Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ भद्रकाल्यै नमः । ॐ कामरूपायै नमः । ॐ महाविद्यायै नमः । ॐ यशस्विन्यै नमः । ॐ महाश्रयायै नमः । ॐ महाभागायै नमः । ॐ दक्षयागविभेदिन्यै नमः । ॐ रुद्रकोपसमुद्भूतायै नमः । ॐ भद्रायै नमः । ॐ मुद्रायै नमः । 10 ।
ॐ शिवंकर्यै नमः । ॐ चंद्रिकायै नमः । ॐ चंद्रवदनायै नमः । ॐ रोषताम्राक्षशोभिन्यै नमः । ॐ इंद्रादिदमन्यै नमः । ॐ शांतायै नमः । ॐ चंद्रलेखाविभूषितायै नमः । ॐ भक्तार्तिहारिण्यै नमः । ॐ मुक्तायै नमः । ॐ चंडिकानंददायिन्यै नमः । 20 ।
ॐ सौदामिन्यै नमः । ॐ सुधामूर्त्यै नमः । ॐ दिव्यालंकारभूषितायै नमः । ॐ सुवासिन्यै नमः । ॐ सुनासायै नमः । ॐ त्रिकालज्ञायै नमः । ॐ धुरंधरायै नमः । 27 ॐ सर्वज्ञायै नमः । ॐ सर्वलोकेश्यै नमः । ॐ देवयोनये नमः । 30 ।
ॐ अयोनिजायै नमः । ॐ निर्गुणायै नमः । ॐ निरहंकारायै नमः । ॐ लोककल्याणकारिण्यै नमः । ॐ सर्वलोकप्रियायै नमः । ॐ गौर्यै नमः । ॐ सर्वगर्वविमर्दिन्यै नमः । ॐ तेजोवत्यै नमः । ॐ महामात्रे नमः । ॐ कोटिसूर्यसमप्रभायै नमः । 40 ।
ॐ वीरभद्रकृतानंदभोगिन्यै नमः । ॐ वीरसेवितायै नमः । ॐ नारदादिमुनिस्तुत्यायै नमः । ॐ नित्यायै नमः । ॐ सत्यायै नमः । ॐ तपस्विन्यै नमः । ॐ ज्ञानरूपायै नमः । ॐ कलातीतायै नमः । ॐ भक्ताभीष्टफलप्रदायै नमः । ॐ कैलासनिलयायै नमः । 50 ।
ॐ शुभ्रायै नमः । ॐ क्षमायै नमः । ॐ श्रियै नमः । ॐ सर्वमंगलायै नमः । ॐ सिद्धविद्यायै नमः । ॐ महाशक्त्यै नमः । ॐ कामिन्यै नमः । ॐ पद्मलोचनायै नमः । ॐ देवप्रियायै नमः । ॐ दैत्यहंत्र्यै नमः । 60 ।
ॐ दक्षगर्वापहारिण्यै नमः । ॐ शिवशासनकर्त्र्यै नमः । ॐ शैवानंदविधायिन्यै नमः । ॐ भवपाशनिहंत्र्यै नमः । ॐ सवनांगसुकारिण्यै नमः । ॐ लंबोदर्यै नमः । ॐ महाकाल्यै नमः । ॐ भीषणास्यायै नमः । ॐ सुरेश्वर्यै नमः । ॐ महानिद्रायै नमः । 70 ।
Offered for worship and study, not as prediction. Non-commercial.
ॐ योगनिद्रायै नमः । ॐ प्रज्ञायै नमः । ॐ वार्तायै नमः । ॐ क्रियावत्यै नमः । ॐ पुत्रपौत्रप्रदायै नमः । ॐ साध्व्यै नमः । ॐ सेनायुद्धसुकांक्षिण्यै नमः । ॐ शंभवे इच्छायै नमः । ॐ कृपासिंधवे नमः । ॐ चंड्यै नमः । 80 । ॐ चंडपराक्रमायै नमः । ॐ शोभायै नमः । ॐ भगवत्यै नमः । ॐ मायायै नमः । ॐ दुर्गायै नमः । ॐ नीलायै नमः । ॐ मनोगत्यै नमः । ॐ खेचर्यै नमः । ॐ खड्गिन्यै नमः । ॐ चक्रहस्तायै नमः । 90
ॐ शूलविधारिण्यै नमः । ॐ सुबाणायै नमः । ॐ शक्तिहस्तायै नमः । ॐ पादसंचारिण्यै नमः । ॐ परायै नमः । ॐ तपःसिद्धिप्रदायै नमः । ॐ देव्यै नमः । ॐ वीरभद्रसहायिन्यै नमः । ॐ धनधान्यकर्यै नमः । ॐ विश्वायै नमः । 100 ।
ॐ मनोमालिन्यहारिण्यै नमः । ॐ सुनक्षत्रोद्भवकर्यै नमः । ॐ वंशवृद्धिप्रदायिन्यै नमः । ॐ ब्रह्मादिसुरसंसेव्यायै नमः । ॐ शांकर्यै नमः । ॐ प्रियभाषिण्यै नमः । ॐ भूतप्रेतपिशाचादिहारिण्यै नमः । ॐ सुमनस्विन्यै नमः । ॐ पुण्यक्षेत्रकृतावासायै नमः । ॐ प्रत्यक्षपरमेश्वर्यै नमः ।
इति श्री भद्रकाली अष्टोत्तरशतनामावलिः ।
Browse Related Categories: