Bhartruhari Shataka Trishati · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
शंभुस्वयंभुहरयो हरिणेक्षणानां येनाक्रियंत सततं गृहकुंभदासाः । वाचां अगोचरचरित्रविचित्रिताय तस्मै नमो भगवते मकरध्वजाय ॥ 2.1 ॥
स्मितेन भावेन च लज्जया भिया पराण्मुखैरर्धकटाक्षवीक्षणैः । वचोभिरीर्ष्याकलहेन लीलया समस्तभावैः खलु बंधनं स्त्रियः ॥ 2.2 ॥
Offered for worship and study, not as prediction. Non-commercial.
भ्रूचातुर्यात्कुष्चिताक्षाः कटाक्षाः स्निग्धा वाचो लज्जितांताश्च हासाः । लीलामंदं प्रस्थितं च स्थितं च स्त्रीणां एतद्भूषणं चायुधं च ॥ 2.3 ॥
क्वचित्सभ्रूभंगैः क्वचिदपि च लज्जापरिगतैः क्वचिद्भूरित्रस्तैः क्वचिदपि च लीलाविललितैः । कुमारीणां एतैर्मदनसुभगैर्नेत्रवलितैः स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः ॥ 2.4 ॥
वक्त्रं चंद्रविकासि पंकजपरीहासक्षमे लोचने वर्णः स्वर्णं अपाकरिष्णुरलिनीजिष्णुः कचानां चयः । बक्षोजाविभकुंभविभ्रमहरौ गुर्वी नितंबस्थली वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मंडनम् ॥ 2.5 ॥
स्मितकिंचिन्मुग्धं सरलतरलो दृष्टिविभवः परिस्पंदो वाचां अभिनवविलासोक्तिसरसः । गतानां आरंभः किसलयितलीलापरिकरः स्पृशंत्यास्तारुण्यं किं इव न हि रम्यं मृगदृशः ॥ 2.6 ॥
द्रष्टव्येषु किं उत्तमं मृगदृशः प्रेमप्रसन्नं मुखं घ्रातवेष्वपि किं तद्आस्यपवनः श्रव्येषु किं तद्वचः । किं स्वाद्येषु तद्ओष्ठपल्लवरसः स्पृश्येषु किं तद्वपुर्ध्येयं किं नवयौवने सहृदयैः सर्वत्र तद्विभ्रमाः ॥ 2.7 ॥
एताश्चलद्वलयसंहतिमेखलोत्थझंकार नूपुरपराजितराजहंस्यः । कुर्वंति कस्य न मनो विवशं तरुण्यो वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ 2.8 ॥
कुंकुमपंककलंकितदेहा गौरपयोधरकंपितहारा । नूपुरहंसरणत्पद्मा कं न वशीकुरुते भुवि रामा ॥ 2.9 ॥
नूनं हि ते कविवरा विपरीतवाचो ये नित्यं आहुरबला इति कामिनीस्ताः । याभिर्विलोलितरतारकदृष्टिपातैः शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ॥ 2.10 ॥
नूनं आज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः । यतस्तन्नेत्रसंचारसूचितेषु प्रवर्तते ॥ 2.11 ॥
केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने अंतर्वक्त्रं अपि स्वभावशुचिभीः कीर्णं द्विजानां गणैः । मुक्तानां सतताधिवासरुचिरौ वक्षोजकुंभाविमावित्थं तन्वि वपुः प्रशांतं अपि तेरागं करोत्येव नः ॥ 2.12 ॥
मुग्धे धानुष्कता केयं अपूर्वा त्वयि दृश्यते । यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ 2.13 ॥
सति प्रदीपे सत्यग्नौ सत्सु तारारवींदुषु । विना मे मृगशावाक्ष्या तमोभूतं इदं जगत् ॥ 2.14 ॥
उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते रागाधिष्ठितं ओष्ठपल्लवं इदं कुर्वंतु नाम व्यथाम् । सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं मध्यस्थापि करोति तापं अधिकं रोमावलिः केन सा ॥ 2.15 ॥
मुखेन चंद्रकांतेन महानीलैः शिरोरुहैः । कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ 2.16 ॥
गुरुणा स्तनभारेण मुखचंद्रेण भास्वता । शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ 2.17 ॥
तस्याः स्तनौ यदि घनौ जघनं च हारि वक्त्रं च चारु तव चित्त किं आकुलत्वम् । पुण्यं कुरुष्व यदि तेषु तवास्ति वांछा पुण्यैर्विना न हि भवंति समीहितार्थाः ॥ 2.18 ॥
इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरतप्रताप प्रारंभाः स्मरविजयदानप्रतिभुवः । चिरं चेतश्चोरा अभिनवविकारैकगुरवो विलासव्यापाराः किं अपि विजयंते मृगदृशाम् ॥ 2.19 ॥
प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः फणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः । प्रकृतिसुभगा विस्रंभार्द्राः स्मरोदयदायिनी रहसि किं अपि स्वैरालापा हरंति मृगीदृशाम् ॥ 2.20 ॥
विश्रम्य विश्रम्य वनद्रुमाणां छायासु तन्वी विचचार काचित् । स्तनोत्तरीयेण करोद्धृतेन निवारयंती शशिनो मयूखान् ॥ 2.21 ॥
अदर्शने दर्शनमात्रकामा दृष्ट्वा परिष्वंगसुखैकलोला । आलिंगितायां पुनरायताक्ष्यामाशास्महे विग्रहयोरभेदम् ॥ 2.22 ॥
मालती शिरसि जृंभणं मुखे चंदनं वपुषि कुंकुमाविलम् । वक्षसि प्रियतमा मदालसा स्वर्ग एष परिशिष्ट आगमः ॥ 2.23 ॥
प्राङ्मां एति मनागनागतरसं जाताभिलाषां ततः सव्रीडं तदनु श्लथोद्यमं अथ प्रध्वस्तधैर्यं पुनः । प्रेमार्द्रं स्पृहणीयनिर्भररहः क्रीडाप्रगल्भं ततो निःसंगांगविकर्षणाधिकसुखरम्यं कुलस्त्रीरतम् ॥ 2.24 ॥
उरसि निपतितानां स्रस्तधम्मिल्लकानां मुकुलितनयनानां किंचिद्उन्मीलितानाम् । उपरि सुरतखेदस्विन्नगंडस्थलानामधर मधु वधूनां भाग्यवंतः पिबंति ॥ 2.25 ॥
आमीलितनयनानां यः सुरतरसोऽनु संविदं भाति । मिथुरैर्मिथोऽवधारितमवितथम् इदं एव कामनिर्बर्हणम् ॥ 2.26 ॥
इदं अनुचितं अक्रमश्च पुंसां यदिह जरास्वपि मन्मथा विकाराः । तदपि च न कृतं नितंबिनीनां स्तनपतनावधि जीवितं रतं वा ॥ 2.27 ॥
राजस्तृष्णांबुराशेर्न हि जगति गतः कश्चिदेवावसानं को वार्थोऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे । गच्छामः सद्म यावद्विकसितनयनेंदीवरालोकिनीनामाक्रम्याक्रम्य रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ 2.28 ॥
रागस्यागारं एकं नरकशतमहादुःखसंप्राप्तिहेतुर्मोहस्योत्पत्ति बीजं जलधरपटलं ज्ञानताराधिपस्य । कंदर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबंधं लोकेऽस्मिन्न ह्यर्थव्रजकुलभवनयौवनादन्यदस्ति ॥ 2.29 ॥
शृंगारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि प्रद्युम्नप्रियबांधवे चतुरवाङ्मुक्ताफलोदन्वति । तन्वीनेत्रचकोरपावनविधौ सौभाग्यलक्ष्मीनिधौ धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ 2.30 ॥
संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलंकव्यासंग व्यस्तधैर्यं कथं अमलधियो मानसं संविदध्युः । यद्येताः प्रोद्यद्इंदुद्युतिनिचयभृतो न स्युरंभोजनेत्राः प्रेंखत्कांचीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ॥ 2.31 ॥
सिद्धाध्यासितकंदरे हरवृषस्कंधावरुग्णद्रुमे गंगाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि । कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो यद्वित्रस्तकुरंगशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ 2.32 ॥
संसार तव पर्यंतपदवी न दवीयसी । अंतरा दुस्तरा न स्युर्यदि ते मदिरेक्षणाम् ॥ 2.33 ॥
दिश वनहरिणीभ्यो वंशकांडच्छवीनां कवलं उपलकोटिच्छिन्नमूलं कुशानाम् । शकयुवतिकपोलापांडुतांबूलवल्लीदलम् अरुणनखाग्रैः पाटितं वा वधूभ्यः ॥ 2.34 ॥
असाराः सर्वे ते विरतिविरसाः पापविषया जुगुप्स्यंतां यद्वा ननु सकलदोषास्पदं इति । तथाप्येतद्भूमौ नहि परहितात्पुण्यं अधिकं न चास्मिन्संसारे कुवलयदृशो रम्यं अपरम् ॥ 2.35 ॥
एतत्कामफलो लोके यद्द्वयोरेकचित्तता । अन्यचित्तकृते कामे शवयोरिव संगमः ॥ 2.35.1 ॥
मात्सर्यं उत्सार्य विचार्य कार्यमार्याः समर्यादं इदं वदंतु । सेव्या नितंबाः किं उ भूधराणामत स्मरस्मेरविलासिनीनाम् ॥ 2.36 ॥
संसारे स्वप्नसारे परिणतितरले द्वे गती पंडितानां तत्त्वज्ञानामृतांभःप्लवललितधियां यातु कालः कथंचित् । नो चेन्मुग्धांगनानां स्तनजघनघनाभोगसंभोगिनीनां स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानाम् ॥ 2.37 ॥
आवासः क्रियतां गंगे पापहारिणि वारिणि । स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥ 2.38 ॥
किं इह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैर्द्वयम् इह पुरुषाणां सर्वदा सेवनीयम् । अभिनवमदलीलालालसं सुंदरीणां स्तनभरपरिखिन्नं यौवनं वा वनं वा ॥ 2.39 ॥
सत्यं जना वच्मि न पक्षपाताल् लोकेषु सप्तस्वपि तथ्यं एतत् । नान्यन्मनोहारि नितंबिनीभ्यो दुःखैकहेतुर्न च कश्चिदन्यः ॥ 2.40 ॥
कांतेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्पीनोत्तुंग पयोधरेति समुखांभोजेति सुभ्रूरिति । दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि प्रत्यक्षाशुचिभस्त्रिकां स्त्रियं अहो मोहस्य दुश्चेष्टितम् ॥ 2.41 ॥
स्मृता भवति तापाय दृष्टा चोन्मादकारिणी । स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ 2.42 ॥
तावदेवामृतमयी यावल्लोचनगोचरा । चक्षुष्पथादतीता तु विषादप्यतिरिच्यते ॥ 2.43 ॥
नामृतं न विषं किंचिदेतां मुक्त्वा नितंबिनीम् । सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥ 2.44 ॥
आवर्तः संशयानां अविनयभुवनं पट्टणं साहसानां दोषाणां सन्निधानं कपटशतमयं क्षेत्रं अप्रत्ययानाम् । स्वर्गद्वारस्य विघ्नो नरकपुरमुख सर्वमायाकरंडं स्त्रीयंत्रं केन सृष्टं विषं अमृतमयं प्राणिलोकस्य पाशः ॥ 2.45 ॥
नो सत्येन मृगांक एष वदनीभूतो न चेंदीवरद्वंद्वं लोचनतां गत न कनकैरप्यंगयष्टिः कृता । किंत्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि त्वङ्मांसास्थिमयं वपुर्मृगदृशां मंदो जनः सेवते ॥ 2.46 ॥
लीलावतीनां सहजा विलासास्त एव मूढस्य हृदि स्फुरंति । रागो नलिन्या हि निसर्गसिद्धस्तत्र भ्रम्त्येव वृथा षड्अंघ्रिः ॥ 2.47 ॥
संमोहयंति मदयंति विडंबयंति निर्भर्त्स्यंति रमयंति विषादयंति । एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरंति ॥ 2.47.1 ॥
यदेतत्पूर्णेंदुद्युतिहरं उदाराकृति परं मुखाब्जं तन्वंग्याः किल वसति यत्राधरमधु । इदं तत्किं पाकद्रुमफलं इदानीं अतिरसव्यतीतेऽस्मिन् काले विषं इव भविष्य्त्यसुखदम् ॥ 2.48 ॥
उन्मीलत्त्रिवलीतरंगनिलया प्रोत्तुंगपीनस्तनद्वंद्वेनोद्गत चक्रवाकयुगला वक्त्रांबुजोद्भासिनी । कांताकारधरा नदीयं अभितः क्रूरात्र नापेक्षते संसारार्णवमज्जनं यदि तदा दूरेण संत्यज्यताम् ॥ 2.49 ॥
जल्पंति सार्धं अन्येन पश्यंत्यन्यं सविभ्रमाः । हृद्गतं चिंतयंत्यन्यं प्रियः को नाम योषिताम् ॥ 2.50 ॥
मधु तिष्ठति वाचि योषितां हृदि हालाहलं एव केवलम् । अतएव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥ 2.51 ॥
अपसर सखे दूरादस्मात्कटाक्षविषानलात् प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः । इतरफणिना दष्टः शक्यश्चिकित्सितुं औषधैश्चतुर् वनिताभोगिग्रस्तं हि मंत्रिणः ॥ 2.52 ॥
विस्तारितं मकरकेतनधीवरेण स्त्रीसंज्ञितं बडिशं अत्र भवांबुराशौ । येनाचिरात्तद्अधरामिषलोलमर्त्य मत्स्यान्विकृष्य विपचत्यनुरागवह्नौ ॥ 2.53 ॥
कामिनीकायकांतारे कुचपर्वतदुर्गमे । मा संचर मनः पांथ तत्रास्ते स्मरतस्करः ॥ 2.54 ॥
व्याडीर्घेण चलेन वक्त्रगतिना तेजस्विना भोगिना नीलाब्जद्युतिनाहिना परं अहं दृष्टो न तच्चक्षुषा । दृष्टे संति चिकित्सका दिशि दिशि प्रायेण धनार्थिनो मुग्धाक्षक्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् ॥ 2.55 ॥
इह हि मधुरगीतं नृत्यं एतद्रसोऽयं स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् । इति हतपरमार्थैरिंद्रियैर्भ्राम्यमाणः स्वहितकरणधूर्तैः पंचभिर्वंचितोऽस्मि ॥ 2.56 ॥
न गम्यो मंत्राणां न च भवति भैषज्यविषयो न चापि प्रध्वंसं व्रजति विविधैः शांतिकशतैः । भ्रमावेशादंगे कं अपि विदधद्भंगं असकृत् स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥ 2.57 ॥
जात्य्अंधाय च दुर्मुखाय च जराजीर्णा खिलांगाय च ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च । यच्छंतीषु मनोहरं निजवपुलक्ष्मीलवश्रद्धया पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु राज्येत कः ॥ 2.58 ॥
वेश्यासौ मदनज्वाला रूपेऽंधनविवर्धिता । कामिभिर्यत्र हूयंते यौवनानि धनानि च ॥ 2.59 ॥
कश्चुंबति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञं अपि । चारभटचोरचेटकनटविटनिष्ठीवनशरावम् ॥ 2.60 ॥
धन्यास्त एव धवलायतलोचनानां तारुण्यदर्पघनपीनपयोधराणाम् । क्षामोदरोपरि लसत्त्रिवलीलतानां दृष्ट्वाकृतिं विकृतिं एति मनो न येषाम् ॥ 2.61 ॥
बाले लीलामुकुलितं अमी मंथरा दृष्टिपाताः किं क्षिप्यंते विरमविरम व्यर्थ एष श्रमस्ते । संप्रत्यन्ये वयं उपरतं बाल्यं आस्था वनांते क्षीणो मोहस्तृणं इव जगज्जालं आलोकयामः ॥ 2.62 ॥
इयं बाला मां प्रत्यनवरतं इंदीवरदलप्रभा चीरं चक्षुः क्षिपति किं अभिप्रेतं अनया । गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकरज्वर ज्वाला शांता तदपि न वराकी विरमति ॥ 2.63 ॥
किं कंदर्प करं कदर्थयसि रे कोदंडटंकारितं रे रे कोकिल कोमलं कलरवं किं वा वृथा जल्पसि । मुग्धे स्निग्धविदग्धचारुमधुरैर्लोलैः कटाक्षैरलं चेतश्चुंबितचंद्रचूडचरणध्यानामृतं वर्तते ॥ 2.64 ॥
विरहेऽपि संगमः खलु परस्परं संगतं मनो येषाम् । हृदयं अपि विघट्टितं चेत् संगी विरहं विशेषयति ॥ 2.65 ॥
किं गतेन यदि सा न जीवति प्राणिति प्रियतमा तथापि किम् । इत्युदीक्ष्य नवमेघमालिकां न प्रयाति पथिकः स्वमंदिरम् ॥ 2.66 ॥
विरमत बुधा योषित्संगात्सुखात्क्षणभंगुरात् कुरुत करुणामैत्रीप्रज्ञावधूजनसंगमम् । न खलु नरके हाराक्रांतं घनस्तनमंडलं शरणं अथवा श्रोणीबिंबं रणन्मणिमेखलम् ॥ 2.67 ॥
यदा योगाभ्यासव्यसनकृशयोरात्ममनसोरविच्छिन्ना मैत्री स्फुरति कृतिनस्तस्य किं उ तैः । प्रियाणां आलापैरधरमधुभिर्वक्त्रविधुभिः सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥ 2.68 ॥
यदासीदज्ञानं स्मरतिमिरसंचारजनितं तदा दृष्टनारीमयं इदं अशेषं जगदिति । इदानीं अस्माकं पटुतरविवेकांजनजुषां समीभूता दृष्टिस्त्रिभुवनं अपि ब्रह्म मनुते ॥ 2.69 ॥
तावदेव कृतिनां अपि स्फुरत्येष निर्मलविवेकदीपकः । यावदेव न कुरंगचक्षुषां ताड्यते चटुललोचनांचलैः ॥ 2.70 ॥
वचसि भवति संगत्यागं उद्दिश्य वार्ता श्रुतिमुखरमुखानां केवलं पंडितानाम् । जघनं अरुणरत्नग्रंथिकांचीकलापं कुवलयनयनानां को विहातुं समर्थः ॥ 2.71 ॥
स्वपरप्रतारकोऽसौ निंदति योऽलीकपंडितो युवतीः । यस्मात्तपसोऽपि फलं स्वर्गः स्वर्गेऽपि चाप्सरसः ॥ 2.72 ॥
मत्तेभकुंभदलने भुवि संति धीराः केचित्प्रचंडमृगराजवधेऽपि दक्षाः । किंतु ब्रवीमि बलिनां पुरतः प्रसह्य कंदर्पदर्पदलने विरला मनुष्याः ॥ 2.73 ॥
सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेंद्रियाणां लज्जां तावद्विधत्ते विनयं अपि समालंबते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतंति ॥ 2.74 ॥
उन्मत्तप्रेमसंरंभाद् आरभंते यद्अंगनाः । तत्र प्रत्यूहं आधातुं ब्रह्मापि खलु कातरः ॥ 2.75 ॥
तावन्महत्त्वं पांडित्यं कुलीनत्वं विवेकिता । यावज्ज्वलति नांगेषु हतः पंचेषुपावकः ॥ 2.76 ॥
शास्त्रज्ञोऽपि प्रथितविनयोऽप्यात्मबोधोऽपि बाढं संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनाम् । येनैतस्मिन्निरयनगरद्वारं उद्घाटयंती वामाक्षीणां भवति कुटिला भ्रूलता कुंचिकेव ॥ 2.77 ॥
कृशः काणः खंजः श्रवणरहितः पुच्छविकलो व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः । क्षुधा क्षामो जीर्णः पिठरककपालार्पितगलः शुनीं अन्वेति श्वा हतं अपि च हंत्येव मदनः ॥ 2.78 ॥
स्त्रीमुद्रां कुसुमायुधस्य जयिनीं सर्वार्थसंपत्करीं ये मूढाः प्रविहाय यांति कुधियो मिथ्याफलान्वेषिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुंडिताः केचित्पंचशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥ 2.79 ॥
विश्वामित्रपराशरप्रभृतयो वातांबुपर्णाशनास्तेऽपि स्त्रीमुखपंकजं सुललितं दृष्ट्वैव मोहं गताः । शाल्यन्नं सघृतं पयोदधियुतं ये भुंजते मानवास्तेषाम् इंद्रियनिग्रहो यदि भवेद्विंध्यः प्लवेत्सागरे ॥ 2.80 ॥
परिमलभृतो वाताः शाखा नवांकुरकोटयो मधुरविरुतोत्कंठा वाचः प्रियाः पिकपक्षिणाम् । विरलसुरतस्वेदोद्गारा वधूवदनेंदवः प्रसरति मधौ रात्र्यां जातो न कस्य गुणोदयः ॥ 2.81 ॥
मधुरयं मधुरैरपि कोकिला कलरवैर्मलयस्य च वायुभिः । विरहिणः प्रहिणस्ति शरीरिणो विपदि हंत सुधापि विषायते ॥ 2.82 ॥
आवासः किलकिंचितस्य दयितापार्श्वे विलासालसाः कर्णे कोकिलकामिनीकलरवः स्मेरो लतामंडपः । गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः केषांचित्सुखयंति चात्र हृदयं चैत्रे विचित्राः क्षपाः ॥ 2.83 ॥
पांथ स्त्रीविरहानलाहुतिकलां आतन्वती मंजरीमाकंदेषु पिकांगनाभिरधुना सोत्कंठं आलोक्यते । अप्येते नवपाटलापरिमलप्राग्भारपाटच्चरा वांतिक्लांतिवितानतानवकृतः श्रीखंडशैलानिलाः ॥ 2.84 ॥
प्रथितः प्रणयवतीनां तावत्पदं आतनोतु हृदि मानः । भवति न यावच्चंदनतरु सुरभिर्मलयपवमानः ॥ 2.85 ॥
सहकारकुसुमकेसरनिकर भरामोदमूर्च्छितदिग्अंते । मधुरमधुरविधुरमधुपे मधौ भवेत्कस्य नोत्कंठा ॥ 2.86 ॥
अच्छाच्छचंदनरसार्द्रतरा मृगाक्ष्यो धारागृहाणि कुसुमानि च कौमुदी च । मंदो मरुत्सुमनसः शुचि हर्म्यपृष्ठं ग्रीष्मे मदं च मदनं च विवर्धयंति ॥ 2.87 ॥
स्रजो हृद्यामोदा व्यजनपवनश्चंद्रकिरणाः परागः कासारो मलयजरजः शीधु विशदम् । शुचिः सौधोत्संगः प्रतनु वसनं पंकजदृशो निदाघऋतावेतद्विलसति लभंते सुकृतिनः ॥ 2.88 ॥
सुधाशुभ्रं धाम स्फुरद्अमलरश्मिः शशधरः प्रियावक्त्रांभोजं मलयजरजश्चातिसुरभिः । स्रजो हृद्यामोदास्तदिदं अखिलं रागिणि जने करोत्यंतः क्षोभं न तु विषयसंसर्गविमुखे ॥ 2.89 ॥
तरुणीवेषोद्दीपितकामा विकसज्जातीपुष्पसुगंधिः । उन्नतपीनपयोधरभारा प्रावृट्तनुते कस्य न हर्षम् ॥ 2.90 ॥
वियद्उपचितमेघं भूमयः कंदलिन्यो नवकुटजकदंबामोदिनो गंधवाहाः । शिखिकुलकलकेकारावरम्या वनांताः सुखिनं असुखिनं वा सर्वं उत्कंठयंति ॥ 2.91 ॥
उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः । क्षितिरपि कंदलधवला दृष्टिं पथिकः क्व पातयति ॥ 2.92 ॥
इतो विद्युद्वल्लीविलसितं इतः केतकितरोः स्फुरन्गंधः प्रोद्यज्जलदनिनदस्फूर्जितं इतः । इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां कथं यास्यंत्येते विरहदिवसाः संभृतरसाः ॥ 2.93 ॥
असूचिसंचारे तमसि नभसि प्रौढजलदध्वनिप्रये तस्मिन् पतति दृशदां नीरनिचये । इदं सौदामिन्याः कनककमनीयं विलसितं मुदं च ग्लानिं च प्रथयति पथिष्वेव सुदृशाम् ॥ 2.94 ॥
आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते शीतोत्कंपनिमित्तं आयतदृशा गाढं समालिंग्यते । जाताः शीकरशीतलाश्च मरुतोरत्यंतखेदच्छिदो धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासंगमे ॥ 2.95 ॥
अर्धं सुप्त्वा निशायाः सरभससुरतायाससन्नश्लथांगप्रोद्भूतासह्य तृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते । संभोगक्लांतकांताशिथिलभुजलतावर्जितं कर्करीतो ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मंदपुण्यः ॥ 2.96 ॥
हेमंते दधिदुग्धसर्पिरशना मांजिष्ठवासोभृतः काश्मीरद्रवसांद्रदिग्धवपुषश्छिन्ना विचित्रै रतैः । वृत्तोरुस्तनकामिनोजनकृताश्लेषा गृहाभ्यंतरे तांबूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ 2.97 ॥
प्रदुयत्प्रौढप्रियंगुद्युतिभृति विकसत्कुंदमाद्यद्द्विरेफे काले प्रालेयवातप्रचलविलसितोदारमंदारधाम्नि । येषां नो कंठलग्ना क्षणं अपि तुहिनक्षोददक्षा मृगाक्षी तेसां आयामयामा यमसदनसमा यामिनी याति यूनाम् ॥ 2.98 ॥
चुंबंतो गंडभित्तीरलकवति मुखे सीत्कृतान्यादधाना वक्षःसूत्कंचुकेषु स्तनभरपुलकोद्भेदं आपादयंतः । ऊरूनाकंपयंतः पृथुजघनतटात्स्रंसयंतोऽंशुकानि व्यक्तं कांताजनानां विटचरितभृतः शैशिरा वांति वाताः ॥ 2.99 ॥
केशानाकुलयंदृशो मुकुलयन्वासो बलादाक्षिपन्नातन्वन् पुलकोद्गमं प्रकटयन्नावेगकंपं शनैः । बारं बारं उदारसीत्कृतकृतो दंतच्छदान्पीडयन् प्रायः शैशिर एष संप्रति मरुत्कांतासु कांतायते ॥ 2.100 ॥
यद्यस्य नास्ति रुचिरं तस्मिंस्तस्य स्पृहा मनोज्ञेऽपि । रमणीयेऽपि सुधांशौ न मनःकामः सरोजिन्याः ॥ 2.101 ॥
वैराग्ये संचरत्येको नीतौ भ्रमति चापरः । शृंगारे रमते कश्चिद्भुवि भेदाः परस्परम् ॥ 2.102 ॥
Browse Related Categories: