Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
आदौ कर्मप्रसंगात्कलयति कलुषं मातृकुक्षौ स्थितं मां विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः । यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शंभो ॥ 1॥
बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा नो शक्तश्चेंद्रियेभ्यो भवगुणजनिताः जंतवो मां तुदंति । नानारोगादिदुःखाद्रुदनपरवशः शंकरं न स्मरामि क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शंभो ॥ 2॥
प्रौढोऽहं यौवनस्थो विषयविषधरैः पंचभिर्मर्मसंधौ दष्टो नष्टो विवेकः सुतधनयुवतिस्वादुसौख्ये निषण्णः । शैवीचिंताविहीनं मम हृदयमहो मानगर्वाधिरूढं क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शंभो ॥ 3॥
वार्धक्ये चेंद्रियाणां विगतगतिमतिश्चाधिदैवादितापैः पापै रोगैर्वियोगैस्त्वनवसितवपुः प्रौढहीनं च दीनम् । मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शंभो ॥ 4॥
स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गांगतोयं पूजार्थं वा कदाचिद्बहुतरगहनात्खंडबिल्वीदलानि । नानीता पद्ममाला सरसि विकसिता गंधधूपैः त्वदर्थं क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शंभो ॥ 5॥
दुग्धैर्मध्वाज्ययुक्तैर्दधिसितसहितैः स्नापितं नैव लिंगं नो लिप्तं चंदनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः । धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शंभो ॥ 6॥
नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गानुसारे । वर् ब्रह्ममार्गे सुसारे ज्ञातो धर्मो विचारैः श्रवणमननयोः किं निदिध्यासितव्यं क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शंभो ॥ 7॥
Offered for worship and study, not as prediction. Non-commercial.
ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो हव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमंत्रैः । नो तप्तं गांगातीरे व्रतजपनियमैः रुद्रजाप्यैर्न वेदैः क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शंभो ॥ 8॥
नग्नो निःसंगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहांधकारो नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् । उन्मन्याऽवस्थया त्वां विगतकलिमलं शंकरं न स्मरामि क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शंभो ॥ 9॥
स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुंभके (कुंडले) सूक्ष्ममार्गे शांते स्वांते प्रलीने प्रकटितविभवे ज्योतिरूपेऽपराख्ये । लिंगज्ञे ब्रह्मवाक्ये सकलतनुगतं शंकरं न स्मरामि क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शंभो ॥ 10॥
हृद्यं वेदांतवेद्यं हृदयसरसिजे दीप्तमुद्यत्प्रकाशं सत्यं शांतस्वरूपं सकलमुनिमनःपद्मषंडैकवेद्यम् । जाग्रत्स्वप्ने सुषुप्तौ त्रिगुणविरहितं शंकरं न स्मरामि क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शंभो ॥ 11॥
चंद्रोद्भासितशेखरे स्मरहरे गंगाधरे शंकरे सर्पैर्भूषितकंठकर्णविवरे नेत्रोत्थवैश्वानरे । युगले दंतित्वक्कृतसुंदरांबरधरे त्रैलोक्यसारे हरे मोक्षार्थं कुरु चित्तवृत्तिमचलामन्यैस्तु किं कर्मभिः ॥ 12॥
किं वाऽनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् । ज्ञात्वैतत्क्षणभंगुरं सपदि रे त्याज्यं मनो दूरतः स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम् ॥ 13॥
पौरोहित्यं रजनिचरितं ग्रामणीत्वं नियोगो माठापत्यं ह्यनृतवचनं साक्षिवादः परान्नम् । ब्रह्मद्वेषः खलजनरतिः प्राणिनां निर्दयत्वं मा भूदेवं मम पशुपते जन्मजन्मांतरेषु ॥ 14॥
आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायांति गताः पुनर्न दिवसाः कालो जगद्भक्षकः । लक्ष्मीस्तोयतरंगभंगचपला विद्युच्चलं जीवितं तस्मात्त्वां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥ 15॥ तस्मान्मां
वंदे देवमुमापतिं सुरगुरुं वंदे जगत्कारणं वंदे पन्नगभूषणं मृगधरं वंदे पशूनां पतिम् । वंदे सूर्यशशांकवह्निनयनं वंदे मुकुंदप्रियं वंदे भक्तजनाश्रयं च वरदं वंदे शिवं शंकरम् ॥16॥
गात्रं भस्मसितं सितं च हसितं हस्ते कपालं सितं वर् स्मितं च खट्वांगं च सितं सितश्च वृषभः कर्णे सिते कुंडले । गंगा फेनसिता जटा पशुपतेश्चंद्रः सितो मूर्धनि सोऽयं सर्वसितो ददातु विभवं पापक्षयं सर्वदा ॥ 17॥
करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् । विहितमविहितं वा सर्वमेतत्क्ष्मस्व शिव शिव करुणाब्धे श्रीमहादेव शंभो ॥ 18॥
॥ इति श्रीमद् शंकराचार्यकृत शिवापराधक्षमापणस्तोत्रं संपूर्णम् ॥
Browse Related Categories: