Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अर्धकायं महावीर्यं चंद्रादित्य विमर्धनम् । सिंहिकागर्भ संभूतं तं राहुं प्रणमाम्यहम् ॥ 1 ॥
प्रणमामि सदा राहुं सर्पाकारं किरीटिनम् । सैंहिकेयं करालास्यं भक्तानामभय प्रदम् ॥ 2 ॥
शूर्पाकारासन स्थश्च गोमेधाभरणप्रियः । माषप्रियः काश्यपर्षि नंदनोभुजगेश्वरः ॥ 3 ॥
आरोग्यमायु रखिलांश्च मनोरथार्दान् । तमोरूप नमस्तुभ्यं प्रसादं कुरुसर्वदा ॥ 4 ॥
करालवदनं खड्ग चर्मशूल वरान्वितम् । नीलसिंहासनं ध्यायेत् राहुं तं च प्रशांतये ॥ 5 ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts