Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
पशुपतींदुपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम् । प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् ॥1॥
न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् । अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम् ॥2॥
मुरजडिंडिमवाद्यविलक्षणं मधुरपंचमनादविशारदम् । प्रमथभूतगणैरपि सेवितं भजत रे मनुजा गिरिजापतिम् ॥3॥
शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम् । अभयदं करुणावरुणालयं भजत रे मनुजा गिरिजापतिम् ॥4॥
नरशिरोरचितं मणिकुंडलं भुजगहारमुदं वृषभध्वजम् । चितिरजोधवलीकृतविग्रहं भजत रे मनुजा गिरिजापतिम् ॥5॥
मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम् । प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम् ॥6॥
मदमपास्य चिरं हृदि संस्थितं मरणजन्मजरामयपीडितम् । जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम् ॥7॥
हरिविरंचिसुराधिपपूजितं यमजनेशधनेशनमस्कॄतम् । त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिम् ॥8॥
पशुपतेरिदमष्टकमद्भुतं विरचितं पृथिवीपतिसूरिणा । पठति संशऋणुते मनुजः सदा शिवपुरीं वसते लभते मुदम् ॥9॥
Offered for worship and study, not as prediction. Non-commercial.
इति श्रीपशुपत्यष्टकं संपूर्णम् ॥
Browse Related Categories: