Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
सत्यं ज्ञानमनंतं नित्यमनाकाशं परमाकाशम् । गोष्ठप्रांगणरिंखणलोलमनायासं परमायासम् । मायाकल्पितनानाकारमनाकारं भुवनाकारम् । क्ष्मामानाथमनाथं प्रणमत गोविंदं परमानंदम् ॥ 1 ॥
मृत्स्नामत्सीहेति यशोदाताडनशैशव संत्रासम् । व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् । लोकत्रयपुरमूलस्तंभं लोकालोकमनालोकम् । लोकेशं परमेशं प्रणमत गोविंदं परमानंदम् ॥ 2 ॥
त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम् । कैवल्यं नवनीताहारमनाहारं भुवनाहारम् । वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम् । शैवं केवलशांतं प्रणमत गोविंदं परमानंदम् ॥ 3 ॥
गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालम् । गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् । गोभिर्निगदित गोविंदस्फुटनामानं बहुनामानम् । गोपीगोचरदूरं प्रणमत गोविंदं परमानंदम् ॥ 4 ॥
गोपीमंडलगोष्ठीभेदं भेदावस्थमभेदाभम् । शश्वद्गोखुरनिर्धूतोद्गत धूलीधूसरसौभाग्यम् । श्रद्धाभक्तिगृहीतानंदमचिंत्यं चिंतितसद्भावम् । चिंतामणिमहिमानं प्रणमत गोविंदं परमानंदम् ॥ 5 ॥
स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढम् । व्यादित्संतीरथ दिग्वस्त्रा दातुमुपाकर्षंतं ताः निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरंतस्थम् । सत्तामात्रशरीरं प्रणमत गोविंदं परमानंदम् ॥ 6 ॥
कांतं कारणकारणमादिमनादिं कालधनाभासम् । कालिंदीगतकालियशिरसि सुनृत्यंतं मुहुरत्यंतम् । कालं कालकलातीतं कलिताशेषं कलिदोषघ्नम् । कालत्रयगतिहेतुं प्रणमत गोविंदं परमानंदम् ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
बृंदावनभुवि बृंदारकगणबृंदाराधितवंदेहम् । कुंदाभामलमंदस्मेरसुधानंदं सुहृदानंदम् । वंद्याशेष महामुनि मानस वंद्यानंदपदद्वंद्वम् । वंद्याशेषगुणाब्धिं प्रणमत गोविंदं परमानंदम् ॥ 8 ॥
गोविंदाष्टकमेतदधीते गोविंदार्पितचेता यः । गोविंदाच्युत माधव विष्णो गोकुलनायक कृष्णेति । गोविंदांघ्रि सरोजध्यानसुधाजलधौतसमस्ताघः । गोविंदं परमानंदामृतमंतस्थं स तमभ्येति ॥
इति श्री शंकराचार्य विरचित श्रीगोविंदाष्टकं समाप्तं
Browse Related Categories: