Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
आनंदरूप भगवन्नयि तेऽवतारे प्राप्ते प्रदीप्तभवदंगनिरीयमाणैः । कांतिव्रजैरिव घनाघनमंडलैर्द्या- मावृण्वती विरुरुचे किल वर्षवेला ॥1॥
आशासु शीतलतरासु पयोदतोयै- राशासिताप्तिविवशेषु च सज्जनेषु । नैशाकरोदयविधौ निशि मध्यमायां क्लेशापहस्त्रिजगतां त्वमिहाविरासीः ॥2॥
बाल्यस्पृशाऽपि वपुषा दधुषा विभूती- रुद्यत्किरीटकटकांगदहारभासा । शंखारिवारिजगदापरिभासितेन मेघासितेन परिलेसिथ सूतिगेहे ॥3॥
वक्षःस्थलीसुखनिलीनविलासिलक्ष्मी- मंदाक्षलक्षितकटाक्षविमोक्षभेदैः । तन्मंदिरस्य खलकंसकृतामलक्ष्मी- मुन्मार्जयन्निव विरेजिथ वासुदेव ॥4॥
शौरिस्तु धीरमुनिमंडलचेतसोऽपि दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् ॥ आनंदवाष्पपुलकोद्गमगद्गदार्द्र- स्तुष्टाव दृष्टिमकरंदरसं भवंतम् ॥5॥
देव प्रसीद परपूरुष तापवल्ली- निर्लूनदात्रसमनेत्रकलाविलासिन् । खेदानपाकुरु कृपागुरुभिः कटाक्षै- रित्यादि तेन मुदितेन चिरं नुतोऽभूः ॥6॥
मात्रा च नेत्रसलिलास्तृतगात्रवल्या स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् । प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां मातुर्गिरा दधिथ मानुषबालवेषम् ॥7॥
त्वत्प्रेरितस्तदनु नंदतनूजया ते व्यत्यासमारचयितुं स हि शूरसूनुः । त्वां हस्तयोरधृत चित्तविधार्यमार्यै- रंभोरुहस्थकलहंसकिशोररम्यम् ॥8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
जाता तदा पशुपसद्मनि योगनिद्रा । निद्राविमुद्रितमथाकृत पौरलोकम् । त्वत्प्रेरणात् किमिव चित्रमचेतनैर्यद्- द्वारैः स्वयं व्यघटि संघटितैः सुगाढम् ॥9॥
शेषेण भूरिफणवारितवारिणाऽथ स्वैरं प्रदर्शितपथो मणिदीपितेन । त्वां धारयन् स खलु धन्यतमः प्रतस्थे सोऽयं त्वमीश मम नाशय रोगवेगान् ॥10॥
Browse Related Categories: