Surya Bhagavan · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अस्य श्री आदित्यकवचस्तोत्रमहामंत्रस्य अगस्त्यो भगवानृषिः अनुष्टुप्छंदः आदित्यो देवता श्रीं बीजं णीं शक्तिः सूं कीलकं मम आदित्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ध्यानं जपाकुसुमसंकाशं द्विभुजं पद्महस्तकम् सिंदूरांबरमाल्यं च रक्तगंधानुलेपनम् । माणिक्यरत्नखचित-सर्वाभरणभूषितम् सप्ताश्वरथवाहं तु मेरुं चैव प्रदक्षिणम् ॥
देवासुरवरैर्वंद्यं घृणिभिः परिसेवितम् । ध्यायेत्पठेत्सुवर्णाभं सूर्यस्य कवचं मुदा ॥
कवचं घृणिः पातु शिरोदेशे सूर्यः पातु ललाटकम् । आदित्यो लोचने पातु श्रुती पातु दिवाकरः ॥
घ्राणं पातु सदा भानुः मुखं पातु सदारविः । जिह्वां पातु जगन्नेत्रः कंठं पातु विभावसुः ॥
स्कंधौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः । करावब्जकरः पातु हृदयं पातु नभोमणिः ॥
द्वादशात्मा कटिं पातु सविता पातु सक्थिनी । ऊरू पातु सुरश्रेष्टो जानुनी पातु भास्करः ॥
जंघे मे पातु मार्तांडो गुल्फौ पातु त्विषांपतिः । पादौ दिनमणिः पातु पातु मित्रोऽखिलं वपुः ॥
आदित्यकवचं पुण्यमभेद्यं वज्रसन्निभम् । सर्वरोगभयादिभ्यो मुच्यते नात्र संशयः ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
संवत्सरमुपासित्वा साम्राज्यपदवीं लभेत् । अशेषरोगशांत्यर्थं ध्यायेदादित्यमंडलम् ।
आदित्य मंडल स्तुतिः – अनेकरत्नसंयुक्तं स्वर्णमाणिक्यभूषणम् । कल्पवृक्षसमाकीर्णं कदंबकुसुमप्रियम् ॥
सिंदूरवर्णाय सुमंडलाय सुवर्णरत्नाभरणाय तुभ्यम् । पद्मादिनेत्रे च सुपंकजाय ब्रह्मेंद्र-नारायण-शंकराय ॥
संरक्तचूर्णं ससुवर्णतोयं सकुंकुमाभं सकुशं सपुष्पम् । प्रदत्तमादाय च हेमपात्रे प्रशस्तनादं भगवन् प्रसीद ॥
इति आदित्यकवचम् ।
Browse Related Categories: