Bhartruhari Shataka Trishati · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
चूडोत्तंसितचंद्रचारुकलिकाचंचच्छिखाभास्वरो लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् । अंतःस्फूर्जद्अपारमोहतिमिरप्राग्भारं उच्चाटयन् श्वेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ 3.1 ॥
Offered for worship and study, not as prediction. Non-commercial.
भ्रांतं देशं अनेकदुर्गविषमं प्राप्तं न किंचित्फलं त्यक्त्वा जातिकुलाभिमानं उचितं सेवा कृता निष्फला । भुक्तं मानविवर्जितं परगृहेष्वाशंकया काकवत् तृष्णे जृंभसि पापकर्मपिशुने नाद्यापि संतुष्यसि ॥ 3.2 ॥
उत्खातं निधिशंकया क्षितितलं ध्माता गिरेर्धातवो निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन संतोषिताः । मंत्राराधनतत्परेण मनसा नीताः श्मशाने निशाः प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव ॥ 3.3 ॥
खलालापाः सौढाः कथं अपि तद्आराधनपरैर्निगृह्यांतर् बाष्पं हसितं अपि शून्येन मनसा । कृतो वित्तस्तंभप्रतिहतधियां अंजलिरपि त्वं आशे मोघाशे किम अपरं अतो नर्तयसि माम् ॥ 3.4 ॥
अमीषां प्राणानां तुलितविसिनीपत्रपयसां कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् । यद्आढ्यानां अग्रे द्रविणमदनिःसंज्ञमनसां कृतं मावव्रीडैर्निजगुणकथापातकं अपि ॥ 3.5 ॥
क्षांतं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः सोढो दुःसहशीततापपवनक्लेशो न तप्तं तपः । ध्यातं वित्तं अहर्निशं नित्यमितप्राणैर्न शंभोः पदं तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वंचिताः ॥ 3.6 ॥
भोगा न भुक्ता वयं एव भुक्तास् तपो न तप्तं वयं एव तप्ताः । कालो न यातो वयं एव यातास्तृष्णा न जीर्णा वयं एव जीर्णाः ॥ 3.7 ॥
बलिभिर्मुखं आक्रांतं पलितेनांकितं शिरः । गात्राणि शिथिलायंते तृष्णैका तरुणायते ॥ 3.8 ॥
विवेकव्याकोशे विदधति समे शाम्यति तृषा परिष्वंगे तुंगे प्रसरतितरां सा परिणता । जराजीर्णैश्वर्यग्रसनगहनाक्षेपकृपणस्तृषापात्रं यस्यां भवति मरुतां अप्यधिपतिः ॥ 3.8.1 ॥
निवृत्ता भोगेच्छा पुरुषबहुमानोऽपि गलितः समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः । शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने अहो मूढः कायस्तदपि मरणापायचकितः ॥ 3.9 ॥
आशा नाम नदी मनोरथजला तृष्णातरंगाकुला रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी । मोहावर्तसुदुस्तरातिगहना प्रोत्तुंगचिंतातटी तस्याः परगता विशुद्धं अलसो नंदंति योगीश्वराः ॥ 3.10 ॥
न संसारोत्पन्नं चरितं अनुपश्यामि कुशलं विपाकः पुण्यानां जनयति भयं मे विमृशतः । महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया महांतो जायंते व्यसनं इव दातुं विषयिणाम् ॥ 3.11 ॥
अवश्यं यातारश्चिरतरं उषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत्स्वयं अमून् । व्रजंतः स्वातंत्र्यादतुलपरितापाय मनसः स्वयं त्यक्ता ह्येते शमसुखं अनंतं विदधति ॥ 3.12 ॥
ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वंत्यहो दुष्करं यन्मुंचंत्युपभोगभांज्यपि धनान्येकांततो निःस्पृहाः । संप्रातान्न पुरा न संप्रति न च प्राप्तौ दृढप्रत्ययान् वांछामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयम् ॥ 3.13 ॥
धन्यानां गिरिकंदरेषु वसतां ज्योतिः परं ध्यायतामानंदाश्रु जलं पिबंति शकुना निःशंकं अंकेशयाः । अस्माकं तु मनोरथोपरचितप्रासादवापीतटक्रीडा काननकेलिकौतुकजुषां आयुः परं क्षीयते ॥ 3.14 ॥
भिक्षाशतं तदपि नीरसं एकबारं शय्या च भूः परिजनो निजदेहमात्रम् । वस्त्रं विशीर्णशतखंडमयी च कंथा हा हा तथापि विषया न परित्यजंति ॥ 3.15 ॥
स्तनौ मांसग्रंथी कनककलशावित्युपमिती मुखं श्लेष्मागारं तदपि च शशांकेन तुलितम् । स्रवन्मूत्रक्लिन्नं करिवरशिरस्पर्धि जघनं मुहुर्निंद्यं रूपं कविजनविशेषैर्गुरुकृतम् ॥ 3.16 ॥
एको रागिषु राजते प्रियतमादेहार्धहारी हरो नीरागेषु जनो विमुक्तललनासंगो न यस्मात्परः । दुर्वारस्मरबाणपन्नगविषव्याबिद्धमुग्धो जनः शेषः कामविडंबितान्न विषयान्भोक्तुं न मोक्तुं क्षमः ॥ 3.17 ॥
अजानंदाहात्म्यं पततु शलभस्तीव्रदहने स मीनोऽप्यज्ञानाद्बडिशयुतं अश्नातु पिशितम् । विजानंतोऽप्येते वयं इह वियज्जालजटिलान् न मुंचामः कानां अहह गहनो मोहमहिमा ॥ 3.18 ॥
तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितम् । प्रदीप्ते कामाग्नौ सुदृढतरं आलिंगति वधूं प्रतीकारं व्याधः सुखं इति विपर्यस्यति जनः ॥ 3.19 ॥
तुंगं वेश्म सुताः सतां अभिमताः संख्यातिगाः संपदः कल्याणी दयिता वयश्च नवं इत्यज्ञानमूढो जनः । मत्वा विश्वं अनश्वरं निविशते संसारकारागृहे संदृश्य क्षणभंगुरं तदखिलं धन्यस्तु सन्न्यस्यति ॥ 3.20 ॥
दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णांबरा क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी । याच्ञाभंगभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ 3.21 ॥
अभिमतमहामानग्रंथिप्रभेदपटीयसी गुरुतरगुणग्रामाभोजस्फुटोज्ज्वलचंद्रिका । विपुलविलल्लज्जावल्लीवितानकुठारिका जठरपिठरी दुस्पुरेयं करोति विडंबनम् ॥ 3.22 ॥
पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली कपालिं ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकंठे । द्वारं द्वारं प्रविष्टो वरं उदरदरीपूरणाय क्षुधार्तो मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येसु दीनः ॥ 3.23 ॥
गंगातरंगकणशीकरशीतलानि विद्याधराध्युषितचारुशिलातलानि । स्थानानि किं हिमवतः प्रलयं गतानि यत्सावमानपरपिंडरता मनुष्याः ॥ 3.24 ॥
किं कंदाः कंदरेभ्यः प्रलयं उपगता निर्झरा वा गिरिभ्यः प्रध्वस्ता वा तरुभ्यः सरसगलभृतो वल्कलिन्यश्च शाखाः । वीक्ष्यंते यन्मुखानि प्रसभं अपगतप्रश्रयाणां खलानां दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभ्रूलतानि ॥ 3.25 ॥
पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनम् । क्षुद्राणां अविवेकमूढमनसां यत्रेश्वराणां सदा वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥ 3.26 ॥
फलं स्वेच्छालभ्यं प्रतिवनं अखेदं क्षितिरुहां पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् । मृदुस्पर्शा शय्या सुललितलतापल्लवमयी सहंते संतापं तदपि धनिनां द्वारि कृपणाः ॥ 3.27 ॥
ये वर्तंते धनपतिपुरः प्रार्थनादुःखभाजो ये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः । तेषां अंतःस्फुरितहसितं वासराणि स्मरेयं ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ 3.28 ॥
ये संतोषनिरंतरप्रमुदितस्तेषां न भिन्ना मुदो ये त्वन्ये धनलुब्धसंकलधियस्तेसां न तृष्णाहता । इत्थं कस्य कृते कुतः स विधिना कीदृक्पदं संपदां स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ 3.29 ॥
भिक्षाहारं अदैन्यं अप्रतिसुखं भीतिच्छिदं सर्वतो दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् । सर्वत्रान्वहं अप्रयत्नसुलभं साधुप्रियं पावनं शंभोः सत्रं अवायं अक्षयनिधिं शंसंति योगीश्वराः ॥ 3.30 ॥
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं माने दैन्यभयं बले रिपुभयं रूपे जराया भयम् । शास्त्रे वादिभयं गुणे खलभयं काये कृतांताद्भयं सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥ 3.31 ॥
आक्रांतं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं संतोषो धनलिप्सया शमसुखं प्रौढांगनाविभ्रमैः । लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैर् अस्थैर्येण विभूतयोऽप्यपहता ग्रस्तं न किं केन वा ॥ 3.32 ॥
आधिव्याधिशतैर्जनस्य विविधैरारोग्यं उन्मूल्यते लक्ष्मीर्यत्र पतंति तत्र विवृतद्वारा इव व्यापदः । जातं जातं अवश्यं आशु विवशं मृत्युः करोत्यात्मसात् तत्किं तेन निरंकुशेन विधिना यन्निर्मितं सुस्थिरम् ॥ 3.33 ॥
भोगास्तुंगतरंगभंगतरलाः प्राणाः क्षणध्वंसिनः स्तोकान्येव दिनानि यौवनसुखं स्फूर्तिः प्रियासु स्थिता । तत्संसारं असारं एव निखिलं बुद्ध्वा बुधा बोधका लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ 3.34 ॥
भोगा मेघवितानमध्यविलसत्सौदामिनीचंचला आयुर्वायुविघट्टिताब्जपटलीलीनांबुवद्भंगुरम् । लीला यौवनलालसास्तनुभृतां इत्याकलय्य द्रुतं योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः ॥ 3.35 ॥
आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीः अर्थाः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः । कंठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं ब्रह्मण्यासक्तचित्ता भवत भवभयांभोधिपारं तरीतुम् ॥ 3.36 ॥
कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे कांताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः । वामाक्षीणां अवज्ञाविहसितवसतिर्वृद्धभावोऽन्यसाधुः संसारे रे मनुष्या वदत यदि सुखं स्वल्पं अप्यस्ति किंचित् ॥ 3.37 ॥
व्याघ्रीव तिष्ठति जरा परितर्जयंती रोगाश्च शत्रव इव प्रहरंति देहम् । आयुः परिस्रवंति भिन्नघटादिवांभो लोकस्तथाप्यहितं आचरतीति चित्रम् ॥ 3.38 ॥
भोगा भंगुरवृत्तयो बहुविधास्तैरेव चायं भवस्तत् कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टतैः । आशापाशशतापशांतिविशदं चेतःसमाधीयतां कामोत्पत्तिवशात्स्वधामनि यदि श्रद्देयं अस्मद्वचः ॥ 3.39 ॥
सखे धन्याः केचित्त्रुटितभवबंधव्यतिकरा वनांते चित्तांतर्विषं अविषयाशीत्विषगताः । शरच्चंद्रज्योत्स्नाधवलगगनाभोगसुभगां नयंते ये रात्रिं सुकृतचयचिंतैकशरणाः ॥ 3.39.1 ॥
ब्रह्मेंद्रादिमरुद्गणांस्तृणकणान्यत्र स्थितो मन्यते यत्स्वादाद्विरसा भवंति विभवास्त्रैलोक्यराज्यादयः । भोगः कोऽपि स एव एक परमो नित्योदितो जृंभते भोः साधो क्षणभंगुरे तदितरे भोगे रतिं मा कृथाः ॥ 3.40 ॥
सा रम्या नगरी महान्स नृपतिः सामंतचक्रं च तत् पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चंद्रबिंबाननाः । उद्वृत्तः स राजपुत्रनिवहस्ते वंदिनस्ताः कथाः सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ 3.41 ॥
यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चांते । इत्थं नेयौ रजनिदिवसौ लोलयंद्वाविवाक्षौ कालः कल्यो भुवनफलके क्रीडति प्राणिशारैः ॥ 3.42 ॥
आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयीं प्रमादमदिरां उन्मत्तभूतं जगत् ॥ 3.43 ॥
रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जंतवो धावंत्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः । व्यापारैः पुनर्उक्तभूतविषयैरित्थं विधेनामुना संसारेण कदर्थिता वयं अहो मोहान्न लज्जामहे ॥ 3.44 ॥
न ध्यानं पदं ईश्वरस्य विधिवत्संसारविच्छित्तये स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः । नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिंगितं मातुः केवलं एव यौवनवनच्छेदे कुठारा वयम् ॥ 3.45 ॥
नाभ्यस्ता प्रतिवादिवृंददमनी विद्या विनीतोचिता खड्गाग्रैः करिकुंभपीठदलनैर्नाकं न नीतं यशः । कांताकौम्अलपल्लवाधररसः पीतो न चंद्रोदये तारुण्यं गतं एव निष्फलं अहो शून्यालये दीपवत् ॥ 3.46 ॥
विद्या नाधिगता कलंकरहिता वित्तं च नोपार्जितं शुश्रूषापि समाहितेन मनसा पित्रोर्न संपादिता । आलोलायतलोचनाः प्रियतमाः स्वप्नेऽपि नालिंगिताः कालोऽयं परपिंडलोलुपतया काकैरिव प्रेर्यते ॥ 3.47 ॥
वयं येभ्यो जाताश्चिरपरिगता एव खलु ते समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः । इदानीं एते स्मः प्रतिदिवसं आसन्नपतना गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥ 3.48 ॥
आयुर्वर्षशतं नृणां परिमितं रात्रौ तद्अर्धं गतं तस्यार्धस्य परस्य चार्धं अपरं बालत्ववृद्धत्वयोः । शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते जीवे वारितरंगचंचलतरे सौख्यं कुतः प्राणिनाम् ॥ 3.49 ॥
क्षणं बालो भूत्वा क्षणं अपि युवा कामरसिकः क्षणं वित्तैर्हीनः क्षणं अपि च संपूर्णविभवः । जराजीर्णैरंगैर्नट इव बलीमंडिततनूर् नरः संसारांते विशति यमधानीयवनिकाम् ॥ 3.50 ॥
त्वं राजा वयं अप्युपासितगुरुप्रज्ञाभिमानोन्नताः ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वंति नः । इत्थं मानधनातिदूरं उभयोरप्यावयोरंतरं यद्यस्मासु पराङ्मुखोऽसि वयं अप्येकांततो निःस्पृहा ॥ 3.51 ॥
अर्थानां ईशिषे त्वं वयं अपि च गिरां ईश्महे यावदर्थं शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः । सेवंते त्वां धनाढ्या मतिमलहतये मां अपि श्रोतुकामाः । मय्यप्यास्था न ते चेत्त्वयि मम नितरां एव राजन्ननास्था ॥ 3.52 ॥
वयं इह परितुष्टा वल्कलैस्त्वं दुकूलैः सम इह परितोषो निर्विशेषो विशेषः । स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥ 3.53 ॥
फलं अलं अशनाय स्वादु पानाय तोयं क्षितिरपि शयनार्थं वाससे वल्कलं च । नवधनमधुपानभ्रांतसर्वेंद्रियाणां अविनयं अनुमंतुं नोत्सहे दुर्जनानाम् ॥ 3.54 ॥
अश्नीमहि वयं भिक्षां आशावासो वसीमहि । शयीमहि महीपृष्ठे कुर्वीमहि किं ईश्वरैः ॥ 3.55 ॥
न नटा ना विटा न गायका न च सभ्येतरवादचुंचवः । नृपं ईक्षितुं अत्र के वयं स्तनभारानमिता न योषितः ॥ 3.56 ॥
विपुलहृदयैरीशैरेतज्जगज्जनितं पुरा विधृतं अपरैर्दत्तं चान्यैर्विजित्य तृणं यथा । इह हि भुवनान्यन्यैर्धीराश्चतुर्दश भुंजते कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ 3.57 ॥
अभुक्तायां यस्यां क्षणं अपि न यातं नृपशतैर् भुवस्तस्या लाभे क इव बहुमानः क्षितिभृताम् । तद्अंशस्याप्यंशे तद्अवयलेशेऽपि पतयो विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ 3.58 ॥
मृत्पिंडो जलरेखया वलयितः सर्वोऽप्ययं नन्वणुः स्वांशीकृत्य स एव संगरशतै राज्ञां गणा भुंजते । ये दद्युर्ददतोऽथवा किं अपरं क्षुद्रा दरिद्रं भृशं धिग्धिक्तान्पुरुषाधमांधनकणान्वांछंति तेभ्योऽपि ये ॥ 3.59 ॥
स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं कपालं यस्योच्चैर्विनिहितं अलंकारविधये । नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना नमद्भिः कः पुंसां अयं अतुलदर्पज्वरभरः ॥ 3.60 ॥
परेषां चेतांसि प्रतिदिवसं आराध्य बहुधा प्रसादं किं नेतुं विशसि हृदय क्लेशकलितम् । प्रसन्ने त्वय्यंतःसवयमुदितचिंतामणिगणो विविक्तः संकल्पः किं अभिलषितं पुष्यति न ते ॥ 3.61 ॥
सत्यां एव त्रिलोकीसरिति हरशिरश्चुंबिनीवच्छटायां सद्वृत्तिं कल्पयंत्यां बटविटपभवैर्वल्कलैः सत्फलैश्च । कोऽयं विद्वान्विपत्तिज्वरजनितरुजातीवदुःखासिकानां वक्त्रं वीक्षेत दुःस्थे यदि हि न विभृयात्स्वे कुटुंबेऽनुकंपाम् ॥ 3.61.1 ॥
परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां स्वयं भवति यद्यथा भवति तत्तथा नान्यथा । अतीतं अननुस्मरन्नपि च भाव्यसंकल्पयन्नतर्कित समागमानुभवामि भोगनाहम् ॥ 3.62 ॥
एतस्माद्विरमेंद्रियार्थगहनादायासकादाश्रयश्रेयो मार्गं अशेषदुःखशमनव्यापारदक्षं क्षणात् । स्वात्मीभावं उपैहि संत्यज निजां कल्लोललोलं गतिं मा भूयो भज भंगुरां भवरतिं चेतः प्रसीदाधुना ॥ 3.63 ॥
मोहं मार्जय तां उपार्जय रतिं चंद्रार्धचूडामणौ चेतः स्वर्गतरंगिणीतटभुवां आसंगं अंगीकुरु । को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु च ज्वालाग्रेषु च पन्नगेषु सरिद्वेगेषु च चप्रत्ययः ॥ 3.64 ॥
चेतश्चिंतय मा रमां सकृदिमां अस्थायिनीं आस्थया भूपालभ्रुकुटीकुटीविहरणव्यापारपण्यांगनाम् । कंथाकंचुकिनः प्रविश्य भवनद्वाराणि वाराणसीरथ्या पंक्तिषु पाणिपात्रपतितां भिक्षां अपेक्षामहे ॥ 3.65 ॥
अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम् । यद्यस्त्येवं कुरु भवरसास्वादने लंपटत्वं नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ 3.66 ॥
प्राप्ताः श्रियः सकलकामदुधास्ततः किं न्यस्तं पदं शिरसि विद्विषतां ततः किम् । संपादिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितास्तनुभृतां तनवस्ततः किम् ॥ 3.67 ॥
भक्तिर्भवे मरणजन्मभयं हृदिस्थं स्नेहो न बंधुषु न मन्मथजा विकाराः । संसर्ज दोषरहिता विजया वनांता वैराग्यं अस्ति किं इतः परमर्थनीयम् ॥ 3.68 ॥
तस्मादनंतं अजरं परमं विकासि तद्ब्रह्म चिंतय किं एभिरसद्विकल्पैः । यस्यानुषंगिण इमे भुवनाधिपत्यभोगादयः कृपणलोकमता भवंति ॥ 3.69 ॥
पातालं आविशसि यासि नभो विलंघ्य दिङ्मंडलं भ्रमसि मानस चापलेन । भ्रांत्यापि जातु विमलं कथं आत्मनीनं न ब्रह्म संसरसि निर्वृतिं एषि येन ॥ 3.70 ॥
किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः । मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं स्वात्मानंदपदप्रवेशकलनं शेसैर्वाणिग्वृत्तिभिः ॥ 3.71 ॥
नायं ते समयो रहस्यं अधुना निद्राति नाथो यदि स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः । चेतस्तानपहाय याहि भवनं देवस्य विश्वेशितुर् निर्दौवारिकनिर्दयोक्त्य्अपरुषं निःसौम्अशर्मप्रदम् ॥ 3.71.1 ॥
यतो मेरुः श्रीमान्निपतति युगांताग्निवलितः समुद्राः शुष्यंति प्रचुरमकरग्राहनिलयाः । धरा गच्छत्यंतं धरणिधरपादैरपि धृता शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ 3.72 ॥
गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दंतावलिर् दृष्टिर्नक्ष्यति वर्धते बधिरता वक्त्रं च लालायते । वाक्यं नाद्रियते च बांधवजनो भार्या न शुश्रूषते हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ 3.73 ॥
वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां स्थानं जरापरिभवस्य तदा पुमांसम् । आरोपितांस्थिशतकं परिहृत्य यांति चंडालकूपं इव दूरतरं तरुण्यः ॥ 3.74 ॥
यावत्स्वस्थं इदं शरीरं अरुजं यावच्च दूरे जरा यावच्चेंद्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ 3.75 ॥
तपस्यंतः संतः किं अधिनिवसामः सुरनदीं गुणोदारांदारानुत परिचरामः सविनयम् । पिबामः शास्त्रौघानुतविविधकाव्यामृतरसान् न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ 3.76 ॥
दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजो वयं तु स्थूलेच्छाः सुमहति फले बद्धमनसः । जरा देहं मृत्युर्हरति दयितं जीवितं इदं सखे नान्यच्छ्रेयो जगति विदुषेऽन्यत्र तपसः ॥ 3.77 ॥
माने म्लायिनि खंडिते च वसुनि व्यर्थे प्रयातेऽर्थिनि क्षीणे बंधुजने गते परिजने नष्टे शनैर्यौवने । युक्तं केवलं एतदेव सुधियां यज्जह्नुकन्यापयःपूताग्राव गिरींद्रकंदरतटीकुंजे निवासः क्वचित् ॥ 3.78 ॥
रम्याश्चंद्रमरीचयस्तृणवती रम्या वनांतस्थली रम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः । कोपोपाहितबाष्पबिंदुतरलं रम्यं प्रियाया मुखं सर्वं रम्यं अनित्यतां उपगते चित्ते न किंचित्पुनः ॥ 3.79 ॥
रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये । किंतु भ्रांतपतंगक्षपवनव्यालोलदीपांकुरच्छाया चंचलं आकलय्य सकलं संतो वनांतं गताः ॥ 3.80 ॥
आ संसारात्त्रिभुवनं इदं चिन्वतां तात्तादृङ्नैवास्माकं नयनपदवीं श्रोत्रमार्गं गतो वा । योऽयं धत्ते विषयकरिणो गाढगूढाभिमानक्षीवस्यांतः करणकरिणः संयमालानलीलाम् ॥ 3.81 ॥
यदेतत्स्वच्छंदं विहरणं अकार्पण्यं अशनं सहार्यैः संवासः श्रुतं उपशमैकव्रतफलम् । मनो मंदस्पंदं बहिरपि चिरस्यापि विमृशन्न जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ 3.82 ॥
जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं हंतांगेषु गुणाश्बंध्यफलतां याता गुणज्ञैर्विना । किं युक्तं सहसाभ्युपैति बलवान्कालः कृतांतोऽक्षमी हा ज्ञातं मदनांतकांघ्रियुगलं मुक्त्वास्ति नान्यो गतिः ॥ 3.83 ॥
महेश्वरे वा जगतां अधीश्वरे जनार्दने वा जगद्अंतरात्मनि । न वस्तुभेदप्रतिपत्तिरस्ति मे तथापि भक्तिस्तरुणेंदुशेखरे ॥ 3.84 ॥
स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने सुखासीनाः शांतध्वंतिसु रजनीषु द्युसरितः । भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः कदा यास्यामोऽतर्गतबहुलबाष्पाकुलदशाम् ॥ 3.85 ॥
महादेवो देवः सरिदपि च सैषा सुरसरिद्गुहा एवागारं वसनं अपि ता एव हरितः । सुहृदा कालोऽयं व्रतं इदं अदैन्यव्रतं इदं कियद्वा वक्ष्यामो वटविटप एवास्तु दयिता ॥ 3.85.1 ॥
वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः स्मरंतः संसारे विगुणपरिणामां विधिगतिम् । वयं पुण्यारण्ये परिणतशरच्चंद्रकिरणास् त्रियामा नेस्यामो हरचरणचिंतैकशरणाः ॥ 3.86 ॥
कदा वाराणस्यां अमरतटिनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानोऽंजलिपुटम् । अये गौरीनाथ त्रिपुरहर शंभो त्रिनयन प्रसीदेत्याक्रोशन्निमिषं इव नेष्यामि दिवसान् ॥ 3.87 ॥
उद्यानेषु विचित्रभोजनविधिस्तीव्रातितीव्रं तपः कौपीनावरणं सुवस्त्रं अमितं भिक्षाटनं मंडनम् । आसन्नं मरणं च मंगलसमं यस्यां समुत्पद्यते तां काशीं परिहृत्य हंत विबुधैरन्यत्र किं स्थीयते ॥ 3.87.1 ॥
स्नात्वा गांगैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वा ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यंकमूले । आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् ॥ 3.88 ॥
एकाकी निःस्पृहः शांतः पाणिपात्रो दिगंबरः । कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥ 3.89 ॥
पाणिं पात्रयतां निसर्गशुचिना भैक्षेण संतुष्यतां यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् । अत्यागेऽपि तनोरखंडपरमानंदावबोधस्पृशा मध्वा कोऽपि शिवप्रसादसुलभः संपत्स्यते योगिनाम् ॥ 3.90 ॥
कौपीनं शतखंडजर्जरतरं कंथा पुनस्तादृशी नैश्चिंत्यं निरपेक्षभैक्ष्यं अशनं निद्रा श्मशाने वने । स्वातंत्र्येण निरंकुशं विहरणं स्वांतं प्रशांतं सदा स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किम् ॥ 3.91 ॥
ब्रह्मांडं मंडलीमात्रं किं लोभाय मनस्विनः । शफरीस्फुर्तेनाब्धिः क्षुब्धो न खलु जायते ॥ 3.92 ॥
मातर्लक्ष्मि भजस्व कंचिदपरं मत्कांक्षिणी मा स्म भूर् भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणां असि । सद्यः स्यूतपलाशपत्रपुटिकापात्रैः पवित्रीकृतैर् भिक्षावस्तुभिरेव संप्रति वयं वृत्तिं समीहामहे ॥ 3.93 ॥
महाशय्या पृथ्वी विपुलं उपधानं भुजलतां वितानं चाकाशं व्यजनं अनुकूलोऽयं अनिलः । शरच्चंद्रो दीपो विरतिवनितासंगमुदितः सुखी शांतः शेते मुनिरतनुभूतिर्नृप इव ॥ 3.94 ॥
भिक्षासी जनमध्यसंगरहितः स्वायत्तचेष्टः सदा हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः । रथ्याकीर्णविशीर्णजीर्णवसनः संप्राप्तकंथासनो निर्मानो निरहंकृतिः शमसुखाभोगैकबद्धस्पृहः ॥ 3.95 ॥
चंडालः किं अयं द्विजातिरथवा शूद्रोऽथ किं तापसः किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किम् । इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनैर् न क्रुद्धाः पथि नैव तुष्टमनसो यांति स्वयं योगिनः ॥ 3.96 ॥
हिंसाशून्यं अयत्नलभ्यं अशनं धात्रा मरुत्कल्पितं व्यालानं पशवस्तृणांकुरभुजस्तुष्टाः स्थलीशायिनः । संसारार्णवलंघनक्षमधियां वृत्तिः कृता सा नृणां तां अन्वेषयतां प्रयांति सततं सर्वं समाप्तिं गुणाः ॥ 3.97 ॥
गंगातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशंकाः कंडूयंते जरठहरिणाः स्वांगं अंगे मदीये ॥ 3.98 ॥
जीर्णाः कंथा ततः किं सितं अमलपटं पट्टसूत्रं ततः किं एका भार्या ततः किं हयकरिसुगणैरावृतो वा ततः किम् । भक्तं भुक्तं ततः किं कदशनं अथवा वासरांते ततः किं व्यक्तज्योतिर्न वांतर्मथितभवभयं वैभवं वा ततः किम् ॥ 3.98.1 ॥
पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यं अक्षय्यं अन्नं विस्तीर्णं वस्त्रं आशादशकं अचपलं तल्पं अस्वल्पं उर्वीम् । येषां निःसंगतांगीकरणपरिणतस्वांतसंतोषिणस्ते धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयंति ॥ 3.99 ॥
त्रैलोक्याधिपतित्वं एव विरसं यस्मिन्महाशासने तल्लब्ध्वासनवस्त्रमानघटने भोगे रतिं मा कृथाः । भोगः कोऽपि स एक एव परमो नित्योदिता जृंभने यत्स्वादाद्विरसा भवंति विसयास्त्रैलोक्यराज्यादयः ॥ 3.99.1 ॥
मातर्मेदिनि तात मारुति सखे तेजः सुबंधो जल भ्रातर्व्यौम्अ निबद्ध एष भवतां अंत्यः प्रणामांजलिः । युष्मत्संगवशोपजातसुकृतस्फारस्फुरन्निर्मलज्ञानापास्त समस्तमोहमहिमा लीने परब्रह्मणि ॥ 3.100 ॥
शय्या शैलशिलागृहं गिरिगुहा वस्त्रं तरुणां त्वचः सारंगाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः कौम्अलैः । येसां निर्झरं अंबुपानं उचितं रत्यै तु विद्यांगना मन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवांजलिः ॥ 3.101 ॥
धैर्यं यस्य पिता क्षमा च जननी शांतिश्चिरं गेहिनी सत्यं मित्रं इदं दया च भगिनी भ्राता मनःसंयमः । शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनं ह्येते यस्य कुटुंबिनो वद सखे कस्माद्भयं योगिनः ॥ 3.102 ॥
अहो वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा । तृणे वा स्त्रैणे वा मम समदृशो यांति दिवसाः क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ 3.103 ॥
Browse Related Categories: