Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतद्रुतौ । प्रचेतसो नाम सुचेतसः सुता- नजीजनत्त्वत्करुणांकुरानिव ॥1॥
पितुः सिसृक्षानिरतस्य शासनाद्- भवत्तपस्याभिरता दशापि ते पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं संददृशुर्मनोहरम् ॥2॥
तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः । प्रकाशमासाद्य पुरः प्रचेतसा- मुपादिशत् भक्ततमस्तव स्तवम् ॥3॥
स्तवं जपंतस्तममी जलांतरे भवंतमासेविषतायुतं समाः । भवत्सुखास्वादरसादमीष्वियान् बभूव कालो ध्रुववन्न शीघ्रता ॥4॥
तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः । पिताऽपि तेषां गृहयातनारद- प्रदर्शितात्मा भवदात्मतां ययौ ॥5॥
कृपाबलेनैव पुरः प्रचेतसां प्रकाशमागाः पतगेंद्रवाहनः । विराजि चक्रादिवरायुधांशुभि- र्भुजाभिरष्टाभिरुदंचितद्युतिः ॥6॥
प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद्वरानदाः । भवद्विचिंताऽपि शिवाय देहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥7॥
अवाप्य कांतां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् । सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
ततश्च ते भूतलरोधिनस्तरून् क्रुधा दहंतो द्रुहिणेन वारिताः । द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥9॥
अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धया धिया । अवापुरानंदपदं तथाविध- स्त्वमीश वातालयनाथ पाहि माम् ॥10॥
Browse Related Categories: