Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ अष्टमः सर्गः ॥ ॥ विलक्ष्यलक्ष्मीपतिः ॥
अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते । अनुनयवचनं वदंतमग्रे प्रणतमपि प्रियमाह साभ्यसूयम् ॥ 49 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
॥ गीतं 17 ॥
रजनिजनितगुरुजागररागकषायितमलसनिवेशम् । वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् ॥ हरिहरि याहि माधव याहि केशव मा वद कैतववादं तामनुसर सरसीरुहलोचन या तव हरति विषादम् ॥ 50 ॥
कज्जलमलिनविलोचनचुंबनविरचितनीलिमरूपम् । दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् ॥ 2 ॥
वपुरनुहरति तव स्मरसंगरखरनखरक्षतरेखम् । मरकतशकलकलितकलधौतलिपिरेव रतिजयलेखम् ॥ 3 ॥
चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् । दर्शयतीव बहिर्मदनद्रुमनवकिसलयपरिवारम् ॥ 4 ॥
दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् । कथयति कथमधुनापि मया सह तव वपुरेतदभेदम् ॥ 5 ॥
बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् । कथमथ वंचयसे जनमनुगतमसमशरज्वरदूनम् ॥ 6 ॥
भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् । प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् ॥ 7 ॥
श्रीजयदेवभणितरतिवंचितखंडितयुवतिविलापम् । शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥ 8 ॥
तदेवं पश्यंत्याः प्रसरदनुरागं बहिरिव प्रियापादालक्तच्छुरितमरुणच्छायहृदयम् । ममाद्य प्रख्यातप्रणयभरभंगेन कितव त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ 50 ॥
॥ इति गीतगोविंदे खंडितावर्णने विलक्ष्यलक्ष्मीपतिर्नाम अष्ठमः सर्गः ॥
Browse Related Categories: