Subrahmanya Swamy · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
हे स्वामिनाथार्तबंधो । भस्मलिप्तांग गांगेय कारुण्यसिंधो ॥
रुद्राक्षधारिन्नमस्ते रौद्ररोगं हर त्वं पुरारेर्गुरोर्मे । राकेंदुवक्त्रं भवंतं माररूपं कुमारं भजे कामपूरम् ॥ 1 ॥
मां पाहि रोगादघोरात् मंगलापांगपातेन भंगात्स्वराणाम् । कालाच्च दुष्पाककूलात् कालकालस्यसूनुं भजे क्रांतसानुम् ॥ 2 ॥
ब्रह्मादयो यस्य शिष्याः ब्रह्मपुत्रा गिरौ यस्य सोपानभूताः । सैन्यं सुराश्चापि सर्वे सामवेदादिगेयं भजे कार्तिकेयम् ॥ 3 ॥
काषाय संवीत गात्रं कामरोगादि संहारि भिक्षान्न पात्रम् । कारुण्य संपूर्ण नेत्रं शक्तिहस्तं पवित्रं भजे शंभुपुत्रम् ॥ 4 ॥
श्रीस्वामि शैले वसंतं साधुसंघस्य रोगान् सदा संहरंतम् । ॐकारतत्त्वं वदंतं शंभुकर्णे हसंतं भजेऽहं शिशुं तम् ॥ 5 ॥
स्तोत्रं कृतं चित्रचित्रं दीक्षितानंतरामेण सर्वार्थसिद्ध्यै । भक्त्या पठेद्यः प्रभाते देवदेवप्रसादात् लभेताष्टसिद्धिम् ॥ 6 ॥
इति श्रीअनंतरामदीक्षितर् कृतं श्री स्वामिनाथ पंचकम् ।
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts