Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
आनंदमंथरपुरंदरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य । पादांबुजं भवतु मे विजयाय मंजु- -मंजीरशिंजितमनोहरमंबिकायाः ॥ 1 ॥
देवि त्र्यंबकपत्नि पार्वति सति त्रैलोक्यमातः शिवे शर्वाणि त्रिपुरे मृडानि वरदे रुद्राणि कात्यायनि । भीमे भैरवि चंडि शर्वरिकले कालक्षये शूलिनि त्वत्पादप्रणताननन्यमनसः पर्याकुलान्पाहि नः ॥ 2 ॥
देवि त्वां सकृदेव यः प्रणमति क्षोणीभृतस्तं नम- -ंत्याजन्मस्फुरदंघ्रिपीठविलुठत्कोटीरकोटिच्छटाः । यस्त्वामर्चति सोऽर्च्यते सुरगणैर्यः स्तौति स स्तूयते यस्त्वां ध्यायति तं स्मरार्तिविधुरा ध्यायंति वामभ्रुवः ॥ 3 ॥
उन्मत्ता इव सग्रहा इव विषव्यासक्तमूर्छा इव प्राप्तप्रौढमदा इवार्तिविरहग्रस्ता इवार्ता इव । ये ध्यायंति हि शैलराजतनयां धन्यास्त एवाग्रतः त्यक्तोपाधिविवृद्धरागमनसो ध्यायंति तान्सुभ्रुवः ॥ 4 ॥
ध्यायंति ये क्षणमपि त्रिपुरे हृदि त्वां लावण्ययौवनधनैरपि विप्रयुक्ताः । ते विस्फुरंति ललितायतलोचनानां चित्तैकभित्तिलिखितप्रतिमाः पुमांसः ॥ 5 ॥
एतं किं नु दृशा पिबाम्युत विशाम्यस्यांगमंगैर्निजैः किं वाऽमुं निगराम्यनेन सहसा किं वैकतामाश्रये । यस्येत्थं विवशो विकल्पललिताकूतेन योषिज्जनः किं तद्यन्न करोति देवि हृदये यस्य त्वमावर्तसे ॥ 6 ॥
विश्वव्यापिनि यद्वदीश्वर इति स्थाणावनन्याश्रयः शब्दः शक्तिरिति त्रिलोकजननि त्वय्येव तथ्यस्थितिः । इत्थं सत्यपि शक्नुवंति यदिमाः क्षुद्रा रुजो बाधितुं त्वद्भक्तानपि न क्षिणोषि च रुषा तद्देवि चित्रं महत् ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
इंदोर्मध्यगतां मृगांकसदृशच्छायां मनोहारिणीं पांडूत्फुल्लसरोरुहासनगता स्निग्धप्रदीपच्छविम् । वर्षंतीममृतं भवानि भवतीं ध्यायंति ये देहिनः ते निर्मुक्तरुजो भवंति रिपवः प्रोज्झंति तांदूरतः ॥ 8 ॥
पूर्णेंदोः शकलैरिवातिबहलैः पीयूषपूरैरिव क्षीराब्धेर्लहरीभरैरिव सुधापंकस्य पिंडैरिव । प्रालेयैरिव निर्मितं तव वपुर्ध्यायंति ये श्रद्धया चित्तांतर्निहितार्तितापविपदस्ते संपदं बिभ्रति ॥ 9 ॥
ये संस्मरंति तरलां सहसोल्लसंतीं त्वां ग्रंथिपंचकभिदं तरुणार्कशोणाम् । रागार्णवे बहलरागिणि मज्जयंतीं कृत्स्नं जगद्दधति चेतसि तान्मृगाक्ष्यः ॥ 10 ॥
लाक्षारसस्नपितपंकजतंतुतन्वीं अंतः स्मरत्यनुदिनं भवतीं भवानि । यस्तं स्मरप्रतिममप्रतिमस्वरूपाः नेत्रोत्पलैर्मृगदृशो भृशमर्चयंति ॥ 11 ॥
स्तुमस्त्वां वाचमव्यक्तां हिमकुंदेंदुरोचिषम् । कदंबमालां बिभ्राणामापादतललंबिनीम् ॥ 12 ॥
मूर्ध्नींदोः सितपंकजासनगतां प्रालेयपांडुत्विषं वर्षंतीममृतं सरोरुहभुवो वक्त्रेऽपि रंध्रेऽपि च । अच्छिन्ना च मनोहरा च ललिता चातिप्रसन्नापि च त्वामेवं स्मरतः स्मरारिदयिते वाक्सर्वतो वल्गति ॥ 13 ॥
ददातीष्टान्भोगान् क्षपयति रिपून्हंति विपदो दहत्याधीन्व्याधीन् शमयति सुखानि प्रतनुते । हठादंतर्दुःखं दलयति पिनष्टीष्टविरहं सकृद्ध्याता देवी किमिव निरवद्यं न कुरुते ॥ 14 ॥
यस्त्वां ध्यायति वेत्ति विंदति जपत्यालोकते चिंतय- -त्यन्वेति प्रतिपद्यते कलयति स्तौत्याश्रयत्यर्चति । यश्च त्र्यंबकवल्लभे तव गुणानाकर्णयत्यादरात् तस्य श्रीर्न गृहादपैति विजयस्तस्याग्रतो धावति ॥ 15 ॥
किं किं दुःखं दनुजदलिनि क्षीयते न स्मृतायां का का कीर्तिः कुलकमलिनि ख्याप्यते न स्तुतायाम् । का का सिद्धिः सुरवरनुते प्राप्यते नार्चितायां कं कं योगं त्वयि न चिनुते चित्तमालंबितायाम् ॥ 16 ॥
ये देवि दुर्धरकृतांतमुखांतरस्थाः ये कालि कालघनपाशनितांतबद्धाः । ये चंडि चंडगुरुकल्मषसिंधुमग्नाः तान्पासि मोचयसि तारयसि स्मृतैव ॥ 17 ॥
लक्ष्मीवशीकरणचूर्णसहोदराणि त्वत्पादपंकजरजांसि चिरं जयंति । यानि प्रणाममिलितानि नृणां ललाटे लुंपंति दैवलिखितानि दुरक्षराणि ॥ 18 ॥
रे मूढाः किमयं वृथैव तपसा कायः परिक्लिश्यते यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियंते गृहाः । भक्तिश्चेदविनाशिनी भगवतीपादद्वयी सेव्यतां उन्निद्रांबुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥ 19 ॥
याचे न कंचन न कंचन वंचयामि सेवे न कंचन निरस्तसमस्तदैन्यः । श्लक्ष्णं वसे मधुरमद्मि भजे वरस्त्रीः देवी हृदि स्फुरति मे कुलकामधेनुः ॥ 20 ॥
नमामि यामिनीनाथलेखालंकृतकुंतलाम् । भवानीं भवसंतापनिर्वापणसुधानदीम् ॥ 21 ॥
इति श्रीकालिदास विरचित पंचस्तव्यां तृतीयः घटस्तवः ।
Browse Related Categories: