Chanakya Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ । सभामध्ये न शोभंते जारगर्भा इव स्त्रियः ॥ 01 ॥
कृते प्रतिकृतिं कुर्याद्धिंसने प्रतिहिंसनम् । तत्र दोषो न पतति दुष्टे दुष्टं समाचरेत् ॥ 02 ॥
यद्दूरं यद्दुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ 03 ॥
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मंडनैः सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ 04 ॥
पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरा । शंखो भिक्षाटनं कुर्यान्न दत्तमुपतिष्ठते ॥ 05 ॥
अशक्तस्तु भवेत्साधु-र्ब्रह्मचारी वा निर्धनः । व्याधितो देवभक्तश्च वृद्धा नारी पतिव्रता ॥ 06 ॥
नाऽन्नोदकसमं दानं न तिथिर्द्वादशी समा । न गायत्र्याः परो मंत्रो न मातुर्दैवतं परम् ॥ 07 ॥
तक्षकस्य विषं दंते मक्षिकायास्तु मस्तके । वृश्चिकस्य विषं पुच्छे सर्वांगे दुर्जने विषम् ॥ 08 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
पत्युराज्ञां विना नारी ह्युपोष्य व्रतचारिणी । आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥ 09 ॥
न दानैः शुध्यते नारी नोपवासशतैरपि । न तीर्थसेवया तद्वद्भर्तुः पदोदकैर्यथा ॥ 10 ॥
पादशेषं पीतशेषं संध्याशेषं तथैव च । श्वानमूत्रसमं तोयं पीत्वा चांद्रायणं चरेत् ॥ 11 ॥
दानेन पाणिर्न तु कंकणेन स्नानेन शुद्धिर्न तु चंदनेन । मानेन तृप्तिर्न तु भोजनेन ज्ञानेन मुक्तिर्न तु मुंडनेन ॥ 12 ॥
नापितस्य गृहे क्षौरं पाषाणे गंधलेपनम् । आत्मरूपं जले पश्यन् शक्रस्यापि श्रियं हरेत् ॥ 13 ॥
सद्यः प्रज्ञाहरा तुंडी सद्यः प्रज्ञाकरी वचा । सद्यः शक्तिहरा नारी सद्यः शक्तिकरं पयः ॥ 14 ॥
परोपकरणं येषां जागर्ति हृदये सताम् । नश्यंति विपदस्तेषां संपदः स्युः पदे पदे ॥ 15 ॥
यदि रामा यदि च रमा यदि तनयो विनयगुणोपेतः । तनये तनयोत्पत्तिः सुरवरनगरे किमाधिक्यम् ॥ 16 ॥
आहारनिद्राभयमैथुनानि समानि चैतानि नृणां पशूनाम् । ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ 17 ॥
दानार्थिनो मधुकरा यदि कर्णतालैर्दूरीकृताः दूरीकृताः करिवरेण मदांधबुद्ध्या । तस्यैव गंडयुग्ममंडनहानिरेषा भृंगाः पुनर्विकचपद्मवने वसंति ॥ 18 ॥
राजा वेश्या यमश्चाग्निस्तस्करो बालयाचकौ । परदुःखं न जानंति अष्टमो ग्रामकंटकः ॥ 19 ॥
अधः पश्यसि किं बाले पतितं तव किं भुवि । रे रे मूर्ख न जानासि गतं तारुण्यमौक्तिकम् ॥ 20 ॥
व्यालाश्रयापि विकलापि सकंटकापि वक्रापि पंकिलभवापि दुरासदापि । गंधेन बंधुरसि केतकि सर्वजंता रेको गुणः खलु निहंति समस्तदोषान् ॥ 21 ॥
Browse Related Categories: