Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ पंचमः सर्गः ॥ ॥ साकांक्षपुंडरीकाक्षः ॥
अहमिह निवसामि याहि राधां अनुनय मद्वचनेन चानयेथाः । इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ 31 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
॥ गीतं 10 ॥
वहति मलयसमीरे मदनमुपनिधाय । स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥ तव विरहे वनमाली सखि सीदति ॥ 1 ॥
दहति शिशिरमयूखे मरणमनुकरोति । पतति मदनविशिखे विलपति विकलतरोऽति ॥ 2 ॥
ध्वनति मधुपसमूहे श्रवणमपिदधाति । मनसि चलितविरहे निशि निशि रुजमुपयाति ॥ 3 ॥
वसति विपिनविताने त्यजति ललितधाम । लुठति धरणिशयने बहु विलपति तव नाम ॥ 4 ॥
रणति पिकसमवाये प्रतिदिशमनुयाति । हसति मनुजनिचये विरहमपलपति नेति ॥ 5 ॥
स्फुरति कलरवरावे स्मरति मणितमेव। तवरतिसुखविभवे गणयति सुगुणमतीव ॥ 6 ॥
त्वदभिधशुभदमासं वदति नरि शृणोति । तमपि जपति सरसं युवतिषु न रतिमुपैति ॥ 7 ॥
भणति कविजयदेवे विरहविलसितेन । मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ 8 ॥
पूर्वं यत्र समं त्वया रतिपतेरासादितः सिद्धय-स्तस्मिन्नेव निकुंजमन्मथमहातीर्थे पुनर्माधवः । ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमंत्रावलीं भूयस्त्वत्कुचकुंभनिर्भरपरीरंभामृतं वांछति ॥ 32 ॥
॥ गीतं 11 ॥
रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् । न कुरु नितंबिनि गमनविलंबनमनुसर तं हृदयेशम् ॥ धीरसमीरे यमुनातीरे वसति वने वनमाली ॥ 1 ॥
नाम समेतं कृतसंकेतं वादयते मृदुवेणुम् । बहु मनुते ननु ते तनुसंगतपवनचलितमपि रेणुम् ॥ 2 ॥
पतति पतत्रे विचलति पत्रे शंकितभवदुपयानम् । रचयति शयनं सचकितनयनं पश्यति तव पंथानम् ॥ 3 ॥
मुखरमधीरं त्यज मंजीरं रिपुमिव केलिषुलोलम् । चल सखि कुंजं सतिमिरपुंजं शीलय नीलनिचोलम् ॥ 4 ॥
उरसि मुरारेरुपहितहारे घन इव तरलबलाके । तटिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ 5 ॥
विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् । किसलयशयने पंकजनयने निधिमिव हर्षनिदानम् ॥ 6 ॥
हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् । कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ 7 ॥
श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् । प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ 8 ॥
विकिरति मुहुः श्वासांदिशः पुरो मुहुरीक्षते प्रविशति मुहुः कुंजं गुंजन्मुहुर्बहु ताम्यति । रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्लांतः कांते प्रियस्तव वर्तते ॥ 33 ॥
त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो गोविंदस्य मनोरथेन च समं प्राप्तं तमः सांद्रताम् । कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना तन्मुग्धे विफलं विलंबनमसौ रम्योऽभिसारक्षणः ॥ 34 ॥
आश्लेषादनु चुंबनादनु नखोल्लेखादनु स्वांतज-प्रोद्बोधादनु संभ्रमादनु रतारंभादनु प्रीतयोः । अन्यार्थं गतयोर्भ्रमान्मिलितयोः संभाषणैर्जानतो-र्दंपत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ 35 ॥
सभयचकितं विन्यस्यंतीं दृशौ तिमिरे पथि प्रतितरु मुहुः स्थित्वा मंदं पदानि वितन्वतीम् । कथमपि रहः प्राप्तामंगैरनंगतरंगिभिः सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ 36 ॥
राधामुग्धमुखारविंदमधुपस्त्रैलोक्यमौलिस्थली नेपथ्योचितनीलरत्नमवनीभारावतारांतकः। स्वच्छंदं व्रजसुब्दरीजनमनस्तोषप्रदोषोदयः कंसध्वंसनधूमकेतुरवतु त्वां देवकीनंदनः॥ 36 + 1 ॥
॥ इति श्रीगीतगोविंदेऽभिसारिकवर्णने साकांक्षपुंडरीकाक्षो नाम पंचमः सर्गः ॥
Browse Related Categories: