Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ग्रहाणामादिरादित्यो लोकरक्षणकारकः । विषमस्थानसंभूतां पीडां हरतु मे रविः ॥ 1 ॥
रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः । विषमस्थानसंभूतां पीडां हरतु मे विधुः ॥ 2 ॥
भूमिपुत्रो महातेजा जगतां भयकृत् सदा । वृष्टिकृद्वृष्टिहर्ता च पीडां हरतु मे कुजः ॥ 3 ॥
उत्पातरूपो जगतां चंद्रपुत्रो महाद्युतिः । सूर्यप्रियकरो विद्वान् पीडां हरतु मे बुधः ॥ 4 ॥
देवमंत्री विशालाक्षः सदा लोकहिते रतः । अनेकशिष्यसंपूर्णः पीडां हरतु मे गुरुः ॥ 5 ॥
दैत्यमंत्री गुरुस्तेषां प्राणदश्च महामतिः । प्रभुस्ताराग्रहाणां च पीडां हरतु मे भृगुः ॥ 6 ॥
सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः । मंदचारः प्रसन्नात्मा पीडां हरतु मे शनिः ॥ 7 ॥
महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः । अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे शिखी ॥ 8 ॥
अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः । उत्पातरूपो जगतां पीडां हरतु मे तमः ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
Browse Related Categories: