Karma Siddhanta · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अष्टावक्र उवाच
यथातथोपदेशेन कृतार्थः सत्त्वबुद्धिमान् । आजीवमपि जिज्ञासुः परस्तत्र विमुह्यति ॥ 15-1
मोक्षो विषयवैरस्यं बंधो वैषयिको रसः । एतावदेव विज्ञानं यथेच्छसि तथा कुरु ॥ 15-2॥
वाग्मिप्राज्ञामहोद्योगं जनं मूकजडालसम् । करोति तत्त्वबोधोऽयमतस्त्यक्तो बुभुक्षभिः ॥ 15-3॥
न त्वं देहो न ते देहो भोक्ता कर्ता न वा भवान् । चिद्रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर ॥ 15-4॥
रागद्वेषौ मनोधर्मौ न मनस्ते कदाचन । निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखं चर ॥ 15-5॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । विज्ञाय निरहंकारो निर्ममस्त्वं सुखी भव ॥ 15-6॥
विश्वं स्फुरति यत्रेदं तरंगा इव सागरे । तत्त्वमेव न संदेहश्चिन्मूर्ते विज्वरो भव ॥ 15-7॥
श्रद्धस्व तात श्रद्धस्व नात्र मोहं कुरुष्व भोः । ज्ञानस्वरूपो भगवानात्मा त्वं प्रकृतेः परः ॥ 15-8॥
गुणैः संवेष्टितो देहस्तिष्ठत्यायाति याति च । आत्मा न गंता नागंता किमेनमनुशोचसि ॥ 15-9॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
देहस्तिष्ठतु कल्पांतं गच्छत्वद्यैव वा पुनः । क्व वृद्धिः क्व च वा हानिस्तव चिन्मात्ररूपिणः ॥ 15-10॥
त्वय्यनंतमहांभोधौ विश्ववीचिः स्वभावतः । उदेतु वास्तमायातु न ते वृद्धिर्न वा क्षतिः ॥ 15-11॥
तात चिन्मात्ररूपोऽसि न ते भिन्नमिदं जगत् । अतः कस्य कथं कुत्र हेयोपादेयकल्पना ॥ 15-12॥
एकस्मिन्नव्यये शांते चिदाकाशेऽमले त्वयि । कुतो जन्म कुतो कर्म कुतोऽहंकार एव च ॥ 15-13॥
यत्त्वं पश्यसि तत्रैकस्त्वमेव प्रतिभाससे । किं पृथक् भासते स्वर्णात् कटकांगदनूपुरम् ॥ 15-14॥
अयं सोऽहमयं नाहं विभागमिति संत्यज । सर्वमात्मेति निश्चित्य निःसंकल्पः सुखी भव ॥ 15-15॥
तवैवाज्ञानतो विश्वं त्वमेकः परमार्थतः । त्वत्तोऽन्यो नास्ति संसारी नासंसारी च कश्चन ॥ 15-16॥
भ्रांतिमात्रमिदं विश्वं न किंचिदिति निश्चयी । निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति ॥ 15-17॥
एक एव भवांभोधावासीदस्ति भविष्यति । न ते बंधोऽस्ति मोक्षो वा कृतकृत्यः सुखं चर ॥ 15-18॥
मा संकल्पविकल्पाभ्यां चित्तं क्षोभय चिन्मय । उपशाम्य सुखं तिष्ठ स्वात्मन्यानंदविग्रहे ॥ 15-19॥
त्यजैव ध्यानं सर्वत्र मा किंचिद् हृदि धारय । आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि ॥ 15-20॥
Browse Related Categories: