Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
नमः कृष्णाय नीलाय शिखिखंडनिभाय च । नमो नीलमधूकाय नीलोत्पलनिभाय च ॥ 1 ॥
नमो निर्मांसदेहाय दीर्घश्रुतिजटाय च । नमो विशालनेत्राय शुष्कोदर भयानक ॥ 2 ॥
नमः पौरुषगात्राय स्थूलरोमाय ते नमः । नमो नित्यं क्षुधार्ताय नित्यतृप्ताय ते नमः ॥ 3 ॥
नमो घोराय रौद्राय भीषणाय करालिने । नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते ॥ 4 ॥
नमस्ते घोररूपाय दुर्निरीक्ष्याय ते नमः । नमस्ते सर्वभक्षाय वलीमुख नमोऽस्तु ते ॥ 5 ॥
सूर्यपुत्त्र नमस्तेऽस्तु भास्वरोभयदायिने । अधोदृष्टे नमस्तेऽस्तु संवर्तक नमोऽस्तु ते ॥ 6 ॥
नमो मंदगते तुभ्यं निष्प्रभाय नमोनमः । तपसा ज्ञानदेहाय नित्ययोगरताय च ॥ 7 ॥
ज्ञानचक्षुर्नमस्तेऽस्तु काश्यपात्मजसूनवे । तुष्टो ददासि राज्यं त्वं क्रुद्धो हरसि तत् क्षणात् ॥ 8 ॥
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः । त्वयावलोकितास्सौरे दैन्यमाशुव्रजंतिते ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
ब्रह्मा शक्रोयमश्चैव मुनयः सप्ततारकाः । राज्यभ्रष्टाः पतंतीह तव दृष्ट्याऽवलोकितः ॥ 10 ॥
त्वयाऽवलोकितास्तेऽपि नाशं यांति समूलतः । प्रसादं कुरु मे सौरे प्रणत्वाहित्वमर्थितः ॥ 11 ॥
Browse Related Categories: