Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
निशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः । किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥1॥
करुणानिधिरेष नंदसूनुः कथमस्मान् विसृजेदनन्यनाथाः । बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमंडलैश्च । परितापभरं नितंबिनीनां शमयिष्यन् व्यमुचः सखायमेकम् ॥3॥
अचिरादुपयामि सन्निधिं वो भविता साधु मयैव संगमश्रीः । अमृतांबुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥4॥
सविषादभरं सयाच्ञमुच्चैः अतिदूरं वनिताभिरीक्ष्यमाणः । मृदु तद्दिशि पातयन्नपांगान् सबलोऽक्रूररथेन निर्गतोऽभूः ॥5॥
अनसा बहुलेन वल्लवानां मनसा चानुगतोऽथ वल्लभानाम् । वनमार्तमृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥6॥
नियमाय निमज्य वारिणि त्वामभिवीक्ष्याथ रथेऽपि गांदिनेयः । विवशोऽजनि किं न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समंतात् ॥7॥
पुनरेष निमज्य पुण्यशाली पुरुषं त्वां परमं भुजंगभोगे । अरिकंबुगदांबुजैः स्फुरंतं सुरसिद्धौघपरीतमालुलोके ॥8॥
स तदा परमात्मसौख्यसिंधौ विनिमग्नः प्रणुवन् प्रकारभेदैः । अविलोक्य पुनश्च हर्षसिंधोरनुवृत्त्या पुलकावृतो ययौ त्वाम् ॥9॥
किमु शीतलिमा महान् जले यत् पुलकोऽसाविति चोदितेन तेन । अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश पाहि मां त्वम् ॥10॥
Browse Related Categories: