Guru · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
शरीरं सुरूपं तथा वा कलत्रं यशश्चारु चित्रं धनं मेरु तुल्यम् । मनश्चेन लग्नं गुरोरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ 1 ॥
कलत्रं धनं पुत्र पौत्रादिसर्वं गृहो बांधवाः सर्वमेतद्धि जातम् । मनश्चेन लग्नं गुरोरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ 2 ॥
षड्क्षंगादिवेदो मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति । मनश्चेन लग्नं गुरोरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ 3 ॥
विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चान्यः । मनश्चेन लग्नं गुरोरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ 4 ॥
क्षमामंडले भूपभूपलबृब्दैः सदा सेवितं यस्य पादारविंदम् । मनश्चेन लग्नं गुरोरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ 5 ॥
यशो मे गतं दिक्षु दानप्रतापात् जगद्वस्तु सर्वं करे यत्प्रसादात् । मनश्चेन लग्नं गुरोरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ 6 ॥
न भोगे न योगे न वा वाजिराजौ न कंतामुखे नैव वित्तेषु चित्तम् । मनश्चेन लग्नं गुरोरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ 7 ॥
अरण्ये न वा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वनर्ध्ये । मनश्चेन लग्नं गुरोरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
गुरोरष्टकं यः पठेत्पुरायदेही यतिर्भूपतिर्ब्रह्मचारी च गेही । लमेद्वाच्छिताथं पदं ब्रह्मसंज्ञं गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥ 9 ॥
Browse Related Categories: