Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ चतुर्थः सर्गः ॥ ॥ स्निग्धमधुसूदनः ॥
यमुनातीरवानीरनिकुंजे मंदमास्थितम् । प्राह प्रेमभरोद्भ्रांतं माधवं राधिकासखी ॥ 25 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
॥ गीतं 8 ॥
निंदति चंदनमिंदुकिरणमनु विंदति खेदमधीरम् । व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥ सा विरहे तव दीना माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ॥ 1 ॥
अविरलनिपतितमदनशरादिव भवदवनाय विशालम् । स्वहृदयर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ 2 ॥
कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् । व्रतमिव तव परिरंभसुखाय करोति कुसुमशयनीयम् ॥ 3 ॥
वहति च गलितविलोचनजलभरमाननकमलमुदारम् । विधुमिव विकटविधुंतुददंतदलनगलितामृतधारम् ॥ 4 ॥
विलिखति रहसि कुरंगमदेन भवंतमसमशरभूतम् । प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ 5 ॥
प्रतिपदमिदमपि निगतति माधव तव चरणे पतिताहम् । त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ 6 ॥
ध्यानलयेन पुरः परिकल्प्य भवंतमतीव दुरापम् । विलपति हसति विषीदति रोदिति चंचति मुंचति तापम् ॥ 7 ॥
श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् । हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ 8 ॥
आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते । सापि त्वद्विरहेण हंत हरिणीरूपायते हा कथं कंदर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ 26 ॥
॥ गीतं 9 ॥
स्तनविनिहितमपि हारमुदारम् । सा मनुते कृशतनुरतिभारम् ॥ राधिका विरहे तव केशव ॥ 1 ॥
सरसमसृणमपि मलयजपंकम् । पश्यति विषमिव वपुषि सशंकम् ॥ 2 ॥
श्वसितपवनमनुपमपरिणाहम् । मदनदहनमिव वहति सदाहम् ॥ 3 ॥
दिशि दिशि किरति सजलकणजालम् । नयननलिनमिव विगलितनालम् ॥ 4 ॥
नयनविषयमपि किसलयतल्पम् । कलयति विहितहुताशविकल्पम् ॥ 5 ॥
त्यजति न पाणितलेन कपोलम् । बालशशिनमिव सायमलोलम् ॥ 6 ॥
हरिरिति हरिरिति जपति सकामम् । विरहविहितमरणेन निकामम् ॥ 7 ॥
श्रीजयदेवभणितमिति गीतम् । सुखयतु केशवपदमुपुनीतम् ॥ 8 ॥
सा रोमांचति सीत्करोति विलपत्युत्कंपते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि । एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात् स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नांतकः ॥ 27 ॥
स्मरातुरां दैवतवैद्यहृद्य त्वदंगसंगामृतमात्रसाध्याम् । विमुक्तबाधां कुरुषे न राधा-मुपेंद्र वज्रादपि दारुणोऽसि ॥ 28 ॥
कंदर्पज्वरसंज्वरस्तुरतनोराश्चर्यमस्याश्चिरं चेतश्चंदनचंद्रमःकमलिनीचिंतासु संताम्यति । किंतु क्लांतिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायंती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ 29 ॥
क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते । श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ 30 ॥
॥ इति गीतगोविंदे स्निग्धमाधवो नाम चतुर्थः सर्गः ॥
Browse Related Categories: