चंद्राभरणे कांचीशरणे नतार्तिसंहरणे ॥72॥
मूर्तिमति मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये । मोदितकंपाकूले मुहुर्मुहुर्मनसि मुमुदिषाऽस्माकम् ॥73॥
वेदमयीं नादमयीं बिंदुमयीं परपदोद्यदिंदुमयीम् । मंत्रमयीं तंत्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥74॥
पुरमथनपुण्यकोटी पुंजितकविलोकसूक्तिरसधाटी । मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥75॥
कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु । अवलोकितमवलंबितमधिकंपातटममेयमस्माभिः ॥76॥
प्रत्यङ्मुख्या दृष्टया प्रसाददीपांकुरेण कामाक्ष्याः । पश्यामि निस्तुलमहो पचेलिमं कमपि परशिवोल्लासम् ॥77॥
विद्ये विधातृविषये कात्यायनि कालि कामकोटिकले । भारति भैरवि भद्रे शाकिनि शांभवि शिवे स्तुवे भवतीम् ॥78॥
मालिनि महेशचालिनि कांचीखेलिनि विपक्षकालिनि ते । शूलिनि विद्रुमशालिनि सुरजनपालिनि कपालिनि नमोऽस्तु ॥79॥
देशिक इति किं शंके तत्तादृक्तव नु तरुणिमोन्मेषः । कामाक्षि शूलपाणेः कामागमसमयदीक्षायाम् ॥80॥
वेतंडकुंभडंबरवैतंडिककुचभरार्तमध्याय । कुंकुमरुचे नमस्यां शंकरनयनामृताय रचयामः ॥81॥
अधिकांचितमणिकांचनकांचीमधिकांचि कांचिदद्राक्षम् । अवनतजनानुकंपामनुकंपाकूलमस्मदनुकूलाम् ॥82॥
परिचितकंपातीरं पर्वतराजन्यसुकृतसन्नाहम् । परगुरुकृपया वीक्षे परमशिवोत्संगमंगलाभरणम् ॥83॥
दग्धमदनस्य शंभोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम् । तव देवि तरुणिमश्रीचतुरिमपाको न चक्षमे मातः ॥84॥
मदजलतमालपत्रा वसनितपत्रा करादृतखानित्रा । विहरति पुलिंदयोषा गुंजाभूषा फणींद्रकृतवेषा ॥85॥
अंके शुकिनी गीते कौतुकिनी परिसरे च गायकिनी । जयसि सविधेऽंब भैरवमंडलिनी श्रवसि शंखकुन्डलिनी ॥86॥
प्रणतजनतापवर्गा कृतबहुसर्गा ससिंहसंसर्गा । कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥87॥
श्रवणचलद्वेतंडा समरोद्दंडा धुतासुरशिखंडा । देवि कलितांत्रषंडा धृतनरमुंडा त्वमेव चामुंडा ॥88॥
उर्वीधरेंद्रकन्ये दर्वीभरितेन भक्तपूरेण । गुर्वीमकिंचनार्ति खर्वीकुरुषे त्वमेव कामाक्षि ॥89॥
ताडितरिपुपरिपीडनभयहरण निपुणहलमुसला । क्रोडपतिभीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ॥90॥
स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला । कनकरुचिचौर्यशीला त्वमंब बाला कराब्जधृतमाला ॥91॥
विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी । कामाक्षि पक्ष्मलाक्षी कलितविपंची विभासि वैरिंची ॥92॥
कुंकुमरुचिपिंगमसृक्पंकिलमुंडालिमंडितं मातः । श्रीकामाक्षि तदीयसंगमकलामंदीभवत्कौतुकः जयति तव रूपधेयं जपपटपुस्तकवराभयकराब्जम् ॥93॥
कनकमणिकलितभूषां कालायसकलहशीलकांतिकलाम् । कामाक्षि शीलये त्वां कपालशूलाभिरामकरकमलाम् ॥94॥
लोहितिमपुंजमध्ये मोहितभुवने मुदा निरीक्षंते । वदनं तव कुवयुगलं कांचीसीमां च केऽपि कामाक्षि ॥95॥
जलधिद्विगुणितहुतबहदिशादिनेश्वरकलाश्विनेयदलैः । नलिनैर्महेशि गच्छसि सर्वोत्तरकरकमलदलममलम् ॥96॥
सत्कृतदेशिकचरणाः सबीजनिर्बीजयोगनिश्रेण्या । अपवर्गसौधवलभीमारोहंत्यंब केऽपि तव कृपया ॥97॥
अंतरपि बहिरपि त्वं जंतुततेरंतकांतकृदहंते । चिंतितसंतानवतां संततमपि तंतनीषि महिमानम् ॥98॥
कलमंजुलवागनुमितगलपंजरगतशुकग्रहौत्कंठ्यात् । अंब रदनांबरं ते बिंबफलं शंबरारिणा न्यस्तम् ॥99॥
जय जय जगदंब शिवे जय जय कामाक्षि जय जयाद्रिसुते । जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥100॥
आर्याशतकं भक्त्या पठतामार्याकटाक्षेण । निस्सरति वदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥101॥
॥ इति आर्याशतकं संपूर्णम् ॥
Browse Related Categories: