Sri Rama · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्रीरामो रामभद्रश्च रामचंद्रश्च शाश्वतः । राजीवलोचनः श्रीमान्राजेंद्रो रघुपुंगवः ॥ 1 ॥
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः । विश्वामित्रप्रियो दांतः शरणत्राणतत्परः ॥ 2 ॥
वालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः । सत्यव्रतो व्रतधरः सदाहनुमदाश्रितः ॥ 3 ॥
कौसलेयः खरध्वंसी विराधवधपंडितः । विभीषणपरित्राता हरकोदंडखंडनः ॥ 4 ॥
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः । जामदग्न्यमहादर्पदलनस्ताटकांतकः ॥ 5 ॥
वेदांतसारो वेदात्मा भवरोगस्य भेषजम् । दूषणत्रिशिरोहंता त्रिमूर्तिस्त्रिगुणात्मकः ॥ 6 ॥
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः । त्रिलोकरक्षको धन्वी दंडकारण्यकर्तनः ॥ 7 ॥
अहल्याशापशमनः पितृभक्तो वरप्रदः । जितेंद्रियो जितक्रोधो जितामित्रो जगद्गुरुः ॥ 8 ॥
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः । जयंतत्राणवरदः सुमित्रापुत्रसेवितः ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
सर्वदेवादिदेवश्च मृतवानरजीवनः । मायामारीचहंता च महादेवो महाभुजः ॥ 10 ॥
सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः । महायोगी महोदारः सुग्रीवेप्सितराज्यदः ॥ 11 ॥
सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः । आदिपुरुषः परमपुरुषो महापूरुष एव च ॥ 12 ॥
पुण्योदयो दयासारः पुराणपुरुषोत्तमः । स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ॥ 13 ॥
अनंतगुणगंभीरो धीरोदात्तगुणोत्तमः । मायामानुषचारित्रो महादेवादिपूजितः ॥ 14 ॥
सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः । श्यामांगः सुंदरः शूरः पीतवासा धनुर्धरः ॥ 15 ॥
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः । शिवलिंगप्रतिष्ठाता सर्वावगुणवर्जितः ॥ 16 ॥
परमात्मा परं ब्रह्म सच्चिदानंदविग्रहः । परंज्योतिः परंधाम पराकाशः परात्परः ॥ 17 ॥
परेशः पारगः पारः सर्वदेवात्मकः परः ॥
एवं श्रीरामचंद्रस्य नाम्नामष्टोत्तरं शतम्
इति श्री रामाष्टोत्तर शतनामस्तोत्रं संपूर्णम्
Browse Related Categories: