Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ महामत्तमातंगिनीसिद्धिरूपायै नमः । ॐ योगिन्यै नमः । ॐ भद्रकाल्यै नमः । ॐ रमायै नमः । ॐ भवान्यै नमः । ॐ भवप्रीतिदायै नमः । ॐ भूतियुक्तायै नमः । ॐ भवाराधितायै नमः । ॐ भूतिसंपत्कर्यै नमः । ॐ धनाधीशमात्रे नमः । 10 ।
ॐ धनागारदृष्ट्यै नमः । ॐ धनेशार्चितायै नमः । ॐ धीरवापीवरांग्यै नमः । ॐ प्रकृष्ट प्रभारूपिण्यै नमः । ॐ कामरूप प्रहृष्टायै नमः । ॐ महाकीर्तिदायै नमः । ॐ कर्णनाल्यै नमः । ॐ करालीभगाघोररूपायै नमः । ॐ भगांग्यै नमः । ॐ भगाह्वायै नमः । 20 ।
ॐ भगप्रीतिदायै नमः । ॐ भीमरूपायै नमः । ॐ भवान्यै नमः । ॐ महाकौशिक्यै नमः । ॐ कोशपूर्णायै नमः । ॐ किशोरी किशोरप्रियानंदीहायै नमः । ॐ महाकारणाकारणायै नमः । ॐ कर्मशीलायै नमः । ॐ कपालि प्रसिद्धायै नमः । ॐ महासिद्धखंडायै नमः । 30 ।
ॐ मकारप्रियायै नमः । ॐ मानरूपायै नमः । ॐ महेश्यै नमः । ॐ महोल्लासिनी लास्यलीला लयांग्यै नमः । ॐ क्षमा क्षेमशीलायै नमः । ॐ क्षपाकारिण्यै नमः । ॐ अक्षयप्रीतिदायै नमः । ॐ भूतियुक्ता भवान्यै नमः । ॐ भवाराधितायै नमः । ॐ भूतिसत्यात्मिकायै नमः । 40 ।
ॐ प्रभोद्भासितायै नमः । ॐ भानुभास्वत्करायै नमः । ॐ धराधीशमात्रे नमः । ॐ धरागारदृष्ट्यै नमः । ॐ धरेशार्चितायै नमः । ॐ धीवराधीवरांग्यै नमः । ॐ प्रकृष्टप्रभारूपिण्यै नमः । ॐ प्राणरूप प्रकृष्टस्वरूपायै नमः । ॐ स्वरूपप्रियाय नमः । ॐ चलत्कुंडलायै नमः । 50 ।
ॐ कामिनीकांतयुक्तायै नमः । ॐ कपालाचलायै नमः । ॐ कालकोद्धारिण्यै नमः । ॐ कदंबप्रियायै नमः । ॐ कोटरी कोटदेहायै नमः । ॐ क्रमायै नमः । ॐ कीर्तिदायै नमः । ॐ कर्णरूपायै नमः । ॐ काक्ष्म्यै नमः । ॐ क्षमांग्यै नमः । 60 ।
ॐ क्षयप्रेमरूपायै नमः । ॐ क्षपायै नमः । ॐ क्षयाक्षायै नमः । ॐ क्षयाह्वायै नमः । ॐ क्षयप्रांतरायै नमः । ॐ क्षवत्कामिन्यै नमः । ॐ क्षारिणी क्षीरपूर्णायै नमः । ॐ शिवांग्यै नमः । ॐ शाकंभरी शाकदेहायै नमः । ॐ महाशाकयज्ञायै नमः । 70 ।
Offered for worship and study, not as prediction. Non-commercial.
ॐ फलप्राशकायै नमः । ॐ शकाह्वायै नमः । ॐ अशकाह्वायै नमः । ॐ शकाख्यायै नमः । ॐ शकायै नमः । ॐ शकाक्षांतरोषायै नमः । ॐ सुरोषायै नमः । ॐ सुरेखायै नमः । ॐ महाशेषयज्ञोपवीतप्रियायै नमः । ॐ जयंत्यै नमः । 80 ।
ॐ जयायै नमः । ॐ जाग्रती योग्यरूपायै नमः । ॐ जयांग्यै नमः । ॐ जपध्यानसंतुष्टसंज्ञायै नमः । ॐ जयप्राणरूपायै नमः । ॐ जयस्वर्णदेहायै नमः । ॐ जयज्वालिनीयामिन्यै नमः । ॐ याम्यरूपायै नमः । ॐ जगन्मातृरूपायै नमः । ॐ जगद्रक्षणायै नमः । 90 ।
ॐ स्वधावौषडंतायै नमः । ॐ विलंबाविलंबायै नमः । ॐ षडंगायै नमः । ॐ महालंबरूपासिहस्तायै नमः । ॐ पदाहारिणीहारिण्यै नमः । ॐ हारिण्यै नमः । ॐ महामंगलायै नमः । ॐ मंगलप्रेमकीर्तये नमः । ॐ निशुंभच्छिदायै नमः । ॐ शुंभदर्पापहायै नमः । 100 ।
ॐ आनंदबीजादिमुक्तिस्वरूपायै नमः । ॐ चंडमुंडापदा मुख्यचंडायै नमः । ॐ प्रचंडाप्रचंडायै नमः । ॐ महाचंडवेगायै नमः । ॐ चलच्चामरायै नमः । ॐ चामराचंद्रकीर्तये नमः । ॐ सुचामीकरा चित्रभूषोज्ज्वलांग्यै नमः । ॐ सुसंगीतगीतायै नमः । 108 ।
Browse Related Categories: