Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ द्वादश स्तोत्राणि॥
अथ प्रथमस्तोत्रम्
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
वंदे वंद्यं सदानंदं वासुदेवं निरंजनम् । इंदिरापतिमाद्यादि वरदेश वरप्रदम् ॥ 1॥
नमामि निखिलाधीश किरीटाघृष्टपीठवत् । हृत्तमः शमनेऽर्काभं श्रीपतेः पादपंकजम् ॥ 2॥
जांबूनदांबराधारं नितंबं चिंत्यमीशितुः । स्वर्णमंजीरसंवीतं आरूढं जगदंबया ॥ 3॥
उदरं चिंत्यं ईशस्य तनुत्वेऽपि अखिलंभरम् । वलित्रयांकितं नित्यं आरूढं श्रियैकया ॥ 4॥
स्मरणीयमुरो विष्णोः इंदिरावासमुत्तमैः । वर् इंदिरावासमीशितुः इंदिरावासमुत्तमम् अनंतं अंतवदिव भुजयोरंतरंगतम् ॥ 5॥
शंखचक्रगदापद्मधराश्चिंत्या हरेर्भुजाः । पीनवृत्ता जगद्रक्षा केवलोद्योगिनोऽनिशम् ॥ 6॥
संततं चिंतयेत्कंठं भास्वत्कौस्तुभभासकम् । वैकुंठस्याखिला वेदा उद्गीर्यंतेऽनिशं यतः ॥ 7॥
स्मरेत यामिनीनाथ सहस्रामितकांतिमत् । भवतापापनोदीड्यं श्रीपतेः मुखपंकजम् ॥ 8॥
पूर्णानन्यसुखोद्भासिं अंदस्मितमधीशितुः । गोविंदस्य सदा चिंत्यं नित्यानंदपदप्रदम् ॥ 9॥
स्मरामि भवसंताप हानिदामृतसागरम् । पूर्णानंदस्य रामस्य सानुरागावलोकनम् ॥ 10॥
ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् । भ्रूभंगं पारमेष्ठ्यादि पददायि विमुक्तिदम् ॥ 11॥
संततं चिंतयेऽनंतं अंतकाले । (अंत्यकाले विशेषतः) नैवोदापुः गृणंतोऽंतं यद्गुणानां अजादयः ॥ 12॥
इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु प्रथमस्तोत्रं संपूर्णम्
Browse Related Categories: