Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
इति त्वयि रसाकुलं रमितवल्लभे वल्लवाः कदापि पुरमंबिकामितुरंबिकाकानने । समेत्य भवता समं निशि निषेव्य दिव्योत्सवं सुखं सुषुपुरग्रसीद्व्रजपमुग्रनागस्तदा ॥1॥
समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन् बला- दमुंचति भवत्पदे न्यपति पाहि पाहीति तैः । तदा खलु पदा भवान् समुपगम्य पस्पर्श तं बभौ स च निजां तनुं समुपसाद्य वैद्यधरीम् ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
सुदर्शनधर प्रभो ननु सुदर्शनाख्योऽस्म्यहं मुनीन् क्वचिदपाहसं त इह मां व्यधुर्वाहसम् । भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ स्तुवन् निजपदं ययौ व्रजपदं च गोपा मुदा ॥3॥
कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनै- र्जहार धनदानुगः स किल शंखचूडोऽबलाः । अतिद्रुतमनुद्रुतस्तमथ मुक्तनारीजनं रुरोजिथ शिरोमणिं हलभृते च तस्याददाः ॥4॥
दिनेषु च सुहृज्जनैस्सह वनेषु लीलापरं मनोभवमनोहरं रसितवेणुनादामृतम् । भवंतममरीदृशाममृतपारणादायिनं विचिंत्य किमु नालपन् विरहतापिता गोपिकाः ॥5॥
भोजराजभृतकस्त्वथ कश्चित् कष्टदुष्टपथदृष्टिररिष्टः । निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी ॥6॥
शाक्वरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधानः । पंक्तिमाशु परिघूर्ण्य पशूनां छंदसां निधिमवाप भवंतम् ॥7॥
तुंगशृंगमुखमाश्वभियंतं संगृहय्य रभसादभियं तम् । भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदयः सुरलोकम् ॥8॥
चित्रमद्य भगवन् वृषघातात् सुस्थिराऽजनि वृषस्थितिरुर्व्याम् । वर्धते च वृषचेतसि भूयान् मोद इत्यभिनुतोऽसि सुरैस्त्वम् ॥9॥
औक्षकाणि परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी । इत्थमात्तहसितैः सह गोपैर्गेहगस्त्वमव वातपुरेश ॥10॥
Browse Related Categories: