Sri Mooka Pancha Shati · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
महिम्नः पंथानं मदनपरिपंथिप्रणयिनि प्रभुर्निर्णेतुं ते भवति यतमानोऽपि कतमः । तथापि श्रीकांचीविहृतिरसिके कोऽपि मनसो विपाकस्त्वत्पादस्तुतिविधिषु जल्पाकयति माम् ॥1॥
गलग्राही पौरंदरपुरवनीपल्लवरुचां धृतपाथम्यानामरुणमहसामादिमगुरुः । समिंधे बंधूकस्तबकसहयुध्वा दिशि दिशि प्रसर्पन्कामाक्ष्याश्चरणकिरणानामरुणिमा ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
मरालीनां यानाभ्यसनकलनामूलगुरवे दरिद्राणां त्राणव्यतिकरसुरोद्यानतरवे । तमस्कांडप्रौढिप्रकटनतिरस्कारपटवे जनोऽयं कामाक्ष्याश्चरणनलिनाय स्पृहयते ॥3॥
वहंती सैंदूरीं सरणिमवनम्रामरपुऱी- पुरंध्रीसीमंते कविकमलबालार्कसुषमा । त्रयीसीमंतिन्याः स्तनतटनिचोलारुणपटी विभांती कामाक्ष्याः पदनलिनकांतिर्विजयते ॥4॥
प्रणम्रीभूतस्य प्रणयकलहत्रस्तमनसः स्मरारातेश्चूडावियति गृहमेधी हिमकरः । ययोः सांध्यां कांतिं वहति सुषमाभिश्चरणयोः तयोर्मे कामाक्ष्या हृदयमपतंद्रं विहरताम् ॥5॥
ययोः पीठायंते विबुधमुकुटीनां पटलिका ययोः सौधायंते स्वयमुदयभाजो भणितयः । ययोः दासायंते सरसिजभवाद्याश्चरणयोः तयोर्मे कामाक्ष्या दिनमनु वरीवर्तु हृदयम् ॥6॥
नयंती संकोचं सरसिजरुचं दिक्परिसरे सृजंती लौहित्यं नखकिरणचंद्रार्धखचिता । कवींद्राणां हृत्कैरवविकसनोद्योगजननी स्फुरंती कामाक्ष्याः चरणरुचिसंध्या विजयते ॥7॥
विरावैर्मांजीरैः किमपि कथयंतीव मधुरं पुरस्तादानम्रे पुरविजयिनि स्मेरवदने । वयस्येव प्रौढा शिथिलयति या प्रेमकलह- प्ररोहं कामाक्ष्याः चरणयुगली सा विजयते ॥8॥
सुपर्वस्त्रीलोलालकपरिचितं षट्पदकुलैः स्फुरल्लाक्षारागं तरुणतरणिज्योतिररुणैः । भृतं कांत्यंभोभिः विसृमरमरंदैः सरसिजैः विधत्ते कामाक्ष्याः चरणयुगलं बंधुपदवीम् ॥9॥
रजःसंसर्गेऽपि स्थितमरजसामेव हृदये परं रक्तत्वेन स्थितमपि विरक्तैकशरणम् । अलभ्यं मंदानां दधदपि सदा मंदगतितां विधत्ते कामाक्ष्याः चरणयुगमाश्चर्यलहरीम् ॥10॥
जटाला मंजीरस्फुरदरुणरत्नांशुनिकरैः निषिदंती मध्ये नखरुचिझरीगांगपयसाम् । जगत्त्राणं कर्तुं जननि मम कामाक्षि नियतं तपश्चर्यां धत्ते तव चरणपाथोजयुगली ॥11॥
तुलाकोटिद्वंद्वक्कणितभणिताभीतिवचसोः विनम्रं कामाक्षी विसृमरमहःपाटलितयोः । क्षणं विन्यासेन क्षपिततमसोर्मे ललितयोः पुनीयान्मूर्धानं पुरहरपुरंध्री चरणयोः ॥12॥
भवानि द्रुह्येतां भवनिबिडितेभ्यो मम मुहु- स्तमोव्यामोहेभ्यस्तव जननि कामाक्षि चरणौ । ययोर्लाक्षाबिंदुस्फुरणधरणाद्ध्वर्जटिजटा- कुटीरा शोणांकं वहति वपुरेणांककलिका ॥13॥
पवित्रीकुर्युर्नुः पदतलभुवः पाटलरुचः परागास्ते पापप्रशमनधुरीणाः परशिवे । कणं लब्धुं येषां निजशिरसि कामाक्षि विवशा वलंतो व्यातन्वंत्यहमहमिकां माधवमुखाः ॥14॥
बलाकामालाभिर्नखरुचिमयीभिः परिवृते विनम्रस्वर्नारीविकचकचकालांबुदकुले । स्फुरंतः कामाक्षि स्फुटदलितबंधूकसुहृद- स्तटिल्लेखायंते तव चरणपाथोजकिरणाः ॥15॥
सरागः सद्वेषः प्रसृमरसरोजे प्रतिदिनं निसर्गादाक्रामन्विबुधजनमूर्धानमधिकम् । कथंकारं मातः कथय पदपद्मस्तव सतां नतानां कामाक्षि प्रकटयति कैवल्यसरणिम् ॥16॥
जपालक्ष्मीशोणो जनितपरमज्ञाननलिनी- विकासव्यासंगो विफलितजगज्जाड्यगरिमा । मनःपूर्वाद्रिं मे तिलकयतु कामाक्षि तरसा तमस्कांडद्रोही तव चरणपाथोजरमणः ॥17॥
नमस्कुर्मः प्रेंखन्मणिकटकनीलोत्पलमहः- पयोधौ रिंखद्भिर्नखकिरणफेनैर्धवलिते । स्फुटं कुर्वाणाय प्रबलचलदौर्वानलशिखा- वितर्कं कामाक्ष्याः सततमरुणिम्ने चरणयोः ॥18॥
शिवे पाशायेतामलघुनि तमःकूपकुहरे दिनाधीशायेतां मम हृदयपाथोजविपिने । नभोमासायेतां सरसकवितारीतिसरिति त्वदीयौ कामाक्षि प्रसृतकिरणौ देवि चरणौ ॥19॥
निषक्तं श्रुत्यंते नयनमिव सद्वृत्तरुचिरैः समैर्जुष्टं शुद्धैरधरमिव रम्यैर्द्विजगणैः । शिवे वक्षोजन्मद्वितयमिव मुक्ताश्रितमुमे त्वदीयं कामाक्षि प्रणतशरणं नौमि चरणम् ॥20॥
नमस्यासंसज्जन्नमुचिपरिपंथिप्रणयिनी- निसर्गप्रेंखोलत्कुरलकुलकालाहिशबले । नखच्छायादुग्धोदधिपयसि ते वैद्रुमरुचां प्रचारं कामाक्षि प्रचुरयति पादाब्जसुषमा ॥21॥
कदा दूरीकर्तुं कटुदुरितकाकोलजनितं महांतं संतापं मदनपरिपंथिप्रियतमे । क्षणात्ते कामाक्षि त्रिभुवनपरीतापहरणे पटीयांसं लप्स्ये पदकमलसेवामृतरसम् ॥22॥
ययोः सांध्यं रोचिः सततमरुणिम्ने स्पृहयते ययोश्चांद्री कांतिः परिपतति दृष्ट्वा नखरुचिम् । ययोः पाकोद्रेकं पिपठिषति भक्त्या किसलयं म्रदिम्नः कामाक्ष्या मनसि चरणौ तौ तनुमहे ॥23॥
जगन्नेदं नेदं परमिति परित्यज्य यतिभिः कुशाग्रीयस्वांतैः कुशलधिषणैः शास्त्रसरणौ । गवेष्यं कामाक्षि ध्रुवमकृतकानां गिरिसुते गिरामैदंपर्यं तव चरणपद्मं विजयते ॥24॥
कृतस्नानं शास्त्रामृतसरसि कामाक्षि नितरां दधानं वैशद्यं कलितरसमानंदसुधया । अलंकारं भूमेर्मुनिजनमनश्चिन्मयमहा- पयोधेरंतस्स्थं तव चरणरत्नं मृगयते ॥25॥
मनोगेहे मोहोद्भवतिमिरपूर्णे मम मुहुः दरिद्राणीकुर्वंदिनकरसहस्राणि किरणैः । विधत्तां कामाक्षि प्रसृमरतमोवंचनचणः क्षणार्धं सान्निध्यं चरणमणिदीपो जननि ते ॥26॥
कवीनां चेतोवन्नखररुचिसंपर्कि विबुध- स्रवंतीस्रोतोवत्पटुमुखरितं हंसकरवैः । दिनारंभश्रीवन्नियतमरुणच्छायसुभगं मदंतः कामाक्ष्याः स्फुरतु पदपंकेरुहयुगम् ॥27॥
सदा किं संपर्कात्प्रकृतिकठिनैर्नाकिमुकुटैः तटैर्नीहाराद्रेरधिकमणुना योगिमनसा । विभिंते संमोहं शिशिरयति भक्तानपि दृशाम् अदृश्यं कामाक्षि प्रकटयति ते पादयुगलम् ॥28॥
पवित्राभ्यामंब प्रकृतिमृदुलाभ्यां तव शिवे पदाभ्यां कामाक्षि प्रसभमभिभूतैः सचकितैः । प्रवालैरंभोजैरपि च वनवासव्रतदशाः सदैवारभ्यंते परिचरितनानाद्विजगणैः ॥29॥
चिराद्दृश्या हंसैः कथमपि सदा हंससुलभं निरस्यंती जाड्यं नियतजडमध्यैकशरणम् । अदोषव्यासंगा सततमपि दोषाप्तिमलिनं पयोजं कामाक्ष्याः परिहसति पादाब्जयुगली ॥30॥
सुराणामानंदप्रबलनतया मंडनतया नखेंदुज्योत्स्नाभिर्विसृमरतमःखंडनतया । पयोजश्रीद्वेषव्रतरततया त्वच्चरणयोः विलासः कामाक्षि प्रकटयति नैशाकरदशाम् ॥31॥
सितिम्ना कांतीनां नखरजनुषां पादनलिन- च्छवीनां शोणिम्ना तव जननि कामाक्षि नमने । लभंते मंदारग्रथितनवबंधूककुसुम- स्रजां सामीचीन्यं सुरपुरपुरंध्रीकचभराः ॥32॥
स्फुरन्मध्ये शुद्धे नखकिरणदुग्धाब्धिपयसां वहन्नब्जं चक्रं दरमपि च लेखात्मकतया । श्रितो मात्स्यं रूपं श्रियमपि दधानो निरुपमां त्रिधामा कामाक्ष्याः पदनलिननामा विजयते ॥33॥
नखश्रीसन्नद्धस्तबकनिचितः स्वैश्च किरणैः पिशंगैः कामाक्षि प्रकटितलसत्पल्लवरुचिः । सतां गम्यः शंके सकलफलदाता सुरतरुः त्वदीयः पादोऽयं तुहिनगिरिराजन्यतनये ॥34॥
वषट्कुर्वन्मांजीरकलकलैः कर्मलहरी- हवींषि प्रौद्दंडं ज्वलति परमज्ञानदहने । महीयान्कामाक्षि स्फुटमहसि जोहोति सुधियां मनोवेद्यां मातस्तव चरणयज्वा गिरिसुते ॥35॥
महामंत्रं किंचिन्मणिकटकनादैर्मृदु जपन् क्षिपंदिक्षु स्वच्छं नखरुचिमयं भास्मनरजः । नतानां कामाक्षि प्रकृतिपटुरच्चाट्य ममता- पिशाचीं पादोऽयं प्रकटयति ते मांत्रिकदशाम् ॥36॥
उदीते बोधेंदौ तमसि नितरां जग्मुषि दशां दरिद्रां कामाक्षि प्रकटमनुरागं विदधती । सितेनाच्छाद्यांगं नखरुचिपटेनांघ्रियुगली- पुरंध्री ते मातः स्वयमभिसरत्येव हृदयम् ॥37॥
दिनारंभः संपन्नलिनविपिनानामभिनवो विकासो वासंतः सुकविपिकलोकस्य नियतः । प्रदोषः कामाक्षि प्रकटपरमज्ञानशशिन- श्चकास्ति त्वत्पादस्मरणमहिमा शैलतनये ॥38॥
धृतच्छायं नित्यं सरसिरुहमैत्रीपरिचितं निधानं दीप्तीनां निखिलजगतां बोधजनकम् । मुमुक्षूणां मार्गप्रथनपटु कामाक्षि पदवीं पदं ते पातंगीं परिकलयते पर्वतसुते ॥39॥
शनैस्तीर्त्वा मोहांबुधिमथ समारोढुमनसः क्रमात्कैवल्याख्यां सुकृतिसुलभां सौधवलभीम् । लभंते निःश्रेणीमिव झटिति कामाक्षि चरणं पुरश्चर्याभिस्ते पुरमथनसीमंतिनि जनाः ॥40॥
प्रचंडार्तिक्षोभप्रमथनकृते प्रातिभसरि- त्प्रवाहप्रोद्दंडीकरणजलदाय प्रणमताम् । प्रदीपाय प्रौढे भवतमसि कामाक्षि चरण- प्रसादौन्मुख्याय स्पृहयति जनोऽयं जननि ते ॥41॥
मरुद्भिः संसेव्या सततमपि चांचल्यरहिता सदारुण्यं यांती परिणतिदरिद्राणसुषमा । गुणोत्कर्षान्मांजीरककलकलैस्तर्जनपटुः प्रवालं कामाक्ष्याः परिहसति पादाब्जयुगली ॥42॥
जगद्रक्षादक्षा जलजरुचिशिक्षापटुतरा समैर्नम्या रम्या सततमभिगम्या बुधजनैः । द्वयी लीलालोला श्रुतिषु सुरपालादिमुकुटी- तटीसीमाधामा तव जननि कामाक्षि पदयोः ॥43॥
गिरां दूरौ चोरौ जडिमतिमिराणां कृतजग- त्परित्राणौ शोणौ मुनिहृदयलीलैकनिपुणौ । नखैः स्मेरौ सारौ निगमवचसां खंडितभव- ग्रहोन्मादौ पादौ तव जननि कामाक्षि कलये ॥44॥
अविश्रांतं पंकं यदपि कलयन्यावकमयं निरस्यन्कामाक्षि प्रणमनजुषां पंकमखिलम् । तुलाकोटिद्वंदं दधदपि च गच्छन्नतुलतां गिरां मार्गं पादो गिरिवरसुते लंघयति ते ॥45॥
प्रवालं सव्रीलं विपिनविवरे वेपयति या स्फुरल्लीलं बालातपमधिकबालं वदति या । रुचिं सांध्यां वंध्यां विरचयति या वर्धयतु सा शिवं मे कामाक्ष्याः पदनलिनपाटल्यलहरी ॥46॥
किरंज्योत्स्नारीतिं नखमुखरुचा हंसमनसां वितन्वानः प्रीतिं विकचतरुणांभोरुहरुचिः । प्रकाशः श्रीपादस्तव जननि कामाक्षि तनुते शरत्कालप्रौढिं शशिशकलचूडप्रियतमे ॥47॥
नखांकूरस्मेरद्युतिविमलगंगांभसि सुखं कृतस्नानं ज्ञानामृतममलमास्वाद्य नियतम् । उदंचन्मंजीरस्फुरणमणिदीपे मम मनो मनोज्ञे कामाक्ष्याश्चरणमणिहर्म्ये विहरताम् ॥48॥
भवांभोधौ नौकां जडिमविपिने पावकशिखा- ममर्त्येंद्रादीनामधिमुकुटमुत्तंसकलिकाम् । जगत्तापे ज्योत्स्नामकृतकवचःपंजरपुटे शुकस्त्रीं कामाक्ष्या मनसि कलये पादयुगलीम् ॥49॥
परत्मप्राकाश्यप्रतिफलनचुंचुः प्रणमतां मनोज्ञस्त्वत्पादो मणिमुकुरमुद्रां कलयते । यदीयां कामाक्षि प्रकृतिमसृणाः शोधकदशां विधातुं चेष्ठंते बलरिपुवधूटीकचभराः ॥50॥
अविश्रांतं तिष्ठन्नकृतकवचःकंदरपुटी- कुटीरांतः प्रौढं नखरुचिसटालीं प्रकटयन् । प्रचंडं खंडत्वं नयतु मम कामाक्षि तरसा तमोवेतंडेंद्रं तव चरणकंठीरवपतिः ॥51॥
पुरस्तात्कामाक्षि प्रचुररसमाखंडलपुरी- पुरंध्रीणां लास्यं तव ललितमालोक्य शनकैः । नखश्रीभिः स्मेरा बहु वितनुते नूपुररवै- श्चमत्कृत्या शंके चरणयुगली चाटुरचनाः ॥52॥
सरोजं निंदंती नखकिरणकर्पूरशिशिरा निषिक्ता मारारेर्मुकुटशशिरेखाहिमजलैः । स्फुरंती कामाक्षि स्फुटरुचिमये पल्लवचये तवाधत्ते मैत्रीं पथिकसुदृशा पादयुगली ॥53॥
नतानां संपत्तेरनवरतमाकर्षणजपः प्ररोहत्संसारप्रसरगरिमस्तंभनजपः । त्वदीयः कामाक्षि स्मरहरमनोमोहनजपः पटीयान्नः पायात्पदनलिनमंजीरनिनदः ॥54॥
वितन्वीथा नाथे मम शिरसि कामाक्षि कृपया पदांभोजन्यासं पशुपरिबृढप्राणदयिते । पिबंतो यन्मुद्रां प्रकटमुपकंपापरिसरं दृशा नानंद्यंते नलिनभवनारायणमुखाः ॥55॥
प्रणामोद्यद्बृंदारमुकुटमंदारकलिका- विलोलल्लोलंबप्रकरमयधूमप्रचुरिमा । प्रदीप्तः पादाब्जद्युतिविततिपाटल्यलहरी- कृशानुः कामाक्ष्या मम दहतु संसारविपिनम् ॥56॥
वलक्षश्रीरृक्षाधिपशिशुसदृक्षैस्तव नखैः जिघृक्षुर्दक्षत्वं सरसिरुहभिक्षुत्वकरणे । क्षणान्मे कामाक्षि क्षपितभवसंक्षोभगरिमा वचोवैचक्षन्यं चरणयुगली पक्ष्मलयतात् ॥57॥
समंतात्कामाक्षि क्षततिमिरसंतानसुभगान् अनंताभिर्भाभिर्दिनमनु दिगंतान्विरचयन् । अहंताया हंता मम जडिमदंतावलहरिः विभिंतां संतापं तव चरणचिंतामणिरसौ ॥58॥
दधानो भास्वत्ताममृतनिलयो लोहितवपुः विनम्राणां सौम्यो गुरुरपि कवित्वं च कलयन् । गतौ मंदो गंगाधरमहिषि कामाक्षि भजतां तमःकेतुर्मातस्तव चरणपद्मो विजयते ॥59॥
नयंतीं दासत्वं नलिनभवमुख्यानसुलभ- प्रदानाद्दीनानाममरतरुदौर्भाग्यजननीम् । जगज्जन्मक्षेमक्षयविधिषु कामाक्षि पदयो- र्धुरीणामीष्टे करस्तव भणितुमाहोपुरुषिकाम् ॥60॥
जनोऽयं संतप्तो जननि भवचंडांशुकिरणैः अलब्धवैकं शीतं कणमपि परज्ञानपयसः । तमोमार्गे पांथस्तव झटिति कामाक्षि शिशिरां पदांभोजच्छायां परमशिवजाये मृगयते ॥61॥
जयत्यंब श्रीमन्नखकिरणचीनांशुकमयं वितानं बिभ्राणे सुरमुकुटसंघट्टमसृणे । निजारुण्यक्षौमास्तरणवति कामाक्षि सुलभा बुधैः संविन्नारी तव चरणमाणिक्यभवने ॥62॥
प्रतीमः कामाक्षि स्फुरिततरुणादित्यकिरण- श्रियो मूलद्रव्यं तव चरणमद्रींद्रतनये । सुरेंद्राशामापूरयति यदसौ ध्वांतमखिलं धुनीते दिग्भागानपि च महसा पाटलयते ॥63॥
महाभाष्यव्याख्यापटुशयनमारोपयति वा स्मरव्यापारेर्ष्यापिशुननिटिलं कारयति वा । द्विरेफाणामध्यासयति सततं वाधिवसतिं प्रणम्रान्कामाक्ष्याः पदनलिनमाहात्म्यगरिमा ॥64॥
विवेकांभस्स्रोतस्स्नपनपरिपाटीशिशिरिते समीभूते शास्त्रस्मरणहलसंकर्षणवशात् । सतां चेतःक्षेत्रे वपति तव कामाक्षि चरणो महासंवित्सस्यप्रकरवरबीजं गिरिसुते ॥65॥
दधानो मंदारस्तबकपरिपाटीं नखरुचा वहंदीप्तां शोणांगुलिपटलचांपेयकलिकाम् । अशोकोल्लासं नः प्रचुरयतु कामाक्षि चरणो विकासी वासंतः समय इव ते शर्वदयिते ॥66॥
नखांशुप्राचुर्यप्रसृमरमरालालिधवलः स्फुरन्मंजीरोद्यन्मरकतमहश्शैवलयुतः । भवत्याः कामाक्षि स्फुटचरणपाटल्यकपटो नदः शोणाभिख्यो नगपतितनूजे विजयते ॥67॥
धुनानं पंकौघं परमसुलभं कंटककुलैः विकासव्यासंगं विदधदपराधीनमनिशम् । नखेंदुज्योत्स्नाभिर्विशदरुचि कामाक्षि नितराम् असामान्यं मन्ये सरसिजमिदं ते पदयुगम् ॥68॥
करींद्राय द्रुह्यत्यलसगतिलीलासु विमलैः पयोजैर्मात्सर्यं प्रकटयति कामं कलयते । पदांभोजद्वंद्वं तव तदपि कामाक्षि हृदयं मुनीनां शांतानां कथमनिशमस्मै स्पृहयते ॥69॥
निरस्ता शोणिम्ना चरणकिरणानां तव शिवे समिंधाना संध्यारुचिरचलराजन्यतनये । असामर्थ्यादेनं परिभवितुमेतत्समरुचां सरोजानां जाने मुकुलयति शोभां प्रतिदिनम् ॥70॥
उपादिक्षद्दाक्ष्यं तव चरणनामा गुरुरसौ मरालानां शंके मसृणगतिलालित्यसरणौ । अतस्ते निस्तंद्रं नियतममुना सख्यपदवीं प्रपन्नं पाथोजं प्रति दधति कामाक्षि कुतुकम् ॥71॥
दधानैः संसर्गं प्रकृतिमलिनैः षट्पदकुलैः द्विजाधीशश्लाघाविधिषु विदधद्भिर्मुकुलताम् । रजोमिश्रैः पद्मैर्नियतमपि कामाक्षि पदयोः विरोधस्ते युक्तो विषमशरवैरिप्रियतमे ॥72॥
कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणौ विपन्नानां श्रीमन्नलिनमसृणौ शोणकिरणौ । मुनींद्राणामंतःकरणशरणौ मंदसरणौ मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ ॥73॥
परस्मात्सर्वस्मादपि च परयोर्मुक्तिकरयोः नखश्रीभिर्ज्योत्स्नाकलिततुलयोस्ताम्रतलयोः । निलीये कामाक्ष्या निगमनुतयोर्नाकिनतयोः निरस्तप्रोन्मीलन्नलिनमदयोरेव पदयोः ॥74॥
स्वभावादन्योन्यं किसलयमपीदं तव पदं म्रदिम्ना शोणिम्ना भगवति दधाते सदृशताम् । वने पूर्वस्येच्छा सततमवने किं तु जगतां परस्येत्थं भेदः स्फुरति हृदि कामाक्षि सुधियाम् ॥75॥
कथं वाचालोऽपि प्रकटमणिमंजीरनिनदैः सदैवानंदार्द्रान्विरचयति वाचंयमजनान् । प्रकृत्या ते शोणच्छविरपि च कामाक्षि चरणो मनीषानैर्मल्यं कथमिव नृणां मांसलयते ॥76॥
चलत्तृष्णावीचीपरिचलनपर्याकुलतया मुहुर्भ्रांतस्तांतः परमशिववामाक्षि परवान् । तितीर्षुः कामाक्षि प्रचुरतरकर्मांबुधिममुं कदाहं लप्स्ये ते चरणमणिसेतुं गिरिसुते ॥77॥
विशुष्यंत्यां प्रज्ञासरिति दुरितग्रीष्मसमय- प्रभावेण क्षीणे सति मम मनःकेकिनि शुचा । त्वदीयः कामाक्षि स्फुरितचरणांभोदमहिमा नभोमासाटोपं नगपतिसुते किं न कुरुते ॥78॥
विनम्राणां चेतोभवनवलभीसीम्नि चरण- प्रदीपे प्राकाश्यं दधति तव निर्धूततमसि । असीमा कामाक्षि स्वयमलघुदुष्कर्मलहरी विघूर्णंती शांतिं शलभपरिपाटीव भजते ॥79॥
विराजंती शुक्तिर्नखकिरणमुक्तामणिततेः विपत्पाथोराशौ तरिरपि नराणां प्रणमताम् । त्वदीयः कामाक्षि ध्रुवमलघुवह्निर्भववने मुनीनां ज्ञानाग्नेररणिरयमंघिर्विजयते ॥80॥
समस्तैः संसेव्यः सततमपि कामाक्षि विबुधैः स्तुतो गंधर्वस्त्रीसुललितविपंचीकलरवैः । भवत्या भिंदानो भवगिरिकुलं जृंभिततमो- बलद्रोही मातश्चरणपुरुहूतो विजयते ॥81॥
वसंतं भक्तानामपि मनसि नित्यं परिलसद्- घनच्छायापूर्णं शुचिमपि नृणां तापशमनम् । नखेंदुज्योत्स्नाभिः शिशिरमपि पद्मोदयकरं नमामः कामाक्ष्याश्चरणमधिकाश्चर्यकरणम् ॥82॥
कवींद्राणां नानाभणितिगुणचित्रीकृतवचः- प्रपंचव्यापारप्रकटनकलाकौशलनिधिः । अधःकुर्वन्नब्जं सनकभृगुमुख्यैर्मुनिजनैः नमस्यः कामाक्ष्याश्चरणपरमेष्ठी विजयते ॥83॥
भवत्याः कामाक्षि स्फुरितपदपंकेरुहभुवां परागाणां पूरैः परिहृतकलंकव्यतिकरैः । नतानामामृष्टे हृदयमुकुरे निर्मलरुचि प्रसन्ने निश्शेषं प्रतिफलति विश्वं गिरिसुते ॥84॥
तव त्रस्तं पादात्किसलयमरण्यांतरमगात् परं रेखारूपं कमलममुमेवाश्रितमभूत् । जितानां कामाक्षि द्वितयमपि युक्तं परिभवे विदेशे वासो वा शरणगमनं वा निजरिपोः ॥85॥
गृहीत्वा याथार्थ्यं निगमवचसां देशिककृपा- कटाक्षर्कज्योतिश्शमितममताबंधतमसः । यतंते कामाक्षि प्रतिदिवसमंतर्द्रढयितुं त्वदीयं पादाब्जं सुकृतपरिपाकेन सुजनाः ॥86॥
जडानामप्यंब स्मरणसमये तवच्चरणयोः भ्रमन्मंथक्ष्माभृद्धुमुघुमितसिंधुप्रतिभटाः । प्रसन्नाः कामाक्षि प्रसभमधरस्पंदनकरा भवंति स्वच्छंदं प्रकृतिपरिपक्का भणितयः ॥87॥
वहन्नप्यश्रांतं मधुरनिनदं हंसकमसौ तमेवाधः कर्तुं किमिव यतते केलिगमने । भवस्यैवानंदं विदधदपि कामाक्षि चरणो भवत्यास्तद्द्रोहं भगवति किमेवं वितनुते ॥88॥
यदत्यंतं ताम्यत्यलसगतिवार्तास्वपि शिवे तदेतत्कामाक्षि प्रकृतिमृदुलं ते पदयुगम् । किरीटैः संघट्टं कथमिव सुरौघस्य सहते मुनींद्राणामास्ते मनसि च कथं सूचिनिशिते ॥89॥
मनोरंगे मत्के विबुधजनसंमोदजननी सरागव्यासंगं सरसमृदुसंचारसुभगा । मनोज्ञा कामाक्षि प्रकटयतु लास्यप्रकरणं रणन्मंजीरा ते चरणयुगलीनर्तकवधूः ॥90॥
परिष्कुर्वन्मातः पशुपतिकपर्दं चरणराट् पराचां हृत्पद्मं परमभणितीनां च मकुटम् । भवाख्ये पाथोधौ परिहरतु कामाक्षि ममता- पराधीनत्वं मे परिमुषितपाथोजमहिमा ॥91॥
प्रसूनैः संपर्कादमरतरुणीकुंतलभवैः अभीष्टानां दानादनिशमपि कामाक्षि नमताम् । स्वसंगात्कंकेलिप्रसवजनकत्वेन च शिवे त्रिधा धत्ते वार्तां सुरभिरिति पादो गिरिसुते ॥92॥
महामोहस्तेनव्यतिकरभयात्पालयति यो विनिक्षिप्तं स्वस्मिन्निजजनमनोरत्नमनिशम् । स रागस्योद्रेकात्सततमपि कामाक्षि तरसा किमेवं पादोऽसौ किसलयरुचिं चोरयति ते ॥93॥
सदा स्वादुंकारं विषयलहरीशालिकणिकां समास्वाद्य श्रांतं हृदयशुकपोतं जननि मे । कृपाजाले फालेक्षणमहिषि कामाक्षि रभसात् गृहीत्वा रुंधीथारस्तव पदयुगीपंजरपुटे ॥94॥
धुनानं कामाक्षि स्मरणलवमात्रेण जडिम- ज्वरप्रौढिं गूढस्थिति निगमनैकुंजकुहरे । अलभ्यं सर्वेषां कतिचन लभंते सुकृतिनः चिरादन्विष्यंतस्तव चरणसिद्धौषधमिदम् ॥95॥
रणन्मंजीराभ्यां ललितगमनाभ्यां सुकृतिनां मनोवास्तव्याभ्यां मथिततिमिराभ्यां नखरुचा । निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततं नमस्ते पादाभ्यां नलिनमृदुलाभ्यां गिरिसुते ॥96॥
सुरागे राकेंदुप्रतिनिधिमुखे पर्वतसुते चिराल्लभ्ये भक्त्या शमधनजनानां परिषदा । मनोभृंगो मत्कः पदकमलयुग्मे जननि ते प्रकामं कामाक्षि त्रिपुरहरवामाक्षि रमताम् ॥97॥
शिवे संविद्रूपे शशिशकलचूडप्रियतमे शनैर्गत्यागत्या जितसुरवरेभे गिरिसुते । यतंते संतस्ते चरणनलिनालानयुगले सदा बद्धं चित्तप्रमदकरियूथं दृढतरम् ॥98॥
यशः सूते मातर्मधुरकवितां पक्ष्मलयते श्रियं दत्ते चित्ते कमपि परिपाकं प्रथयते । सतां पाशग्रंथिं शिथिलयति किं किं न कुरुते प्रपन्ने कामाक्ष्याः प्रणतिपरिपाटी चरणयोः ॥99॥
मनीषां माहेंद्रीं ककुभमिव ते कामपि दशां प्रधत्ते कामाक्ष्याश्चरणतरुणादित्यकिरणः । यदीये संपर्के धृतरसमरंदा कवयतां परीपाकं धत्ते परिमलवती सूक्तिनलिनी ॥100॥
पुरा मारारातिः पुरमजयदंब स्तवशतैः प्रसन्नायां सत्यां त्वयि तुहिनशैलेंद्रतनये । अतस्ते कामाक्षि स्फुरतु तरसा कालसमये समायाते मातर्मम मनसि पादाब्जयुगलम् ॥101॥
पदद्वंद्वं मंदं गतिषु निवसंतं हृदि सतां गिरामंते भ्रांतं कृतकरहितानां परिबृढे । जनानामानंदं जननि जनयंतं प्रणमतां त्वदीयं कामाक्षि प्रतिदिनमहं नौमि विमलम् ॥102॥
इदं यः कामाक्ष्याश्चरणनलिनस्तोत्रशतकं जपेन्नित्यं भक्त्या निखिलजगदाह्लादजनकम् । स विश्वेषां वंद्यः सकलकविलोकैकतिलकः चिरं भुक्त्वा भोगान्परिणमति चिद्रूपकलया ॥103॥
॥ इति पादारविंदशतकं संपूर्णम् ॥
Browse Related Categories: