Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ अस्य श्री स्वर्णाकर्षण भैरव स्तोत्र महामंत्रस्य ब्रह्म ऋषिः अनुष्टुप् छंदः श्री स्वर्णाकर्षण भैरवो देवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्य नाशार्थे पाठे विनियोगः ॥
ऋष्यादि न्यासः । ब्रह्मर्षये नमः शिरसि । अनुष्टुप् छंदसे नमः मुखे । स्वर्णाकर्षण भैरवाय नमः हृदि । ह्रीं बीजाय नमः गुह्ये । क्लीं शक्तये नमः पादयोः । सः कीलकाय नमः नाभौ । विनियॊगाय नमः सर्वांगे । ह्रां ह्रीं ह्रूं इति कर षडंगन्यासः ॥
ध्यानम् । पारिजातद्रुम कांतारे स्थिते माणिक्यमंडपे । सिंहासनगतं वंदे भैरवं स्वर्णदायकम् ॥
गांगेय पात्रं डमरूं त्रिशूलं वरं करः संदधतं त्रिनेत्रम् । देव्यायुतं तप्त सुवर्णवर्ण स्वर्णाकर्षणभैरवमाश्रयामि ॥
मंत्रः । ॐ ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामलवध्याय लोकेश्वराय स्वर्णाकर्षणभैरवाय मम दारिद्र्य विद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ।
स्तोत्रम् । नमस्तेऽस्तु भैरवाय ब्रह्मविष्णुशिवात्मने । नमस्त्रैलोक्यवंद्याय वरदाय परात्मने ॥ 1 ॥
रत्नसिंहासनस्थाय दिव्याभरणशोभिने । दिव्यमाल्यविभूषाय नमस्ते दिव्यमूर्तये ॥ 2 ॥
नमस्तेऽनेकहस्ताय ह्यनेकशिरसे नमः । नमस्तेऽनेकनेत्राय ह्यनेकविभवे नमः ॥ 3 ॥
Offered for worship and study, not as prediction. Non-commercial.
नमस्तेऽनेककंठाय ह्यनेकांशाय ते नमः । नमोस्त्वनेकैश्वर्याय ह्यनेकदिव्यतेजसे ॥ 4 ॥
अनेकायुधयुक्ताय ह्यनेकसुरसेविने । अनेकगुणयुक्ताय महादेवाय ते नमः ॥ 5 ॥
नमो दारिद्र्यकालाय महासंपत्प्रदायिने । श्रीभैरवीप्रयुक्ताय त्रिलोकेशाय ते नमः ॥ 6 ॥
दिगंबर नमस्तुभ्यं दिगीशाय नमो नमः । नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ 7 ॥
सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे । अजिताय नमस्तुभ्यं जितामित्राय ते नमः ॥ 8 ॥
नमस्ते रुद्रपुत्राय गणनाथाय ते नमः । नमस्ते वीरवीराय महावीराय ते नमः ॥ 9 ॥
नमोऽस्त्वनंतवीर्याय महाघोराय ते नमः । नमस्ते घोरघोराय विश्वघोराय ते नमः ॥ 10 ॥
नमः उग्राय शांताय भक्तेभ्यः शांतिदायिने । गुरवे सर्वलोकानां नमः प्रणव रूपिणे ॥ 11 ॥
नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः । नमस्ते कामराजाय योषित्कामाय ते नमः ॥ 12 ॥
दीर्घमायास्वरूपाय महामायापते नमः । सृष्टिमायास्वरूपाय विसर्गाय सम्यायिने ॥ 13 ॥
रुद्रलोकेशपूज्याय ह्यापदुद्धारणाय च । नमोऽजामलबद्धाय सुवर्णाकर्षणाय ते ॥ 14 ॥
नमो नमो भैरवाय महादारिद्र्यनाशिने । उन्मूलनकर्मठाय ह्यलक्ष्म्या सर्वदा नमः ॥ 15 ॥
नमो लोकत्रयेशाय स्वानंदनिहिताय ते । नमः श्रीबीजरूपाय सर्वकामप्रदायिने ॥ 16 ॥
नमो महाभैरवाय श्रीरूपाय नमो नमः । धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः ॥ 17 ॥
नमः प्रसन्नरूपाय ह्यादिदेवाय ते नमः । नमस्ते मंत्ररूपाय नमस्ते रत्नरूपिणे ॥ 18 ॥
नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः । नमः सुवर्णवर्णाय महापुण्याय ते नमः ॥ 19 ॥
नमः शुद्धाय बुद्धाय नमः संसारतारिणे । नमो देवाय गुह्याय प्रबलाय नमो नमः ॥ 20 ॥
नमस्ते बलरूपाय परेषां बलनाशिने । नमस्ते स्वर्गसंस्थाय नमो भूर्लोकवासिने ॥ 21 ॥
नमः पातालवासाय निराधाराय ते नमः । नमो नमः स्वतंत्राय ह्यनंताय नमो नमः ॥ 22 ॥
द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने । नमोऽणिमादिसिद्धाय स्वर्णहस्ताय ते नमः ॥ 23 ॥
पूर्णचंद्रप्रतीकाशवदनांभोजशोभिने । नमस्ते स्वर्णरूपाय स्वर्णालंकारशोभिने ॥ 24 ॥
नमः स्वर्णाकर्षणाय स्वर्णाभाय च ते नमः । नमस्ते स्वर्णकंठाय स्वर्णालंकारधारिणे ॥ 25 ॥
स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः । नमः स्वर्णाभपाराय स्वर्णकांचीसुशोभिने ॥ 26 ॥
नमस्ते स्वर्णजंघाय भक्तकामदुघात्मने । नमस्ते स्वर्णभक्तानां कल्पवृक्षस्वरूपिणे ॥ 27 ॥
चिंतामणिस्वरूपाय नमो ब्रह्मादिसेविने । कल्पद्रुमाधःसंस्थाय बहुस्वर्णप्रदायिने ॥ 28 ॥
नमो हेमादिकर्षाय भैरवाय नमो नमः । स्तवेनानेन संतुष्टो भव लोकेशभैरव ॥ 29 ॥
पश्य मां करुणाविष्ट शरणागतवत्सल । श्रीभैरव धनाध्यक्ष शरणं त्वां भजाम्यहम् । प्रसीद सकलान् कामान् प्रयच्छ मम सर्वदा ॥ 30 ॥
फलश्रुतिः श्रीमहाभैरवस्येदं स्तोत्रसूक्तं सुदुर्लभम् । मंत्रात्मकं महापुण्यं सर्वैश्वर्यप्रदायकम् ॥ 31 ॥
यः पठेन्नित्यमेकाग्रं पातकैः स विमुच्यते । लभते चामलालक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥ 32 ॥
चिंतामणिमवाप्नोति धेनु कल्पतरुं धृवम् । स्वर्णराशिमवाप्नोति सिद्धिमेव स मानवः ॥ 33 ॥
संध्यायां यः पठेत् स्तोत्रं दशावृत्या नरोत्तमैः । स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥ 34 ॥
स्वर्णराशि ददात्येव तत्क्षणान्नास्ति संशयः । सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्मनः ॥ 35 ॥
लोकत्रयं वशीकुर्यादचलां श्रियमवाप्नुयात् । न भयं लभते क्वापि विघ्नभूतादिसंभव ॥ 36 ॥
म्रियंते शत्रवोऽवश्यमलक्ष्मीनाशमाप्नुयात् । अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ 37 ॥
अष्टपंचाशताणढ्यो मंत्रराजः प्रकीर्तितः । दारिद्र्यदुःखशमनं स्वर्णाकर्षणकारकः ॥ 38 ॥
य येन संजपेत् धीमान् स्तोत्रं वा प्रपठेत् सदा । महाभैरवसायुज्यं स्वांतकाले भवेद्ध्रुवम् ॥ 39 ॥
इति रुद्रयामल तंत्रे स्वर्णाकर्षण भैरव स्तोत्रम् ॥
Browse Related Categories: