Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि आद्यास्तोत्रं महाफलम् । यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः ॥ 1 ॥
मृत्युर्व्याधिभयं तस्य नास्ति किंचित् कलौ युगे । अपुत्रा लभते पुत्रं त्रिपक्षं श्रवणं यदि ॥ 2 ॥
द्वौ मासौ बंधनान्मुक्ति विप्रवक्त्रात् श्रुतं यदि । मृतवत्सा जीववत्सा षण्मासं श्रवणं यदि ॥ 3 ॥
नौकायां संकटे युद्धे पठनाज्जयमाप्नुयात् । लिखित्वा स्थापयेद्गेहे नाग्निचौरभयं क्वचित् ॥ 4 ॥
राजस्थाने जयी नित्यं प्रसन्नाः सर्वदेवता । ॐ ह्रीम् । ब्रह्माणी ब्रह्मलोके च वैकुंठे सर्वमंगला ॥ 5 ॥
इंद्राणी अमरावत्यामंबिका वरुणालये । यमालये कालरूपा कुबेरभवने शुभा ॥ 6 ॥
महानंदाग्निकोणे च वायव्यां मृगवाहिनी । नैरृत्यां रक्तदंता च ऐशान्यां शूलधारिणी ॥ 7 ॥
पाताले वैष्णवीरूपा सिंहले देवमोहिनी । सुरसा च मणिद्विपे लंकायां भद्रकालिका ॥ 8 ॥
रामेश्वरी सेतुबंधे विमला पुरुषोत्तमे । विरजा औड्रदेशे च कामाक्ष्या नीलपर्वते ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
कालिका वंगदेशे च अयोध्यायां महेश्वरी । वाराणस्यामन्नपूर्णा गयाक्षेत्रे गयेश्वरी ॥ 10 ॥
कुरुक्षेत्रे भद्रकाली व्रजे कात्यायनी परा । द्वारकायां महामाया मथुरायां महेश्वरी ॥ 11 ॥
क्षुधा त्वं सर्वभूतानां वेला त्वं सागरस्य च । नवमी शुक्लपक्षस्य कृष्णस्यैकादशी परा ॥ 12 ॥
दक्षसा दुहिता देवी दक्षयज्ञविनाशिनी । रामस्य जानकी त्वं हि रावणध्वंसकारिणी ॥ 13 ॥
चंडमुंडवधे देवी रक्तबीजविनाशिनी । निशुंभशुंभमथिनी मधुकैटभघातिनी ॥ 14 ॥
विष्णुभक्तिप्रदा दुर्गा सुखदा मोक्षदा सदा । आद्यास्तवमिमं पुण्यं यः पठेत् सततं नरः ॥ 15 ॥
सर्वज्वरभयं न स्यात् सर्वव्याधिविनाशनम् । कोटितीर्थफलं तस्य लभते नात्र संशयः ॥ 16 ॥
जया मे चाग्रतः पातु विजया पातु पृष्ठतः । नारायणी शीर्षदेशे सर्वांगे सिंहवाहिनी ॥ 17 ॥
शिवदूती उग्रचंडा प्रत्यंगे परमेश्वरी । विशालाक्षी महामाया कौमारी शंखिनी शिवा ॥ 18 ॥
चक्रिणी जयदात्री च रणमत्ता रणप्रिया । दुर्गा जयंती काली च भद्रकाली महोदरी ॥ 19 ॥
नारसिंही च वाराही सिद्धिदात्री सुखप्रदा । भयंकरी महारौद्री महाभयविनाशिनी ॥ 20 ॥
इति श्रीब्रह्मयामले ब्रह्मनारदसंवादे श्री आद्या स्तोत्रम् ॥
Browse Related Categories: