Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
आपदामपहर्तारं दातारं सर्वसंपदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥
नमः कोदंडहस्ताय संधीकृतशराय च । दंडिताखिलदैत्याय रामायापन्निवारिणे ॥ 1 ॥
आपन्नजनरक्षैकदीक्षायामिततेजसे । नमोऽस्तु विष्णवे तुभ्यं रामायापन्निवारिणे ॥ 2 ॥
पदांभोजरजस्स्पर्शपवित्रमुनियोषिते । नमोऽस्तु सीतापतये रामायापन्निवारिणे ॥ 3 ॥
दानवेंद्रमहामत्तगजपंचास्यरूपिणे । नमोऽस्तु रघुनाथाय रामायापन्निवारिणे ॥ 4 ॥
महिजाकुचसंलग्नकुंकुमारुणवक्षसे । नमः कल्याणरूपाय रामायापन्निवारिणे ॥ 5 ॥
पद्मसंभव भूतेश मुनिसंस्तुतकीर्तये । नमो मार्तांडवंश्याय रामायापन्निवारिणे ॥ 6 ॥
हरत्यार्तिं च लोकानां यो वा मधुनिषूदनः । नमोऽस्तु हरये तुभ्यं रामायापन्निवारिणे ॥ 7 ॥
तापकारणसंसारगजसिंहस्वरूपिणे । नमो वेदांतवेद्याय रामायापन्निवारिणे ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
रंगत्तरंगजलधिगर्वहृच्छरधारिणे । नमः प्रतापरूपाय रामायापन्निवारिणे ॥ 9 ॥
दारोपहितचंद्रावतंसध्यातस्वमूर्तये । नमः सत्यस्वरूपाय रामायापन्निवारिणे ॥ 10 ॥
तारानायकसंकाशवदनाय महौजसे । नमोऽस्तु ताटकाहंत्रे रामायापन्निवारिणे ॥ 11 ॥
रम्यसानुलसच्चित्रकूटाश्रमविहारिणे । नमः सौमित्रिसेव्याय रामायापन्निवारिणे ॥ 12 ॥
सर्वदेवहितासक्त दशाननविनाशिने । नमोऽस्तु दुःखध्वंसाय रामायापन्निवारिणे ॥ 13 ॥
रत्नसानुनिवासैक वंद्यपादांबुजाय च । नमस्त्रैलोक्यनाथाय रामायापन्निवारिणे ॥ 14 ॥
संसारबंधमोक्षैकहेतुधामप्रकाशिने । नमः कलुषसंहर्त्रे रामायापन्निवारिणे ॥ 15 ॥
पवनाशुग संक्षिप्त मारीचादि सुरारये । नमो मखपरित्रात्रे रामायापन्निवारिणे ॥ 16 ॥
दांभिकेतरभक्तौघमहदानंददायिने । नमः कमलनेत्राय रामायापन्निवारिणे ॥ 17 ॥
लोकत्रयोद्वेगकर कुंभकर्णशिरश्छिदे । नमो नीरददेहाय रामायापन्निवारिणे ॥ 18 ॥
काकासुरैकनयनहरल्लीलास्त्रधारिणे । नमो भक्तैकवेद्याय रामायापन्निवारिणे ॥ 19 ॥
भिक्षुरूपसमाक्रांत बलिसर्वैकसंपदे । नमो वामनरूपाय रामायापन्निवारिणे ॥ 20 ॥
राजीवनेत्रसुस्पंद रुचिरांगसुरोचिषे । नमः कैवल्यनिधये रामायापन्निवारिणे ॥ 21 ॥
मंदमारुतसंवीत मंदारद्रुमवासिने । नमः पल्लवपादाय रामायापन्निवारिणे ॥ 22 ॥
श्रीकंठचापदलनधुरीणबलबाहवे । नमः सीतानुषक्ताय रामायापन्निवारिणे ॥ 23 ॥
राजराजसुहृद्योषार्चित मंगलमूर्तये । नम इक्ष्वाकुवंश्याय रामायापन्निवारिणे ॥ 24 ॥
मंजुलादर्शविप्रेक्षणोत्सुकैकविलासिने । नमः पालितभक्ताय रामायापन्निवारिणे ॥ 25 ॥
भूरिभूधर कोदंडमूर्ति ध्येयस्वरूपिणे । नमोऽस्तु तेजोनिधये रामायापन्निवारिणे ॥ 26 ॥
योगींद्रहृत्सरोजातमधुपाय महात्मने । नमो राजाधिराजाय रामायापन्निवारिणे ॥ 27 ॥
भूवराहस्वरूपाय नमो भूरिप्रदायिने । नमो हिरण्यगर्भाय रामायापन्निवारिणे ॥ 28 ॥
योषांजलिविनिर्मुक्त लाजांचितवपुष्मते । नमः सौंदर्यनिधये रामायापन्निवारिणे ॥ 29 ॥
नखकोटिविनिर्भिन्नदैत्याधिपतिवक्षसे । नमो नृसिंहरूपाय रामायापन्निवारिणे ॥ 30 ॥
मायामानुषदेहाय वेदोद्धरणहेतवे । नमोऽस्तु मत्स्यरूपाय रामायापन्निवारिणे ॥ 31 ॥
मितिशून्य महादिव्यमहिम्ने मानितात्मने । नमो ब्रह्मस्वरूपाय रामायापन्निवारिणे ॥ 32 ॥
अहंकारेतरजन स्वांतसौधविहारिणे । नमोऽस्तु चित्स्वरूपाय रामायापन्निवारिणे ॥ 33 ॥
सीतालक्ष्मणसंशोभिपार्श्वाय परमात्मने । नमः पट्टाभिषिक्ताय रामायापन्निवारिणे ॥ 34 ॥
अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ । आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ ॥ 35 ॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा । तिष्ठन्ममाग्रतो नित्यं रामः पातु सलक्ष्मणः ॥ 36 ॥
आपदामपहर्तारं दातारं सर्वसंपदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥
फलश्रुति इमं स्तवं भगवतः पठेद्यः प्रीतमानसः । प्रभाते वा प्रदोषे वा रामस्य परमात्मनः ॥ 1 ॥
स तु तीर्त्वा भवांबोधिमापदस्सकलानपि । रामसायुज्यमाप्नोति देवदेवप्रसादतः ॥ 2 ॥
कारागृहादिबाधासु संप्राप्ते बहुसंकटे । आपन्निवारकस्तोत्रं पठेद्यस्तु यथाविधिः ॥ 3 ॥
संयोज्यानुष्टुभं मंत्रमनुश्लोकं स्मरन्विभुम् । सप्ताहात्सर्वबाधाभ्यो मुच्यते नात्र संशयः ॥ 4 ॥
द्वात्रिंशद्वारजपतः प्रत्यहं तु दृढव्रतः । वैशाखे भानुमालोक्य प्रत्यहं शतसंख्यया ॥ 5 ॥
धनवान् धनदप्रख्यस्स भवेन्नात्र संशयः । बहुनात्र किमुक्तेन यं यं कामयते नरः ॥ 6 ॥
तं तं काममवाप्नोति स्तोत्रेणानेन मानवः । यंत्रपूजाविधानेन जपहोमादितर्पणैः ॥ 7 ॥
यस्तु कुर्वीत सहसा सर्वान्कामानवाप्नुयात् । इह लोके सुखी भूत्वा परे मुक्तो भविष्यति ॥ 8 ॥
Browse Related Categories: