Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ध्यानं केतुं करालवदनं चित्रवर्णं किरीटिनम् । प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥ 1 ॥
। अथ केतु कवचम् ।
चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः । पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः ॥ 2 ॥
घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः । पातु कंठं च मे केतुः स्कंधौ पातु ग्रहाधिपः ॥ 3 ॥
हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः । सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥ 4 ॥
ऊरू पातु महाशीर्षो जानुनी मेऽतिकोपनः । पातु पादौ च मे क्रूरः सर्वांगं नरपिंगलः ॥ 5 ॥
फलश्रुतिः य इदं कवचं दिव्यं सर्वरोगविनाशनम् । सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् ॥ 6 ॥
॥ इति श्रीब्रह्मांडपुराणे केतुकवचं संपूर्णम् ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts