Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अजानंतो यांति क्षयमवशमन्योन्यकलहै- -रमी मायाग्रंथौ तव परिलुठंतः समयिनः । जगन्मातर्जन्मज्वरभयतमः कौमुदि वयं नमस्ते कुर्वाणाः शरणमुपयामो भगवतीम् ॥ 1 ॥
वचस्तर्कागम्यस्वरसपरमानंदविभव- -प्रबोधाकाराय द्युतितुलितनीलोत्पलरुचे । शिवाद्याराध्याय स्तनभरविनम्राय सततं नमस्तस्मै कस्मैचन भवतु मुग्धाय महसे ॥ 2 ॥
अनाद्यंताभेदप्रणयरसिकापि प्रणयिनी शिवस्यासीर्यत्त्वं परिणयविधौ देवि गृहिणी । सवित्री भूतानामपि यदुदभूः शैलतनया तदेतत्संसारप्रणयनमहानाटकमुखम् ॥ 3 ॥
ब्रुवंत्येके तत्त्वं भगवति सदन्ये विदुरस- -त्परे मातः प्राहुस्तव सदसदन्ये सुकवयः । परे नैतत्सर्वं समभिदधते देवि सुधिय- -स्तदेतत्त्वन्मायाविलसितमशेषं ननु शिवे ॥ 4 ॥
लुठद्गुंजाहारस्तनभरनमन्मध्यलतिका- -मुदंचद्धर्मांभः कणगुणितवक्त्रांबुजरुचम् । शिवं पार्थत्राणप्रवणमृगयाकारगुणितं शिवामन्वग्यांतीं शरणमहमन्वेमि शबरीम् ॥ 5 ॥
मिथः केशाकेशिप्रथननिधनास्तर्कघटनाः बहुश्रद्धाभक्तिप्रणतिविषयाः शास्त्रविधयः । प्रसीद प्रत्यक्षीभव गिरिसुते देहि शरणं निरालंबं चेतः परिलुठति पारिप्लवमिदम् ॥ 6 ॥
शुनां वा वह्नेर्वा खगपरिषदो वा यदशनं कदा केन क्वेति क्वचिदपि न कश्चित्कलयति । अमुष्मिन्विश्वासं विजहिहि ममाह्नाय वपुषि प्रपद्येथाश्चेतः सकलजननीमेव शरणम् ॥ 7 ॥
तटित्कोटिज्योतिर्द्युतिदलितषड्ग्रंथिगहनं प्रविष्टं स्वाधारं पुनरपि सुधावृष्टिवपुषा । किमप्यष्टाविंशत्किरणसकलीभूतमनिशं भजे धाम श्यामं कुचभरनतं बर्बरकचम् ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
चतुष्पत्रांतः षड्दलपुटभगांतस्त्रिवलय- -स्फुरद्विद्युद्वह्निद्युमणिनियुताभद्युतिलते । षडश्रं भित्त्वादौ दशदलमथ द्वादशदलं कलाश्रं च द्व्यश्रं गतवति नमस्ते गिरिसुते ॥ 9 ॥
कुलं केचित्प्राहुर्वपुरकुलमन्ये तव बुधाः परे तत्संभेदं समभिदधते कौलमपरे । चतुर्णामप्येषामुपरि किमपि प्राहुरपरे महामाये तत्त्वं तव कथममी निश्चिनुमहे ॥ 10 ॥
षडध्वारण्यानीं प्रलयरविकोटिप्रतिरुचा रुचा भस्मीकृत्य स्वपदकमलप्रह्वशिरसाम् । वितन्वानः शैवं किमपि वपुरिंदीवररुचिः कुचाभ्यामानम्रस्तव पुरुषकारो विजयते ॥ 11 ॥
प्रकाशानंदाभ्यामविदितचरीं मध्यपदवीं प्रविश्यैतद्द्वंद्वं रविशशिसमाख्यं कबलयन् । प्रपद्योर्ध्वं नादं लयदहनभस्मीकृतकुलः प्रसादात्ते जंतुः शिवमकुलमंब प्रविशति ॥ 12 ॥
मनुष्यास्तिर्यंचो मरुत इति लोकत्रयमिदं भवांभोधौ मग्नं त्रिगुणलहरीकोटिलुठितम् । कटाक्षश्चेद्यत्र क्वचन तव मातः करुणया शरीरी सद्योऽयं व्रजति परमानंदतनुताम् ॥ 13 ॥
प्रियंगुश्यामांगीमरुणतरवासं किसलयां समुन्मीलन्मुक्ताफलवहलनेपथ्यसुभगाम् । स्तनद्वंद्वस्फारस्तबकनमितां कल्पलतिकां सकृद्ध्यायंतस्त्वां दधति शिवचिंतामणिपदम् ॥ 14 ॥
षडाधारावर्तैरपरिमितमंत्रोर्मिपटलैः लसन्मुद्राफेनैर्बहुविधलसद्दैवतझषैः । क्रमस्रोतोभिस्त्वं वहसि परनादामृतनदी भवानि प्रत्यग्रा शिवचिदमृताब्धिप्रणयिनी ॥ 15 ॥
महीपाथोवह्निश्वसनवियदात्मेंदुरविभि- -र्वपुर्भिग्रस्ताशैरपि तव कियानंब महिमा । अमून्यालोक्यंते भगवति न कुत्राप्यणुतमा- -मवस्थां प्राप्तानि त्वयि तु परमव्योमवपुषि ॥ 16 ॥
कलामाज्ञां प्रज्ञां समयमनुभूतिं समरसं गुरुं पारंपर्यं विनयमुपदेशं शिवपदम् । प्रमाणं निर्वाणं प्रकृतिमभिभूतिं परगुहां विधिं विद्यामाहुः सकलजननीमेव मुनयः ॥ 17 ॥
प्रलीने शब्दौघे तदनु विरते बिंदुविभवे ततस्तत्त्वे चाष्टध्वनिभिरनपायिन्यधिगते । श्रिते शाक्ते पर्वण्यनुकलितचिन्मात्र गहनां स्वसंवित्तिं योगी रसयति शिवाख्यां भगवतीम् ॥ 18 ॥
परानंदाकारां निरवधिशिवैश्वर्यवपुषं निराकारां ज्ञानप्रकृतिमपरिच्छिन्नकरुणाम् । सवित्रीं लोकानां निरतिशयधामास्पदपदां भवो वा मोक्षो वा भवतु भवतीमेव भजताम् ॥ 19 ॥
जगत्काये कृत्वा तदपि हृदये तच्च पुरुषे पुमांसं बिंदुस्थं तदपि वियदाख्ये च गहने । तदेतद्ज्ञानाख्ये तदपि परमानंदगहने महाव्योमाकारे त्वदनुभवशीलो विजयते ॥ 20 ॥
विधे वेद्ये विद्ये विविधसमये वेदगुलिके विचित्रे विश्वाद्ये विनयसुलभे वेदजननि । शिवज्ञे शूलस्थे शिवपदवदान्ये शिवनिधे शिवे मातर्मह्यं त्वयि वितर भक्तिं निरुपमाम् ॥ 21 ॥
विधेर्मुंडं हृत्वा यदकुरुत पात्रं करतले हरिं शूलप्रोतं यदगमयदंसाभरणताम् । अलंचक्रे कंठं यदपि गरलेनांब गिरिशः शिवस्थायाः शक्तेस्तदिदमखिलं ते विलसितम् ॥ 22 ॥
विरिंच्याख्या मातः सृजसि हरिसंज्ञा त्वमवसि त्रिलोकीं रुद्राख्या हरसि विदधासीश्वरदशाम् । भवंती नादाख्या विहरसि च पाशौघदलनी त्वमेवैकाऽनेका भवसि कृतिभेदैर्गिरिसुते ॥ 23 ॥
मुनीनां चेतोभिः प्रमृदितकषायैरपि मना- -गशक्यं संस्प्रष्टुं चकितचकितैरंब सततम् । श्रुतीनां मूर्धानः प्रकृतिकठिनाः कोमलतरे कथं ते विंदंते पदकिसलये पार्वति पदम् ॥ 24 ॥
तटिद्वल्लीं नित्याममृतसरितं पाररहितां मलोत्तीर्णां ज्योत्स्नां प्रकृतिमगुणग्रंथिगहनाम् । गिरां दूरां विद्यामविनतकुचां विश्वजननी- -मपर्यंतां लक्ष्मीमभिदधति संतो भगवतीम् ॥ 25 ॥
शरीरं क्षित्यंभः प्रभृतिरचितं केवलमचित् सुखं दुःखं चायं कलयति पुमांश्चेतन इति । स्फुटं जानानोऽपि प्रभवति न देही रहयितुं शरीराहंकारं तव समयबाह्यो गिरिसुते ॥ 26 ॥
पिता माता भ्राता सुहृदनुचरः सद्म गृहिणी वपुः क्षेत्रं मित्रं धनमपि यदा मां विजहति । तदा मे भिंदाना सपदि भयमोहांधतमसं महाज्योत्स्ने मातर्भव करुणया सन्निधिकरी ॥ 27 ॥
सुता दक्षस्यादौ किल सकलमातस्त्वमुदभूः सदोषं तं हित्वा तदनु गिरिराजस्य दुहिता । अनाद्यंता शंभोरपृथगपि शक्तिर्भगवती विवाहाज्जायासीत्यहह चरितं वेत्ति तव कः ॥ 28 ॥
कणास्त्वद्दीप्तीनां रविशशिकृशानुप्रभृतयः परं ब्रह्म क्षुद्रं तव नियतमानंदकणिका । शिवादि क्षित्यंतं त्रिवलयतनोः सर्वमुदरे तवास्ते भक्तस्य स्फुरसि हृदि चित्रं भगवति ॥ 29 ॥
पुरः पश्चादंतर्बहिरपरिमेयं परिमितं परं स्थूलं सूक्ष्मं सकलमकुलं गुह्यमगुहम् । दवीयो नेदीयः सदसदिति विश्वं भगवती सदा पश्यंत्याख्यां वहसि भुवनक्षोभजननीम् ॥ 30 ॥
प्रविश्य त्वन्मार्गं सहजदयया देशिकदृशा षडध्वध्वांतौघच्छिदुरगणनातीतकरुणाम् । परामाज्ञाकारां सपदि शिवयंतीं शिवतनुं स्वमात्मानं धन्याश्चिरमुपलभंते भगवतीम् ॥ 31 ॥
मयूखाः पूष्णीव ज्वलन इव तद्दीप्तिकणिकाः पयोधौ कल्लोलाः प्रतिहतमहिम्नीव पृषतः । उदेत्योदेत्यांब त्वयि सह निजैः सात्त्विकगुणै- -र्भजंते तत्त्वौघाः प्रशममनुकल्पं परवशाः ॥ 32 ॥
विधुर्विष्णुर्ब्रह्मा प्रकृतिरणुरात्मा दिनकरः स्वभावो जैनेंद्रः सुगतमुनिराकाशमलिनः । शिवः शक्तिश्चेति श्रुतिविषयतां तामुपगतां विकल्पैरेभिस्त्वामभिदधति संतो भगवतीम् ॥ 33 ॥
शिवस्त्वं शक्तिस्त्वं त्वमसि समया त्वं समयिनी त्वमात्मा त्वं दीक्षा त्वमयमणिमादिर्गुणगणः । अविद्या त्वं विद्या त्वमसि निखिलं त्वं किमपरं पृथक्तत्त्वं त्वत्तो भगवति न वीक्षामह इमे ॥ 34 ॥
त्वयासौ जानीते रचयति भवत्यैव सततं त्वयैवेच्छत्यंब त्वमसि निखिला यस्य तनवः । जगत्साम्यं शंभोर्वहसि परमव्योमवपुषः तथाप्यर्धं भूत्वा विहरसि शिवस्येति किमिदम् ॥ 35 ॥
असंख्यैः प्राचीनैर्जननि जननैः कर्मविलया- -त्सकृज्जन्मन्यंते गुरुवपुषमासाद्य गिरिशम् । अवाप्याज्ञां शैवीं शिवतनुमपि त्वां विदितवा- -न्नयेयं त्वत्पूजास्तुतिविरचनेनैव दिवसान् ॥ 36 ॥
यत्षट्पत्रं कमलमुदितं तस्य या कर्णिकाख्या योनिस्तस्याः प्रथितमुदरे यत्तदोंकारपीठम् । तस्याप्यंतः कुचभरनतां कुंडलीति प्रसिद्धां श्यामाकारां सकलजननीं संततं भावयामि ॥ 37 ॥
भुवि पयसि कृशानौ मारुते खे शशांके सवितरि यजमानेऽप्यष्टधा शक्तिरेका । वहसि कुचभराभ्यां यावनम्रापि विश्वं सकलजननि सा त्वं पाहि मामित्यवाच्यम् ॥ 38 ॥
इति श्रीकालिदास विरचित पंचस्तव्यां पंचमः सकलजननीस्तवः ।
Browse Related Categories: