Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
प्रथम भागः - आनंद लहरि
भुमौस्खलित पादानां भूमिरेवा वलंबनम् । त्वयी जाता पराधानां त्वमेव शरणं शिवे ॥
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पंदितुमपि । अतस्त्वामाराध्यां हरिहरविरिंचादिभिरपि प्रणंतुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ 1 ॥
तनीयांसं पांसुं तव चरणपंकेरुहभवं विरिंचिस्संचिन्वन् विरचयति लोकानविकलम् । वहत्येनं शौरिः कथमपि सहस्रेण शिरसां हरस्संक्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ 2 ॥
अविद्यानामंत-स्तिमिर-मिहिरद्वीपनगरी जडानां चैतन्य-स्तबक-मकरंद-स्रुतिझरी । दरिद्राणां चिंतामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवति ॥ 3 ॥
त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः त्वमेका नैवासि प्रकटितवराभीत्यभिनया । भयात् त्रातुं दातुं फलमपि च वांछासमधिकं शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ 4 ॥
हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् । स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनामप्यंतः प्रभवति हि मोहाय महताम् ॥ 5 ॥
धनुः पौष्पं मौर्वी मधुकरमयी पंच विशिखाः वसंतः सामंतो मलयमरुदायोधनरथः । तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम् अपांगात्ते लब्ध्वा जगदिद-मनंगो विजयते ॥ 6 ॥
Offered for worship and study, not as prediction. Non-commercial.
क्वणत्कांचीदामा करिकलभकुंभस्तननता परिक्षीणा मध्ये परिणतशरच्चंद्रवदना । धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ 7 ॥
सुधासिंधोर्मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिंतामणिगृहे । शिवाकारे मंचे परमशिवपर्यंकनिलयां भजंति त्वां धन्याः कतिचन चिदानंदलहरीम् ॥ 8 ॥
महीं मूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि । मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥ 9 ॥
सुधाधारासारैश्चरणयुगलांतर्विगलितैः प्रपंचं सिंचंती पुनरपि रसाम्नायमहसः । अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुंडे कुहरिणि ॥ 10 ॥
चतुर्भिः श्रीकंठैः शिवयुवतिभिः पंचभिरपि प्रभिन्नाभिः शंभोर्नवभिरपि मूलप्रकृतिभिः । चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय- [त्रयश्चत्वारि] त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥ 11 ॥ [चरणकोणाः, भवनकिणाः]
त्वदीयं सौंदर्यं तुहिनगिरिकन्ये तुलयितुं कवींद्राः कल्पंते कथमपि विरिंचिप्रभृतयः । यदालोकौत्सुक्यादमरललना यांति मनसा तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥ 12 ॥
नरं वर्षीयांसं नयनविरसं नर्मसु जडं तवापांगालोके पतितमनुधावंति शतशः । गलद्वेणीबंधाः कुचकलशविस्रस्तसिचया हठात् त्रुट्यत्कांच्यो विगलितदुकूला युवतयः ॥ 13 ॥
क्षितौ षट्पंचाशद् द्विसमधिकपंचाशदुदके हुताशे द्वाषष्टिश्चतुरधिकपंचाशदनिले । दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति ये मयूखास्तेषामप्युपरि तव पादांबुजयुगम् ॥ 14 ॥
शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां वरत्रासत्राणस्फटिकघटिकापुस्तककराम् । सकृन्न त्वा नत्वा कथमिव सतां संन्निदधते मधुक्षीरद्राक्षामधुरिमधुरीणाः भणितयः ॥ 15॥ [फणितयः]
कवींद्राणां चेतःकमलवनबालातपरुचिं भजंते ये संतः कतिचिदरुणामेव भवतीम् । विरिंचिप्रेयस्यास्तरुणतरशृंगारलहरी- गभीराभिर्वाग्भिर्विदधति सतां रंजनममी ॥ 16 ॥
सवित्रीभिर्वाचां शशिमणिशिलाभंगरुचिभिः वशिन्याद्याभिस्त्वां सह जननि संचिंतयति यः । स कर्ता काव्यानां भवति महतां भंगिरुचिभिः वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ 17 ॥
तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः । भवंत्यस्य त्रस्यद्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ 18 ॥
मुखं बिंदुं कृत्वा कुचयुगमधस्तस्य तदधो हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् । स सद्यः संक्षोभं नयति वनिता इत्यतिलघु त्रिलोकीमप्याशु भ्रमयति रवींदुस्तनयुगाम् ॥ 19 ॥
किरंतीमंगेभ्यः किरणनिकुरंबामृतरसं हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः । स सर्पाणां दर्पं शमयति शकुंताधिप इव ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ 20 ॥
तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं निषण्णां षण्णामप्युपरि कमलानां तव कलाम् । महापद्माटव्यां मृदितमलमायेन मनसा महांतः पश्यंतो दधति परमाह्लादलहरीम् ॥ 21 ॥
भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा- मिति स्तोतुं वांछन् कथयति भवानि त्वमिति यः । तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुंदब्रह्मेंद्रस्फुटमकुटनीराजितपदाम् ॥ 22 ॥
त्वया हृत्वा वामं वपुरपरि-तृप्तेन मनसा शरीरार्धं शंभोरपरमपि शंके हृतमभूत् । यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ 23 ॥
जगत्सूते धाता हरिरवति रुद्रः क्षपयते तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति । सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव- स्तवाज्ञामालंब्य क्षणचलितयोर्भ्रूलतिकयोः ॥ 24 ॥
त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत् पूजा पूजा तव चरणयोर्या विरचिता । तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ 25 ॥
विरिंचिः पंचत्वं व्रजति हरिराप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम् । वितंद्री माहेंद्री विततिरपि संमीलितदृशा महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ ॥ 26 ॥
जपो जल्पः शिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः । प्रणामस्संवेशस्सुखमखिलमात्मार्पणदृशा सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ 27 ॥
सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं विपद्यंते विश्वे विधिशतमखाद्या दिविषदः । करालं यत्क्ष्वेलं कबलितवतः कालकलना न शंभोस्तन्मूलं तव जननि ताटंकमहिमा ॥ 28 ॥
किरीटं वैरिंचं परिहर पुरः कैटभभिदः कठोरे कोटीरे स्खलसि जहि जंभारिमुकुटम् । प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥ 29 ॥
स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो निषेव्ये नित्ये त्वामहमिति सदा भावयति यः । किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो महासंवर्ताग्निर्विरचयति निराजनविधिम् ॥ 30 ॥
चतुष्षष्ट्या तंत्रैः सकलमतिसंधाय भुवनं स्थितस्तत्तत्सिद्धिप्रसवपरतंत्रैः पशुपतिः । पुनस्त्वन्निर्बंधादखिलपुरुषार्थैकघटना- स्वतंत्रं ते तंत्रं क्षितितलमवातीतरदिदम् ॥ 31 ॥
शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः स्मरो हंसः शक्रस्तदनु च परामारहरयः । अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता भजंते वर्णास्ते तव जननि नामावयवताम् ॥ 32 ॥
स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो- र्निधायैके नित्ये निरवधिमहाभोगरसिकाः । भजंति त्वां चिंतामणिगुननिबद्धाक्षवलयाः शिवाग्नौ जुह्वंतः सुरभिघृतधाराहुतिशतैः ॥ 33 ॥
शरीरं त्वं शंभोः शशिमिहिरवक्षोरुहयुगं तवात्मानं मन्ये भगवति नवात्मानमनघम् । अतश्शेषश्शेषीत्ययमुभयसाधारणतया स्थितः संबंधो वां समरसपरानंदपरयोः ॥ 34 ॥
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् । त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानंदाकारं शिवयुवति भावेन बिभृषे ॥ 35 ॥
तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं परं शंभुं वंदे परिमिलितपार्श्वं परचिता । यमाराध्यन् भक्त्या रविशशिशुचीनामविषये निरालोकेऽलोके निवसति हि भालोकभुवने ॥ 36 ॥
विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं शिवं सेवे देवीमपि शिवसमानव्यवसिताम् । ययोः कांत्या यांत्याः शशिकिरणसारूप्यसरणे- विधूतांतर्ध्वांता विलसति चकोरीव जगती ॥ 37 ॥
समुन्मीलत् संवित् कमलमकरंदैकरसिकं भजे हंसद्वंद्वं किमपि महतां मानसचरम् । यदालापादष्टादशगुणितविद्यापरिणति- र्यदादत्ते दोषाद् गुणमखिलमद्भ्यः पय इव ॥ 38 ॥
तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं तमीडे संवर्तं जननि महतीं तां च समयाम् । यदालोके लोकान् दहति महति क्रोधकलिते दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ 39 ॥
तटित्त्वंतं शक्त्या तिमिरपरिपंथिस्फुरणया स्फुरन्नानारत्नाभरणपरिणद्धेंद्रधनुषम् । तव श्यामं मेघं कमपि मणिपूरैकशरणं निषेवे वर्षंतं हरमिहिरतप्तं त्रिभुवनम् ॥ 40 ॥
तवाधारे मूले सह समयया लास्यपरया नवात्मानं मन्ये नवरसमहातांडवनटम् । उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ 41 ॥
द्वितीय भागः - सौंदर्य लहरी
गतैर्माणिक्यत्वं गगनमणिभिः सांद्रघटितं किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः । स नीडेयच्छायाच्छुरणशबलं चंद्रशकलं धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ 42 ॥
धुनोतु ध्वांतं नस्तुलितदलितेंदीवरवनं घनस्निग्धश्लक्ष्णं चिकुरनिकुरुंबं तव शिवे । यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो वसंत्यस्मिन् मन्ये वलमथनवाटीविटपिनाम् ॥ 43 ॥
तनोतु क्षेमं नस्तव वदनसौंदर्यलहरी- परीवाहस्रोतःसरणिरिव सीमंतसरणिः । वहंती सिंदूरं प्रबलकबरीभारतिमिर- द्विषां बृंदैर्बंदीकृतमिव नवीनार्ककिरणम् ॥ 44 ॥
अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः परीतं ते वक्त्रं परिहसति पंकेरुहरुचिम् । दरस्मेरे यस्मिन् दशनरुचिकिंजल्करुचिरे सुगंधौ माद्यंति स्मरदहनचक्षुर्मधुलिहः ॥ 45 ॥
ललाटं लावण्यद्युतिविमलमाभाति तव य- द्द्वितीयं तन्मन्ये मकुटघटितं चंद्रशकलम् । विपर्यासन्यासादुभयमपि संभूय च मिथः सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ 46 ॥
भ्रुवौ भुग्ने किंचिद्भुवनभयभंगव्यसनिनि त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् । धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढांतरमुमे ॥ 47 ॥
अहः सूते सव्यं तव नयनमर्कात्मकतया त्रियामां वामं ते सृजति रजनीनायकतया । तृतीया ते दृष्टिर्दरदलितहेमांबुजरुचिः समाधत्ते संध्यां दिवसनिशयोरंतरचरीम् ॥ 48 ॥
विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः कृपाधाराधारा किमपि मधुराभोगवतिका । अवंती दृष्टिस्ते बहुनगरविस्तारविजया ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥ 49 ॥
कवीनां संदर्भस्तबकमकरंदैकरसिकं कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् । अमुंचंतौ दृष्ट्वा तव नवरसास्वादतरला- वसूयासंसर्गादलिकनयनं किंचिदरुणम् ॥ 50 ॥
शिवे शृंगारार्द्रा तदितरजने कुत्सनपरा सरोषा गंगायां गिरिशचरिते विस्मयवती । हराहिभ्यो भीता सरसिरुहसौभाग्यजननी (जयिनी) सखीषु स्मेरा ते मयि जननी दृष्टिः सकरुणा ॥ 51 ॥
गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले । इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ 52 ॥
विभक्तत्रैवर्ण्यं व्यतिकरितलीलांजनतया विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते । पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान् रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ 53 ॥
पवित्रीकर्तुं नः पशुपतिपराधीनहृदये दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः । नदः शोणो गंगा तपनतनयेति ध्रुवममुं त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥ 54 ॥
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती तवेत्याहुः संतो धरणिधरराजन्यतनये । त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः परित्रातुं शंके परिहृतनिमेषास्तव दृशः ॥ 55 ॥
तवापर्णे कर्णेजपनयनपैशुन्यचकिता निलीयंते तोये नियतमनिमेषाः शफरिकाः । इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयम् जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ 56 ॥
दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा दवीयांसं दीनं स्नपय कृपया मामपि शिवे । अनेनायं धन्यो भवति न च ते हानिरियता वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ 57 ॥
अरालं ते पालीयुगलमगराजन्यतनये न केषामाधत्ते कुसुमशरकोदंडकुतुकम् । तिरश्चीनो यत्र श्रवणपथमुल्लंघ्य विलस- न्नपांगव्यासंगो दिशति शरसंधानधिषणाम् ॥ 58 ॥
स्फुरद्गंडाभोगप्रतिफलितताटंकयुगलं चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् । यमारुह्य द्रुह्यत्यवनिरथमर्केंदुचरणं महावीरो मारः प्रमथपतये सज्जितवते ॥ 59 ॥
सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः पिबंत्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् । चमत्कारश्लाघाचलितशिरसः कुंडलगणो झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ 60 ॥
असौ नासावंशस्तुहिनगिरिवंशध्वजपटि त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् । वहन्नंतर्मुक्ताः शिशिरतरनिश्वासगलितं समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ 61 ॥
प्रकृत्या रक्तायास्तव सुदति दंतच्छदरुचेः प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता । न बिंबं तद्बिंबप्रतिफलनरागादरुणितं तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥ 62 ॥
स्मितज्योत्स्नाजालं तव वदनचंद्रस्य पिबतां चकोराणामासीदतिरसतया चंचुजडिमा । अतस्ते शीतांशोरमृतलहरीमम्लरुचयः पिबंति स्वच्छंदं निशि निशि भृशं कांजिकधिया ॥ 63 ॥
अविश्रांतं पत्युर्गुणगणकथाम्रेडनजपा जपापुष्पच्छाया तव जननि जिह्वा जयति सा । यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ 64 ॥
रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभिर्- निवृत्तैश्चंडांशत्रिपुरहरनिर्माल्यविमुखैः । विशाखेंद्रोपेंद्रैः शशिविशदकर्पूरशकला विलीयंते मातस्तव वदनतांबूलकबलाः ॥ 65 ॥
विपंच्या गायंती विविधमपदानं पशुपतेः त्वयारब्धे वक्तुं चलितशिरसा साधुवचने । तदीयैर्माधुर्यैरपलपिततंत्रीकलरवां निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥ 66 ॥
कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया गिरीशेनोदस्तं मुहुरधरपानाकुलतया । करग्राह्यं शंभोर्मुखमुकुरवृंतं गिरिसुते कथंकारं ब्रूमस्तव चिबुकमौपम्यरहितम् ॥ 67 ॥
भुजाश्लेषान् नित्यं पुरदमयितुः कंटकवती तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् । स्वतः श्वेता कालागुरुबहुलजंबालमलिना मृणालीलालित्यं वहति यदधो हारलतिका ॥ 68 ॥
गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः । विराजंते नानाविधमधुररागाकरभुवां त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ 69 ॥
मृणालीमृद्वीनां तव भुजलतानां चतसृणां चतुर्भिः सौंदर्यं सरसिजभवः स्तौति वदनैः । नखेभ्यः संत्रस्यन् प्रथममथनादंधकरिपो- श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥ 70 ॥
नखानामुद्द्योतैर्नवनलिनरागं विहसतां कराणां ते कांतिं कथय कथयामः कथमुमे । कयाचिद्वा साम्यं भजतु कलया हंत कमलं यदि क्रीडल्लक्ष्मीचरणतललाक्षारसछणम् ॥ 71 ॥
समं देवि स्कंदद्विपवदनपीतं स्तनयुगं तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् । यदालोक्याशंकाकुलितहृदयो हासजनकः स्वकुंभौ हेरंबः परिमृशति हस्तेन झडिति ॥ 72 ॥
अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ न संदेहस्पंदो नगपतिपताके मनसि नः । पिबंतौ तौ यस्मादविदितवधूसंगरसिकौ कुमारावद्यापि द्विरदवदनक्रौंचदलनौ ॥ 73 ॥
वहत्यंब स्तंबेरमदनुजकुंभप्रकृतिभिः समारब्धां मुक्तामणिभिरमलां हारलतिकाम् । कुचाभोगो बिंबाधररुचिभिरंतः शबलितां प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ 74 ॥
तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयःपारावारः परिवहति सारस्वतमिव । दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत् कवीनां प्रौढानामजनि कमनीयः कवयिता ॥ 75 ॥
हरक्रोधज्वालावलिभिरवलीढेन वपुषा गभीरे ते नाभीसरसि कृतसंगो मनसिजः । समुत्तस्थौ तस्मादचलतनये धूमलतिका जनस्तां जानीते तव जननि रोमावलिरिति ॥ 76 ॥
यदेतत् कालिंदीतनुतरतरंगाकृति शिवे कृशे मध्ये किंचिज्जननि तव यद्भाति सुधियाम् । विमर्दादन्योऽन्यं कुचकलशयोरंतरगतं तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ 77 ॥
स्थिरो गंगावर्तः स्तनमुकुलरोमावलिलता- कलावालं कुंडं कुसुमशरतेजोहुतभुजः । रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥ 78 ॥
निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव । चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥ 79 ॥
कुचौ सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौ कषंतौ दोर्मूले कनककलशाभौ कलयता । तव त्रातुं भंगादलमिति वलग्नं तनुभुवा त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥ 80 ॥
गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा- न्नितंबादाच्छिद्य त्वयि हरणरूपेण निदधे । अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं नितंबप्राग्भारः स्थगयति लघुत्वं नयति च ॥ 81 ॥
करींद्राणां शुंडान् कनककदलीकांडपटली- मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती । सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते विधिज्ञे जानुभ्यां विबुधकरिकुंभद्वयमसि ॥ 82 ॥
पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते निषंगौ जंघे ते विषमविशिखो बाढमकृत । यदग्रे दृश्यंते दशशरफलाः पादयुगली- नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥ 83 ॥
श्रुतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्येतौ मातः शिरसि दयया धेहि चरणौ । ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ 84 ॥
नमोवाकं ब्रूमो नयनरमणीयाय पदयो- स्तवास्मै द्वंद्वाय स्फुटरुचिरसालक्तकवते । असूयत्यत्यंतं यदभिहननाय स्पृहयते पशूनामीशानः प्रमदवनकंकेलितरवे ॥ 85 ॥
मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं ललाटे भर्तारं चरणकमले ताडयति ते । चिरादंतःशल्यं दहनकृतमुन्मूलितवता तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥ 86 ॥
हिमानीहंतव्यं हिमगिरिनिवासैकचतुरौ निशायां निद्राणं निशि चरमभागे च विशदौ । वरं लक्ष्मीपात्रं श्रियमतिसृजंतौ समयिनां सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥ 87 ॥
पदं ते कीर्तीनां प्रपदमपदं देवि विपदां कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् । कथं वा बाहुभ्यामुपयमनकाले पुरभिदा यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ 88 ॥
नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि- स्तरूणां दिव्यानां हसत इव ते चंडि चरणौ । फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥ 89 ॥
ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी- ममंदं सौंदर्यप्रकरमकरंदं विकिरति । तवास्मिन् मंदारस्तबकसुभगे यातु चरणे निमज्जन्मज्जीवः करणचरणः षट्चरणताम् ॥ 90 ॥
पदन्यासक्रीडापरिचयमिवारब्धुमनसः स्खलंतस्ते खेलं भवनकलहंसा न जहति । अतस्तेषां शिक्षां सुभगमणिमंजीररणित- च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ 91 ॥
गतास्ते मंचत्वं द्रुहिणहरिरुद्रेश्वरभृतः शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः । त्वदीयानां भासां प्रतिफलनरागारुणतया शरीरी शृंगारो रस इव दृशां दोग्धि कुतुकम् ॥ 92 ॥
अराला केशेषु प्रकृतिसरला मंदहसिते शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे । भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये जगत्त्रातुं शंभोर्जयति करुणा काचिदरुणा ॥ 93 ॥
कलंकः कस्तूरी रजनिकरबिंबं जलमयं कलाभिः कर्पूरैर्मरकतकरंडं निबिडितम् । अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं विधिर्भूयो भूयो निबिडयति नूनं तव कृते ॥ 94 ॥
पुरारातेरंतःपुरमसि ततस्त्वच्चरणयोः सपर्यामर्यादा तरलकरणानामसुलभा । तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां तव द्वारोपांतस्थितिभिरणिमाद्याभिरमराः ॥ 95 ॥
कलत्रं वैधात्रं कतिकति भजंते न कवयः श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः । महादेवं हित्वा तव सति सतीनामचरमे कुचाभ्यामासंगः कुरवकतरोरप्यसुलभः ॥ 96 ॥
गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् । तुरीया कापि त्वं दुरधिगमनिःसीममहिमा महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ 97 ॥
कदा काले मातः कथय कलितालक्तकरसं पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् । प्रकृत्या मूकानामपि च कविताकारणतया कदा धत्ते वाणीमुखकमलतांबूलरसताम् ॥ 98 ॥
सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा । चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः परानंदाभिख्यं रसयति रसं त्वद्भजनवान् ॥ 99 ॥
प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः सुधासूतेश्चंद्रोपलजललवैरर्घ्यरचना । स्वकीयैरंभोभिः सलिलनिधिसौहित्यकरणं त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥ 100 ॥
सौंदर्यलहरि मुख्यस्तोत्रं संवार्तदायकम् । भगवद्पाद सन्क्लुप्तं पठेन् मुक्तौ भवेन्नरः ॥
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ सौंदर्यलहरी संपूर्णा ॥
॥ ॐ तत्सत् ॥
(अनुबंधः) समानीतः पद्भ्यां मणिमुकुरतामंबरमणि- र्भयादास्यादंतःस्तिमितकिरणश्रेणिमसृणः । (पाठभेदः - भयादास्य स्निग्धस्त्मित, भयादास्यस्यांतःस्त्मित) दधाति त्वद्वक्त्रंप्रतिफलनमश्रांतविकचं निरातंकं चंद्रान्निजहृदयपंकेरुहमिव ॥ 101 ॥
समुद्भूतस्थूलस्तनभरमुरश्चारु हसितं कटाक्षे कंदर्पः कतिचन कदंबद्युति वपुः । हरस्य त्वद्भ्रांतिं मनसि जनयंति स्म विमलाः पाठभेदः - जनयामास मदनो, जनयंतः समतुलां, जनयंता सुवदने भवत्या ये भक्ताः परिणतिरमीषामियमुमे ॥ 102 ॥
निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे निराघातज्ञाने नियमपरचित्तैकनिलये । नियत्या निर्मुक्ते निखिलनिगमांतस्तुतिपदे निरातंके नित्ये निगमय ममापि स्तुतिमिमाम् ॥ 103 ॥
Browse Related Categories: