Ganesha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
विघ्नेश विघ्नचयखंडननामधेय श्रीशंकरात्मज सुराधिपवंद्यपाद । दुर्गामहाव्रतफलाखिलमंगलात्मन् विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 1 ॥
सत्पद्मरागमणिवर्णशरीरकांतिः श्रीसिद्धिबुद्धिपरिचर्चितकुंकुमश्रीः । वक्षःस्थले वलयितातिमनोज्ञशुंडो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 2 ॥
पाशांकुशाब्जपरशूंश्च दधच्चतुर्भि- -र्दोर्भिश्च शोणकुसुमस्रगुमांगजातः । सिंदूरशोभितललाटविधुप्रकाशो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 3 ॥
कार्येषु विघ्नचयभीतविरिंचमुख्यैः संपूजितः सुरवरैरपि मोदकाद्यैः । सर्वेषु च प्रथममेव सुरेषु पूज्यो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 4 ॥
शीघ्रांचनस्खलनतुंगरवोर्ध्वकंठ- -स्थूलेंदुरुद्रगणहासितदेवसंघः । शूर्पश्रुतिश्च पृथुवर्तुलतुंगतुंदो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 5 ॥
यज्ञोपवीतपदलंभितनागराज मासादिपुण्यददृशीकृतृक्षराजः । भक्ताभयप्रद दयालय विघ्नराज विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 6 ॥
सद्रत्नसारततिराजितसत्किरीटः कौसुंभचारुवसनद्वय ऊर्जितश्रीः । सर्वत्रमंगलकरस्मरणप्रतापो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 7 ॥
देवांतकाद्यसुरभीतसुरार्तिहर्ता विज्ञानबोधनवरेण तमोऽपहर्ता । आनंदितत्रिभुवनेश कुमारबंधो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
इति श्रीमुद्गलपुराणे श्रीसिद्धिविनायक स्तोत्रं संपूर्णम् ।
Browse Related Categories: