Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ धूमावत्यै नमः । ॐ धूम्रवर्णायै नमः । ॐ धूम्रपानपरायणायै नमः । ॐ धूम्राक्षमथिन्यै नमः । ॐ धन्यायै नमः । ॐ धन्यस्थाननिवासिन्यै नमः । ॐ अघोराचारसंतुष्टायै नमः । ॐ अघोराचारमंडितायै नमः । ॐ अघोरमंत्रसंप्रीतायै नमः । ॐ अघोरमंत्रपूजितायै नमः । 10 ।
ॐ अट्टाट्टहासनिरतायै नमः । ॐ मलिनांबरधारिण्यै नमः । ॐ वृद्धायै नमः । ॐ विरूपायै नमः । ॐ विधवायै नमः । ॐ विद्यायै नमः । ॐ विरलाद्विजायै नमः । ॐ प्रवृद्धघोणायै नमः । ॐ कुमुख्यै नमः । ॐ कुटिलायै नमः । 20 ।
ॐ कुटिलेक्षणायै नमः । ॐ कराल्यै नमः । ॐ करालास्यायै नमः । ॐ कंकाल्यै नमः । ॐ शूर्पधारिण्यै नमः । ॐ काकध्वजरथारूढायै नमः । ॐ केवलायै नमः । ॐ कठिनायै नमः । ॐ कुह्वे नमः । ॐ क्षुत्पिपासार्दितायै नमः । 30 ।
ॐ नित्यायै नमः । ॐ ललज्जिह्वायै नमः । ॐ दिगंबर्यै नमः । ॐ दीर्घोदर्यै नमः । ॐ दीर्घरवायै नमः । ॐ दीर्घांग्यै नमः । ॐ दीर्घमस्तकायै नमः । ॐ विमुक्तकुंतलायै नमः । ॐ कीर्त्यायै नमः । ॐ कैलासस्थानवासिन्यै नमः । 40 ।
ॐ क्रूरायै नमः । ॐ कालस्वरूपायै नमः । ॐ कालचक्रप्रवर्तिन्यै नमः । ॐ विवर्णायै नमः । ॐ चंचलायै नमः । ॐ दुष्टायै नमः । ॐ दुष्टविध्वंसकारिण्यै नमः । ॐ चंड्यै नमः । ॐ चंडस्वरूपायै नमः । ॐ चामुंडायै नमः । 50 ।
ॐ चंडनिःस्वनायै नमः । ॐ चंडवेगायै नमः । ॐ चंडगत्यै नमः । ॐ चंडविनाशिन्यै नमः । ॐ मुंडविनाशिन्यै नमः । ॐ चांडालिन्यै नमः । ॐ चित्ररेखायै नमः । ॐ चित्रांग्यै नमः । ॐ चित्ररूपिण्यै नमः । ॐ कृष्णायै नमः । 60 ।
ॐ कपर्दिन्यै नमः । ॐ कुल्लायै नमः । ॐ कृष्णरूपायै नमः । ॐ क्रियावत्यै नमः । ॐ कुंभस्तन्यै नमः । ॐ महोन्मत्तायै नमः । ॐ मदिरापानविह्वलायै नमः । ॐ चतुर्भुजायै नमः । ॐ ललज्जिह्वायै नमः । ॐ शत्रुसंहारकारिण्यै नमः । 70 ।
Offered for worship and study, not as prediction. Non-commercial.
ॐ शवारूढायै नमः । ॐ शवगतायै नमः । ॐ श्मशानस्थानवासिन्यै नमः । ॐ दुराराध्यायै नमः । ॐ दुराचारायै नमः । ॐ दुर्जनप्रीतिदायिन्यै नमः । ॐ निर्मांसायै नमः । ॐ निराकारायै नमः । ॐ धूमहस्तायै नमः । ॐ वरान्वितायै नमः । 80 ।
ॐ कलहायै नमः । ॐ कलिप्रीतायै नमः । ॐ कलिकल्मषनाशिन्यै नमः । ॐ महाकालस्वरूपायै नमः । ॐ महाकालप्रपूजितायै नमः । ॐ महादेवप्रियायै नमः । ॐ मेधायै नमः । ॐ महासंकटनाशिन्यै नमः । ॐ भक्तप्रियायै नमः । ॐ भक्तगत्यै नमः । 90 ।
ॐ भक्तशत्रुविनाशिन्यै नमः । ॐ भैरव्यै नमः । ॐ भुवनायै नमः । ॐ भीमायै नमः । ॐ भारत्यै नमः । ॐ भुवनात्मिकायै नमः । ॐ भेरुंडायै नमः । ॐ भीमनयनायै नमः । ॐ त्रिनेत्रायै नमः । ॐ बहुरूपिण्यै नमः । 100 ।
ॐ त्रिलोकेश्यै नमः । ॐ त्रिकालज्ञायै नमः । ॐ त्रिस्वरूपायै नमः । ॐ त्रयीतनवे नमः । ॐ त्रिमूर्त्यै नमः । ॐ तन्व्यै नमः । ॐ त्रिशक्तये नमः । ॐ त्रिशूलिन्यै नमः । 108 ।
Browse Related Categories: