Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ त्रिपुरायै नमः । ॐ षोडश्यै नमः । ॐ मात्रे नमः । ॐ त्र्यक्षरायै नमः । ॐ त्रितयायै नमः । ॐ त्रय्यै नमः । ॐ सुंदर्यै नमः । ॐ सुमुख्यै नमः । ॐ सेव्यायै नमः । ॐ सामवेदपरायणायै नमः । 10 ।
Offered for worship and study, not as prediction. Non-commercial.
ॐ शारदायै नमः । ॐ शब्दनिलयायै नमः । ॐ सागरायै नमः । ॐ सरिदंबरायै नमः । ॐ शुद्धायै नमः । ॐ शुद्धतनवे नमः । ॐ साध्व्यै नमः । ॐ शिवध्यानपरायणायै नमः । ॐ स्वामिन्यै नमः । ॐ शंभुवनितायै नमः । 20 ।
ॐ शांभव्यै नमः । ॐ सरस्वत्यै नमः । ॐ समुद्रमथिन्यै नमः । ॐ शीघ्रगामिन्यै नमः । ॐ शीघ्रसिद्धिदायै नमः । ॐ साधुसेव्यायै नमः । ॐ साधुगम्यायै नमः । ॐ साधुसंतुष्टमानसायै नमः । ॐ खट्वांगधारिण्यै नमः । ॐ खर्वायै नमः । 30 ।
ॐ खड्गखर्परधारिण्यै नमः । ॐ षड्वर्गभावरहितायै नमः । ॐ षड्वर्गपरिचारिकायै नमः । ॐ षड्वर्गायै नमः । ॐ षडंगायै नमः । ॐ षोढायै नमः । ॐ षोडशवार्षिक्यै नमः । ॐ क्रतुरूपायै नमः । ॐ क्रतुमत्यै नमः । ॐ ऋभुक्षक्रतुमंडितायै नमः । 40 ।
ॐ कवर्गादिपवर्गांतायै नमः । ॐ अंतःस्थायै नमः । ॐ अनंतरूपिण्यै नमः । ॐ अकाराकाररहितायै नमः । ॐ कालमृत्युजरापहायै नमः । ॐ तन्व्यै नमः । ॐ तत्त्वेश्वर्यै नमः । ॐ तारायै नमः । ॐ त्रिवर्षायै नमः । ॐ ज्ञानरूपिण्यै नमः । 50 ।
ॐ काल्यै नमः । ॐ कराल्यै नमः । ॐ कामेश्यै नमः । ॐ छायायै नमः । ॐ संज्ञायै नमः । ॐ अरुंधत्यै नमः । ॐ निर्विकल्पायै नमः । ॐ महावेगायै नमः । ॐ महोत्साहायै नमः । ॐ महोदर्यै नमः । 60 ।
ॐ मेघायै नमः । ॐ बलाकायै नमः । ॐ विमलायै नमः । ॐ विमलज्ञानदायिन्यै नमः । ॐ गौर्यै नमः । ॐ वसुंधरायै नमः । ॐ गोप्त्र्यै नमः । ॐ गवां पतिनिषेवितायै नमः । ॐ भगांगायै नमः । ॐ भगरूपायै नमः । 70 ।
ॐ भक्तिपरायणायै नमः । ॐ भावपरायणायै नमः । ॐ छिन्नमस्तायै नमः । ॐ महाधूमायै नमः । ॐ धूम्रविभूषणायै नमः । ॐ धर्मकर्मादिरहितायै नमः । ॐ धर्मकर्मपरायणायै नमः । ॐ सीतायै नमः । ॐ मातंगिन्यै नमः । ॐ मेधायै नमः । 80 ।
ॐ मधुदैत्यविनाशिन्यै नमः । ॐ भैरव्यै नमः । ॐ भुवनायै नमः । ॐ मात्रे नमः । ॐ अभयदायै नमः । ॐ भवसुंदर्यै नमः । ॐ भावुकायै नमः । ॐ बगलायै नमः । ॐ कृत्यायै नमः । ॐ बालायै नमः । 90 ।
ॐ त्रिपुरसुंदर्यै नमः । ॐ रोहिण्यै नमः । ॐ रेवत्यै नमः । ॐ रम्यायै नमः । ॐ रंभायै नमः । ॐ रावणवंदितायै नमः । ॐ शतयज्ञमय्यै नमः । ॐ सत्त्वायै नमः । ॐ शतक्रतुवरप्रदायै नमः । ॐ शतचंद्राननायै नमः । 100 ।
ॐ देव्यै नमः । ॐ सहस्रादित्यसन्निभायै नमः । ॐ सोमसूर्याग्निनयनायै नमः । ॐ व्याघ्रचर्मांबरावृतायै नमः । ॐ अर्धेंदुधारिण्यै नमः । ॐ मत्तायै नमः । ॐ मदिरायै नमः । ॐ मदिरेक्षणायै नमः । 108 ।
Browse Related Categories: